रविवार, 7 जनवरी 2018

आभीरः ऊचु आभीर कन्या गायत्री -

ऋनान्यज्जानाति कर्तव्यं धर्मः स्वोदरपूरणात्अन्त्यजा अपि नो कर्म ये कुर्वन्ति विगर्हितम्  ।३९।

आभीरा स्तच्च कुर्वन्ति तत् किमेतत्त्वया कृतम्अवश्यं यदि ते कार्यं भार्यया परया मखे । ४०।

तत्त्वया ब्राह्मणी कापि ह्यन्वीक्ष्या भुवनत्रये महाविधे वृथा मुंडं नृनं कर्तासि मे मतिः        यत्त्वया शौचसंत्यक्ता कन्याभायप्रदूषका  ४१

याभुक्ता बहुभिः पूर्वमियं गोपकुमारिका एषा प्राप्ता सुपापाद्या वेश्याजनसमाधिका । ४२।

अंत्यजातिसमा कन्या कथमर्हां मखे शुभे        तथा गोपकुमारी च काचित्तादृक् प्रजायते  ।४३।

मातृकं पैतृकं वंशं श्वशुरं च प्रतापयेत्तस्मादेतेन कृत्येन गर्हितेन धरातले  ।४४।

न त्वं प्राप्स्यसि तां पूजां यथान्ये विबुधोत्तमाः   अनेन कर्मणा चैव यदि मेऽस्ति हुतं क्वचित् । ४५।

पूजां ये च करिष्यन्ति भविष्यन्ति च निर्धनाः।    कथं न लज्जितोऽसित्वमेतत्कर्म विगर्हितम्  ।४६।

पुत्राणामथ पौत्राणामन्येषां च दिवौकसाम्।  अयोग्यं चैव विप्राणां यदेतत् कृतवानसि

एतत्पुनर्महादुःखं यदाभीरा विगर्दिता।            वंशे वनचराणां च स्ववोडा बहुभर्तृका ।५४।

भाभीरीति सपत्नीति प्रोक्तवंत्यः हर्षिताः         मम द्वेपपरा नित्यं शिवदूतीपुरःसराः  ।८२।

तासां परस्परं संगः कदाचिन्न भविष्यति    नाम्येनापि परेणापि दृष्टिमात्रमपि क्षितौ

________________________________

सारस्वतास्त्रिभिर्भेदै कर्णोजा पंचभिस्तथा।नंदनिका भेदाश्चत्वारः पुष्कराणां त्रयस्तथा  ।८।

गयावाले पंडकानां वारार्धे भ्येमेव च।खेटाआमोटकात्रीणी आटापर्टकक स्तथा  ।९।

तैलंगा भेदैरष्टाभिः भरद्वाजा स्तु सप्त च।कर्णाटापल्लिबालानां भेदाएकादशैव च  ।१०।

त्रिविधा चतुर्विधामोडा नागरा श्चैवविंशतिः।     मंयुवा आर्णवालाश्च वालखिल्या स्त्रिधामताः।११

कंडूलके त्रिभिः प्रोक्तं वायवे याश्च दीक्षिताः।पालिबाले भेद मेकं पालिपोणि पृथक्पृथक्  ।१२।

दशतुरापूर्णकीर्णां दीक्षिता भृगुमालयः।अग्रवाल्पल्लीबालाश्च दाधीचा वारिकास्तथा  ।१३।

खंडेलशिखपल्लीक वालांतस्तास्त्रिभेदतः।   संनाट्य मोचकागोडा गुर्जमोडा त्रिधामता  ।१४।

श्रीगौडाः श्रीमालश्च इति भेदाः परस्परं।सतीपुरात्रिभिर्भेदैः रोहबालाद्विधातश्रा  ।१५।

एतेषां स्थान नामानि भेद संख्यां च मे वद।    शेषस्य शासना प्रोक्तां लोकस्थां च प्रवक्ष्यते ।१६।

चतुराशीति स्थानानां ब्रह्मस्थानेषु स्थापनां   तस्याहि तृतीयंस्थानं नांदिनगरमुत्तमं  ।१७।

नांदीमुखाभिधानेन नंदवाणा कलौयुगे।           शृणु वत्स महाप्राज्ञ नांदि नगर मुत्तमम्  ।१८।

इति श्रीवह्निपुराणे नांदीमुखोत्पत्तौ ब्रह्मयज्ञ समारंभे प्रथमोदिवसो नाम षोडशोऽध्यायः संपूर्णः
"""""""""""""""""""""""""""""""""""""""""""""""""""""""""

ब्रह्मापि परमं तोषं गत्वा नारदमब्रवीत्।सावित्रीमानय क्षिप्रं येन गच्छामि मंडपे । ३१।

वाद्यमानेषु वाद्येषु सिद्धचारणगुह्यकैः ।३२।

अरणीं समुपादाय पुलस्त्यो वाक्यमब्रवीत्।यत्रपत्नीति विप्रेन्द्रा: ! प्रोच्चैस्तत्र व्यवस्थिताः  ३३

एतस्मिन्नंतरे ब्रह्मा नारदं मुनिसत्तमम्।           संज्ञया प्रेषयामास पत्नीमानीयतामिति  ।३४।

सोपिमंदं समागत्य सावित्रीं प्राह लीलया।युद्धप्रियोऽतरं वांछन् सावित्र्याः सदृशं पुनः।३५


अहं संप्रेषितः पित्रातव पार्श्वं महेश्वरि।        आगच्छ प्रस्थितः स्नातः सांप्रतं यज्ञमंडपे  ।३६।

परमेकाकिनी तत्र गच्छन्ती त्वं सुरेश्वरि।    कीदृक्रूपा सदा यासि दृश्यसे त्वमनाथवत् ।३७।

तस्मादानयतात् सर्वा याः काश्चिद्देवयोपितः।   याभिः परिवृता देवि यास्यसि त्वं महामखे ।३८।

एवमुक्त्वा मुनिश्रेष्ठ नारदो मुनिसत्तम।अब्रवीत्पितरं गत्वा तातांबाकारिता मया  ।३९।

परं तस्याः स्थिरोभावः किंचित्संलक्षितो मया ।तस्य तद्वचनं श्रुत्वा ततो मन्युसमन्वितः  ।४०।

पुलस्त्यं प्रेषयामास सावित्र्याः संनिधौ ततः।गच्छवत्स समानीय स्थानं तां शिथिलात्मिकां । ४१।

सोमभारपरिश्रान्तं पश्य त्वं मम मस्तकम्।एषकालात्ययो भावी यज्ञकर्मणि सांप्रतम् । ४२।

यज्ञयानमुहूर्तोयं सविशेषो व्यवस्थितः।            तस्य तद्वचनं श्रुत्वा पुलस्त्यः सत्वरं ययौ  ।४३।

सावित्री तिष्ठते यत्र गीतनृत्यसमाकुला।            ततः प्रोवाच किं देवि त्वं तिष्ठसि निराकुला  ।४४।

यज्ञयानोचितः काल सोऽयं शेषस्तु तिष्ठति।तस्मादागच्छ गच्छामो धाता कृच्छ्रेण तिष्ठति।४५।

सोमभारार्दितः सोपि तस्मात्त्वं कुरु सत्वरम्

                सावित्र्युवाच

सर्वदेववृतो वत्स तव तातो व्यवस्थितः ।४६।

एकाकिनी कथं तत्र गच्छाम्यह मनाथवत्।  तद्ब्रूहि पितरं गत्वा मुहूर्तं परिपालय  ।४७।

यावदभ्येति शक्राणी गौरी लक्ष्मीस्तथापराः।देवकन्यासमाजोऽयं ताभिरेष्याम्यहं द्रुतम् । ४८।

सर्वासां प्रेषितो वायुर्निमन्त्रणकृते मया।आगमिष्यन्ति ताः शीघ्रमेवं वाच्यस्त्वया पिता।४९

                     वह्निरुवाच

सोपि गत्वा द्रुतं प्राह सोमभारार्दितं विधिम्।नैषाभ्येति जगन्नाथ प्रसक्ता गृहकर्मणि  ।५०।

सा मां प्राह च देवानां पत्नीभिः सहिता मखे।   अहं यास्यामि तासां च नैकाद्यापि प्रदृश्यते  ।५१।

एवं ज्ञात्वा सुरश्रेष्ठ कुरु यत्ते सुरोचते।    अतिक्रामति कालोऽयं यज्ञयानसमुद्भवः।५२।

तिष्ठते च गृहव्यग्रा सावित्री शिथिलात्मिका।तच्छ्रुत्वा वचनं तस्य पुलस्त्यस्य पितामहः ।५३।

समीपस्थं तदा शक्रं प्रोवाच वचनं द्विजाः।

                     ब्रह्मोवाच.                           शक्र नायाति सावित्री सापि स्त्री शिथिलात्मिका  ।५४।

अन्यया भार्यया साकं यज्ञोऽयं क्रियतां ग्रया।पितामहवचः श्रुत्वा तदर्थं कन्यका द्विजाः  ।५५।

शक्रेणासादिता शीघ्रं भ्रममाणा समीपतः।        अथ तत्र घटव्यग्रमस्तका तेन वीक्षिता  ।५६।

कन्यका गोपजा तन्वी चंद्रा स्यापद्मलोचना । कुमारी वा सनाथा वा सुता कस्यब्रवीहिनः । ५७।

                 कन्योवाच

गोपकन्यास्मि भद्रं  ते तक्रं विक्रेतुमागता।परिगृह्णासि चेन्तक्रं मूल्यं मेदेहि माचिरम्  ।५८।

तच्छ्रुत्वा त्रिदिवेन्द्रोपि नत्वा तां गोपकन्यकाम्।जगृहे त्वरया युक्तस्तक्रंचोत्सृज्य भूतले  ।५९।

_____________________________

नांदीमुखैश्च विप्रैश्च समादिष्टस्तदा हिसः।            अथ तां रुदतीं शक्रः समादाय त्वरान्वितःगोवक्त्रेण प्रवेश्याऽथ गुह्येनाकर्षयत्ततः । ६०।

एवं मेध्यतमां कृत्वा संस्नाप्य सलिलैः शुभैः।ज्येष्ठकुंडस्य विप्रेन्द्रा ! परिधाय सुवाससी ।६१।

ततश्च हर्षसंयुक्तः प्रोवाच चतुराननम्।              द्रुतं गत्वा पुरो धृत्वा सर्वदेवसमागमे ।६२।

कन्येयं च सुरश्रेष्ठ समानीता मया शुभा।     तवार्थाय सुरूपाङ्गी सर्वलक्षणलक्षिता ।६३।

____________

गोपकन्यां विदित्वेमां गोवक्त्रेण प्रविश्य च।आकर्षिता च गुह्येन पावनार्थं चतुर्मुख  ।६४।

                 वासुदेव उवाच

गवां च ब्राह्मणानां च कुलमेकं द्विधा कृतम्।   एकत्र मंत्रास्तिष्ठन्ति हविरेकत्र तिष्ठति । ६५।

धेनूदराद्विनिष्क्रान्ता तज्जातेयं द्विजन्मनाम्।अस्याः पाणिग्रहं देव त्वं कुरुष्व यथाविधि । ६६।


__________________________________

यावन्न चलते कालो यज्ञयानसमुद्भवः।

                    रुद्र उवाच

प्रतिष्ठा गोमुखे यस्मादपानेन विनिर्गता ।६७।

गायत्री नाम ते पत्नी तस्मादेषा भविष्यति।

                    ब्रह्मोवाच

वदन्तु ब्राह्मणाः सर्वे गोपकन्याप्यसौ यदि ।६८।

संभूय ब्राह्मणी श्रेष्ठा यथा पत्नी भवेन्मम।

                  नान्दीमुखा ऊचुः

एषा स्याद्ब्राह्मणी श्रेष्ठा गोपजाति विवर्जिता।६९।

अस्माद्वाक्याच्चतुर्वक्त्र कुरु पाणिग्रहं द्रुतम्
                        वह्निरुवाच

ततः पाणिग्रहं चक्रे तस्या देवः पितामहः । ७०।

कृत्वा सोमं ततो मूर्ध्नि गृह्योक्तविधिना द्विजाः।तत्रस्था च महादेवी संतिष्ठति सुपावनी  ।७१।

अद्यापि लोके विख्याता धनसौभाग्यदायिनी।यस्तस्यां कुरुते मर्त्यः कन्यादानं समाहितः । ७२।

समस्तफलमाप्नोति राजसूयाश्वमेधयोः  ।७३।

कन्या हस्तग्रहं तत्र प्राप्नोति पतिना सह।           सा स्यात्पुत्रवती साध्वी सौभाग्यसुखसंयुता  ७४

पिंडदानं नरस्तत्र यः करोति द्विजोत्तम।   पितरस्तस्य संतुष्टास्तर्पिताः पितृतीर्थतः  ।७५।

इति श्रीवह्निपुराणे नांदीमुखोत्पत्तौ गायत्रीविवाहो नाम पंचदशोऽध्यायः

अध्याय ( १६)

                    वह्निरुवाच

एवं पत्नी समासाद्य गायत्रीं चतुराननः।    संप्रहृष्टमना भूत्वा प्रस्थितो यज्ञमंडपम्  ।१।

गायत्र्यपि समादाय मूर्ध्नि तामरणिं मुदा।        प्रतस्थे संपरित्यज्य गोपभावं विनिर्गतम्  ।२।

वाद्यमानेषु वाद्येषु ब्रह्मघोषे दिवं गते।           गीतेषु गीयमानेषु गंधर्वेषु समंततः । ३।

सर्वदेवद्विजोपेतः संप्राप्तो यज्ञमंडपम्।       गायत्र्या सहितो ब्रह्मा मानुषं भावमाश्रितः।  ४।

एतस्मिन्नंतरे विप्र केशनिर्वापणं ततः         विश्वकर्मा नखानां च गायत्र्या स्तदनंतरम्  ।५।

औदुम्बरं ततो दण्डं पुलस्त्योऽसौ समाददे ।एणशृङ्गान्वितं चर्म मंत्रवद्विजसत्तम । ६।

पत्नीशालां गृहीत्वा तु गायत्रीं मौनधारिणीं।  मेखलां निदधे चान्यां कट्यां मौंजीमयीं शुभाम्  ।७।

ततश्चक्रे परं कर्म यदुक्तं यज्ञमंडपे।          ऋत्विग्भिः सहितो वेधा वेदवाक्यं समादृतः  ।८।

प्रवर्ग्य जायमाने च तत्राश्चर्यमभून्महत्।जाल्मरूपधरः कश्चिद्दिग्वासा विकृताननः  ।९।

कपालपाणिरायातो भोजनं दीयतामिति।निषेध्यमानोऽपि च तैः प्रविष्टो याज्ञिकं सदः  ।१०।

स कृत्वाटनमन्याय्यं तर्ज्यमानोऽपि तापसैः।

                   सदस्या ऊचुः

कस्मात्पापसमेत स्त्वं प्रविष्टो यज्ञमंडपम् । ११।

कपाली नग्नरूपोयं यज्ञकर्मविवर्जितः।    तस्माद्गच्छ द्रुतं मूढ यावद्ब्रह्मा न कुप्यति  ।१२।

तथान्ये ब्राह्मणश्रेष्ठास्तथा देवाः सवासवाः

                    जाल्म उवाच

ब्रह्मयज्ञमिमं श्रुत्वा सुदूरादहमागतः  ।१३।

बुभुक्षितो द्विजश्रेष्ठास्तत्किमर्थं विगर्हथ।दिवांधकृपणैः सर्वैस्तर्पितैः क्रतुरुच्यते । १४।

अन्यथाऽसौ विनाशाय यदुक्तं ब्राह्मणैर्वचः।अन्नहीनो दहेद्रा ष्ट्रं मंत्रहीन स्तथर्त्विजम्  ।१५।

यजमानमदाक्षिण्यं नास्तियज्ञसमोरिपुः।

                    ब्राह्मणा ऊचुः

यदि त्वं भोक्तुकामस्तु समायातो व्रज द्रुतम् ।१६।


एतस्यां सत्रशालायां भुंजते यत्र तापसाः।     दीनाधाः कृपणाश्चैव ततः क्षुत्क्षामकांठिताः  ।१७।

                  अध्याय  १६

                  वह्निरुवाच

एवं पत्नी समासाद्य गायत्रीं चतुराननः।   संप्रहृष्टमना भूत्वा प्रस्थितो यज्ञमंडपम् । १।

गायत्र् ! यपि समादाय मूर्ध्नि तामरणिं समुदाय।प्रतस्थे संपरित्यज्य गोपभावं विनिर्गतम्  २

वाद्यमानेषु वाद्येषु ब्रह्मघोषे दिवं गते।            गीतेषु गीयमानेषु गंधर्वेषु समंततः।  ३।

सर्वदेवद्विजोपेतः संप्राप्तो यज्ञमंडपम्।        गायत्र्या सहितो ब्रह्मा मानुषं भावमाश्रितः ।४।

एतस्मिन्नंतरे विप्र केशनिर्वापणं ततः        विश्वकर्मा नखानां च गायत्र् ! या स्तदनंतरम् । ५।

औदुम्बरं ततो दण्डं पुलस्त्योऽसौ समाददे।एणशृङ्गान्वितं चर्म मंत्रवद्विजसत्तम । ६।

पत्नीशालां गृहीत्वा तु गायत्रीं मौनधारिणीं। मेखलां निदधे चान्यां कट्यां मौंजीमयीं शुभाम्।  ७।

ततश्चक्रे परं कर्म यदुक्तं यज्ञमंडपे।          ऋत्विग्भिः सहितो वेधा वेदवाक्यं समादृतः  ८

प्रवर्ग्य जायमाने च तत्राश्चर्यमभून्महत्।जाल्मरूपधरः कश्चिद्दिग्वासा विकृताननः।९।

कपालपाणिरायातो भोजनं दीयतामिति।निषेध्यमानोऽपि च तैः प्रविष्टो याज्ञिकं सदः ।१०


स कृत्वाटनमन्याय्यं तर्ज्यमानोऽपि तापसैः।

                  सदस्या ऊचुः

कस्मात्पापसमेत स्त्वं प्रविष्टो यज्ञमंडपम् । ११।

कपाली नग्नरूपोयं यज्ञकर्मविवर्जितः।   तस्माद्गच्छ द्रुतं मूढ यावद्ब्रह्मा न कुप्यति।१२।

तथान्ये ब्राह्मणश्रेष्ठास्तथा देवाः सवासवाः।

                 ।जाल्म उवाच।

ब्रह्मयज्ञमिमं श्रुत्वा सुदूरादहमागतः ।१३।

बुभुक्षितो द्विजश्रेष्ठास्तत्किमर्थं विगर्हथ।दिवांधकृपणैः सर्वैस्तर्पितैः क्रतुरुच्यते  ।१४।

अन्यथाऽसौ विनाशाय यदुक्तं ब्राह्मणैर्वचः।अन्नहीनो दहेद्रा ष्ट्रं मंत्रहीन स्तथर्त्विजम्  ।१५।

यजमानमदाक्षिण्यं नास्तियज्ञसमोरिपुः।

                  ।ब्राह्मणा ऊचुः।

यदि त्वं भोक्तुकामस्तु समायातो व्रज द्रुतम्  ।१६।

एतस्यां सत्रशालायां भुंजते यत्र तापसाः    दीनाधाः कृपणाश्चैव ततः क्षुत्क्षामकांठिताः ।१७।

अथवा धनकामस्त्वं वस्त्रकामोऽथ तापसः।     व्रज वित्तपतिर्यत्र दानशालां समाश्रितः । १८।

अनिन्द्योयं महामूर्ख यज्ञः पैतामहोयतः।    अर्थिभ्यः सर्वतः पुण्यं तत्किंनिन्दसि दुर्गते । १९।

एवमुक्तः कपालं सः परिक्षिप्य धरातले।अन्तर्हितस्ततः सद्यो दीपवद्द्विजसत्तम  ।२०।

                ऋत्विज ऊचुः

कथं यज्ञक्रिया कार्या कपाले सदसि स्थिते।तस्मिन्नपि तथा क्षिप्ते भूयोऽन्यत्समपद्यत  ।२१।

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च।               तत्र जातानि तैर्व्याप्तो यज्ञवाटः समंततः  ।२२।

हाहाकारस्ततो जज्ञे समस्ते यज्ञमंडपे।          दृष्ट्वा कपालसंघातान् यज्ञकर्मप्रदूषकान्  ।२३।

अथ संचिंतयामास ध्यानं कृत्वा पितामहः।हरेच्छया समाज्ञाय तत्सर्वं हररूपधृक्  २४

कृतांजलिपुटो भूत्वा ततः प्रोवाच सादरम्।  महेश्वरं समासाद्य यज्ञवाटसमाश्रयम्  ।२५।

किमिदं युज्यते देव यज्ञेऽस्मिन् कर्मणः क्षतिः।तस्मात्संहर सर्वाणि कपालानि सुरेश्वर  ।२६।

यज्ञकर्मविलोपोयं माभूत्त्वयिसमागते।              ततः प्रोवाच संक्रुद्धो भगवान् शशिशेखरः  ।२७।

तन्मे हीष्टतमं पात्रं भोजनाय सदास्थितम्एतद्विधममी कस्माद्विद्विषन्ति पितामह  ।२८।

तथा न मां समुद्दिश्य जुहुवुर्जातवेदसि।      यथान्या देवतास्तद्वन्मंत्रपूतं यथाविधि  ।२९।

तस्माद्यदि विधेकार्या समाप्तिर्यज्ञकर्मणः   तत्कपालाश्रितं हव्यं कर्तव्यंसकलं विधे । ३०।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें