मंगलवार, 31 अगस्त 2021

मण्डलेन तु यत्स्त्रीणां नृत्यं हल्लीसकं तु तत् । तत्र नेता भवेदेको गोपस्त्रीणां हरिर्यथा ।। २.१५६।

सरस्वतीकण्ठाभरणम्  /परिच्छेदः (२)

सरस्वतीकण्ठाभरणम्
परिच्छेदः २
भोजराजः



यदाङ्गिकैकनिर्वर्त्यमुज्झितं वाचिकादिभिः ।
नर्तकैरभिधीयेत प्रेक्षणाक्ष्वेडिकादि तत्।२.१४२।

तल्लास्यं ताण्डवं चैव छलिकं संपया सह ।
हल्लीसकं च रासं च षट्‌प्रकारं प्रचक्षते ।। २.१४३ ।।

____________________
मण्डलेन तु यत्स्त्रीणां नृत्यं हल्लीसकं तु तत् ।
तत्र नेता भवेदेको गोपस्त्रीणां हरिर्यथा ।। २.१५६ ।। (२.१४४)
अर्थ-
मण्डल ( घेरा) में जो गोपस्त्रीयों का नृत्य होता है वह हल्लीसक  कह लाता है ।
उसमें एक गोप सभी गोप- स्त्रीयों का नेतृत्व करने वाला होता है जैसे भगवान कृष्ण होते हैं ।

अङ्गवाक्सत्वजाहार्यः सामान्यश्चित्र इत्यमी ।
षट् चित्राभिनयास्तद्वदभिनेयं वचो विदुः ।। २.१५७ ।। (२.१४५)

चतस्त्रो विंशतिश्चैताः शब्दालङ्कारजातयः ।
शब्दसन्दर्भमात्रेण हृदयं हर्तुमीशते ।। २.१५८ ।। (२.१४६)
____________________

इति श्रीराजाधिराज भोजदेवेन विरचिते सरस्वतीकण्ठाभरण नाम्नि अलङ्कारशास्त्रेऽलङ्कारनिरूपणं नाम द्वितीयः परिच्छेदः ।


 नाट्यशास्त्र में भी वर्णित अठारह उपरूपकों में से एक के सन्दर्भ में हल्लीसक नृत्य या विवेचन है ।
 विशेष—इसमें एक ही अंक होता है और नृत्य की प्रधानता रहती है। 
इसमें एक पुरुष पात्र और सात, आठ या दस स्त्रियाँ पात्री होती हैं। 
यह गोप संस्कृति का प्राचीन नृत्य है जो उत्सव विशेष पर किया जाता था।

मंडल बाँधकर होनेवाला एक प्रकार का नाच जिसमें एक पुरुष के आदेश पर कई स्त्रियाँ नाचती हैं।
इसी को नीमान्तरण से लास्य: तो कहीं रास्य या रास भी कहा जाने लगा।

अदेव कृष्ण -ऋग्वेद 8/96/13



__________

अव  द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥१३॥
द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥१४॥
अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥१५॥
त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१६॥
त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ ।
त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥१७॥
त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ ।
त्वं सिन्धूँरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः ॥१८॥
स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान् ।
य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः ॥१९॥
स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम ।
स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥२०॥
स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव ।
कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥२१॥




पृष्ठ्यषडहगतेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे ‘अव द्रप्सः' इति तृचः । सूत्रितं च -- ‘ अव द्रप्सो अंशुमतीमतिष्ठदिति तिस्रोऽच्छा म इन्द्रमिति नित्यमैकाहिकम्' (आश्व. श्रौ. ८. ३ ) इति ॥

अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभि॑ः स॒हस्रै॑ः ।

आव॒त्तमिन्द्र॒ः शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥१३

अव॑ । द्र॒प्सः । अं॒शु॒ऽमती॑म् । अ॒ति॒ष्ठ॒त् । इ॒या॒नः । कृ॒ष्णः । द॒शऽभिः॑ । स॒हस्रैः॑ ।

आव॑त् । तम् । इन्द्रः॑ । शच्या॑ । धम॑न्तम् । अप॑ । स्नेहि॑तीः । नृ॒ऽमनाः॑ । अ॒ध॒त्त॒ ॥१३

अव । द्रप्सः । अंशुऽमतीम् । अतिष्ठत् । इयानः । कृष्णः । दशऽभिः । सहस्रैः ।

आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नेहितीः । नृऽमनाः । अधत्त ॥१३

अत्रेतिहासमाचक्षते किल । कृष्णो नामासुरो दशसहस्रसंख्यैरसुरैः परिवृतः सन्नंशुमतीनामधेयाया नद्यास्तीरेऽतिष्ठत् । तत्र तं कृष्णमुदकमध्ये स्थितमिन्द्रो बृहस्पतिना सहागच्छत् । आगत्य तं कृष्णं तस्यानुचरांश्च बृहस्पतिसहायो जघानेति । केचिदन्यथा वदन्ति । तेषां कथा हेतुः । द्रप्स इत्युदककणोऽभिधीयते स तु सोमो ‘द्रप्सश्चस्कन्द ' (ऋ. सं. १०. १७. ११ ) इत्यादिषु सोमपरत्वेनोक्तत्वात् । एतत्पदमाश्रित्याहुः- ‘ अपक्रय तु देवेभ्यः सोमो वृत्रभयार्दितः ॥ नदीमंशुमतीं नामाभ्यतिष्ठत् कुरून प्रति । तं बृहस्पतिनैकेन सोऽभ्ययाद्वृत्रहा सह ॥ योत्स्यमानः सुसंहृष्टैर्मरुद्भिर्विविधायुधैः। दृष्ट्वा तानायतः सोमः स्वबलेन व्यवस्थितः ॥ मन्वानो वृत्रमायान्तं जिघांसुमरिसेनया । व्यवस्थितं धनुष्मन्तं तमुवाच बृहस्पतिः ॥ मरुत्पतिरयं सोम प्रेहि देवान् पुनर्विभो । सोऽब्रवीन्नेति तं शक्रः स्वर्ग एव बलाद्बली । इयाय देवानादाय तं पपुर्विधिवत्सुराः ॥ जघ्नुः पीत्वा च दैत्यानां समरे नवतीर्नव । तदव द्रप्स इत्यस्मिन् तृचे सर्वं निगद्यते' (बृहद्दे. ६. १०९-११५ ) । एतदनार्षत्वेनानादरणीयं भवति । एषोऽर्थः क्रमेणर्क्षु वक्ष्यते । तथा चास्या ऋचोsयमर्थः । “द्रप्सः । द्रुतं सरति गच्छतीति द्रप्सः । पृषोदरादिः । द्रुतं गच्छन् "दशभिः “सहसैः दशसहस्रसंख्यैरसुरैः “इयानः “कृष्णः एतन्नामकोऽसुरः "अंशुमतीं नाम नदीम् “अव “अतिष्ठत् अवतिष्ठते । ततः “शच्या कर्मणा प्रज्ञानेन वा “धमन्तम् उदकस्यान्तरुच्छ्वसन्तं यद्वा जगद्भीतिकरं शब्दं कुर्वन्तं “तं कृष्णमसुरम् “इन्द्रः मरुद्भिः सह “आवत् प्राप्नोत् । पश्चात्तं कृष्णमसुरं तस्यानुचरांश्च हतवानिति वदति । “नृमणाः नृषु मनो यस्य सः । यद्वा । कर्मनेतृष्वृत्विक्ष्वेकविधं मनो यस्य स तथोक्तः । तादृशः सन् “स्नेहितीः । स्नेहतिर्वधकर्मसु पठितः । सर्वस्य हिंसित्रीस्तस्य सेनाः “अप “अधत्त । अपधानं हननम् । अवधीदित्यर्थः । ‘ अप स्नीहितिं नृमणा अधद्राः' (सा. सं. १. ४. १.४.१) इति छन्दोगाः पठन्ति । तस्यानुचरान् हत्वा तं द्रुतं गच्छन्तमसुरमपाधत्त । हतवान् ॥


द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्या॑ः ।

नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥१४

द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ ।

नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥१४

द्रप्सम् । अपश्यम् । विषुणे । चरन्तम् । उपऽह्वरे । नद्यः । अंशुऽमत्याः ।

नभः । न । कृष्णम् । अवतस्थिऽवांसम् । इष्यामि । वः । वृषणः । युध्यत । आजौ ॥१४

तुरीयपादो मारुतः । मरुतः प्रति यद्वाक्यमिन्द्र उवाच तदत्र कीर्त्यते । हे मरुतः “द्रप्सं द्रुतगामिनं कृष्णमहम् “अपश्यम् अदर्शम् । कुत्र वर्तमानम् । “विषुणे विष्वगञ्चने सर्वतो विस्तृते देशे । यद्वा । विषुणो विषमः । विषमे परैरदृश्ये गुहारूपे देशे। “चरन्तं परितो गच्छन्तम् । किंच “अंशुमत्याः एतन्नामिकायाः “नद्यः नद्याः “उपह्वरे अत्यन्तं गूढे स्थाने “नभो “न नभसि यथादित्यो दीप्यते तद्वत्तत्र दीप्यमानम् “अवतस्थिवांसम् उदकस्यान्तरवस्थितं “कृष्णम् एतन्नामकमसुरमपश्यम् । तस्मिन् दृष्टे सति हे “वृषणः कामानामुदकानां वा सेक्तारो मरुतः “वः युष्मान् युद्धार्थम् “इष्यामि अहमिच्छामि । ततो यूयं तमिमं कृष्णम् "आजौ । अजन्ति गच्छन्त्यत्र योद्धार आयुधानि प्रक्षेपयन्तीति वाजिः संग्रामः । तस्मिन् "युध्यत संहरत । वाक्यभेदादनिघातः । केचित् इष्यामि वो मरुतः इति पठन्ति । तत्र हे मरुतः वो युष्मानिच्छामीत्यर्थो भवति ॥


अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः ।

विशो॒ अदे॑वीर॒भ्या॒३॒॑चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्र॑ः ससाहे ॥१५

अध॑ । द्र॒प्सः । अं॒शु॒ऽमत्याः॑ । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्व॑म् । ति॒त्वि॒षा॒णः ।

विशः॑ । अदे॑वीः । अ॒भि । आ॒ऽचर॑न्तीः । बृह॒स्पति॑ना । यु॒जा । इन्द्रः॑ । स॒स॒हे॒ ॥१५

अध । द्रप्सः । अंशुऽमत्याः । उपऽस्थे । अधारयत् । तन्वम् । तित्विषाणः ।

विशः । अदेवीः । अभि । आऽचरन्तीः । बृहस्पतिना । युजा । इन्द्रः । ससहे ॥१५

“अध अथ “द्रप्सः द्रुतगामी कृष्णः “अंशुमत्याः नद्याः “उपस्थे समीपे “तित्विषाणः दीप्यमानः सन् “तन्वम् आत्मीयं शरीरम् “अधारयत् । परैरहिंस्यत्वेन बिभर्ति । यद्वा । बलप्राप्त्यर्थं स्वशरीरमाहारादिभिरपोषयत् । तत्र “इन्द्रः गत्वा “बृहस्पतिना एतन्नामकेन देवेन “युजा सहायेन “अदेवीः अद्योतमानाः । कृष्णरूपा इत्यर्थः । यद्वा । पापयुक्तत्वादस्तुत्याः । “आचरन्तीः आगच्छन्तीः “विशः असुरसेनाः "अभि "ससहे जघान । तमवधीदित्यर्थः प्रसङ्गादवगम्यते ॥ ॥ ३४ ॥ ।।


त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभव॒ः शत्रु॑रिन्द्र ।

गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥१६

त्वम् । ह॒ । त्यत् । स॒प्तऽभ्यः॑ । जाय॑मानः । अ॒श॒त्रुऽभ्यः॑ । अ॒भ॒वः॒ । शत्रुः॑ । इ॒न्द्र॒ ।

गू॒ळ्हे इति॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । अ॒वि॒न्दः॒ । वि॒भु॒मत्ऽभ्यः॑ । भुव॑नेभ्यः । रण॑म् । धाः॒ ॥१६

त्वम् । ह । त्यत् । सप्तऽभ्यः । जायमानः । अशत्रुऽभ्यः । अभवः । शत्रुः । इन्द्र ।

गूळ्हे इति । द्यावापृथिवी इति । अनु । अविन्दः । विभुमत्ऽभ्यः । भुवनेभ्यः । रणम् । धाः ॥१६

हे “इन्द्र “त्वं खलु “त्यत् तत् कर्म कृतवानसि। किं तत् उच्यते । "जायमानः त्वं प्रादुर्भवन्नेव । “अशत्रुभ्यः स्तुरहितेभ्यः “सप्तभ्यः कृष्णवृत्रनमुचिशम्बरादिसप्तभ्यो बलवद्भ्यः शत्रुभ्यः तदर्थं “शत्रुः “अभवः । यद्वा । सप्तभ्यः । ससैवाङ्गिरसः । सप्तभ्योङ्गिरोभ्यो गवानयनार्थं प्रादुर्भवन्नेवाशत्रुभ्यो बलवद्भ्यः पणिभ्यः शत्रुरभवः । किंच हे इन्द्र त्वं “गूळ्हे तमसा गूढे संवृते “द्यावापृथिवी द्यावापृथिव्यौ सूर्यात्मना ते प्रकाश्यानुक्रमेण "अविन्दः अलभथाः । तथा “विभुमद्भ्यः महत्त्वयुक्तेभ्यः "भुवनेभ्यः लोकेभ्यः "रणं रमणं “धाः धारयसि । विदधासीत्यर्थः ॥


त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ ।

त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥१७

त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओजः॑ । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒तः । ज॒घ॒न्थ॒ ।

त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒रः॒ । वध॑त्रैः । त्वम् । गाः । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्दः॒ ॥१७

त्वम् । ह । त्यत् । अप्रतिऽमानम् । ओजः । वज्रेण । वज्रिन् । धृषितः । जघन्थ ।

त्वम् । शुष्णस्य । अव । अतिरः । वधत्रैः । त्वम् । गाः । इन्द्र । शच्या । इत् । अविन्दः ॥१७

हे इन्द्र त्वं “ह “त्वं खलु “त्यत् एतत् कर्माकार्षीः। किं तत् अभिधीयते । हे “वज्रिन् वज्रवन्निन्द्र “धृषितः धृष्टः संग्रामेषु शत्रुहनने कुशलः सन्। यद्वा। धृष्टो धीरः सन् "अप्रतिमानम् । प्रतिमानमुपमा। निरुपमम्। अस्य सदृशमन्यदीयं वीर्यं नास्तीत्यर्थः। तादृशं “शुष्णस्य “ओजः बलं “वज्रेण आयुधेन “जघन्थ हतवानसि। ‘अभ्यासाच्च' इति इन्तेर्घत्वम् । पूर्वं शुष्णस्य बलं विनाश्येदानीं शुष्णमपि हतवानित्याह । “त्वं “वधत्रैः हननसाधनैरायुधैः “शुष्णस्य । ‘क्रियाग्रहणं कर्तव्यम्' इति संप्रदानसंज्ञा। चतुर्थ्यर्थे बहुलम्' इति षष्ठी। शुष्णम् “अवातिरः । कुत्साय राजर्षयेऽवाङ्मुखं कृत्वावधीः । तथा च निगमः-- कुत्साय शुष्णमशुषं नि बर्हीः' (ऋ. सं. ४. १६. १२) इति । तथा हे “इन्द्र “त्वं “शच्या स्वकीयया प्रज्ञया कर्मणा वा “गाः शत्रून् हत्वा तेषां गाः “अविन्दः अलभथाः । यद्वा । अङ्गिरसां गाः पणीन् संप्रहृत्य लब्धवानसि ॥



drip (v.)

c. 1300, drippen, "to fall in drops; let fall in drops," from Old English drypan, also dryppan, from Proto-Germanic *drupjanan (source also of Old Norse dreypa, Middle Danish drippe, Dutch druipen, Old High German troufen, German triefen), perhaps from a PIE root *dhreu-. Related to droop and drop. Related: Drippeddripping.

drip (n.)

mid-15c., drippe, "a drop of liquid," from drip (v.). From 1660s as "a falling or letting fall in drops." Medical sense of "continuous slow introduction of fluid into the body" is by 1933. The slang meaning "stupid, feeble, or dull person" is by 1932, perhaps from earlier American English slang sense "nonsense" (by 1919).

विषुण-अनेक रूप का। बहुरूपी। २. सर्वग। सर्वगत। ३. विप्रकीर्ण। बिखरा हुआ। ४. पराङमुख [को०]।

वशिष्ठ का चरित्र-

कामक्रोधावुभौ यस्य चरणौ समुवाहतुः।

इन्द्रियाणां वशकरो वशिष्ठ इति चोच्यते।।
1-190-6a
1-190

सोमवार, 30 अगस्त 2021

शङ्‌खचूडेन सह तुलसीसङ्‌गमवर्णनम्



देवीभागवतपुराणम् स्कन्धः (९)  अध्यायः (१९)

 देवीभागवतपुराणम्‎ | स्कन्धः (९)
शङ्‌खचूडेन सह तुलसीसङ्‌गमवर्णनम्
_________________

                  नारद उवाच
विचित्रमिदमाख्यानं भवता समुदाहृतम् ।
श्रुतेन येन मे तृप्तिर्न कदापि हि जायते ॥१॥

ततः परं तु यज्जातं तत्त्वं वद महामते ।
                 श्रीनारायण उवाच
इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः॥२॥

गान्धर्वेण विवाहेन जगृहे तां च दानवः ।
स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ॥३॥

स रेमे रामया सार्धं वासगेहे मनोरमे ।
मूर्च्छां सा प्राप तुलसी नवसङ्‌गमसङ्‌गता ॥४॥
____________

निमग्ना निर्जले साध्वी सम्भोगसुखसागरे।
चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ॥५॥

कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् ।
अङ्‌गप्रत्यङ्‌गसंश्लेषपूर्वकं स्त्रीमनोहरम् ॥६॥
__________________________
तत्सर्वं रसशृङ्‌गारं चकार रसिकेश्वरः ।
अतीव रम्यदेशे च सर्वजन्तुविवर्जिते ॥७॥

पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना ।
पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ॥८॥

गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् ।
भूषितो भूषणेनैव रत्‍नभूषणभूषिताम् ॥९॥

सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।
जहार मानसं भर्तुर्लोलया लीलया सती ॥१०॥

चेतनां रसिकायाश्च जहार रसभाववित् ।
वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा ॥११॥

स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् ।
तद्वक्षस्युरोजे च नखरेखां ददौ मुदा ॥१२॥
_____________________
सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् ।
राजा तदोष्ठपुटके ददौ रदनदंशनम् ॥१३॥
_______________________________
तद्‌गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् ।
आलिङ्‌गनं चुम्बनं च जङ्‌घादिमर्दनं तथा।१४॥
________________
एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ ।
सुरते विरते तौ च समुत्थाय परस्परम् ॥१५॥

सुवेषं चक्रतुस्तत्र यद्यन्मनसि वाञ्छितम् ।
चन्दनैः कुङ्‌कुमारक्तैः सा तस्य तिलकं ददौ ॥१६॥

सर्वाङ्‌गे सुन्दरे रम्ये चकार चानुलेपनम् ।
सुवासं चैव ताम्बूलं वह्निशुद्धे च वाससी ॥१७॥

पारिजातस्य कुसुमं जरारोगहरं परम् ।
अमूल्यरत्‍ननिर्माणमङ्‌गुलीयकमुत्तमम् ॥१८॥

सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् ।
दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ॥१९॥

ननाम परया भक्त्या स्वामिनं गुणशालिनम् ।
सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पुनः पुनः॥२०॥

निमेषरहिताभ्यां चाप्यपश्यत्कामसुन्दरम् ।
स च तां च समाकृष्य चकार वक्षसि प्रियाम् ॥२१॥

सस्मितं वाससाच्छन्नं ददर्श मुखपङ्‌कजम् ।
चुचुम्ब कठिने गण्डे बिम्बोष्ठौ पुनरेव च ॥२२॥
_________
ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् ।
तदाहृतां रत्‍नमालां त्रिषु लोकेषु दुर्लभाम् ॥२३॥

ददौ मञ्जीरयुग्मं च स्वाहाया आहृतं च यत् ।
केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ॥२४॥

अङ्‌गुलीयकरत्‍नानि रत्याश्च करभूषणम् ।
शङ्‌खं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा ॥२५॥

विचित्रपद्मकश्रेणीं शय्यां चापि सुदुर्लभाम् ।
भूषणानि च दत्त्वा स भूपो हासं चकार ह ॥२६॥

निर्ममे कबरीभारे तस्या माङ्‌गल्यभूषणम् ।
सुचित्रं पत्रकं गण्डमण्डलेऽस्याः समं तथा ॥२७॥

चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना ।
परीतं परितश्चित्रैः सार्धं कुङ्‌कुमबिन्दुभिः ॥२८॥

ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ ।
तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ॥ २९ ॥

चित्रालक्तकरागं च नखरेषु ददौ मुदा ।
स्ववक्षसि मुहुर्न्यस्य सरागं चरणाम्बुजम् ॥३०॥

हे देवि तव दासोऽहमित्युच्चार्य पुनः पुनः ।
रत्‍नभूषितहस्तेन तां च कृत्वा स्ववक्षसि ॥३१॥

तपोवनं परित्यज्य राजा स्थानान्तरं ययौ ।
मलये देवनिलये शैले शैले तपोवने ॥३२॥

स्थाने स्थानेऽतिरम्ये च पुष्पोद्याने च निर्जने ।
कन्दरे कन्दरे सिन्धुतीरे चैवातिसुन्दरे ॥३३॥

पुष्पभद्रानदीतीरे नीरवातमनोहरे ।
पुलिने पुलिने दिव्ये नद्यां नद्यां नदे नदे ॥३४॥

मधौ मधुकराणां च मधुरध्वनिनादिते ।
विस्पन्दने सुरसने नन्दने गन्धमादने ॥ ३५ ॥

देवोद्याने नन्दने च चित्रचन्दनकानने ।
चम्पकानां केतकीनां माधवीनां च माधवे ॥ ३६ ॥

कुन्दानां मालतीनां च कुमुदाम्भोजकानने ।
कल्पवृक्षे कल्पवृक्षे पारिजातवने वने ॥ ३७ ॥

निर्जने काञ्चने स्थाने धन्ये काञ्चनपर्वते ।
काञ्चीवने किञ्जलके कञ्चुके काञ्चनाकरे॥३८॥

पुष्पचन्दनतल्पेषु पुंस्कोकिलरुतश्रुते ।
पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना ॥ ३९ ॥

कामुक्या कामुकः कामात्स रेमे रामया सह ।
न हि तृप्तो दानवेन्द्रस्तृप्तिं नैव जगाम सा ॥४०॥

हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः ।
तया सह समागत्य स्वाश्रमं दानवस्ततः ॥ ४१ ॥

रम्यं क्रीडालयं गत्वा विजहार पुनः पुनः ।
एवं स बुभुजे राज्यं शङ्‌खचूडः प्रतापवान् ॥४२॥

एकमन्वन्तरं पूर्णं राजराजेश्वरो महान् ।
देवानामसुराणां च दानवानां च सन्ततम् ॥ ४३ ॥

गन्धर्वाणां किन्नराणां राक्षसानां च शान्तिदः ।
हृताधिकारा देवाश्च चरन्ति भिक्षुका यथा ॥ ४४ ॥

ते सर्वेऽतिविषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् ।
वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः ॥ ४५ ॥

तदा ब्रह्मा सुरैः सार्धं जगाम शङ्‌करालयम् ।
सर्वेशं कथयामास विधाता चन्द्रशेखरम् ॥ ४६ ॥

ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगाम ह ।
दुर्लभं परमं धाम जरामृत्युहरं परम् ॥ ४७॥

सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो ।
ददर्श द्वारपालांश्च रत्‍नसिंहासनस्थितान् ॥४८॥

शोभितान्पीतवस्त्रैश्च रत्‍नभूषणभूषितान् ।
वनमालान्वितान्सर्वान् श्यामसुन्दरविग्रहान् ॥४९॥

शङ्‌खचक्रगदापद्मधरांश्चैव चतुर्भुजान् ।
सस्मितान्स्मेरवक्त्रास्यान्पद्मनेत्रान्मनोहरान् ॥५०॥

ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् ।
तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ॥५१॥

एवं षोडश द्वाराणि निरीक्ष्य कमलोद्‍भवः ।
देवैः सार्धं तानतीत्य प्रविवेश हरेः सभाम् ॥ ५२ ॥

देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः ।
नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः ॥ ५३ ॥

नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् ।
मणीन्द्रहारनिर्माणां हीरासारसुशोभिताम् ॥ ५४ ॥

अमूल्यरत्‍नखचितां रचितां स्वेच्छया हरेः ।
माणिक्यमालाजालाभां मुक्तापङ्‌क्तिविभूषिताम्।५५॥

मण्डितां मण्डलाकारै रत्‍नदर्पणकोटिभिः ।
विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम् ॥ ५६ ॥

पद्मरागेन्द्ररचितां रुचिरां मणिपङ्‌कजैः ।
सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः ॥ ५७ ॥

पट्टसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ।
इन्द्रनीलस्तम्भवर्यैर्वेष्टितां सुमनोहराम् ॥ ५८ ॥

सद्‌रत्‍नपूर्णकुम्भानां समूहैश्च समन्विताम् ।
पारिजातप्रसूनानां मालाजालैर्विराजिताम् ॥ ५९ ॥

कस्तूरीकुङ्‌कुमारक्तैः सुगन्धिचन्दनद्रुमैः ।
सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना ॥ ६० ॥

विद्याधरीसमूहानां नृत्यजालैर्विराजिताम् ।
सहस्रयोजनायामां परिपूर्णां च किङ्‌करैः ॥ ६१ ॥

ददर्श श्रीहरिं ब्रह्मा शङ्‌करश्च सुरैः सह ।
वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम् ॥ ६२ ॥

अमूल्यरत्‍ननिर्माणचित्रसिंहासने स्थितम् ।
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥ ६३ ॥

चन्दनोक्षितसर्वाङ्‌गं बिभ्रतं केलिपङ्‌कजम् ।
पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा ॥ ६४ ॥

शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् ।
लक्ष्म्या प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥६५॥

गङ्‌गया परया भक्त्या सेवितं श्वेतचामरैः ।
सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः ॥ ६६ ॥

एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं प्रभुम् ।
ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा ॥ ६७ ॥

पुलकाञ्चितसर्वाङ्‌गाः साश्रुनेत्राश्च गद्‌गदाः ।
भक्ताश्च परया भक्त्या भीता नम्रात्मकन्धराः॥६८॥

कृताञ्जलिपुटो भूत्वा विधाता जगतामपि ।
वृत्तान्तं कथयामास विनयेन हरेः पुरः ॥ ६९ ॥

हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् ।
प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ॥ ७० ॥

                  श्रीभगवानुवाच
शङ्‌खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज ।
मद्‍भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥७१॥

शृणु तत्सर्ववृत्तान्तमितिहासं पुरातनम् ।
गोलोकस्यैव चरितं पापघ्नं पुण्यकारकम् ॥ ७२ ॥
________________________
सुदामा नाम गोपश्च पार्षदप्रवरो मम ।
स प्राप दानवीं योनिं राधाशापात्सुदारुणात् ॥७३॥

तत्रैकदाहमगमं स्वालयाद्‌रासमण्डलम् ।
विरजामपि नीत्वा च मम प्राणाधिका परा ॥ ७४ ॥

सा मां विरजया सार्धं विज्ञाय किङ्‌करीमुखात् ।
पश्चात्क्रुद्धा साजगाम न ददर्श च तत्र माम् ॥७५॥

विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् ।
पुनर्जगाम सा दृष्ट्वा स्वालयं सखिभिः सह ॥७६॥

मां दृष्ट्वा मन्दिरे देवी सुदाम्ना सहितं पुरा ।
भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम् ॥७७॥

तच्छ्रुत्वासहमानश्च सुदामा तां चुकोप ह ।
स च तां भर्त्सयामास कोपेन मम सनिधौ ॥७८॥

तच्छ्रुत्वा कोपयुक्ता सा रक्तपङ्‌कजलोचना ।
बहिष्कर्तुं चकाराज्ञां संत्रस्तं मम संसदि ॥ ७९॥

सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोल्बणम् ।
बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः ॥८०॥

सा च तत्ताडनं तासां श्रुत्वा रुष्टा शशाप ह ।
याहि रे दानवीं योनिमित्येवं दारुणं वचः ॥८१॥

तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च ।
वारयामास तुष्टा सा रुदती कृपया पुनः ॥८२॥

हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः।
समुच्चार्य च तत्पश्चाज्जगाम सा च विक्लवम्॥ ८३॥

गोप्यश्च रुरुदुः सर्वा गोपाश्चापि सुदुःखिताः ।
ते सर्वे राधिका चापि तत्पश्चाद्‌ बोधिता मया ॥ ८४ ॥

आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् ।
सुदामंस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता ॥ ८५ ॥

गोलोकस्य क्षणार्धेन चैकं मन्वन्तरं भवेत् ।
पृथिव्यां जगतां धातरित्येव वचनं ध्रुवम् ॥ ८६ ॥
____________________________
इत्येवं शङ्‌खचूडश्च पुनस्तत्रैव यास्यति ।
महाबलिष्ठो योगेशः सर्वमायाविशारदः ॥ ८७ ॥

मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् ।
शिवः करोतु संहारं मम शूलेन रक्षसः ॥ ८८ ॥

ममैव कवचं कण्ठे सर्वमङ्‌गलकारकम् ।
बिभर्ति दानवः शश्वत्संसारे विजयी ततः ॥ ८९ ॥

तस्मिन् ब्रह्मन् स्थिते चैव न कोऽपि हिंसितुं क्षमः ।
तद्याचनां करिष्यामि विप्ररूपोऽहमेव च ॥ ९० ॥
______________________
सतीत्वहानिस्तत्पत्‍न्या यत्र काले भविष्यति ।
तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया॥९१॥

तत्पत्‍न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् ।
तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः॥९२॥
____________
पश्चात्सा देहमुत्सज्य भविष्यति मम प्रिया ।
इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च ॥ ९३ ॥

शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरे मुदा ।
भारतं च ययुर्देवा ब्रह्यरुद्रपुरोगमाः ॥ ९४ ॥
_________________
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्‌खचूडेन सह तुलसीसङ्‌गमवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥

कृष्ण ने यज्ञ में पशु हिंसा का विरोध किया

तस्मै कृष्णाय देवाय नमोऽस्तु बहुधा विभो।
 दुष्टयज्ञविघाताय पशुहिंसानिवृत्तये ॥१३॥

 बौद्धरूपं दधौ योऽसौ तस्मै देवाय ते नमः ।
 म्लेच्छप्रायेऽखिले लोके दुष्टराजन्यपीडिते ॥१४॥

कल्किरूपं समादध्यौ देवदेवाय ते नमः ।
 दशावतारास्ते देव भक्तानां रक्षणाय वै ॥१५॥
______________________

इति श्रीमद्देवीभागवते महापुराणेऽष्टादप्तसाहस्र्यां संहितायां दशमस्कन्धे श्रीविष्णुना देवेभ्यो वरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥

लक्ष्मीः सरस्वती गङ्‌गा तुलसी विश्वपावनी ।एता नारायणस्यैव चतस्रश्च प्रिया इति ॥ १ ॥

देवीभागवतपुराणम् स्कन्धः(९)अध्यायः (१४)

गङ्‌गायाः कृष्णपत्‍नीत्ववर्णनम्

                 "नारद उवाच"
लक्ष्मीः सरस्वती गङ्‌गा तुलसी विश्वपावनी ।
एता नारायणस्यैव चतस्रश्च प्रिया इति ॥१॥

_____________
गङ्‌गा जगाम वैकुण्ठमिदमेव श्रुतं मया ।
कथं सा तस्य पत्‍नी च बभूवेति च न श्रुतम् ॥२॥


                  ।श्रीनारायण उवाच।
गङ्‌गा जगाम वैकुण्ठं तत्पश्चाज्जगतां विधिः।
गत्वोवाच तया सार्धं प्रणम्य जगदीश्वरम् ॥३॥

                        ब्रह्मोवाच
राधाकृष्णाङ्‌गसम्भूता या देवी द्रवरूपिणी ।
नवयौवनसम्पन्ना सुशीला सुन्दरी वरा ॥४॥

शुद्धसत्त्वस्वरूपा च क्रोधाहङ्‌कारवर्जिता ।
तदङ्‌गसम्भवा नान्यं वृणोतीयं च तं विना ॥ ५॥

तत्रातिमानिनी राधा सा च तेजस्विनी वरा ।
समुद्युक्ता पातुमिमां भीतेयं बुद्धिपूर्वकम् ॥६॥

विवेश चरणाम्भोजे कृष्णस्य परमात्मनः ।
सर्वत्र गोलकं शुष्कं दृष्ट्वाहमगमं तदा ॥७॥

गोलोके यत्र कृष्णश्च सर्ववृत्तान्तप्राप्तये ।
सर्वान्तरात्मा सर्वेषां ज्ञात्वाभिप्रायमेव च ॥८॥

बहिश्चकार गङ्‌गा च पादाङ्‌गुष्ठनखाग्रतः ।
दत्त्वास्यै राधिकामन्त्रं पूरयित्वा च गोलकम् ॥९॥

प्रणम्य तां च राधेशं गृहीत्वात्रागमं प्रभो ।
गान्धर्वेण विवाहेन गृहाणेमां सुरेश्वरीम् ॥१०॥

सुरेश्वरेषु रसिको रसिकेयं समागता ।
त्वं रत्‍नं पुंसु देवेश स्त्रीरत्‍नं स्त्रीष्वियं सती ॥११॥

विदग्धया विदग्धेन सङ्‌गमो गुणवान् भवेत् ।
उपस्थितां स्वयं कन्यां न गृह्णातीह यः पुमान्॥१२॥

तं विहाय महालक्ष्मी रुष्टा याति न संशयः ।
यो भवेत्पण्डितः सो ऽपि प्रकृतिं नावमन्यते॥१३॥

सर्वे प्राकृतिकाः पुंसः कामिन्यः प्रकृतेः कलाः ।
त्वमेव भगवान्नाथो निर्गुणः प्रकृतेः परः ॥१४॥

अर्धाङ्‌गं द्विभुजः कृष्णो योऽर्धाङ्‌गेन चतुर्भुजः ।
कृष्णवामाङ्‌गसम्भूता बभूव राधिका पुरा ॥१५॥

दक्षिणांशः स्वयं सा च वामांशः कमला तथा ।
तेनेयं त्वां वृणोत्येव यतस्त्वद्देहसम्भवा ॥१६॥

एकाङ्‌गं चैव स्त्रीपुंसोर्यथा प्रकृतिपूरुषौ ।
इत्येवमुक्त्वा धाता तां तं समर्प्य जगाम सः॥१७॥

गान्धर्वेण विवाहेन तां जग्राह हरिः स्वयम् ।
नारायणः करं धृत्वा पुष्पचन्दनचर्चितम् ॥१८॥

रेमे रमापतिस्तत्र गङ्‌गया सहितो मुदा ।
गङ्‌गा पृथ्वीं गता या सा स्वस्थानं पुनरागता ॥१९॥

निर्गता विष्णुपादाब्जात्तेन विष्णुपदीति च ।
मूर्च्छां सम्प्राप सा देवी नवसङ्‌गमलीलया ॥२०॥

रसिका सुखसम्भोगाद्‌रसिकेश्वरसंयुता ।
तां दृष्ट्वा दुःखिता वाणी पद्मया वर्जितापि च॥२१॥

नित्यमीर्ष्यति तां वाणी न च गङ्‌गा सरस्वतीम् ।
गङ्‌गा शशाप कोपेन भारते च हरिप्रिया ॥२२॥

गङ्‌गया सह तस्यैव तिस्रो भार्या रमापतेः ।
सार्धं तुलस्या पश्चाच्च चतस्रश्चाभवन्मुने॥२३॥

_____________________

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्‌गायाः कृष्णपत्‍नीत्ववर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥


_________  

देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः १७

धर्मध्वजसुतातुलस्युपाख्यानवर्णनम्

श्रीनारायण उवाच
धर्मध्वजस्य पत्‍नी माधवीति च विश्रुता ।
नृपेण सार्धं सारामे रेमे च गन्धमादने ॥ १ ॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।
चन्दनालिप्तसर्वाङ्‌गीं पुष्पचन्दनवायुना ॥ २ ॥
स्त्रीरत्‍नमतिचार्वङ्‌गी रत्‍नभूषणभूषिता ।
कामुकी रसिका सृष्टा रसिकेन च संयुता ॥ ३ ॥
सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।
गतं देववर्षशतं न ज्ञातं च दिवानिशम् ॥ ४ ॥
ततो राजा मतिं प्राप्य सुरताद्विरराम च ।
कामुकी सुन्दरी किञ्चिन्न च तृप्तिं जगाम सा ॥ ५ ॥
दधार गर्भं सा सद्यो दैवादब्दशतं सती ।
श्रीगर्भा श्रीयुता सा च सम्बभूव दिने दिने ॥ ६ ॥
शुभे क्षणे शुभदिने शुभयोगे च संयुते ।
शुभलग्ने शुभांशे च शुभस्वामिग्रहान्विते ॥ ७ ॥
कार्तिकीपूर्णिमायां तु सितवारे च पाद्मज ।
सुषाव सा च पद्मांशां पद्मिनीं तां मनोहराम् ॥ ८ ॥
शरत्पार्वणचन्द्रास्यां शरत्पङ्‌कजलोचनाम् ।
पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम् ॥ ९ ॥
हस्तपादतलारक्तां निम्ननाभिं मनोरमाम् ।
तदधस्त्रिवलीयुक्तां नितम्बयुगवर्तुलाम् ॥ १० ॥
शीते सुखोष्णसर्वाङ्‌गीं ग्रीष्मे च सुखशीतलाम् ।
श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम् ॥ ११ ॥
पीतचम्पकवर्णाभां सुन्दरीष्वेव सुन्दरीम् ।
नरा नार्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः ॥ १२ ॥
तेन नाम्ना च तुलसीं तां वदन्ति मनीषिणः ।
सा च भूयिष्ठमानेन योग्या स्त्री प्रकृतिर्यथा ॥ १३ ॥
सर्वैर्निषिद्धा तपसे जगाम बदरीवनम् ।
तत्र देवाब्दलक्षं च चकार परमं तपः ॥ १४ ॥
मनसा नारायणः स्वामी भवितेति च निश्चिता ।
ग्रीष्मे पञ्चतपाः शीते तोयवस्त्रा च प्रावृषि ॥ १५ ॥
आसनस्था वृष्टिधाराः सहन्तीति दिवानिशम् ।
विंशत्सहस्रवर्षं च फलतोयाशना च सा ॥ १६ ॥
त्रिंशत्सहस्रवर्षं च पत्राहारा तपस्विनी ।
चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी ॥ १७ ॥
ततो दशसहस्राब्दं निराहारा बभूव सा ।
निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्‍भवः ॥ १८ ॥
समाययौ वरं दातुं परं बदरिकाश्रमम् ।
चतुर्मुखं च सा दृष्ट्वा ननाम हंसवाहनम् ॥ १९ ॥
तामुवाच जगत्कर्ता विधाता जगतामपि ।
ब्रह्मोवाच
वरं वृणीष्व तुलसि यत्ते मनसि वाच्छितम् ॥ २० ॥
हरिभक्तिं हरेर्दास्यमजरामरतामपि ।
तुलस्युवाच
शृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम् ॥ २१ ॥
सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम् ।
अहं तु तुलसी गोपी गोलोकेऽहं स्थिता पुरा ॥ २२ ॥
कृष्णप्रिया किंकरी च तदंशा तत्सखी प्रिया ।
गोविन्दरतिसम्भुक्तामतृप्तां मां च मूर्च्छिताम् ॥ २३ ॥
रासेश्वरी समागत्य ददर्श रासमण्डले ।
गोविन्दं भर्त्सयामास मां शशाप रुषान्विता ॥ २४ ॥
याहि त्वं मानवीं योनिमित्येवं च शशाप ह ।
मामुवाच स गोविन्दो मदंशं च चतुर्भुजम् ॥ २५ ॥
लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् ।
इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानं चकार सः ॥ २६ ॥
देव्या भिया तनुं त्यक्त्वा प्राप्तं जन्म गुरो भुवि ।
अहं नारायणं कान्तं शान्तं सुन्दरविग्रहम् ॥ २७ ॥
साम्प्रतं तं पतिं लब्धुं वरये त्वं च देहि मे ।
ब्रह्मदेव उवाच
सुदामा नाम गोपश्च श्रीकृष्णाङ्‌गसमुद्‍भवः ॥ २८ ॥
तदंशश्चातितेजस्वी लेभे जन्म च भारते ।
साम्प्रतं राधिकाशापाद्दनुवंशसमुद्‍भवः ॥ २९ ॥
शङ्‌खचूडेति विख्यातस्त्रैलोक्ये न च तत्समः ।
गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः ॥ ३० ॥
विलम्भितुं न शशाक राधिकायाः प्रभावतः ।
स च जातिस्मरस्तस्मात्सदामाभूच्च सागरे ॥ ३१ ॥
जातिस्मरा त्वमपि सा सर्वं जानासि सुन्दरि ।
अधुना तस्य पत्‍नी त्वं सम्भविष्यसि शोभने ॥ ३२ ॥
पश्चान्नारायणं शान्तं कान्तमेव वरिष्यसि ।
शापान्नारायणस्यैव कलया दैवयोगतः ॥ ३३ ॥
भविष्यसि वृक्षरूपा त्वं पूता विश्वपावनी ।
प्रधाना सर्वपुष्पेषु विष्णुप्राणाधिका भवेः ॥ ३४ ॥
त्वया विना च सर्वेषां पूजा च विफला भवेत् ।
वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च ॥ ३५ ॥
त्वत्पत्रैर्गोपिगोपाश्च पूजयिष्यन्ति माधवम् ।
वृक्षाधिदेवीरूपेण सार्धं कृष्णेन सन्ततम् ॥ ३६ ॥
विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च ।
इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा ॥ ३७ ॥
प्रणनाम च ब्रह्माणं तं च किञ्चिदुवाच सा ।
तुलस्युवाच
यथा मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे ॥ ३८ ॥
सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे ।
अतृप्ताहं च गोविन्दे दैवाच्छृङ्‌गारभङ्‌गतः ॥ ३९ ॥
गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम् ।
त्वत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम् ॥ ४० ॥
ध्रुवमेव लभिष्यामि राधाभीतिं प्रमोचय ।
ब्रह्यदेव उवाच
गृहाण राधिकामन्त्रं ददामि षोडशाक्षरम् ॥ ४१ ॥
तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि ।
शृङ्‌गारं युवयोर्गोप्यं न ज्ञास्यति च राधिका ॥ ४२ ॥
राधासमा त्वं सुभगे गोविन्दस्य भविष्यसि ।
इत्येवमुक्त्वा दत्त्वा च देव्या वै षोडशाक्षरम् ॥ ४३ ॥
मन्त्रं चैव जगद्धाता स्तोत्रं च कवचं परम् ।
सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम् ॥ ४४ ॥
परां शुभाशिषं चैव पूजां चैव चकार सा ।
बभूव सिद्धा सा देवी तत्प्रसादाद्रमा यथा ॥ ४५ ॥
सिद्धं मन्त्रेण तुलसी वरं प्राप यथोदितम् ।
बुभुजे च महाभोगं यद्विश्वेषु च दुर्लभम् ॥ ४६ ॥
प्रसन्नमनसा देवी तत्याज तपसः क्लमम् ।
सिद्धे फले नराणां च दुःखं च सुखमुत्तमम् ॥ ४७ ॥
भुक्त्या पीत्वा च सन्तुष्टा शयनं च चकार सा ।
तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते ॥ ४८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे धर्मध्वजसुतातुलस्युपाख्यानवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥


इस अध्याय का हिन्दी अनुवाद प्रेषित करें और स्वयं देखें


देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः १९


< देवीभागवतपुराणम्‎ | स्कन्धः ०९

शङ्‌खचूडेन सह तुलसीसङ्‌गमवर्णनम्

_________________


नारद उवाच

विचित्रमिदमाख्यानं भवता समुदाहृतम् ।

श्रुतेन येन मे तृप्तिर्न कदापि हि जायते ॥ १ ॥


ततः परं तु यज्जातं तत्त्वं वद महामते ।

श्रीनारायण उवाच

इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः ॥२ ॥

गान्धर्वेण विवाहेन जगृहे तां च दानवः ।

स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ॥ ३ ॥


स रेमे रामया सार्धं वासगेहे मनोरमे ।


मूर्च्छां सा प्राप तुलसी नवसङ्‌गमसङ्‌गता ॥ ४ ॥

निमग्ना निर्जले साध्वी सम्भोगसुखसागरे ।

चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ॥ ५ ॥

कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् ।

अङ्‌गप्रत्यङ्‌गसंश्लेषपूर्वकं स्त्रीमनोहरम् ॥ ६ ॥

तत्सर्वं रसशृङ्‌गारं चकार रसिकेश्वरः ।

अतीव रम्यदेशे च सर्वजन्तुविवर्जिते ॥ ७ ॥

पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना ।

पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ॥ ८ ॥

गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् ।

भूषितो भूषणेनैव रत्‍नभूषणभूषिताम् ॥ ९ ॥

सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।

जहार मानसं भर्तुर्लोलया लीलया सती ॥ १० ॥

चेतनां रसिकायाश्च जहार रसभाववित् ।

वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा ॥ ११ ॥

स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् ।

तद्वक्षस्युरोजे च नखरेखां ददौ मुदा ॥ १२ ॥

सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् ।

राजा तदोष्ठपुटके ददौ रदनदंशनम् ॥ १३ ॥

तद्‌गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् ।

आलिङ्‌गनं चुम्बनं च जङ्‌घादिमर्दनं तथा ॥ १४ ॥

एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ ।

सुरते विरते तौ च समुत्थाय परस्परम् ॥ १५ ॥

सुवेषं चक्रतुस्तत्र यद्यन्मनसि वाञ्छितम् ।

चन्दनैः कुङ्‌कुमारक्तैः सा तस्य तिलकं ददौ ॥ १६ ॥

सर्वाङ्‌गे सुन्दरे रम्ये चकार चानुलेपनम् ।

सुवासं चैव ताम्बूलं वह्निशुद्धे च वाससी ॥ १७ ॥

पारिजातस्य कुसुमं जरारोगहरं परम् ।

अमूल्यरत्‍ननिर्माणमङ्‌गुलीयकमुत्तमम् ॥ १८ ॥

सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् ।

दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ॥ १९ ॥

ननाम परया भक्त्या स्वामिनं गुणशालिनम् ।

सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पुनः पुनः ॥ २० ॥

निमेषरहिताभ्यां चाप्यपश्यत्कामसुन्दरम् ।

स च तां च समाकृष्य चकार वक्षसि प्रियाम् ॥ २१ ॥

सस्मितं वाससाच्छन्नं ददर्श मुखपङ्‌कजम् ।

चुचुम्ब कठिने गण्डे बिम्बोष्ठौ पुनरेव च ॥ २२ ॥

ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् ।

तदाहृतां रत्‍नमालां त्रिषु लोकेषु दुर्लभाम् ॥ २३ ॥

ददौ मञ्जीरयुग्मं च स्वाहाया आहृतं च यत् ।

केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ॥ २४ ॥

अङ्‌गुलीयकरत्‍नानि रत्याश्च करभूषणम् ।

शङ्‌खं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा ॥ २५ ॥

विचित्रपद्मकश्रेणीं शय्यां चापि सुदुर्लभाम् ।

भूषणानि च दत्त्वा स भूपो हासं चकार ह ॥ २६ ॥

निर्ममे कबरीभारे तस्या माङ्‌गल्यभूषणम् ।

सुचित्रं पत्रकं गण्डमण्डलेऽस्याः समं तथा ॥ २७ ॥

चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना ।

परीतं परितश्चित्रैः सार्धं कुङ्‌कुमबिन्दुभिः ॥ २८ ॥

ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ ।

तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ॥ २९ ॥

चित्रालक्तकरागं च नखरेषु ददौ मुदा ।

स्ववक्षसि मुहुर्न्यस्य सरागं चरणाम्बुजम् ॥ ३० ॥

हे देवि तव दासोऽहमित्युच्चार्य पुनः पुनः ।

रत्‍नभूषितहस्तेन तां च कृत्वा स्ववक्षसि ॥ ३१ ॥

तपोवनं परित्यज्य राजा स्थानान्तरं ययौ ।

मलये देवनिलये शैले शैले तपोवने ॥ ३२ ॥

स्थाने स्थानेऽतिरम्ये च पुष्पोद्याने च निर्जने ।

कन्दरे कन्दरे सिन्धुतीरे चैवातिसुन्दरे ॥ ३३ ॥

पुष्पभद्रानदीतीरे नीरवातमनोहरे ।

पुलिने पुलिने दिव्ये नद्यां नद्यां नदे नदे ॥ ३४ ॥

मधौ मधुकराणां च मधुरध्वनिनादिते ।

विस्पन्दने सुरसने नन्दने गन्धमादने ॥ ३५ ॥

देवोद्याने नन्दने च चित्रचन्दनकानने ।

चम्पकानां केतकीनां माधवीनां च माधवे ॥ ३६ ॥

कुन्दानां मालतीनां च कुमुदाम्भोजकानने ।

कल्पवृक्षे कल्पवृक्षे पारिजातवने वने ॥ ३७ ॥

निर्जने काञ्चने स्थाने धन्ये काञ्चनपर्वते ।

काञ्चीवने किञ्जलके कञ्चुके काञ्चनाकरे ॥ ३८ ॥

पुष्पचन्दनतल्पेषु पुंस्कोकिलरुतश्रुते ।

पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना ॥ ३९ ॥

कामुक्या कामुकः कामात्स रेमे रामया सह ।

न हि तृप्तो दानवेन्द्रस्तृप्तिं नैव जगाम सा ॥ ४० ॥

हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः ।

तया सह समागत्य स्वाश्रमं दानवस्ततः ॥ ४१ ॥

रम्यं क्रीडालयं गत्वा विजहार पुनः पुनः ।

एवं स बुभुजे राज्यं शङ्‌खचूडः प्रतापवान् ॥ ४२ ॥

एकमन्वन्तरं पूर्णं राजराजेश्वरो महान् ।

देवानामसुराणां च दानवानां च सन्ततम् ॥ ४३ ॥

गन्धर्वाणां किन्नराणां राक्षसानां च शान्तिदः ।

हृताधिकारा देवाश्च चरन्ति भिक्षुका यथा ॥ ४४ ॥

ते सर्वेऽतिविषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् ।

वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः ॥ ४५ ॥

तदा ब्रह्मा सुरैः सार्धं जगाम शङ्‌करालयम् ।

सर्वेशं कथयामास विधाता चन्द्रशेखरम् ॥ ४६ ॥

ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगाम ह ।

दुर्लभं परमं धाम जरामृत्युहरं परम् ॥ ४७ ॥

सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो ।

ददर्श द्वारपालांश्च रत्‍नसिंहासनस्थितान् ॥ ४८ ॥

शोभितान्पीतवस्त्रैश्च रत्‍नभूषणभूषितान् ।

वनमालान्वितान्सर्वान् श्यामसुन्दरविग्रहान् ॥ ४९ ॥

शङ्‌खचक्रगदापद्मधरांश्चैव चतुर्भुजान् ।

सस्मितान्स्मेरवक्त्रास्यान्पद्मनेत्रान्मनोहरान् ॥ ५० ॥

ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् ।

तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ॥ ५१ ॥

एवं षोडश द्वाराणि निरीक्ष्य कमलोद्‍भवः ।

देवैः सार्धं तानतीत्य प्रविवेश हरेः सभाम् ॥ ५२ ॥

देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः ।

नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः ॥ ५३ ॥

नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् ।

मणीन्द्रहारनिर्माणां हीरासारसुशोभिताम् ॥ ५४ ॥

अमूल्यरत्‍नखचितां रचितां स्वेच्छया हरेः ।

माणिक्यमालाजालाभां मुक्तापङ्‌क्तिविभूषिताम् ॥ ५५ ॥

मण्डितां मण्डलाकारै रत्‍नदर्पणकोटिभिः ।

विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम् ॥ ५६ ॥

पद्मरागेन्द्ररचितां रुचिरां मणिपङ्‌कजैः ।

सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः ॥ ५७ ॥

पट्टसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ।

इन्द्रनीलस्तम्भवर्यैर्वेष्टितां सुमनोहराम् ॥ ५८ ॥

सद्‌रत्‍नपूर्णकुम्भानां समूहैश्च समन्विताम् ।

पारिजातप्रसूनानां मालाजालैर्विराजिताम् ॥ ५९ ॥

कस्तूरीकुङ्‌कुमारक्तैः सुगन्धिचन्दनद्रुमैः ।

सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना ॥ ६० ॥

विद्याधरीसमूहानां नृत्यजालैर्विराजिताम् ।

सहस्रयोजनायामां परिपूर्णां च किङ्‌करैः ॥ ६१ ॥

ददर्श श्रीहरिं ब्रह्मा शङ्‌करश्च सुरैः सह ।

वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम् ॥ ६२ ॥

अमूल्यरत्‍ननिर्माणचित्रसिंहासने स्थितम् ।

किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥ ६३ ॥

चन्दनोक्षितसर्वाङ्‌गं बिभ्रतं केलिपङ्‌कजम् ।

पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा ॥ ६४ ॥

शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् ।

लक्ष्म्या प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ ६५ ॥

गङ्‌गया परया भक्त्या सेवितं श्वेतचामरैः ।

सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः ॥ ६६ ॥

एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं प्रभुम् ।

ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा ॥ ६७ ॥

पुलकाञ्चितसर्वाङ्‌गाः साश्रुनेत्राश्च गद्‌गदाः ।

भक्ताश्च परया भक्त्या भीता नम्रात्मकन्धराः ॥ ६८ ॥

कृताञ्जलिपुटो भूत्वा विधाता जगतामपि ।

वृत्तान्तं कथयामास विनयेन हरेः पुरः ॥ ६९ ॥

हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् ।

प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ॥ ७० ॥

श्रीभगवानुवाच

शङ्‌खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज ।

मद्‍भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ ७१ ॥

शृणु तत्सर्ववृत्तान्तमितिहासं पुरातनम् ।

गोलोकस्यैव चरितं पापघ्नं पुण्यकारकम् ॥ ७२ ॥

सुदामा नाम गोपश्च पार्षदप्रवरो मम ।

स प्राप दानवीं योनिं राधाशापात्सुदारुणात् ॥ ७३ ॥

तत्रैकदाहमगमं स्वालयाद्‌रासमण्डलम् ।

विरजामपि नीत्वा च मम प्राणाधिका परा ॥ ७४ ॥

सा मां विरजया सार्धं विज्ञाय किङ्‌करीमुखात् ।

पश्चात्क्रुद्धा साजगाम न ददर्श च तत्र माम् ॥ ७५ ॥

विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् ।

पुनर्जगाम सा दृष्ट्वा स्वालयं सखिभिः सह ॥ ७६ ॥

मां दृष्ट्वा मन्दिरे देवी सुदाम्ना सहितं पुरा ।

भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम् ॥ ७७ ॥

तच्छ्रुत्वासहमानश्च सुदामा तां चुकोप ह ।

स च तां भर्त्सयामास कोपेन मम सनिधौ ॥ ७८ ॥

तच्छ्रुत्वा कोपयुक्ता सा रक्तपङ्‌कजलोचना ।

बहिष्कर्तुं चकाराज्ञां संत्रस्तं मम संसदि ॥ ७९ ॥

सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोल्बणम् ।

बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः ॥ ८० ॥

सा च तत्ताडनं तासां श्रुत्वा रुष्टा शशाप ह ।

याहि रे दानवीं योनिमित्येवं दारुणं वचः ॥ ८१ ॥

तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च ।

वारयामास तुष्टा सा रुदती कृपया पुनः ॥ ८२ ॥

हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः ।

समुच्चार्य च तत्पश्चाज्जगाम सा च विक्लवम् ॥ ८३ ॥

गोप्यश्च रुरुदुः सर्वा गोपाश्चापि सुदुःखिताः ।

ते सर्वे राधिका चापि तत्पश्चाद्‌ बोधिता मया ॥ ८४ ॥

आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् ।

सुदामंस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता ॥ ८५ ॥

गोलोकस्य क्षणार्धेन चैकं मन्वन्तरं भवेत् ।

पृथिव्यां जगतां धातरित्येव वचनं ध्रुवम् ॥ ८६ ॥

इत्येवं शङ्‌खचूडश्च पुनस्तत्रैव यास्यति ।

महाबलिष्ठो योगेशः सर्वमायाविशारदः ॥ ८७ ॥

मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् ।

शिवः करोतु संहारं मम शूलेन रक्षसः ॥ ८८ ॥

ममैव कवचं कण्ठे सर्वमङ्‌गलकारकम् ।

बिभर्ति दानवः शश्वत्संसारे विजयी ततः ॥ ८९ ॥

तस्मिन् ब्रह्मन् स्थिते चैव न कोऽपि हिंसितुं क्षमः ।

तद्याचनां करिष्यामि विप्ररूपोऽहमेव च ॥ ९० ॥

सतीत्वहानिस्तत्पत्‍न्या यत्र काले भविष्यति ।

तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया ॥ ९१ ॥

तत्पत्‍न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् ।

तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः ॥ ९२ ॥

पश्चात्सा देहमुत्सज्य भविष्यति मम प्रिया ।

इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च ॥ ९३ ॥

शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरे मुदा ।

भारतं च ययुर्देवा ब्रह्यरुद्रपुरोगमाः ॥ ९४ ॥

_________________

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्‌खचूडेन सह तुलसीसङ्‌गमवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥


ऋग्वेद १० /६१/६ ब्रह्मा का अपनी पुत्री के साथ मैथुन -


 '



 
____________
 ऋग्वेद के उस प्रसंग के कुछ अंश जिसमें प्रजापति ब्रह्मा स्वयं अपनी ही पुत्री से मैथुन करते हैं-

ऋग्वेद- मण्डल-10, सूक्त-61

प्रथि॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ॑हत्।
पुन॒स्तदा वृ॑हति॒ यत्क॒नाया॑ दुहि॒तुरा    अनु॑भृतमन॒र्वा ॥५।

भावार्थ- प्रजापति का पुत्र उत्पन्न करने में समर्थ वीर्य सर्वोत्तम है। प्रजापति ने अपने उस मानव हितकारी वीर्य का त्याग किया, जिसे उन्होंने अपनी सुंदर कन्या के शरीर में सिंचित किया था।

म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् ।
म॒ना॒नग्रेतो॑ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥६।।

भावार्थ- जिस समय पिता ने अपनी युवती कन्या के साथ यथेच्छ कर्म किया, उस समय उनके संभोग कर्म के समीप ही थोड़ा वीर्य गिरा, परस्पर अभिगमन करते हुए उन दोनों ने यह वीर्य यज्ञ के ऊंचे स्थान योनि में छोड़ा था।

पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेतः॑ संजग्मा॒नो नि षि॑ञ्चत् ।
स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन्॥७।।

भावार्थ- जिस समय पिता ने अपनी पुत्री के साथ संभोग किया, उस समय धरती से मिल कर वीर्य त्याग किया। शोभन कर्म वाले देवों ने उसी वीर्य से व्रत रक्षक देव वास्तोष्पति का उत्पादन किया।


प्रथिष्ट । यस्य । वीरऽकर्मम् । इष्णत् । अनुऽस्थितम् । नु । नर्यः । अप । औहत् ।

पुनरिति । तत् । आ । वृहति । यत् । कनायाः । दुहितुः । आः । अनुऽभृतम् । अनर्वा ॥५

यथा स्वांशेन भगवान् रुद्रः प्रजापतिर्वास्तोऽपतिं रुद्रमसृजत् तदेतदादिभिस्तिसृभिर्वदति । “यस्य प्रजापतेः “इष्णत् एषणवत् "वीरकर्मम् । लिङ्गव्यत्ययः। वीरकर्म । रेत इत्यर्थः । येन रेतसोत्पन्ना वीरा भवन्ति तादृग्रेतः “प्रथिष्ट प्रथितमासीत् तद्रेतः “अनुष्ठितं प्रजापतिनापत्यार्थं निषिक्तं “नर्यः नरेभ्यो हितो यद्वा नेतृभ्यो देवेभ्यो हितो रुद्रः “अपौहत् अपोहति । तदेवाह । “पुनस्तत् रेतः “आ “वृहति सर्वत उत्खिदति उद्गमयति पुरुषाकारेण स्वयमुत्पन्नः सन् । कीदृशं रेतः । “यत् रेतः “कनायाः कान्तायाः "दुहितुः स्वपुत्र्याः तस्यामित्यर्थः । तत्र प्रजापतिना “अनुभृतम् “आः आसीत् । अस्तेः सिपि - - । कीदृशो रुद्रः । “अनर्वा अन्यस्मिन्नप्रत्यृतः । ‘ प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये ' (ऐ, ब्रा. ३. ३३ ) इति ब्राह्मणम् ॥ ॥ २६ ॥


म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् ।

म॒ना॒नग्रेतो॑ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥६

म॒ध्या । यत् । कर्त्व॑म् । अभ॑वत् । अ॒भीके॑ । काम॑म् । कृ॒ण्वा॒ने । पि॒तरि॑ । यु॒व॒त्याम् ।

म॒ना॒नक् । रेतः॑ । ज॒ह॒तुः॒ । वि॒ऽयन्ता॑ । सानौ॑ । निऽसि॑क्तम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ ॥६

मध्या । यत् । कर्त्वम् । अभवत् । अभीके । कामम् । कृण्वाने । पितरि । युवत्याम् ।

मनानक् । रेतः । जहतुः । विऽयन्ता । सानौ । निऽसिक्तम् । सुऽकृतस्य । योनौ ॥६

“कामं यथेच्छं “कृण्वाने कुर्वाणे “पितरि प्रजापतौ “युवत्यां दुहितर्युषसि दिवि वा । ‘ दिवमित्यन्ये ' इति हि ब्राह्मणं प्रदर्शितम् । “मध्या तयोर्मध्येऽन्तरिक्षमध्ये वा “अभीके समीपे “यत् “कर्त्वं कर्म “अभवत् मिथुनीभावाख्यं तदानीं “मनानक् अल्पं “रेतः “जहतुः त्यक्तवन्तौ । किं कुर्वाणाविति तत्राह। “वियन्तौ परस्परमभिगच्छन्तौ । प्रजापतिना “सानौ समुच्छ्रिते स्थाने “सुकृतस्य यज्ञस्य “योनौ “निषिक्तम् आसीदित्यर्थः । ततो रुद्र उत्पन्न इत्यर्थः ॥


पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेतः॑ संजग्मा॒नो नि षि॑ञ्चत् ।

स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥७

पि॒ता । यत् । स्वाम् । दु॒हि॒तर॑म् । अ॒धि॒ऽस्कन् । क्ष्म॒या । रेतः॑ । स॒म्ऽज॒ग्मा॒नः । नि । सि॒ञ्च॒त् ।

सु॒ऽआ॒ध्यः॑ । अ॒ज॒न॒य॒न् । ब्रह्म॑ । दे॒वाः । वास्तोः॑ । पति॑म् । व्र॒त॒ऽपाम् । निः । अ॒त॒क्ष॒न् ॥७

पिता । यत् । स्वाम् । दुहितरम् । अधिऽस्कन् । क्ष्मया । रेतः । सम्ऽजग्मानः । नि । सिञ्चत् ।

सुऽआध्यः । अजनयन् । ब्रह्म । देवाः । वास्तोः । पतिम् । व्रतऽपाम् । निः । अतक्षन् ॥७

“पिता प्रजापतिः “यत् यदा “स्वां “दुहितरं दिवमुषसं वा “अधिष्कन् अध्यस्कन्दत् तदानीमेव “क्ष्मया पृथिव्या सह “संजग्मानः संगच्छमानः प्रजापतिरस्मिँल्लोके रोहितं भूतामृश्यो भूत्वा “रेतः “नि “षिञ्चत् निषेकमकरोत् । ‘तामृश्यो भूत्वा रोहितं भूतामभ्यैत् ' (ऐ. ब्रा, ३. ३३ ) इति ब्राह्मणम् । तदानीं “स्वाध्यः सुध्यानाः सुकर्माणो वा “देवाः “ब्रह्म “अजनयन् उदपादयन् । किं तद्ब्रह्मेति तदाह । “वास्तोष्पतिं यज्ञवास्तुस्वामिनं “व्रतपां व्रतस्य कर्मणः रक्षःप्रभृतिभ्यः पालकं “निरतक्षन् समुदपादयन् । यज्ञवास्तुस्वामित्वं दत्त्वा कर्मरक्षकत्वेन निर्मितवन्त इत्यर्थः ॥



 श्रीमद्भागवत आदि कई शास्त्रों-पुराणों में भी इस प्रसंग का उल्लेख मिलता है।
 जिसे ऋग्वेद से ही लिया गया होगा।
जरूरत इन्हें छुपाने, प्रक्षिप्त बताने अथवा अर्थ बदलने की नहीं बल्कि इन्हें समझने और सुधारने की है।
 20 लाख वर्ष पूर्व के होमोहेबिलिस (आदिमानव) से लेकर आज के होमोसेपियंस (प्रज्ञमानव) तक की क्रमिक विकास यात्रा से संबंधित मानव सभ्यता के अपने अलग-2 सोपान हैं।
 जिन पर चढ़ते हुए इंसान आज की ऊँचाई तक पहुँचा है। 
पूरी पारदर्शिता के साथ अतीत का अध्ययन करते हुए, देश व समाज के लिए घातक साबित हुई वर्णव्यवस्था जनित ऊँच-नीच सम्बंधी बुराइयों को बिसार कर तथा अच्छाइयों को अपनाते हुए, सीख-सबक के साथ मानवता के चरम की ओर चलते जाना है।

 ऋग्वेद में कहीं भी 'दीपक' का उल्लेख नहीं है, जो स्पष्ट करता है कि, उस काल तक, इंसान कृत्रिम प्रकाश के लिए दिया-बाती बनाना भी नहीं सीख पाया था। 
अतः उस काल की ओर लौटने की बात करने की अपेक्षा उस काल की बात 'तमसो मा ज्योतिर्गमय' को मानते हुए अतीत के अज्ञान व अशिक्षा के अंधेरे की ओर नहीं, भविष्य के ज्ञान-विज्ञान के उजाले की ओर आगे कदम बढ़ाते जाना है। 


वत्सरान्तप्रसूता स्त्री षोडशे च जरान्विता ।पतिपुत्रवती काचित्सर्वा वन्ध्याः कलौ युगे ॥३८॥इति श्रीमद्देवीभागवते

देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ०८

< देवीभागवतपुराणम्‎ | स्कन्धः ०९
नारायणनारदसंवादे कलिमाहात्म्यवर्णनम्

              श्रीनारायण उवाच
सरस्वती पुण्यक्षेत्रमाजगाम च भारते ।
गङ्‌गाशापेन कलया स्वयं तस्थौ हरेः पदे ॥ १ ॥

भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया ।
वाण्यधिष्ठातृदेवी सा तेन वाणी प्रकीर्तिता ॥ २ ॥

सरो वाप्यां च स्रोतस्तु सर्वत्रैव हि दृश्यते ।
हरिः सरस्वांस्तस्येयं तेन नाम्ना सरस्वती ॥ ३ ॥

सरस्वती नदी सा च तीर्थरूपातिपावनी ।
पापिनां पापदाहाय ज्वलदग्निस्वरूपिणी ॥ ४ ॥

पश्चाद्‍भागीरथी नीता महीं भगीरथेन च ।
सा वै जगाम कलया वाणीशापेन नारद ॥ ५ ॥

तत्रैव समये तां च दधार शिरसा शिवः ।
वेगं सोढुमयं शक्तो भुवः प्रार्थनया विभुः ॥ ६ ॥

पद्मा जगाम कलया सा च पद्मावती नदी ।
भारतं भारतीशापात्स्वयं तस्थौ हरेः पदे ॥ ७ ॥

ततोऽन्यया सा कलया लेभे जन्म च भारते ।
धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति च ॥ ८ ॥

पुरा सरस्वतीशापात्पश्चाच्च हरिशापतः ।
बभूव वृक्षरूपा सा कलया विश्वपावनी ॥ ९ ॥

कलेः पञ्चसहस्रं च वर्षं स्थित्वा तु भारते ।
जग्मुस्ताश्च सरिद्‌रूपं विहाय श्रीहरेः पदम् ॥१०॥

यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना ।
यास्यन्ति सार्धं ताभिश्च वैकुण्ठमाज्ञया हरेः॥११॥

शालग्रामः शक्तिशिवौ जगन्नाथश्च भारतम् ।
कलेर्दशसहस्रान्ते त्यक्त्वा यान्ति निजं पदम्॥१२॥
साधवश्च पुराणानि शङ्‌खानि श्राद्धतर्पणे ।
वेदोक्तानि च कर्माणि ययुस्तैः सार्धमेव च ॥ १३॥

देवपूजा देवनाम तत्कीर्तिगुणकीर्तनम् ।
वेदाङ्‌गानि च शास्त्राणि ययुस्तैः सार्धमेव च ॥१४॥

सन्तश्च सत्यधर्मश्च वेदाश्च ग्रामदेवताः ।
व्रतं तपश्चानशनं ययुस्तैः सार्धमेव च ॥ १५ ॥

वामाचाररताः सर्वे मिथ्याकपटसंयुताः ।
तुलसीरहिता पूजा भविष्यति ततः परम् ॥ १६ ॥

शठाः क्रूरा दाम्भिकाश्च महाहङ्‌कारसंयुताः ।
चोराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम् ॥१७॥

पुंसो भेदः स्त्रीविभेदो विवाहो वापि निर्भयः ।
स्वस्वामिभेदो वस्तूनां भविष्यति ततः परम् ॥१८॥

सर्वे स्त्रीवशगाः पुंसः पुश्चल्यश्च गृहे गृहे ।
तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति च ॥ १९॥

गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः ।
चेटीदाससमौ वध्वाः श्वश्रूश्च श्वशुरस्तथा ॥ २०॥

कर्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः ।
विद्यासम्बन्धिभिः सार्धं सम्भाषापि न विद्यते ॥२१॥

यथापरिचिता लोकास्तथा पुंसश्च बान्धवाः ।
सर्वकर्माक्षमाः पुंसो योषितामाज्ञया विना ॥ २२॥

ब्रह्मक्षत्रविशः शूद्रा जात्याचारविवर्जिताः ।
सन्ध्या च यज्ञसूत्रं च भवेल्लुप्तं न संशयः ॥ २३ ॥

म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च ।
म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय च॥२४॥

ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ ।
सूपकारा धावकाश्च वृषवाहाश्च सर्वशः ॥ २५ ॥

सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी ।
फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ॥ २६ ॥

क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् ।
दम्पती प्रीतिहीनौ च गृहिणः सत्यवर्जिताः ॥२७॥

प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः ।
जलहीना महानद्यो दीर्घिकाकन्दरादयः ॥ २८ ॥

धर्महीना पुण्यहीना वर्णाश्चत्वार एव च ।
लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम् ॥२९॥

कुत्सिता विकृताकारा नरा नार्यश्च बालकाः ।
कुवार्ता कुत्सितः शब्दो भविष्यति ततः परम्॥३०॥

केचिद्‌ग्रामाश्च नगरा नरशून्या भयानकाः ।
केचित्स्वल्पकुटीरेण नरेण च समन्विताः ॥३१॥

अरण्यानि भविष्यन्ति ग्रामेषु नगरेषु च ।
अरण्यवासिनः सर्वे जनाश्च करपीडिताः ॥३२॥

सस्यानि च भविष्यन्ति तडागेषु नदीषु च ।
प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे ॥३३॥

अलीकवादिनो धूर्ताः शठाश्चासत्यवादिनः ।
प्रकृष्टानि च क्षेत्राणि सस्यहीनानि नारद ॥३४॥

हीनाः प्रकृष्टा धनिनो देवभक्ताश्च नास्तिकाः ।
हिंसकाश्च दयाहीना पौराश्च नरघातिनः ॥३५॥

वामना व्याधियुक्ताश्च नरा नार्यश्च सर्वतः ।
स्वल्पायुषो गदायुक्ता यौवनै रहिताः कलौ ॥३६॥

पलिताः षोडशे वर्षे महावृद्धाश्च विंशतौ ।
अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी ॥३७॥

वत्सरान्तप्रसूता स्त्री षोडशे च जरान्विता ।
पतिपुत्रवती काचित्सर्वा वन्ध्याः कलौ युगे ॥३८॥
___________________________
कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव च ।
मातृजायावधूनां च जारोपेतान्नभक्षकाः ॥३९॥

कन्यानां भगिनीनां वा जारोपात्तानजीविनः ।
हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे ॥४०॥

स्वयमुत्सृज्य दानं च कीर्तिवर्धनहेतवे ।
ततः पश्चात्स्वदानं च स्वयमुल्लङ्‌घयिष्यति ॥४१॥

देववृत्तिं ब्रह्मवत्तिं वृत्तिं गुरुकुलस्य च ।
स्वदत्तां परदत्तां वा सर्वमुल्लङ्‌घयिष्यति ॥४२॥

कन्यकागामिनः केचित्केचिच्च श्वश्रुगामिनः ।
केचिद्वधूगामिनश्च केचिद्वै सर्वगामिनः ॥ ४३ ॥

भगिनीगामिनः केचित्सपत्‍नीमातृगामिनः ।
भ्रातृजायागामिनश्च भविष्यन्ति कलौ युगे ॥ ४४ ॥

अगम्यागमनं चैव करिष्यन्ति गृहे गृहे ।
मातृयोनिं परित्यज्य विहरिष्यन्ति सर्वतः ॥ ४५ ॥

पत्‍नीनां निर्णयो नास्ति भर्तॄणां च कलौ युगे ।
प्रजानां चैव ग्रामाणां वस्तुनां च विशेषतः ॥ ४६ ॥

अलीकवादिनः सर्वे सर्वे चौराश्च लम्पटाः ।
परस्परं हिंसकाश्च सर्वे च नरघातिनः ॥ ४७ ॥

ब्रह्मक्षत्रविशां वंशा भविष्यन्ति च पापिनः ।
लाक्षा लोहरसानां च व्यापारं लवणस्य च ॥ ४८ ॥

वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः ।
शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः ॥ ४९ ॥

पञ्चयज्ञविहीनाश्च कुहूरात्रौ च भोजिनः ।
यज्ञसूत्रविहीनाश्च संध्याशौचविहीनकाः ॥ ५० ॥

पुंश्चली वार्धुषाजीवा कुट्टनी च रजस्वला ।
विप्राणां रन्धनागारे भविष्यति च पाचिका ॥५१॥

अन्नानां नियमो नास्ति योनीनां च विशेषतः ।
आश्रमाणां जनानां च सर्वे म्लेच्छाः कलौ युगे ॥ ५२ ॥
एवं कलौ सम्प्रवृत्ते सर्वं म्लेच्छमयं भवेत् ।
हस्तप्रमाणे वृक्षे च अङ्‌गुष्ठे चैव मानवे ॥ ५३ ॥

विप्रस्य विष्णुयशसः पुत्रः कल्किर्भविष्यति ।
नारायणकलांशश्च भगवान् बलिनां वरः ॥ ५४ ॥

दीर्घेण करवालेन दीर्घघोटकवाहनः ।
म्लेच्छशून्यां च पृथिवीं त्रिरात्रेण करिष्यति ॥ ५५ ॥
निर्म्लेच्छां वसुधां कृत्वा चान्तर्धानं करिष्यति ।
अराजका च वसुधा दस्युग्रस्ता भविष्यति ॥ ५६ ॥

स्थूलाप्रमाणा षड्‌रात्रं वर्षधाराऽऽप्लुता मही ।
लोकशून्या वृक्षशून्या गृहशून्या भविष्यति ॥ ५७ ॥

ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने ।
प्राप्नोति शुष्कतां पृथ्वी समा तेषां च तेजसा ॥ ५८ ॥
कलौ गते च दुर्धर्षे प्रवृत्ते च कृते युगे ।
तपःसत्त्वसमायुक्तो धर्मः पूर्णो भविष्यति ॥ ५९ ॥

तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि ।
पतिव्रताश्च धर्मिष्ठा योषितश्च गृहे गृहे ॥ ६० ॥

राजानः क्षत्रियाः सर्वे विप्रभक्ता मनस्विनः ।
प्रतापवन्तो धर्मिष्ठाः पुण्यकर्मरताः सदा ॥ ६१ ॥

वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः ।
शूद्राश्च पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः ॥ ६२ ॥

विप्रक्षत्रविशां वंशा देवीभक्तिपरायणाः ।
देवीमन्त्ररताः सर्वे देवीध्यानपरायणाः ॥ ६३ ॥

श्रुतिस्मृतिपुराणज्ञाः पुमांस ऋतुगामिनः ।
लेशो नास्ति ह्यधर्मस्य पूर्णो धर्मः कृते युगे ॥ ६४ ॥
धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे ततः ।
कलौ वृत्ते चैकपाच्च सर्वलुप्तिस्ततः परम् ॥ ६५ ॥

वाराः सप्त तथा विप्र तिथयः षोडश स्मृताः ।
तथा द्वादश मासाश्च ऋतवश्च षडेव च ॥ ६६ ॥

द्वौ पक्षौ चायने द्वे च चतुर्भिः प्रहरैर्दिनम् ।
चतुर्भिः प्रहरै रात्रिर्मासस्त्रिंशद्दिनैस्तथा ॥ ६७ ॥

वर्षं पञ्चविधं ज्ञेयं कालसंख्याविधिक्रमे ।
यथा चायान्ति यान्त्येव यथा युगचतुष्टयम् ॥ ६८ ॥

वर्षे पूर्णे नराणां च देवानां च दिवानिशम् ।
शतत्रये षष्ठ्यधिके नराणां च युगे गते ॥ ६९ ॥

देवानां च युगं ज्ञेयं कालसंख्याविदां मतम् ।
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ ७० ॥

मन्वन्तरसमं ज्ञेयमायुष्यञ्च शचीपतेः ।
अष्टाविंशतिमे चेन्द्रे गते ब्रह्मदिवानिशम् ॥ ७१ ॥

अष्टोत्तरशते वर्षे गते पातश्च ब्रह्मणः ।
प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुन्धरा ॥ ७२ ॥

जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः ।
ऋषयो ज्ञानिनः सर्वे लीनाः सत्ये चिदात्मनि ॥ ७३ ॥
तत्रैव प्रकृतिर्लीना तत्र प्राकृतिको लयः ।
लये प्राकृतिके जाते पाते च ब्रह्मणो मुने ॥ ७४ ॥

निमेषमात्रं कालश्च श्रीदेव्याः प्रोच्यते मुने ।
एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि च ॥ ७५ ॥
निमेषान्तरकालेन पुनः सृष्टिक्रमेण च ।
एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा ॥७६ ॥

कति कल्पा गतायाताः संख्यां जानाति कः पुमान् 
सृष्टीनां च लयानां च ब्रह्माण्डानां च नारद ॥ ७७ ॥

ब्रह्मादीनां च ब्रह्माण्डे संख्यां जानाति कः पुमान् ।
ब्रह्माण्डानां च सर्वेषामीश्वरश्चैक एव सः ॥ ७८ ॥

सर्वेषां परमात्मा च सच्चिदानन्दरूपधृक् ।
ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट् ॥७९ ॥

तस्यांशश्च विराट् क्षुद्रः सैवेयं प्रकृतिः परा ।
तस्याः सकाशात्सञ्जातोऽप्यर्धनारीश्वरस्ततः॥८०॥

सैव कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः ।
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥८१।

ब्रह्मादितृणपर्यन्तं सर्वं प्राकृतिकं भवेत् ।
यद्यत्प्राकृतिकं सृष्टं सर्वं नश्वरमेव च ॥ ८२ ॥

एवंविधं सृष्टिहेतुं सत्यं नित्यं सनातनम् ।
स्वेच्छामयं परं ब्रह्म निर्गुणं प्रकृतेः परम् ॥ ८३ ॥

निरुपाधि निराकारं भक्तानुग्रहकातरम् ।
करोति ब्रह्मा ब्रह्माण्डं यज्ज्ञानात्कमलोद्‍भवः ॥८४॥

शिवो मृत्युज्जयश्चैव संहर्ता सर्वसत्त्ववित् ।
यज्ज्ञानाद्यस्य तपसा सर्वेशस्तु तपो महान्॥ ८५ ॥

महाविभूतियुक्तश्च सर्वज्ञः सर्वदर्शनः ।
सर्वव्यापी सर्वपाता प्रदाता सर्वसम्पदाम् ॥ ८६ ॥

विष्णुः सर्वेश्वरः श्रीमान् यद्‍भक्त्या यस्य सेवया ।
महामाया च प्रकृतिः सर्वशक्तिमयीश्वरी ॥ ८७॥

सैव प्रोक्ता भगवती सच्चिदानन्दरूपिणी ।
यज्ज्ञानाद्यस्य तपसा यद्‍भक्त्या यस्य सेवया ॥८८॥

सावित्री देवमाता च वेदाधिष्ठातृदेवता ।
पूज्या द्विजानां वेदज्ञा यज्ज्ञानाद्यस्य सेवया ॥८९॥

सर्वविद्याधिदेवी सा पूज्या च विदुषां परा ।
यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता ॥ ९० ॥

सर्वग्रामाधिदेवी सा सर्वसम्पत्प्रदायिनी ।
सर्वेश्वरी सर्ववन्द्या सर्वेषां पुत्रदायिनी ॥ ९१ ॥

सर्वस्तुता च सर्वज्ञा सर्वदुर्गार्तिनाशिनी ।
कृष्णवामांशसम्भूता कृष्णप्राणाधिदेवता ॥ ९२ ॥

कृष्णप्राणाधिका प्रेम्णा राधिका शक्तिसेवया ।
सर्वाधिकं च रूपं च सौभाग्यं मानगौरवे ॥ ९३ ॥

कृष्णवक्षःस्थलस्थानं पत्‍नीत्वे प्राप सेवया ।
तपश्चकार सा पूर्वं शतशृङ्‌गे च पर्वते ॥ ९४ ॥

दिव्यवर्षसहस्रं च पतिं प्राप्त्यर्थमेव च ।
जाते शक्तिप्रसादे तु दृष्ट्वा चन्द्रकलोपमाम् ॥९५॥

कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः ।
वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम् ॥ ९६ ॥

मम वक्षःस्थले तिष्ठ मम भक्ता च शाश्वती ।
सौभाग्येन च मानेन प्रेम्णाथो गौरवेण च ॥ ९७ ॥

त्वं मे श्रेष्ठा च ज्येष्ठा च प्रेयसी सर्वयोषिताम् ।
वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया ॥ ९८ ॥

सततं तव साध्योऽहं वश्यश्च प्राणवल्लभे ।
इत्युक्त्वा च जगन्नाथश्चकार ललनां ततः ॥ ९९ ॥

सपत्‍नीरहितां तां च चकार प्राणवल्लभाम् ।
अन्या या याश्च ता देव्यः पूजिताः शक्तिसेवया॥ १००॥

तपस्तु यादृशं यासां तादृक्तादृक्फलं मुने ।
दिव्यवर्षसहस्रं च तपस्तप्त्वा हिमाचले ॥ १०१ ॥

दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह ।
सरस्वती तपस्तप्त्वा पर्वते गन्धमादने ॥ १०२ ॥

लक्षवर्षं च दिव्यं च सर्ववन्द्या बभूव सा ।
लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे ॥१०३॥

सर्वसम्पत्प्रदात्री च जाता देवीनिषेवणात् ।
सावित्री मलये तप्त्वा पूज्या वन्द्या बभूव सा ॥ १०४ ॥

षष्टिवर्षसहस्रं च दिव्यं ध्यात्वा च तत्पदम् ।
शतमन्वन्तरं तप्तं शङ्‌करेण पुरा विभो ॥ १०५ ॥

शतमन्वन्तरं चेदं ब्रह्मा शक्तिं जजाप ह ।
शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह ॥१०६॥

दशमन्वन्तरं तप्त्वा श्रीकृष्णः परमं तपः ।
गोलोकं प्राप्तवान्दिव्यं मोदतेऽद्यापि यत्र हि ॥ १०७ ॥

दशमन्वन्तरं धर्मस्तप्त्वा वै भक्तिसंयुतः ।
सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूव सः ॥ १०८ ॥

एवं देव्याश्च तपसा सर्वे देवाश्च पूजिताः ।
मुनयो मनवो भूपा ब्राह्मणाश्चैव पूजिताः ॥ १०९ ॥

एवं ते कथितं सर्वं पुराणं सयथागमम् ।
गुरुवक्त्राद्यथा ज्ञातं किं भूयः श्रोतुमिच्छसि॥११०॥

वत्सरान्तप्रसूता स्त्री षोडशे च जरान्विता ।
पतिपुत्रवती काचित्सर्वा वन्ध्याः कलौ युगे ॥३८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे कलिमाहात्म्यवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥

प्रकृतिचरित्रवर्णनम्

देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ०१

प्रकृतिचरित्रवर्णनम्

श्रीनारायण उवाच
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।
सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ १ ॥
नारद उवाच
आविर्बभूव सा केन का वा सा ज्ञानिनांवर ।
किं वा तल्लक्षणं साधो बभूव पञ्चधा कथम् ॥ २ ॥
सर्वासां चरितं पूजाविधानं गुण ईप्सितः ।
अवतारः कुत्र कस्यास्तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
श्रीनारायण उवाच
प्रकृतेर्लक्षणं वत्स को वा वक्तुं क्षमो भवेत् ।
किञ्चित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः ॥ ४ ॥
प्रकृष्टवाचकः प्रश्न कृतिश्च सृष्टिवाचकः ।
सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता ॥ ५ ॥
गुणे सत्त्वे प्रकृष्टे च प्रशब्दो वर्तते श्रुतः ।
मध्यमे रजसि कृश्च तिशब्दस्तमसि स्मृतः ॥ ६ ॥
त्रिगुणात्मस्वरूपा या सा च शक्तिसमन्विता ।
प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते ॥ ७ ॥
प्रथमे वर्तते प्रश्न कृतिश्च सृष्टिवाचकः ।
सृष्टेरादौ च या देवी प्रकृतिः सा प्रकीर्तिता ॥ ८ ॥
योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः ।
पुमांश्च दक्षिणार्धाङ्‌गो वामार्धा प्रकृतिः स्मृता ॥ ९ ॥
सा च ब्रह्मस्वरूपा च नित्या सा च सनातनी ।
यथाऽऽत्मा च तथा शक्तिर्यथाग्नौ दाहिका स्थिता ॥ १० ॥
अत एव हि योगीन्द्रैः स्त्रीपुम्भेदो न मन्यते ।
सर्वं ब्रह्ममयं ब्रह्मञ्छश्वत्सदपि नारद ॥ ११ ॥
स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया ।
साऽऽविर्बभूव सहसा मूलप्रकृतिरीश्वरी ॥ १२ ॥
तदाज्ञया पञ्चविधा सृष्टिकर्मविभेदिका ।
अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा ॥ १३ ॥
गणेशमाता दुर्गा या शिवरूपा शिवप्रिया ।
नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी ॥ १४ ॥
ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता स्तुता ।
सर्वाधिष्ठातृदेवी सा शर्वरूपा सनातनी ॥ १५ ॥
धर्मसत्यपुण्यकीर्तिर्यशोमङ्‌गलदायिनी ।
सुखमोक्षहर्षदात्री शोकार्तिदुःखनाशिनी ॥ १६ ॥
शरणागतदीनार्तपरित्राणपरायणा ।
तेजःस्वरूपा परमा तदधिष्ठातृदेवता ॥ १७ ॥
सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम् ।
सिद्धेश्वरी सिद्धिरूपा सिद्धिदा सिद्धिरीश्वरी ॥ १८ ॥
बुद्धिर्निद्रा क्षुत्पिपासा छाया तन्द्रा दया स्मृतिः ।
जातिः क्षान्तिश्च भ्रान्तिश्च शान्तिः कान्तिश्च चेतना ॥ १९ ॥
तुष्टिः पुष्टिस्तथा लक्ष्मीर्धृतिर्माया तथैव च ।
सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः ॥ २० ॥
उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् ।
गुणोऽस्त्यनन्तोऽनन्ताया अपरां च निशामय ॥ २१ ॥
शुद्धसत्त्वस्वरूपा या पद्मा सा परमात्मनः ।
सर्वसम्पत्स्वरूपा सा तदधिष्ठातृदेवता ॥ २२ ॥
कान्तातिदान्ता शान्ता च सुशीला सर्वमङ्‌गला ।
लोभमोहकामरोषमदाहङ्‌कारवर्जिता ॥ २३ ॥
भक्तानुरक्ता पत्युश्च सर्वाभ्यश्च पतिव्रता ।
प्राणतुल्या भगवतः प्रेमपात्रं प्रियंवदा ॥ २४ ॥
सर्वसस्यात्मिका देवी जीवनोपायरूपिणी ।
महालक्ष्मीश्च वैकुण्ठे पतिसेवारता सती ॥ २५ ॥
स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।
गृहेषु गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा ॥ २६ ॥
सर्वप्राणिषु द्रव्येषु शोभारूपा मनोहरा ।
कीर्तिरूपा पुण्यवतां प्रभारूपा नृपेषु च ॥ २७ ॥
वाणिज्यरूपा वणिजां पापिनां कलहाङ्‌कुरा ।
दयारूपा च कथिता वेदोक्ता सर्वसम्मता ॥ २८ ॥
सर्वपूज्या सर्ववन्द्या चान्यां मत्तो निशामय ।
वाग्बुद्धिविद्याज्ञानाधिष्ठात्री च परमात्मनः ॥ २९ ॥
सर्वविद्यास्वरूपा या सा च देवी सरस्वती ।
सा बुद्धिः कविता मेधा प्रतिभा स्मृतिदा नृणाम् ॥ ३० ॥
नानाप्रकारसिद्धान्तभेदार्थकलना मता ।
व्याख्याबोधस्वरूपा च सर्वसन्देहभञ्जिनी ॥ ३१ ॥
विचारकारिणी ग्रन्थकारिणी शक्तिरूपिणी ।
स्वरसङ्‌गीतसन्धानतालकारणरूपिणी ॥ ३२ ॥
विषयज्ञानवाग्‍रूपा प्रतिविश्वोपजीविनी ।
व्याख्यावादकरी शान्ता वीणापुस्तकधारिणी ॥ ३३ ॥
शुद्धसत्त्वस्वरूपा च सुशीला श्रीहरिप्रिया ।
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा ॥ ३४ ॥
यजन्ती परमात्मानं श्रीकृष्णं रत्‍नमालया ।
तपःस्वरूपा तपसां फलदात्री तपस्विनाम् ॥ ३५ ॥
सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा ।
यया विना तु विप्रौघो मूको मृतसमः सदा ॥ ३६ ॥
देवी तृतीया गदिता श्रुत्युक्ता जगदम्बिका ।
यथागमं यथाकिञ्चिदपरां त्वं निबोध मे ॥ ३७ ॥
माता चतुर्णां वर्णानां वेदाङ्‌गानां च छन्दसाम् ।
सन्ध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा ॥ ३८ ॥
द्विजातिजातिरूपा च जपरूपा तपस्विनी ।
ब्रह्मण्यतेजोरूपा च सर्वसंस्काररूपिणी ॥ ३९ ॥
पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया ।
तीर्थानि यस्याः संस्पर्शं वाञ्छन्ति ह्यात्मशुद्धये ॥ ४० ॥
शुद्धस्फटिकसंकाशा शुद्धसत्त्वस्वरूपिणी ।
परमानन्दरूपा च परमा च सनातनी ॥ ४१ ॥
परब्रह्मस्वरूपा च निर्वाणपददायिनी ।
ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता ॥ ४२ ॥
यत्पादरजसा पूतं जगत्सर्वं च नारद ।
देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते ॥ ४३ ॥
पञ्चप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी ।
प्राणाधिकप्रियतमा सर्वाभ्यः सुन्दरी परा ॥ ४४ ॥
सर्वयुक्ता च सौभाग्यमानिनी गौरवान्विता ।
वामाङ्‌गार्धस्वरूपा च गुणेन तेजसा समा ॥ ४५ ॥
परावरा सारभूता परमाद्या सनातनी ।
परमानन्दरूपा च धन्या मान्या च पूजिता ॥ ४६ ॥
रासक्रीडाधिदेवी श्रीकृष्णस्य परमात्मनः ।
रासमण्डलसम्भूता रासमण्डलमण्डिता ॥ ४७ ॥
रासेश्वरी सुरसिका रासावासनिवासिनी ।
गोलोकवासिनी देवी गोपीवेषविधायिका ॥ ४८ ॥
परमाह्लादरूपा च सन्तोषहर्षरूपिणी ।
निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी ॥ ४९ ॥
निरीहा निरहङ्‌कारा भक्तानुग्रहविग्रहा ।
वेदानुसारिध्यानेन विज्ञाता मा विचक्षणैः ॥ ५० ॥
दृष्टिदृष्टा न सा चेशैः सुरेन्द्रैर्मुनिपुङ्‌गवैः ।
वह्निशुद्धांशुकधरा नानालङ्‌कारभूषिता ॥ ५१ ॥
कोटिचन्द्रप्रभा पुष्टसर्वश्रीयुक्तविग्रहा ।
श्रीकृष्णभक्तिदास्यैककरा च सर्वसम्पदाम् ॥ ५२ ॥
अवतारे च वाराहे वृषभानुसुता च या ।
यत्पादपद्मसंस्पर्शात्पवित्रा च वसुन्धरा ॥ ५३ ॥
ब्रह्मादिभिरदृष्टा या सर्वैर्दृष्टा च भारते ।
स्त्रीरत्‍नसारसम्भूता कृष्णवक्षःस्थले स्थिता ॥ ५४ ॥
यथाम्बरे नवघने लोला सौदामनी मुने ।
षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ॥ ५५ ॥
यत्पादपद्मनखरदृष्टये चात्मशुद्धये ।
न च दृष्टं च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा ॥ ५६ ॥
तेनैव तपसा दृष्टा भुवि वृन्दावने वने ।
कथिता पञ्चमी देवी सा राधा च प्रकीर्तिता ॥ ५७ ॥
अंशरूपाः कलारूपाः कलांशांशांशसम्भवाः ।
प्रकृतेः प्रतिविश्वेषु देव्यश्च सर्वयोषितः ॥ ५८ ॥
परिपूर्णतमाः पञ्च विद्यादेव्यः प्रकीर्तिताः ।
या याः प्रधानांशरूपा वर्णयामि निशामय ॥ ५९ ॥
प्रधानांशस्वरूपा सा गङ्‌गा भुवनपावनी ।
विष्णुविग्रहसम्भूता द्रवरूपा सनातनी ॥ ६० ॥
पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ।
सुखस्पर्शा स्नानपानैर्निर्वाणपददायिनी ॥ ६१ ॥
गोलोकस्थानप्रस्थानसुखसोपानरूपिणी ।
पवित्ररूपा तीर्थानां सरितां च परावरा ॥ ६२ ॥
शम्भुमौलिजटामेरुमुक्तापंक्तिस्वरूपिणी ।
तपःसम्पादिनी सद्यो भारतेषु तपस्विनाम् ॥ ६३ ॥
चन्द्रपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी ।
निर्मला निरहङ्‌कारा साध्वी नारायणप्रिया ॥ ६४ ॥
प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी ।
विष्णुभूषणरूपा च विष्णुपादस्थिता सती ॥ ६५ ॥
तपःसंकल्पपूजादिसङ्‌घसम्पादिनी मुने ।
सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा ॥ ६६ ॥
दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी ।
कलौ कलुषशुष्केध्मदहनायाग्निरूपिणी ॥ ६७ ॥
यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा ।
यत्स्पर्शदर्शने चैवेच्छन्ति तीर्थानि शुद्धये ॥ ६८ ॥
यया विना च विश्वेषु सर्वकर्म च निष्फलम् ।
मोक्षदा या मुमुक्षूणां कामिनी सर्वकामदा ॥ ६९ ॥
कल्पवृक्षस्वरूपा या भारते वृक्षरूपिणी ।
भारतीनां प्रीणनाय जाता या परदेवता ॥ ७० ॥
प्रधानांशस्वरूपा या मनसा कश्यपात्मजा ।
शङ्‌करप्रियशिष्या च महाज्ञानविशारदा ॥ ७१ ॥
नागेश्वरस्यानन्तस्य भगिनी नागपूजिता ।
नागेश्वरी नागमाता सुन्दरी नागवाहिनी ॥ ७२ ॥
नागेन्द्रगणसंयुक्ता नागभूषणभूषिता ।
नागेन्द्रवन्दिता सिद्धा योगिनी नगशायिनी ॥ ७३ ॥
विष्णुरूपा विष्णुभक्ता विष्णुपूजापरायणा ।
तपःस्वरूपा तपसां फलदात्री तपस्विनी ॥ ७४ ॥
दिव्यं त्रिलक्षवर्षं च तपस्तप्त्वा च या हरेः ।
तपस्विनीषु पूज्या च तपस्विषु च भारते ॥ ७५ ॥
सर्वमन्त्राधिदेवी च ज्वलन्ती ब्रह्मतेजसा ।
ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा ॥ ७६ ॥
जरत्कारुमुनेः पत्‍नी कृष्णांशस्य पतिव्रता ।
आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम् ॥ ७७ ॥
प्रधानांशस्वरूपा या देवसेना च नारद ।
मातृकासु पूज्यतमा सा षष्ठी च प्रकीर्तिता ॥ ७८ ॥
पुत्रपौत्रादिदात्री च धात्री त्रिजगतां सती ।
षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता ॥ ७९ ॥
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी ।
पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम् ॥ ८० ॥
पूजा च सूतिकागारे पुरा षष्ठदिने शिशोः ।
एकविंशतिमे चैव पूजा कल्याणहेतुकी ॥ ८१ ॥
मुनिभिर्नमिता चैषा नित्यकामाप्यतः परा ।
मातृका च दयारूपा शश्वद्‌रक्षणकारिणी ॥ ८२ ॥
जले स्थले चान्तरिक्षे शिशूनां सद्मगोचरे ।
प्रधानांशस्वरूपा च देवीमङ्‌गलचण्डिका ॥ ८३ ॥
प्रकृतेर्मुखसम्भूता सर्वमङ्‌गलदा सदा ।
सृष्टौ मङ्‌गलरूपा च संहारे कोपरूपिणी ॥ ८४ ॥
तेन मङ्‌गलचण्डी सा पण्डितैः परिकीर्तिता ।
प्रतिमङ्‌गलवारेषु प्रतिविश्वेषु पूजिता ॥ ८५ ॥
पुत्रपौत्रधनैश्वर्ययशोमङ्‌गलदायिनी ।
परितुष्टा सर्ववाञ्छाप्रदात्री सर्वयोषिताम् ॥ ८६ ॥
रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी ।
प्रधानांशस्वरूपा सा काली कमललोचना ॥ ८७ ॥
दुर्गाललाटसम्भूता रणे शुम्भनिशुम्भयोः ।
दुर्गार्धांशस्वरूपा सा गुणेन तेजसा समा ॥ ८८ ॥
कोटिसूर्यसमाजुष्टपुष्टजाज्वलविग्रहा ।
प्रधाना सर्वशक्तीनां बला बलवती परा ॥ ८९ ॥
सर्वसिद्धिप्रदा देवी परमा योगरूपिणी ।
कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः ॥ ९० ॥
कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी ।
संहर्तुं सर्वब्रह्माण्डं शक्ता निःश्वासमात्रतः ॥ ९१ ॥
रणं दैत्यैः समं तस्याः क्रीडया लोकशिक्षया ।
धर्मार्थकाममोक्षांश्च दातुं शक्ता च पूजिता ॥ ९२ ॥
ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः ।
प्रधानांशस्वरूपा सा प्रकृतेश्च वसुन्धरा ॥ ९३ ॥
आधाररूपा सर्वेषां सर्वसस्या प्रकीर्तिता ।
रत्‍नाकरा रत्‍नगर्भा सर्वरत्‍नाकराश्रया ॥ ९४ ॥
प्रजाभिश्च प्रजेशैश्च पूजिता वन्दिता सदा ।
सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी ॥ ९५ ॥
यया विना जगत्सर्वं निराधारं चराचरम् ।
प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर ॥ ९६ ॥
यस्य यस्य च या पत्‍नी तत्सर्वं वर्णयामि ते ।
स्वाहादेवी वह्निपत्‍नी प्रतिविश्वेषु पूजिता ॥ ९७ ॥
यया विना हविर्दानं न ग्रहीतुं सुराः क्षमाः ।
दक्षिणा यज्ञपत्‍नी च दीक्षा सर्वत्र पूजिता ॥ ९८ ॥
यया विना हि विश्वेषु सर्वकर्म हि निष्फलम् ।
स्वधा पितॄणां पत्‍नी च मुनिभिर्मनुभिर्नरैः ॥ ९९ ॥
पूजिता पितृदानं हि निष्कलं च यया विना ।
स्वस्तिदेवी वायुपत्‍नी प्रतिविश्वेषु पूजिता ॥ १०० ॥
आदानं च प्रदानं च निष्फलं च यया विना ।
पुष्टिर्गणपतेः पत्‍नी पूजिता जगतीतले ॥ १०१ ॥
यया विना परिक्षीणाः पुमांसो योषितोऽपि च ।
अनन्तपत्‍नी तुष्टिश्च पूजिता वन्दिता भवेत् ॥ १०२ ॥
यया विना न सन्तुष्टाः सर्वलोकाश्च सर्वतः ।
ईशानपत्‍नी सम्पत्तिः पूजिता च सुरैर्नरैः ॥ १०३ ॥
सर्वे लोका दरिद्राश्च विश्वेषु च यया विना ।
धृतिः कपिलपत्‍नी च सर्वैः सर्वत्र पूजिता ॥ १०४ ॥
सर्वे लोका अधैर्याश्च जगत्सु च यया विना ।
सत्यपत्‍नी सती मुक्तैः पूजिता च जगत्प्रिया ॥ १०५ ॥
यया विना भवेल्लोको बन्धुतारहितः सदा ।
मोहपत्‍नी दया साध्वी पूजिता च जगत्प्रिया ॥ १०६ ॥
सर्वे लोकाश्च सर्वत्र निष्फलाश्च यया विना ।
पुण्यपत्‍नी प्रतिष्ठा सा पूजिता पुण्यदा सदा ॥ १०७ ॥
यया विना जगत्सर्वं जीवन्मृतसमं मुने ।
सुकर्मपत्‍नी संसिद्धा कीर्तिर्धन्यैश्च पूजिता ॥ १०८ ॥
यया विना जगत्सर्वं यशोहीनं मृतं यथा ।
क्रिया तूद्योगपत्‍नी च पूजिता सर्वसम्मता ॥ १०९ ॥
यया विना जगत्सर्वं विधिहीनं च नारद ।
अधर्मपत्‍नी मिथ्या सा सर्वधूर्तैश्च पूजिता ॥ ११० ॥
यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम् ।
सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी ॥ १११ ॥
अर्धावयवरूपा च द्वापरे चैव संवृता ।
कलौ महाप्रगल्भा च सर्वत्र व्यापिका बलात् ॥ ११२ ॥
कपटेन समं भ्रात्रा भ्रमते च गृहे गृहे ।
शान्तिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते ॥ ११३ ॥
याभ्यां विना जगत्सर्वमुन्मत्तमिव नारद ।
ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधाधृतिस्तथा ॥ ११४ ॥
याभिर्विना जगत्सर्वं मूढं मत्तसमं सदा ।
मूर्तिश्च धर्मपत्‍नी सा कान्तिरूपा मनोहरा ॥ ११५ ॥
परमात्मा च विश्वौघो निराधारो यया विना ।
सर्वत्र शोभारूपा च लक्ष्मीर्मूर्तिमती सती ॥ ११६ ॥
श्रीरूपा मूर्तिरूपा च मान्या धन्यातिपूजिता ।
कालाग्नी रुद्रपत्‍नी च निद्रा सा सिद्धयोगिनी ॥ ११७ ॥
सर्वे लोकाः समाच्छन्ना यया योगेन रात्रिषु ।
कालस्य तिस्रो भार्याश्च संध्या रात्रिर्दिनानि च ॥ ११८ ॥
याभिर्विना विधाता च संख्यां कर्तुं न शक्यते ।
क्षुत्पिपासे लोभभार्ये धन्ये मान्ये च पूजिते ॥ ११९ ॥
याभ्यां व्याप्तं जगत्सर्वं नित्यं चिन्तातुरं भवेत् ।
प्रभा च दाहिका चैव द्वे भार्ये तेजसस्तथा ॥ १२० ॥
याभ्यां विना जगत्स्रष्टा विधातुं च न हीश्वरः ।
कालकन्ये मृत्युजरे प्रज्वारस्य प्रियाप्रिये ॥ १२१ ॥
याभ्यां जगत्समुच्छिन्नं विधात्रा निर्मितं विधौ ।
निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये ॥ १२२ ॥
याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ ।
वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते ॥ १२३ ॥
याभ्यां शश्वज्जगत्सर्वं यज्जीवन्मुक्तिमन्मुने ।
अदितिर्देवमाता च सुरभी च गवां प्रसूः ॥ १२४ ॥
दितिश्च दैत्यजननी कद्रूश्च विनता दनुः ।
उपयुक्ताः सृष्टिविधावेतास्तु कीर्तिताः कलाः ॥ १२५ ॥
कला अन्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे ।
रोहिणी चन्द्रपत्‍नी च संज्ञा सूर्यस्य कामिनी ॥ १२६ ॥
शतरूपा मनोर्भार्या शचीन्द्रस्य च गेहिनी ।
तारा बृहस्पतेर्भार्या वसिष्ठस्याप्यरुन्धती ॥ १२७ ॥
अहल्या गौतमस्त्री साप्यनसूयात्रिकामिनी ।
देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी ॥ १२८ ॥
पितॄणां मानसी कन्या मेनका साम्बिकाप्रसूः ।
लोपामुद्रा तथा कुन्ती कुबेरकामिनी तथा ॥ १२९ ॥
वरुणानी प्रसिद्धा च बलेर्विन्ध्यावलिस्तथा ।
कान्ता च दमयन्ती च यशोदा देवकी तथा ॥ १३० ॥
गान्धारी द्रौपदी शैव्या सा च सत्यवती प्रिया ।
वृषभानुप्रिया साध्वी राधामाता कुलोद्वहा ॥ १३१ ॥
मन्दोदरी च कौसल्या सुभद्रा कौरवी तथा ।
रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा ॥ १३२ ॥
जाम्बवती नाग्नजितिर्मित्रविन्दा तथापरा ।
लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता ॥ १३३ ॥
काली योजनगन्धा च व्यासमाता महासती ।
बाणपुत्री तथोषा च चित्रलेखा च तत्सखी ॥ १३४ ॥
प्रभावती भानुमती तथा मायावती सती ।
रेणुका च भृगोर्माता राममाता च रोहिणी ॥ १३५ ॥
एकनन्दा च दुर्गा सा श्रीकृष्णभगिनी सती ।
बह्व्यः सत्यः कलाश्चैव प्रकृतेरेव भारते ॥ १३६ ॥
या याश्च ग्रामदेव्यः स्युस्ताः सर्वाः प्रकृतेः कलाः ।
कलांशांशसमुद्‌भूताः प्रतिविश्वेषु योषितः ॥ १३७ ॥
योषितामवमानेन प्रकृतेश्च पराभवः ।
ब्राह्मणी पूजिता येन पतिपुत्रवती सती ॥ १३८ ॥
प्रकृतिः पूजिता तेन वस्त्रालङ्‌कारचन्दनैः ।
कुमारी चाष्टवर्षीया वस्त्रालङ्‌कारचन्दनैः ॥ १३९ ॥
पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता ।
सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः ॥ १४० ॥
सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः ।
मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्तिताः ॥ १४१ ॥
सुखसम्भोगवश्याश्च स्वकार्ये तत्पराः सदा ।
अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः ॥ १४२ ॥
दुर्मुखाः कुलहा धूर्ताः स्वतन्त्राः कलहप्रियाः ।
पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः ॥ १४३ ॥
प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्तिताः ।
एवं निगदितं सर्वं प्रकृते रूपवर्णनम् ॥ १४४ ॥
ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे च भारते ।
पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी ॥ १४५ ॥
ततः श्रीरामचन्द्रेण रावणस्य वधार्थिना ।
तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता ॥ १४६ ॥
जाताऽऽदौ दक्षकन्या या निहत्य दैत्यदानवान् ।
ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया ॥ १४७ ॥
जज्ञे हिमवतः पत्‍न्यां लेभे पशुपतिं पतिम् ।
गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्‍भवः ॥ १४८ ॥
बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद ।
लक्ष्मीर्मङ्‌गलभूपेन प्रथमं परिपूजिता ॥ १४९ ॥
त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः ।
सावित्री चाश्वपतिना प्रथमं परिपूजिता ॥ १५० ॥
तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्‌गवैः ।
आदौ सरस्वती देवी ब्रह्मणा परिपूजिता ॥ १५१ ॥
तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्‌गवैः ।
प्रथमं पूजिता राधा गोलोके रासमण्डले ॥ १५२ ॥
पौर्णमास्यां कार्तिकस्य कृष्णेन परमात्मना ।
गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः ॥ १५३ ॥
गवां गणैः सुरभ्या च तत्पश्चादाज्ञया हरेः ।
तदा ब्रह्मादिभिर्देवैर्मुनिभिः परया मुदा ॥ १५४ ॥
पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा ।
पृथिव्यां प्रथमं देवी सुयज्ञेनैव पूजिता ॥ १५५ ॥
शङ्‌करेणोपदिष्टेन पुण्यक्षेत्रे च भारते ।
त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः ॥ १५६ ॥
पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सदा ।
कला या याः समुद्‌भूता पूजितास्ताश्च भारते ॥ १५७ ॥
पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने ।
एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम् ॥ १५८ ॥
यथागमं लक्षणं च किं भूयः श्रोतुमिच्छसि ॥ १५९ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे प्रकृतिचरित्रवर्णनं नाम प्रथमोध्यायः ॥ १ ॥


देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ०२

पञ्चप्रकृतितद्‍भर्तृगणोत्पत्तिवर्णनम्

नारद उवाच
समासेन श्रुतं सर्वं देवीनां चरितं प्रभो ।
विबोधनाय बोधस्य व्यासेन वक्तुमर्हसि ॥ १ ॥
सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह ।
कथं वा पञ्चधा भूता वद वेदविदांवर ॥ २ ॥
भूता ययांशकलया तया त्रिगुणया भवे ।
व्यासेन तासां चरितं श्रोतुमिच्छामि साम्प्रतम् ॥ ३ ॥
तासां जन्मानुकथनं पूजाध्यानविधिं बुध ।
स्तोत्रं कवचमैश्वर्यं शौर्यं वर्णय मङ्‌गलम् ॥ ४ ॥
श्रीनारायण उवाच
नित्य आत्मा नभो नित्यं कालो नित्यो दिशो यथा ।
विश्वानां गोलकं नित्यं नित्यो गोलोक एव च ॥ ५ ॥
तदेकदेशो वैकुण्ठो नम्रभागानुसारकः ।
तथैव प्रकृतिर्नित्या ब्रह्मलीला सनातनी ॥ ६ ॥
यथाग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ ।
शश्वद्युक्ता न भिन्ना सा तथा प्रकृतिरात्मनि ॥ ७ ॥
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः ।
विना मृदा घटं कर्तुं कुलालो हि नहीश्वरः ॥ ८ ॥
न हि क्षमस्तथात्मा च सृष्टिं स्रष्टुं तया विना ।
सर्वशक्तिस्वरूपा सा यया च शक्तिमान्सदा ॥ ९ ॥
ऐश्वर्यवचनः शश्च क्तिः पराक्रम एव च ।
तत्स्वरूपा तयोर्दात्री सा शक्तिः परिकीर्तिता ॥ १० ॥
ज्ञानं समृद्धिः सम्पत्तिर्यशश्चैव बलं भगः ।
तेन शक्तिर्भगवती भगरूपा च सा सदा ॥ ११ ॥
तया युक्तः सदात्मा च भगवांस्तेन कथ्यते ।
स च स्वेच्छामयो देवः साकारश्च निराकृतिः ॥ १२ ॥
तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा ।
वदन्ति च परं ब्रह्म परमानन्दमीश्वरम् ॥ १३ ॥
अदृश्यं सर्वद्रष्टारं सर्वज्ञं सर्वकारणम् ।
सर्वदं सर्वरूपं तं वैष्णवास्तन्न मन्वते ॥ १४ ॥
वदन्ति चैव ते कस्य तेजस्तेजस्विना विना ।
तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम् ॥ १५ ॥
स्वेच्छामयं सर्वरूपं सर्वकारणकारणम् ।
अतीव सुन्दरं रूपं बिभ्रतं सुमनोहरम् ॥ १६ ॥
किशोरवयसं शान्तं सर्वकान्तं परात्परम् ।
नवीननीरदाभासधामैकं श्यामविग्रहम् ॥ १७ ॥
शरन्मध्याह्नपद्मौघशोभामोचनलोचनम् ।
मुक्ताच्छविविनिन्द्यैकदन्तपंक्तिमनोरमम् ॥ १८ ॥
मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् ।
सुनसं सस्मितं कान्तं भक्तानुग्रहकारणम् ॥ १९ ॥
ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् ।
द्विभुजं मुरलीहस्तं रत्‍नभूषणभूषितम् ॥ २० ॥
सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम् ।
सर्वैश्वर्यप्रदं सर्वस्वतन्त्रं सर्वमङ्‌गलम् ॥ २१ ॥
परिपूर्णतमं सिद्धं सिद्धेशं सिद्धिकारकम् ।
ध्यायन्ते वैष्णवाः शश्वद्देवदेवं सनातनम् ॥ २२ ॥
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ।
ब्रह्मणो वयसा यस्य निमेष उपचर्यते ॥ २३ ॥
स चात्मा स परं ब्रह्म कृष्ण इत्यभिधीयते ।
कृषिस्तद्‍भक्तिवचनो नश्च तद्दास्यवाचकः ॥ २४ ॥
भक्तिदास्यप्रदाता यः स च कृष्णः प्रकीर्तितः ।
कृषिश्च सर्ववचनो नकारो बीजमेव च ॥ २५ ॥
स कृष्णः सर्वस्रष्टाऽऽदौ सिसृक्षन्नेक एव च ।
सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥ २६ ॥
स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह ।
स्त्रीरूपो वामभागांशो दक्षिणांशः पुमान्स्मृतः ॥ २७ ॥
तां ददर्श महाकामी कामाधारां सनातनः ।
अतीव कमनीया च चारुपङ्‌कजसन्निभाम् ॥ २८ ॥
चन्द्रबिम्बविनिन्द्यैकनितम्बयुगलां पराम् ।
सुचारुकदलीस्तम्भनिन्दितश्रोणिसुन्दरीम् ॥ २९ ॥
श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम् ।
पुष्पजुष्टां सुवलितां मध्यक्षीणां मनोहराम् ॥ ३० ॥
अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम् ।
वह्निशुद्धांशुकाधारां रत्‍नभूषणभूषिताम् ॥ ३१ ॥
शश्वच्चक्षुश्चकोराभ्यां पिबन्तीं सततं मुदा ।
कृष्णस्य मुखचन्द्रं च चन्द्रकोटिविनिन्दितम् ॥ ३२ ॥
कस्तूरीबिन्दुना सार्धमधश्चन्दनबिन्दुना ।
समं सिन्दूरबिन्दुं च भालमध्ये च बिभ्रतीम् ॥ ३३ ॥
वक्रिमं कबरीभारं मालतीमाल्यभूषितम् ।
रत्‍नेन्द्रसारहारं च दधतीं कान्तकामुकीम् ॥ ३४ ॥
कोटिचन्द्रप्रभामृष्टपुष्टशोभासमन्विताम् ।
गमनेन राजहंसगजगर्वविनाशिनीम् ॥ ३५ ॥
दृष्ट्वा तां तु तया सार्धं रासेशो रासमण्डले ।
रासोल्लासे सुरसिको रासक्रीडाञ्चकार ह ॥ ३६ ॥
नानाप्रकारशृङ्‌गारं शृङ्‌गारो मूर्तिमानिव ।
चकार सुखसम्भोगं यावद्वै ब्रह्मणो दिनम् ॥ ३७ ॥
ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता ।
चकार वीर्याधानं च नित्यानन्दे शुभक्षणे ॥ ३८ ॥
गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत ।
निःससार श्रमजलं श्रान्तायास्तेजसा हरेः ॥ ३९ ॥
महाक्रमणक्लिष्टाया निःश्वासश्च बभूव ह ।
तदा वव्रे श्रमजलं तत्सर्वं विश्वगोलकम् ॥ ४० ॥
स च निःश्वासवायुश्च सर्वाधारो बभूव ह ।
निःश्वासवायुः सर्वेषां जीविनां च भवेषु च ॥ ४१ ॥
बभूव मूर्तिमद्वायोर्वामाङ्‌गात्प्राणवल्लभा ।
तत्पत्‍नी सा च तत्पुत्राः प्राणाः पञ्च च जीविनाम् ॥ ४२ ॥
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।
बभूवुरेव तत्पुत्रा अधः प्राणाश्च पञ्च च ॥ ४३ ॥
घर्मतोयाधिदेवश्च बभूव वरुणो महान् ।
तद्वामाङ्‌गाच्च तत्पत्‍नी वरुणानी बभूव सा ॥ ४४ ॥
अथ सा कृष्णचिच्छक्तिः कृष्णगर्भं दधार ह ।
शतमन्वन्तरं यावज्ज्वलन्ती ब्रह्मतेजसा ॥ ४५ ॥
कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया ।
कृष्णस्य सङ्‌गिनी शश्वत्कृष्णवक्षःस्थलस्थिता ॥ ४६ ॥
शतमन्वन्तरान्ते च कालेऽतीते तु सुन्दरी ।
सुषाव डिम्भं स्वर्णाभं विश्वाधारालयं परम् ॥ ४७ ॥
दृष्ट्वा डिम्भं च सा देवी हृदयेन व्यदूयत ।
उत्ससर्ज च कोपेन ब्रह्माण्डगोलके जले ॥ ४८ ॥
दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार ह ।
शशाप देवीं देवेशस्तत्क्षणं च यथोचितम् ॥ ४९ ॥
यतोऽपत्यं त्वया त्यक्तं कोपशीले च निष्ठुरे ।
भव त्वमनपत्यापि चाद्यप्रभृति निश्चितम् ॥ ५० ॥
या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः ।
अनपत्याश्च ताः सर्वास्त्वत्समा नित्ययौवनाः ॥ ५१ ॥
एतस्मिन्नन्तरे देवी जिह्वाग्रात्सहसा ततः ।
आविर्बभूव कन्यैका शुक्लवर्णा मनोहरा ॥ ५२ ॥
श्वेतवस्त्रपरीधाना वीणापुस्तकधारिणी ।
रत्‍नभूषणभूषाढ्या सर्वशास्त्राधिदेवता ॥ ५३ ॥
अथ कालान्तरे सा च द्विधारूपो बभूव ह ।
वामार्धाङ्‌गाच्च कमला दक्षिणार्धाच्च राधिका ॥ ५४ ॥
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।
दक्षिणार्धश्च द्विभुजो वामार्धश्च चतुर्भुजः ॥ ५५ ॥
उवाच वाणीं कृष्णस्तां त्वमस्य कामिनी भव ।
अत्रैव मानिनी राधा तव भद्रं भविष्यति ॥ ५६ ॥
एवं लक्ष्मीं च प्रददौ तुष्टो नारायणाय च ।
स जगाम च वैकुण्ठं ताभ्यां सार्धं जगत्पतिः ॥ ५७ ॥
अनपत्ये च ते द्वे च जाते राधांशसम्भवे ।
भूता नारायणाङ्‌गाच्च पार्षदाश्च चतुर्भुजाः ॥ ५८ ॥
तेजसा वयसा रूपगुणाभ्यां च समा हरेः ।
बभूवुः कमलाङ्‌गाच्च दासीकोट्यश्च तत्समाः ॥ ५९ ॥
अथ गोलोकनाथस्य लोम्नां विवरतो मुने ।
भूताश्चासंख्यगोपाश्च वयसा तेजसा समाः ॥ ६० ॥
रूपेण च गुणेनैव बलेन विक्रमेण च ।
प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः ॥ ६१ ॥
राधाङ्‌गलोमकूपेभ्यो बभूवुर्गोपकन्यकाः ।
राधातुल्याश्च ताः सर्वा राधादास्यः प्रियंवदाः ॥ ६२ ॥
रत्‍नभूषणभूषाढ्याः शश्वत्सुस्थिरयौवनाः ।
अनपत्याश्च ताः सर्वाः पुंसः शापेन सन्ततम् ॥ ६३ ॥
एतस्मिन्नन्तरे विप्र सहसा कृष्णदेवता ।
आविर्बभूव दुर्गा सा विष्णुमाया सनातनी ॥ ६४ ॥
देवी नारायणीशाना सर्वशक्तिस्वरूपिणी ।
बुद्ध्यधिष्ठात्री देवी सा कृष्णस्य परमात्मनः ॥ ६५ ॥
देवीनां बीजरूपा च मूलप्रकृतिरीश्वरी ।
परिपूर्णतमा तेजःस्वरूपा त्रिगुणात्मिका ॥ ६६ ॥
तप्तकाञ्चनवर्णाभा कोटिसूर्यसमप्रभा ।
ईषद्धास्यप्रसन्नास्या सहस्रभुजसंयुता ॥ ६७ ॥
नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना ।
वह्निशुद्धांशुकाधाना रत्‍नभूषणभूषिता ॥ ६८ ॥
यस्याश्चांशांशकलया बभूवुः सर्वयोषितः ।
सर्वे विश्वस्थिता लोका मोहिताः स्युश्च मायया ॥ ६९ ॥
सर्वैश्वर्यप्रदात्री च कामिनां गृहवासिनाम् ।
कृष्णभक्तिप्रदा या च वैष्णवानां च वैष्णवी ॥ ७० ॥
मुमुक्षूणां मोक्षदात्री सुखिनां सुखदायिनी ।
स्वर्गेषु स्वर्गलक्ष्मीश्च गृहलक्ष्यीर्गृहेषु च ॥ ७१ ॥
तपस्विषु तपस्या च श्रीरूपा तु नृपेषु च ।
या वह्नौ दाहिकारूपा प्रभारूपा च भास्करे ॥ ७२ ॥
शोभारूपा च चन्द्रे च सा पद्मेषु च शोभना ।
सर्वशक्तिस्वरूपा या श्रीकृष्णे परमात्मनि ॥ ७३ ॥
यया च शक्तिमानात्मा यया च शक्तिमज्जगत् ।
यया विना जगत्सर्वं जीवन्मृतमिव स्थितम् ॥ ७४ ॥
या च संसारवृक्षस्य बीजरूपा सनातनी ।
स्थितिरूपा वृद्धिरूपा फलरूपा च नारद ॥ ७५ ॥
क्षुत्पिपासादयारूपा निद्रा तन्द्रा क्षमा मतिः ।
शान्तिलज्जातुष्टिपुष्टिभ्रान्तिकान्त्यादिरूपिणी ॥ ७६ ॥
सा च संस्तूय सर्वेशं तत्पुरः समुवास ह ।
रत्‍नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ॥ ७७ ॥
एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः ।
पद्मनाभेर्नाभिपद्मान्निःससार महामुने ॥ ७८ ॥
कमण्डलुधरः श्रीमांस्तपस्वी ज्ञानिनां वरः ।
चतुर्मुखैस्तं तुष्टाव प्रज्वलन्ब्रह्मतेजसा ॥ ७९ ॥
सा तदा सुन्दरी सृष्टा शतचन्द्रसमप्रभा ।
वह्निशुद्धांशुकाधाना रत्‍नभूषणभूषणा ॥ ८० ॥
रत्‍नसिंहासने रम्ये संस्तूय सर्वकारणम् ।
उवास स्वामिना सार्धं कृष्णस्य पुरतो मुदा ॥ ८१ ॥
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।
वामार्धाङ्‌गो महादेवो दक्षिणे गोपिकापतिः ॥ ८२ ॥
शुद्धस्फटिकसंकाशः शतकोटिरविप्रभः ।
त्रिशूलपट्टिशधरो व्याघ्रचर्माम्बरो हरः ॥ ८३ ॥
तप्तकाञ्चनवर्णाभो जटाभारधरः परः ।
भस्मभूषितगात्रश्च सस्मितश्चन्द्रशेखरः ॥ ८४ ॥
दिगम्बरो नीलकण्ठः सर्पभूषणभूषितः ।
बिभ्रद्दक्षिणहस्तेन रत्‍नमालां सुसंस्कृताम् ॥ ८५ ॥
प्रजपन्पञ्चवक्त्रेण ब्रह्मज्योतिः सनातनम् ।
सत्यस्वरूपं श्रीकृष्णं परमात्मानमीश्वरम् ॥ ८६ ॥
कारणं कारणानां च सर्वमङ्‌गलमङ्‌गलम् ।
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ॥ ८७ ॥
संस्तूय मृत्योर्मृत्युं तं यतो मृत्युञ्जयाभिधः ।
रत्‍नसिंहासने रम्ये समुवास हरेः पुरः ॥ ८८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे पञ्चप्रकृतितद्‍भर्तृगणोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥

भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम्



देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः १२


भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम्
श्रीनारायण उवाच
जम्बुद्वीपो यथा चायं यत्प्रमाणेन कीर्तितः ।
तावता सर्वतः क्षारोदधिना परिवेष्टितः ॥ १ ॥
जम्बाख्येन यथा मेरुस्तथा क्षारोदकेन च ।
क्षारोदधिस्तु द्विगुणः प्लक्षाख्येनोपवेष्टितः ॥ २ ॥
यथैव परिखा बाह्योपवनेन हि वेष्ट्यते ।
प्लक्षाख्यश्च स्वयं जम्बुप्रमाणो द्वीपरूपधृक् ॥ ३ ॥
हिरण्मयोऽग्निस्तत्रैव तिष्ठतीति विनिश्चयः ।
प्रियवतात्मजस्तत्र सप्तजिह्व इति स्मृतः ॥ ४ ॥
अग्निस्तदधिपस्त्विध्मजिह्वः स्वं द्वीपमेव च ।
विभज्य सप्तवर्षाणि स्वपुत्रेभ्यो ददौ विभुः ॥ ५ ॥
स्वयमात्मविदां मान्यां योगचर्यां समाश्रितः ।
तेनैव चात्मयोगेन भगवन्तमुपागतः ॥ ६ ॥
शिवं च यवसं भद्रं शान्तं क्षेमामृते तथा ।
अभयं चेति सप्तैव तद्वर्षाणि सदेक्षताम् ॥ ७ ॥
तेषु प्रोक्ता नदीः सप्त गिरयः सप्त चैव हि ।
अरुणा नृम्णाङ्‌गिरसी सावित्री सुप्रभातिका ॥ ८ ॥
ऋतम्भरा सत्यम्भरा इति नद्यः प्रकीर्तिताः ।
मणिकूटो वज्रकूट इन्द्रसेनस्तथैव च ॥ ९ ॥
ज्योतिष्मान्वै सुपर्णश्च हिरण्यष्ठीव एव च ।
मेघमाल इति ख्याताः प्लक्षद्वीपस्य पर्वताः ॥ १० ॥
नदीनां जलमात्रेण दर्शनस्पर्शनादिभिः ।
निर्धूताशेषरजसो निस्तमस्काः प्रजास्तथा ॥ ११ ॥
हंसश्चैव पतङ्गश्च ऊर्ध्वायन इतीव च ।
सत्याङ्गसंज्ञाश्चत्वारो वर्णाः प्लक्षस्य द्वीपके ॥ १२ ॥
सहस्रायुप्रमाणाश्च विविधोपमदर्शनाः ।
स्वर्गद्वारं त्रयीविद्याविधिनार्कं यजन्ति ते ॥ १३ ॥
प्रत्‍नस्य विष्णो रूपं च सत्यर्तस्य च ब्रह्मणः ।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहि ॥ १४ ॥
प्लक्षादिषु च सर्वेषु पज्जद्वीपेषु नारद ।
आयुरिन्द्रियमोजश्च बलं बुद्धिः सहोऽपि च ॥ १५ ॥
विक्रमः सर्वलोकानां सिद्धिरौत्पत्तिकी सदा ।
प्लक्षद्वीपात्परं चेक्षुरसोदः सरिताम्पतिः ॥ १६ ॥
प्लक्षद्वीपं समग्रं च परिवार्यावतिष्ठते ।
शाल्मलाख्यस्ततो द्वीपश्चास्माद् द्विगुणविस्तरः ॥ १७ ॥
समानेन सुरोदेन सिन्धुना परिवेष्टितः ।
यत्र वै शाल्मलीवृक्षः प्लक्षायामः प्रकीर्तितः ॥ १८ ॥
स्थानं तत्पक्षिराजस्य गरुडस्य महात्मनः ।
तस्य द्वीपस्य नाथो हि यज्ञबाहुः प्रियव्रतात् ॥ १९ ॥
जातः स एव सप्तभ्यः स्वपुत्रेभ्यो ददौ धराम् ।
तद्वर्षाणां च नामानि कथितानि निबोधत ॥ २० ॥
सुरोचनं सौमनस्यं रमणं देववर्षकम् ।
पारिभद्रे तथा चाप्यायनं विज्ञातनामकम् ॥ २१ ॥
तेषु वर्षाद्रयः सप्त सप्तैव सरितः स्मृताः ।
सरसः शतशृङ्गश्च वामदेवश्च कन्दकः ॥ २२ ॥
कुमुदः पुष्पवर्षश्च सहस्रश्रुतिरेव च ।
एते च पर्वताः सप्त नदीनामानि चोच्यते ॥ २३ ॥
अनुमतिः सिनीवाली सरस्वती कुहूस्तथा ।
रजनी चैव नन्दा च राकेति परिकीर्तिताः ॥ २४ ॥
तद्वर्षपुरुषाः सर्वे चातुर्वर्ण्यसमाह्वयाः ।
श्रुतधरो वीर्यधरो वसुन्धर इषुन्धरः ॥ २५ ॥
भगवन्तं वेदमयं यजन्ते सोममीश्वरम् ।
स्वगोभिः पितृदेवेभ्यो विभजत्कृष्णशुक्लयोः ॥ २६ ॥
सर्वासां च प्रजानां च राजा सोमः प्रसीदतु ।
एवं सुरोदाद् द्विगुणः स्वमानेन प्रकीर्तितः ॥ २७ ॥
घृतोदेनावृतः सोऽयं कुशद्वीपः प्रकाशते ।
यस्मिन्नास्ते कुशस्तम्बो द्वीपाख्याकारणो ज्वलन् ॥ २८ ॥
स्वशष्परोचिषा काष्ठा भासयन्परितिष्ठते ।
हिरण्यरेतास्तद्द्वीपपतिः प्रैयव्रत स्वराट् ॥ २९ ॥
स्वपुत्रेभ्यश्च सप्तभ्यस्तद्‌द्वीपं सन्तधाभजत् ।
वसुश्च वसुदानश्च तथा दृढरुचिः परः ॥ ३० ॥
नाभिगुप्तस्तुत्यव्रतौ विविक्तनामदेवकौ ।
तेषां वर्षेषु सप्तैव सीमागिरिवराः स्मृताः ॥ ३१ ॥
नद्यः सप्तैव सन्तीह तन्नामानि निबोधत ।
चक्रस्तथा चतुःशृङ्गः कपिलश्चित्रकूटकः ॥ ३२ ॥
देवानीकश्चोर्ध्वरोमा द्रविण सप्त पर्वताः ।
रसकुल्या मधुकुल्या मित्रविन्दा तथैव च ॥ ३३ ॥
श्रुतविन्दा देवगर्भा घृतच्युन्मन्दमालिके ।
यत्पयोभिः कुशद्वीपवासिनः सर्व एव ते ॥ ३४ ॥
कुशलः कोविदश्चैवाप्यभियुक्तस्तथैव च ।
कुलकश्चेति संज्ञाभिश्चतुर्वर्णाः प्रकीर्तिताः ॥ ३५ ॥
जातवेदसरूपं तं देवं कर्मजकौशलैः ।
यजन्ते देववर्याभाः सर्वे सर्वविदो जनाः ॥ ३६ ॥
परस्यब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् ।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यज ।
एवं यजन्ते ज्वलनं सर्वे द्वीपाधिवासिनः ॥ ३७ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥