शनिवार, 21 जनवरी 2023

नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत् ।नाकारणाद् वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ।१६.७०

कूर्मपुराणम्-उत्तरभागः -षोडशो‍ऽध्यायः

व्यास उवाच ।
न हिंस्यात् सर्वभूतानिनानृतं वा वदेत् क्वचित् ।नाहितं नाप्रियं वाक्यं न स्तेनः स्याद् कदाचन ।। १६.१

तृणं वा यदि वा शाकं मृदं वा जलमेव वा ।
परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ।। १६.२

न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि ।
न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद् बुधः ।। १६.३

नित्यं याचनको न स्यात् पुनस्तं नैव याचयेत् ।
प्राणानपहरत्येष याचकस्तस्य दुर्मतिः ।। १६.४

न देवद्रव्यहारी स्याद् विशेषेण द्विजोत्तमः ।
ब्रह्मस्वं वा नापहरेदापद्यपि कदाचन ।। १६.५

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
देवस्वं चापि यत्नेन सदा परिहरेत् ततः ।। १६.६

पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे ।
अदत्तादानमस्तेयं मनुः प्राह प्रजापतिः ।। १६.७

ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः ।
नैकस्मादेव नियतमननुज्ञाय केवलम् ।। १६.८

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद् बुधः ।
धर्मार्थं केवलं ग्राह्यं ह्यन्यथा पतितो भवेत् ।। १६.९

तिलमुद्‌गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः ।
क्षुधार्तैर्नान्यथा विप्रा धर्मविद्भिरिति स्थितिः ।। १६.१०

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रलम्भनम् ।। १६.११

प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ।। १६.१२

अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।
स लिङ्गिनां हरेदेनस्तिर्यग्योनौ च जायते ।। १६.१३

बैडालव्रतिनः पापा लोके धर्मविनाशकाः ।
सद्यः पतन्ति पापेन कर्मणस्तस्य तत् फलम् ।। १६.१४

पाखण्डिनो विकर्मस्थान् वामाचारांस्तथैव च ।
पञ्चरात्रान् पाशुपतान् वाङ्‌मात्रेणापि नार्चयेत् ।। १६.१५

वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा ।
द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ।। १६.१६

याजनं योनिसंबन्धं सहवासं च भाषणम् ।
कुर्वाणः पतते जन्तुस्तस्माद् यत्नेन वर्जयेत् ।। १६.१७

देवद्रोहाद् गुरुद्रोहः कोटिकोटिगुणाधिकः ।
ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणाधिकम् ।। १६.१८

गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया ।
कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ।। १६.१९

कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ।। १६.२०

अनृतात् पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् ।
अश्रौतधर्माचरणात् क्षिप्रं नश्यति वै कुलम् ।। १६.२१

अश्रोत्रियेषु वै दानाद् वृषलेषु तथैव च ।
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ।। १६.२२

नाधार्मिकैर्वृते ग्रामे न व्याधिबहुले भृशम् ।
न शूद्रराज्ये निवसेन्न पाखण्डजनैर्वृते ।। १६.२३

हिमवद्‌विन्ध्ययोर्मध्ये पूर्वपश्चिमयोः शुभम् ।
मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद् द्विजः ।। १६.२४

कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।
पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद् द्विजः ।। १६.२५

अर्द्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः ।
नान्यत्र निवसेत् पुण्यां नान्त्यजग्रामसन्निधौ ।। १६.२६

न संवसेच्च पतितैर्न चण्डालैर्न पुक्कसैः ।
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ।। १६.२७

एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् ।
याजनाध्यापनं योनिस्तथैव सहभोजनम् ।। १६.२८

सहाध्यायस्तु दशमः सहयाजनमेव च ।
एकादश समुद्दिष्टा दोषाः साङ्कर्यसंज्ञिताः ।। १६.२९

समीपे वा व्यवस्थानात् पापं संक्रमते नृणाम् ।
तस्मात् सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत् ।। १६.३०

एकपङ्‌क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ।
भस्मना कृतमर्यादा न तेषां संकरो भवेत् ।। १६.३१

अग्निना भस्मना चैव सलिलेन विशेषतः ।
द्वारेण स्तम्भमार्गेण षड्‌भिः पङ्क्तिर्विभिद्यते ।। १६.३२

न कुर्याच्छुष्कवैराणि विवादं च न पैशुनम् ।
परक्षेत्रे गां चरन्तीं न चाचक्षति कस्यचित् ।१६.३३

न संवसेत् सूतकिना न कञ्चिन्मर्मणि स्पृशेत् ।
न सूर्यपरिवेषं वा नेन्द्रचापं शवाग्निकम् ।१६.३४

परस्मै कथयेद् विद्वान् शशिनं वा कदाचन ।
न कुर्याद् बहुभिः सार्द्धं विरोधं बन्धुभिस्तया ।१६.३५

आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि विनिर्दिशेत् ।१६.३६

नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ।
न देवगुरुविप्राणां दीयमानं तु वारयेत् ।१६.३७

न चात्मानं प्रशंसेद् वा परनिन्दां च वर्जयेत् ।
वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ।। १६.३८

यस्तु देवानृषीन् विप्रान्‌वेदान् वा निन्दति द्विजः ।
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ।। १६.३९

निन्दयेद् वै गुरुं देवं वेदं वा सोपबृंहणम् ।
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ।। १६.४०

तूष्णीमासीत निन्दायां न ब्रूयात् किंचिदुत्तरम् ।
कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत् ।। १६.४१

वर्जयेद् वै रहस्यञ्च परेषां गूहयेद् बुधः ।
विवादं स्वजनैः सार्द्धं न कुर्याद् वै कदाचन ।। १६.४२

न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः ।
स तेन तुल्यदोषः स्यान्मिथ्या द्दोषवान् भवेत् ।। १६.४३

यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् ।
तानिपुत्रान् पशून् घ्नन्ति तेषां मिथ्याभिशंसिनाम् ।। १६.४४

ब्रिह्महत्यासुरापाने स्तेयगुर्वङ्गनागमे ।
दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ।। १६.४५

नेक्षेतोद्यन्तमादित्यं शशिनं चानिमित्ततः ।
नास्तं यान्तं न वारिस्थं नोपसृष्टं न मघ्यगम् ।१६.४६

तिरोहितं वाससा वा नादर्शान्तरगामिनम् ।
न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ।१६.४७

न च मूत्रं पुरीषं वा न च संस्पृष्टमैथुनम् ।
नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद् बुधः ।। १६.४८

पतितव्यङ्गचण्डालानुच्छिष्टान् नावलोकयेत् ।
नाभिभाषेत च परमुच्छिष्टो वाऽवगुण्ठितः ।। १६.४९

न स्पृशेत् प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् ।
न तैलोदकयोश्छायां न पत्नीं भोजने सति ।
नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ।। १६.५०

नाश्नीयात् भार्यया सार्द्धंनैनामीक्षेत चाशुचिम् ।
क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम् ।। १६.५१

नोदके चात्मनो रूपं न कूलं श्वभ्रमेव वा ।
न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन ।। १६.५२

न शूद्राय मतिं दद्यात् कृशरं पायसं दधि ।
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ।। १६.५३

न चैवास्मै व्रतं दद्यान्न च धर्मं वदेद् बुधः ।
न च क्रोधवशं गच्छेद् द्वेषं रागं च वर्जयेत् ।। १६.५४

लोभं दम्भं तथा यत्नादसूयां विज्ञानकुत्सनम् ।
मानं मोहं तथा क्रोधं द्वेषञ्च परिवर्जयेत् ।। १६.५५

न कुर्यात् कस्यचित् पीडां सुतं शिष्यं च ताडयेत् ।
न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित् ।। १६.५६

नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् ।
न विशिष्टानसत्कुर्य्यात् नात्मानं वा शंसयेद् बुधः ।। १६.५७

न नखैर्विलिखेद् भूमिं गां च संवेशयेन्न हि ।
न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान् ।। १६.५८

आवासे भोजने वाऽपि न त्यजेत् हसयायिनम् ।
नावगाहेदपो नग्नो वह्निं नातिव्रजेत् पदा ।। १६.५९

शिरोऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।
न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ।१६.६०

रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ।
न पाणिपादावग्नौच चापलानि समाश्रयेत् ।१६.६१

न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ।
न चाङ्गनखवादं वै कुर्यान्नाञ्जलिना पिबेत् ।१६.६२

नाभिहन्याज्जलं पद्‌भ्यां पाणिना वा कदाचन ।
न शातयेदिष्टकाभिः फलानि सफलानि च ।१६.६३

न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ।
न भेदनमधिस्फोटं छेदनं वा विलेखनम् ।१६.६४

कुर्याद् विमर्दनं धीमान् नाकस्मादेव निष्फलम् ।
नोत्सङ्गेभक्षयेद् भक्ष्यान् वृथा चेष्टां च नाचरेत् ।१६.६५

न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ।
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।१६.६६

न लौकिकैः स्तवैर्देवांस्तोषयेद् बाह्यजैरपि ।
नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् ।१६.६७

नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ।
न गच्छेन्न पठेद् वाऽपि न चैव स्वशिरः स्पृशेत् ।१६.६८

न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत् ।
न बालातपमासेवेत् प्रेतधूमं विवर्जयेत् ।१६.६९

नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत् ।
नाकारणाद् वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ।१६.७०


न पादक्षालनं कुर्यात् पादेनैव कदाचन ।
नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद् बुधः ।१६.७१

नातिप्रसारयेद् देवं ब्राह्मणान् गामथापि वा ।
वाय्वग्निगुरुविप्रान् वा सूर्यं वा शशिनं प्रति ।। १६.७२

अशुद्धः शयनं यानं स्वाध्यायं स्नानभोजनम् ।
बहिर्निष्क्रमणं चैव न कुर्वीत कथञ्चन ।। १६.७३

स्वप्नमध्ययनं स्नानमुच्चारं भोजनं गतिम् ।
उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ।। १६.७४

न स्पृशेत् पाणिनोच्छिष्टो विप्रोगोब्राह्मणानलान् ।
न चैवान्नं पदा वाऽपि न देवप्रतिमां स्पृशेत् ।। १६.७५

नाशुद्धोऽग्निं परिचरेन्न देवान् कीर्त्तयेदृषीन् ।
नावगाहेदगाधाम्बु धारयेन्नाग्निमेकतः ।। १६.७६

न वामहस्तेनोद्धत्य पिबेद् वक्त्रेण वा जलम् ।
नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ।। १६.७७

अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा ।
व्यतिक्रमेन्न स्रवन्तीं नाप्सु मैथुनमाचरेत् ।१६.७८

चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ।
नास्थिभस्मकपालानि न केशान्न च कण्टकान् ।
ओषांङ्गारकरीषं वा नाधितिष्ठेत् कदाचन ।।१६.७९

न चाग्निं लङ्घयेद् धीमान् नोपदध्यादधः क्वचित् 
न चैनं पादतः कुर्यान्मुखेन न धमेद् बुधः ।१६.८०

न कूपमवरोहेत नावेक्षेताशुचिः क्वचित् ।
अग्नौ न प्रक्षिपेदग्निं नाद्भिः प्रशमयेत् तथा ।१६.८१

सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत् परान् ।
अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत्।१६.८२

न वह्निं मुखनिश्वासैर्ज्वालयेन्नाशुचिर्बुधः ।
पुण्यस्नानोदकस्थाने सीमान्तं वा कृषेन्न तु ।१६.८३

न भिन्द्यात् पूर्वसमयमभ्युपेतं कदाचन ।
परस्परं पशून् व्यालान् पक्षिणो नावबोधयेत् ।१६.८४

परबाधां न कुर्वीत जलवातातपादिभिः ।
कारयित्वा स्वकर्माणि कारून् पश्चान्न वर्जयेत् ।
सायंप्रातर्गृहद्वारान् भिक्षार्थं नावघाटयेत् ।। १६.८५

बहिर्माल्यं बहिर्गन्धं भार्यया सह भोजनम् ।
विगृह्य वादं कुद्वारप्रवेशं च विवर्जयेत् ।। १६.८६

न खादन्‌ब्राह्मणस्तिष्ठेन्न जल्पेद् वा हसन् बुधः ।
स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत् ।। १६.८७

न पक्षकेणोपधमेन्न शूर्पेण न पाणिना ।
मुखेनैव धमेदग्निं मुखादग्निरजायत ।। १६.८८

परस्त्रियं न भाषेत नायाज्यं याजयेद् द्विजः ।
नैकश्चरेत् सभां विप्रः समवायं च वर्जयेत् ।
न देवायतनं गच्छेत् कदाचिद् वाऽप्रदक्षिणम् ।१६.८९

न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् ।
नैकोऽध्वानं प्रपद्येत नाधार्मिकजनैः सह ।१६.९०

न व्याधिदूषितैर्वापि न शूद्रैः पतितैर्न वा ।
 नोपानद्वर्ज्जितोऽध्वानं जलादिरहितस्तथा ।१६.९१

न रात्रौ वारिणा सार्द्धं न विना च कमण्डलुम् ।
नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् ।। १६.९२

निवत्स्यन्तीं न वनितामतिक्रामेत् क्वचिद् द्विजः ।
न निन्देद् योगिनः सिद्धान् व्रतिनो वा यतींस्तथा ।। १६.९३

देवतायतनं प्राज्ञो देवानां चैव मन्त्रिणाम् ।
नाक्रामेत् कामतश्छायां ब्राह्मणानां च गोरपि ।। १६.९४

स्वां तु नाक्रमयेच्छायां पतिताद्यैर्न रोगिभिः ।
नाङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन ।। १६.९५

वर्जयेन्मार्जनीरेणुं स्नानवस्त्रघटोदकम् ।
न भक्षयेदभक्ष्याणि नापेयं चापिबेद् द्विजः ।। १६.९६

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें