सोमवार, 9 जनवरी 2023

वैश्यो मनुष्याणां गावः पशूनाम् । तस्मात् त आद्याः । अन्नधानाद् ध्य् असृज्यन्त तस्माद् भूयाꣳसो

प्रजापतिर् वाव ज्येष्ठः स ह्य् एतेनाग्रे ऽयजत प्रजापतिर् अकामयत प्र जायेयेति स मुखतस् त्रिवृतं निर् अमिमीत तम् अग्निर् देवतान्व् असृज्यत गायत्री छन्दो रथंतरꣳ साम ब्राह्मणो मनुष्याणाम् अजः पशूनाम् । तस्मात् ते मुख्याः । मुखतो ह्य् असृज्यन्त । उरसो बाहुभ्याम् पञ्चदशं निर् अमिमीत तम् इन्द्रो देवतान्व् असृज्यत त्रिष्टुप् छन्दो बृहत्
5 साम राजन्यो मनुष्याणाम् अविः पशूनाम् । तस्मात् ते वीर्यावन्तः । वीर्याद् ध्य् असृज्यन्त मध्यतः सप्तदशं निर् अमिमीत तं विश्वे देवा देवता अन्व् असृज्यन्त जगती छन्दो वैरूपꣳ साम वैश्यो मनुष्याणां गावः पशूनाम् । तस्मात् त आद्याः । अन्नधानाद् ध्य् असृज्यन्त तस्माद् भूयाꣳसो ऽन्येभ्यः । भूयिष्ठा हि देवता अन्व् असृज्यन्त पत्त एकविꣳशं निर् अमिमीत तम् अनुष्टुप् छन्दः
6 अन्व् असृज्यत वैराजꣳ साम शूद्रो मनुष्याणाम् अश्वः पशूनाम् । तस्मात् तौ भूतसंक्रामिणाव् अश्वश् च शूद्रश् च तस्माच् छूद्रो यज्ञे ऽनवक्लृप्तः । न हि देवता अन्व् असृज्यत तस्मात् पादाव् उप जीवतः पत्तो ह्य् असृज्येताम् प्राणा वै त्रिवृत् । अर्धमासाः पञ्चदशः प्रजापतिः सप्तदशस् त्रय इमे लोकाः । असाव् आदित्य एकविꣳशः । एतस्मिन् वा एते श्रिता एतस्मिन् प्रतिष्ठिताः । य एवं वेदैतस्मिन्न् एव श्रयत एतस्मिन् प्रति तिष्ठति ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें