ऋग्वेदः - मण्डल १- | सूक्तं १०५→ |
सायणभाष्यम् :-
_______________________________
त्रितः कूपेऽवहितो देवान्हवत ऊतये.
तच्छुश्राव बृहस्पतिः कृण्वन्नंहुरणादुरु वित्तं मे अस्य रोदसी.. (१७) ।
अनुवाद:- बृहस्पति ने उसे पाप रूप कुएं से निकालकर उसकी पुकार सुनी. हे धरती और आकाश! हमारी बात जानो (१७)
अरुणो मा सकृद्वृक: पथा यन्तं ददर्श हि.
उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी. (१८)
अनुवाद:-
लाल रंग के वृक ने मुझे एक बार मार्ग में जाते हुए देखा. वह मुझे देखकर इस प्रकार ऊपर उछला, जिस प्रकार पीठ की वेदना वाला काम करते-करते सहसा उठ पड़ता है. हे धरती और आकाश! मेरे इस कष्ट को जानो.(१८)
एनाङ्गूषेण वयमिन्द्रवन्तोऽभि ष्याम वृजने सर्ववीराः.
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः(१९)
अनुवाद:-
घोषणा योग्य इस स्तोत्र के कारण इंद्र का अनुग्रह पाए हुए हम लोग पुत्र, पौत्रों आदि के साथ संग्राम में शत्रुओं को हरावें. मित्र, वरुण, अदिति, सिंधु, पृथ्वी एवं आकाश हमारी इस प्रार्थना का आदर करें. (१९)
त्रितः कूपेऽवहितो देवान्हवत ऊतये ।
तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी ॥१७॥
सायण-भाष्य:-“कूपेऽवहितः पातितः “त्रितः एतत्संज्ञः ऋषिः “ऊतये =रक्षणाय “देवान् “हवते= स्तुतिभिराकारयति । यदेतत् त्रितस्याह्वानं बृहस्पतिः =बृहतां महतां देवानां रक्षकः एतत्संज्ञो देवः एतत् आह्वानं “शुश्राव =श्रुतवान् । किं कुर्वन् । “अंहूरणात् =अंहसः पापरूपादस्मात् कूपपातादुन्नीय “उरु= विस्तीर्णं शोभनं कृण्वन्= कुर्वन् ॥ हवते । ह्वयतेर्लटि ‘ बहुलं छन्दसि' इति संप्रसारणम् । शब्गुणावादेशाः । ऊतये ।' ऊतियूति इत्यादिना क्तिन उदात्तत्वम् । बृहस्पतिः । ‘ तदबृहतोः करपत्योः ' ( पा. सू. ६. १. १५७.ग. ) इति पारस्करादिषु पाठात् सुट्तलोपौ ।' उभे वनस्पत्यादिषु" ' इति पूर्वोत्तरपदयोः युगपत्प्रकृतिस्वरत्वम् । अंहूरणात् । “अहि गतौ । इदित्वात् नुम् । ‘ स्वर्जिपिञ्ज्यादिभ्य ऊरोलची ' (उ. सू. ४. ५३० ) इति भावे ऊरप्रत्ययः । दुःखप्राप्तिहेतुभावा गतिरस्यास्तीति पामादिलक्षणो मत्वर्थीयो नः (पा. सू. ५. २. १०० )। आङ्पूर्वात् हन्तेर्वा रूपमुन्नेयम् ॥
अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि ।
उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी ॥१८
सायण भाष्य:-अरुणवर्णः =लोहितवर्णः ."वृकः= अरण्यश्वा "सकृत्= एकवारं “पथा= “यन्तं मार्गेण गच्छन्तं मां “ददर्श =“हि दृष्टवान् । हिः पादपूरणः। “निचाय्य दृष्ट्वा च मां जिघृक्षुः सन् उज्जिहीते उद्गच्छति स्म। तत्र दृष्टान्तः । “तष्टेव “पृष्ट्यामयी। यथा तक्षणजनितपृष्ठक्लेशः तष्टा वर्धकिः तदपनोदनाय ऊर्ध्वाभिमुखो भवति तद्वत् । हे द्यावापृथिव्यौ मदीयमिदं दुःखं “वित्तं जानीतम् । यद्वा । वृक इति विवृतज्योतिष्कः चन्द्रमाः उच्यते । अरुणः आरोचमानः कृत्स्नस्य जगतः प्रकाशकः मासकृत् मासार्धमासर्त्वयनसंवत्सरादीन् कालविशेषान् कुर्वन् । तिथिविभागज्ञानस्य चन्द्रगत्यधीनत्वात् । स चन्द्रमाः आकाशमार्गे यन्तं गच्छन्तं नक्षत्रगणं ददर्श । हिरवधारणे। नक्षत्रगणमेव ददर्श न कूपपतितं मामित्यनादरो द्योत्यते । यदि मां पश्येत् उद्धरेत् कूपात् । निचाय्य नक्षत्रगणं दृष्ट्वा चोज्जिहीते । येन नक्षत्रेण संयुज्यते तेन सहोद्गच्छति । न मामभिगच्छतीत्यर्थः । अन्यत् पूर्ववत् । अत्र मासकृत् इति यास्कः एकं पदं मन्यते शाकल्यस्तु पदद्वयम् । तस्मिन्पक्षेऽयमर्थः । दक्षप्रजापतेर्दुहितृभूताः स्वभार्याः अश्विन्याद्यास्तारकाः पुनःपुनर्ददर्श। मां सकृदेव पश्यतीति सकृद्दृष्ट्वा चोज्जिहीते। ताराभिः सहोर्ध्वमेव गच्छति । न मां कूपादुत्तारयति । अत इदमनुचितम् । हे द्यावापृथिव्यौ मदीयमिमं वृत्तान्तं जानीतम् ॥ अत्र निरुक्तं-' वृकश्चन्द्रमा भवति विवृतज्योतिष्को वा विकृतज्योतिष्को वा विक्रान्तज्योतिष्को वा । अरुण आरोचन: मासकृन्मासानां चार्धमासानां च कर्ता भवति चन्द्रमा वृकः पथा यन्तं ददर्श नक्षत्रगणमभिजिहीते निचाय्य येन येन योक्ष्यमाणो भवति चन्द्रमास्तक्ष्णुवन्निव पृष्ठरोगी' (निरु. ५.२०-२१) इति । सकृत् । एकस्य सकृञ्च' ( पा. सू. ५. ४.१९) इति क्रियाभ्यावृत्तिगणने निपातितः । वृकः । वृञ् वरणे'। सृवृभूशुचिमुषिभ्यः कित् ' ( उ. सू. ३. ३२१ ) इति कप्रत्ययः । जिहीते । “ओहाङ गतौ ' । जौहोत्यादिकः । ‘भृञामित्' इति अभ्यासस्य इत्वम् । निचाय्य । 'चायृ पूजानिशामनयोः । अत्र दर्शनार्थो धातूनामनेकार्थत्वात् । समासेऽनम्पूर्वे क्त्वो ल्यप्'। पृष्टयामयी। ‘स्पृश संस्पर्शने। 'स्पृश्यतेऽनेनेति स्पृष्टिः । छान्दसो वर्णलोपः । पृष्टावामयः पृष्ट्यामयः । तद्वान् पृष्ट्यामयी।। चन्द्रमाः' इति एकोनविंशत्यृचं द्वादशं सूक्तम् । अपां पुत्रस्य त्रितस्य कूपे पतितस्य कुत्सस्य वा आर्षम् । तथा चोभयोः कूपपातः आम्नायते--’ त्रितः कूपेऽवहितः ' (ऋ. सं. १. १०५. १७ ) ‘ काटे निबाळ्ह ऋषिरह्वदूतये (ऋ. सं. १. १०६. ६) इति च । त्रितस्य च अपां पुत्रत्वं तैत्तिरीयाः स्पष्टमामनन्ति- ' तत एकतोऽजायत स द्वितीयमभ्यपातयत् ततो द्वितोऽजायत स तृतीयमभ्यपातयत ततस्त्रितोऽजायत यददभ्योऽजायन्त तदाप्यानामाप्यत्वम् ' ( तैतिरीय ब्राह्मण. ३. २. ८. १०-११ ) इति । तमेतमाप्यं • त्रितस्तद्वेदाप्त्यः ' ( ऋ. सं. १. १०५. ९) इति तकारोपजनेन वयमधीमही इति । अन्त्या त्रिष्टुप् । ' सं मा तपन्ति' इत्येषा यवमध्या महाबृहती । आद्यौ द्वावष्टाक्षरौ पादौ द्वादशाक्षरस्तृतीयस्ततो द्वावष्टाक्षरौ सा यवमध्या महाबृहती । चत्वारोऽष्टका जागतश्च महाबृहती ' (अनु. ९. ९) इत्युक्त्वा' ' मध्ये चेद्यवमध्या' (अनु. ९. १०) इत्युक्तलक्षणोपेतत्वात् । शिष्टाः पङ्क्तयः । विश्वे देवाः देवता । तथा चानुक्रान्तं- चन्द्रमा एकोनाप्त्यस्त्रितो वा वैश्वदेवं हि पाङ्क्तमन्त्या त्रिष्टुप् अष्टमी महाबृहती यवमध्या' इति । 'हि' इत्यभिधानादिदमादीनि त्रीणि सूक्तानि वैश्वदेवानि । विनियोगः । अत्र शाट्यायनिन इतिहासमाचक्षते-एकतो द्वितस्त्रित इति पुरा त्रय ऋषयो बभूवुः । ते कदाचिन्मरुभूमावरण्ये वर्तमानाः पिपासया संतप्तगात्राः सन्त एकं कूपमविन्दन् । तत्र त्रिताख्यः एको जलपानाय कूपं प्राविशत् । स्वयं पीत्वा इतरयोश्च कूपादुदकमुद्धत्य प्रादात् । तौ तदुदकं पीत्वा त्रितं कूपे पातयित्वा तदीयं धनं सर्वमपहृत्य कूपं च रथचक्रेण पिधाय प्रास्थिषाताम् । ततः कूपे पतितः स त्रितः कूपादुत्तरीतुमशक्नुवन् सर्वे देवा मामुद्धरन्त्विति मनसा सस्मार । ततस्तेषां स्तावकमिदं सूक्तं ददर्श । तत्र रात्रौ कूपस्यान्तश्चन्द्रमसो रश्मीन् पश्यन् परिदेवयते ॥
एनाङ्गूषेण वयमिन्द्रवन्तोऽभि ष्याम वृजने सर्ववीराः।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥१९॥
सायण भाष्य:-
एना अनेन “आङ्गूषेण आघोषणयोग्येन स्तोत्रेण हेतुभूतेन “इन्द्रवन्तः अनुग्राहकेणेन्द्रेण युक्ताः “सर्ववीराः सर्वैर्वीरैः पुत्रैः पौत्रादिभिश्चोपेताः सन्तः “वयं वृजने संग्रामे “अभि “ष्याम शत्रूनभिभवेम । “तत् इदमस्मदीयं वचनं मित्रादयः “ममहन्तां पूजयन्तु पालयन्त्वित्यर्थः । उतशब्दो देवतासमुच्चये। अत्र यास्कः-’ आङ्गूषः स्तोम आघोषः । अनेन स्तोमेन वयमिन्द्रवन्तः' (निरु. ५.११) इति । एना । ' द्वितीयाटौःस्वेनः '(पा. सू. २. ४. ३४) इति तृतीयायाम् इदम एनादेशः ।' सुपां सुलुक् ' इति विभक्तेः आजादेशः । चित्स्वरेणान्तोदात्तत्वम्। आङ्गूषेण । आङ्पूर्वात् घुषेः कर्मणि घञ् । आङो ङकारलोपाभावश्छान्दसः । घोषशब्दस्य गूषभावश्च पृषोदरादित्वात् । थाथादिना उत्तरपदान्तोदात्तत्वम् । स्याम । अस्तेः प्रार्थनायां लिङि' असोरल्लोपः' इति अकारलोपः । ' उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' (पा. सू. ८. ३. ८७ ) इति षत्वम्
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें