📚: रामायण के उत्तरकांड में वाल्मीकि मुनि स्वयं को प्रचेता का पुत्र बताते हैं:
प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन। [वाल्मीकि रामायण - ७.९६.१५]
हे राघव! मैं प्रचेतस का दसवाँ पुत्र वाल्मीकि हूँ।
प्रचेतस ब्रह्मा जी के मानस पुत्र हैं, इन्हें वरुण-देव भी कहा जाता है :-
📚: त्रिरावः सप्तरावश्च वाल्मीकिर्दीपकस्तथा ।
दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेतनः।११।श्रीमन्महाभारते उद्योगपर्वणि
(5-101-11)
भगवद्यानपर्वणि एकाधिकशततमोऽध्यायः ।।
स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ११८
< स्कन्दपुराणम् - खण्डः ७ (प्रभासखण्डः) | प्रभासक्षेत्र माहात्म्यम्
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गोप्यादित्यमनुत्तमम् ॥
भूतेशाद्वायवे भागे धनुषां त्रिंशकेन्तरे ॥ १ ॥
बलातिबलदैत्यघ्न्या दक्षिणाग्नेयसंस्थितम् ॥
धनुषां दशके देवि संस्थितं पापनाशनम् ॥ २ ॥
तस्योत्पत्तिं प्रवक्ष्यामि महापापहरां शुभाम् ॥
यां श्रुत्वा मानवो भक्त्या दुःखशोकैः प्रमुच्यते ॥३॥
पुरा कृष्णो महातेजा यदा प्रभासमागतः ॥
सहितो यादवैः सर्वैः षट्पञ्चाशतिकोटिभिः ॥४॥
षोडशैव सहस्राणि गोप्यस्तत्र समागताः ॥
लक्षमेकं तथा षष्टिरेते कृष्णसुताः प्रिये ॥ ५ ॥
तत्र प्राभासिके क्षेत्रे संस्थिताः पापनाशने ॥
यादवस्थलमासाद्य यावद्रैवतको गिरि ॥ ६ ॥
तत्र द्वादशवर्षाणि संस्थितास्ते महाबलाः ॥
क्षेत्रं पवित्रमादाय शिवलिंगानि ते पृथक् ॥
स्थापयाञ्चक्रिरे सर्वे ह्यंकितानि स्वनामभिः ॥७ ॥
एवं समग्रं तत्क्षेत्रं यावद्द्वादशयोजनम् ॥
ध्वजलिंगांकितं चक्रुः सर्वे यादवपुंगवाः ॥ ८ ॥
हस्तहस्तान्तरे देवि प्रासादाः क्षेत्र मध्यतः ॥
सुवर्णकलशोपेताः पताकाकुलितांबराः ॥
विराजंते तु तत्रस्थाः कीर्तिस्तंभा हरेरिव ॥ ९ ॥
ततो गोप्यो महादेवि आद्या याः षोडश स्मृताः ॥
तासां नामानि ते वक्ष्ये तानि ह्मेकमनाः शृणु ॥ 7.1.118.१० ॥
लंबिनी चन्द्रिका कान्ता क्रूरा शान्ता महोदया ॥
भीषणी नन्दिनीऽशोका सुपर्णा विमलाऽक्षया ॥ ११ ॥
शुभदा शोभना पुण्या हंसस्यैताः कलाः स्मृताः ॥
हंस एव मतः कृष्णः परमात्मा जनार्दनः ॥ १२ ॥
तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिताः ॥
चन्द्ररूपी ततः कृष्णः कलारूपास्तु ताः स्मृताः ॥ १३ ॥
संपूर्णमण्डला तासां मालिनी षोडशी कला ॥
प्रतिपत्तिथिमारभ्य विचरत्यासु चन्द्रमाः ॥ १४ ॥
षोडशैव कला यास्ता गोपीरूपा वरानने ॥
एकैकशस्ताः संभिन्नाः सहस्रेण पृथक्पृथक् ॥१५॥
एवं ते कथितं देवि रहस्यं ज्ञानसंभवम् ॥
एवं यो वेद पुरुषः स ज्ञेयो वैष्णवो बुधैः ॥ १६ ॥
अथ ताभिः कृताञ्ज्ञात्वा प्रासादान्यादवैः पृथक् ॥
ततो गोप्योऽपि ताः सर्वाः सहस्राणि तु षोडश ॥
कृष्णमाज्ञाप्य भावेन स्थापयांचक्रिरे रविम् ॥ १७॥
ऋषिभिर्नारदाद्यैस्तास्तथा क्षेत्रनिवासिभिः ॥
तं प्रतिष्ठापयामासुः प्रतिष्ठाविधिना रविम् ॥ १८॥
प्रतिष्ठिते ततः सूर्ये ददुर्दानानि भूरिशः ॥
ततः क्षेत्रनिवासिभ्यो गोभूहेमांबराणि च ॥१९॥
ततस्त ऋषयः सर्वे संतुष्टा हृष्टमानसाः ॥
चक्रुर्नाम रवेस्तत्र गोप्यादित्येति विश्रुतम्॥
सर्वपाप हरं देवं महासौभाग्यदायकम् ॥ 7.1.118.२० ॥
एवं कृते कृतार्थास्ताः संप्राप्यातिमहद्यशः ॥
जग्मुर्यथागतं सर्वा द्वारकां कृष्णसंयुताः ॥२१॥
पुनः कालान्तरे देवि शापाद्दुर्वाससः प्रिये ॥
यादवस्थलतां प्राप्ताः प्रभासे पापनाशने ॥ २२ ॥
एवं ते कथितो देवि गोप्यादित्यसमुद्भवः ॥
माहात्म्यं तस्य ते वच्मि पूजावन्दनजं क्रमात् ॥ २३॥
अस्मिन्मित्रवने देवि यो गोपीभिः प्रतिष्ठितः ॥
तस्य दर्शनमात्रेण दुःखशोकैः प्रमुच्यते ॥२४॥
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः॥
तां गतिं ते नरा यान्ति ये गोपीरविमाश्रिताः ॥२५॥
येन सर्वात्मना भावो गोप्यादित्ये निवेशितः ॥
महेश्वरि कृतार्थत्वात्स श्लाघ्यो धन्य एव सः ॥२६॥
अपि नः स कुले धन्यो जायते कुलपावनः ॥
भाग्यवान्भक्तिभावेन येन भानुरुपासितः ॥२७॥
सप्तम्यां पूजयेद्यस्तु माघे मास्युषसि प्रिये ॥
सप्तावरान्सप्त पूर्वान्पितॄन्सोप्युद्धरेन्नरः ॥ २८ ॥
छिनत्ति रोगान्दुश्चेष्टान्दुर्जयाञ्जयति ह्यरीन् ॥२९
न सप्तम्यां स्पृशेत्तैलं नीलवस्त्रं न धारयेत् ॥
न चाप्यामलकैः स्नानं न कुर्यात्कलहं क्वचित् ॥ 7.1.118.३० ॥
नीलरक्तेन वस्त्रेण यत्कर्म कुरुते द्विजः ॥
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ॥
वृथा तस्य महायज्ञा नीलसूत्रस्य धारणात् ॥३१॥
नीलीरक्तं यदा वस्त्रं विप्रस्त्वंगेषु धारयेत् ॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥३२॥
रोमकूपे यदा गच्छेद्रसं नीलस्य कस्यचित् ॥
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्व्यपोहति ॥ ३३ ॥
नीलमध्यं यदा गच्छेत्प्रमादाद्ब्राह्मणः क्वचित् ॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥३४॥
नीलदारु यदा भिद्येद्ब्राह्मणानां शरीरके ॥
शोणितं दृश्यते तत्र द्विजश्चान्द्रायणं चरेत् ॥३५ ॥
कुर्यादज्ञानतो यस्तु नीलं वै दन्तधावनम् ॥
कृत्वा कृच्छ्रद्वयं तस्य शुद्धिरुक्ता मनीषिभिः ॥३६॥
इत्येतत्कथितं देवि गोप्यादित्यमहोदय ॥
पापघ्नं सर्वजन्तूनां श्रुतं सर्वार्थसाधकम् ॥३७ ॥
गवां शतसहस्रैस्तु दत्तैर्यत्कुरुजांगले ॥
पुण्यं भवति देवेशि तद्गोप्यादित्यदर्शने॥ ३८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गोप्यादित्यमाहात्म्यवर्णनंनामाष्टादशोत्तरशततमोऽध्यायः ॥ ११८ ॥
स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १२०
< स्कन्दपुराणम् - खण्डः ७ (प्रभासखण्डः) | प्रभासक्षेत्र माहात्म्यम्-
॥ ईश्वर उवाच॥
ततो गच्छेन्महादेवि गोपीश्वरमनुत्तमम् ॥
बलातिबलदैत्यघ्न्या उत्तरे धनुषां त्रये ॥ १ ॥
संस्थितं पापशमनं गोपीभिः संप्रतिष्ठितम् ॥
समाराध्य महादेवं पुत्रहेतोर्महेश्वरम् ॥
सर्वकामप्रदं नॄणां पूजितं संततिप्रदम् ॥२॥
चैत्रशुक्लतृतीयायां यस्तं पूजयते नरः ॥
गंध पुष्पोपहारैश्च स प्राप्नोतीप्सितं फलम् ॥३॥
एवं संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
गोपीश्वरस्य देवस्य प्रभासक्षेत्रवासिनः ॥ ४ ॥
इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलातिबलदैत्यघ्नीमाहात्म्ये गोपीश्वर माहात्म्यवर्णनंनाम विंशत्युत्तरशततमोऽध्यायः ॥ १२०॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें