मत्स्यपुराणम् |
---|
"मनुरुवाच।
चतुर्मुखत्वमगमत् कस्माल्लोकपितामहः।
कथं तु लोकानसृजत् ब्रह्मा ब्रह्मविदाम्वरः।३.१ ।
तपश्चचार प्रथमममराणां पितामहः।
आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः।३.२।
पुराणं सर्वशास्त्राणं प्रथमं ब्रह्मणा स्मृतम्।
नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम्।३.३।
अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः।
मीमांसान्यायविद्याश्च प्रमाणाष्टक संयुताः।३.४।
वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः।
मनसः पूर्वसृष्टा वै जातायत्तेन मानसाः।३.५।
मरीचिरभवत् पूर्व ततोऽत्रिर्भगवान् ऋषिः।
अङिगराश्चाभवत्पश्चात् पुलस्त्यस्तदनन्तरम्।३.६।
बह्मा के मन से केवल मरीचि उत्पन्न हुए है। इस लिए वे ही मानस पुत्र कहलाए!
ततः पुलहनामा वै ततः क्रतुरजायत।
प्रचेताश्च ततः पुत्रो वशिष्ठश्चाभवत् पुनः।३.७।।
पुत्रो भृगुरभूत्तद्वन्नारदोऽप्यचिरादभूत्।
दशेमान् मानसान् ब्रह्मा मुनीन् पुत्रानजीजनत्। ३.८ ।
शारीरानथ वक्ष्यामि मातृहीनान् प्रजापतेः।
अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायतः। ३.९ ।
धर्मस्तनान्तादभवत् हृदयात् कुसुमायुधः।
भ्रूमध्यादभवत् क्रोधो लोभश्चाधरसम्भवः।। ३.१०।
बुद्धे र्मोहः समभवदहङ्कारादभून्मदः।
प्रमोदश्चाभवत्कण्ठान् मृत्युर्लोचनतो नृप।। ३.११।
भरतः करमध्यात्तु ब्रह्मसूनुरभूत्ततः।
एते नव! सुताः राजन्! कन्या च दशमी पुनः।।
अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता।। ३.१२ ।।
मनुरुवाच।
बुद्धेर्मोहः समभवदिति यत्परिकीर्त्तितम्।
अहङ्कारः स्मृतः क्रोधो बुद्धिर्नाम किमुच्यते।। ३.१३ ।।
मत्स्य उवाच।
सत्वं रजस्तमश्चैव गुणत्रयमुदाहृतम्।
साम्यावस्थितिरेतेषां प्रकृतिः परिकीर्तिता।। ३.१४।
केचित् प्रधानमित्याहुरव्यक्तमपरै जगुः।
एतदेव प्रजासृष्टिं करोति विकरोति च।। ३.१५ ।।
गुणेभ्यः क्षोभमाणेभ्य स्त्रयो देवा विजज्ञिरे।
एकामूर्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वराः।। ३.१६।
स विकारात् प्रधानात्तु महत्तत्त्वं प्रजायते।
महानिति यतः ख्यातिर्लोकानां जायते सदा।। ३.१७ ।।
अहङ्कारश्च महतो जायते मानवर्धनः।
इन्द्रियाणि ततः पञ्च वक्ष्ये बुद्धिवशानि तु।।
प्रादुर्भवन्ति चान्यानि तथा कर्म्मवशानि तु।३.१८।
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका च यथाक्रमम्।
पायूपस्थं हस्तपादं वाक्चेतीन्द्रियसंग्रहः।। ३.१९।
शब्दः स्पर्शश्च रूपञ्च रसोगन्धश्च पञ्चमः।
उत्सर्गानन्दनादान गत्यालापाश्च तत्क्रियाः।। ३.२०।
मन एकादशं तेषां कर्म्मबुद्धिगुणान्वितम्।
इन्द्रियावयवाः सूक्ष्मास्तस्य मूर्तिमनीषिणः।। ३.२१।
श्रयन्ति यस्मात्तन्मात्राः शरीरं तेन संस्मृतम्।
शरीरयोगाज्जीवोऽपि शरीरीगद्यतेबुधैः।। ३.२२ ।।
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया।
आकाशं शब्दतन्मात्रादभूच्छव्दगुणात्मकम्।। ३.२३ ।।
आकाशविकृतेर्वायुः शब्दस्पर्शगुणोऽभवत्।
वायोश्च स्पर्शतन्मात्रात्तेजश्चाविरभूत्ततः।। ३.२४ ।।
त्रिगुणं तद्विकारेण तच्छब्दस्पर्शरूपवत्।
तेजोविकारादभवद्वारि राजं श्चतुर्गुणम्।। ३.२५ ।।
रसतन्मात्रसम्भूतं प्रायो रसगुणात्मकम्।
भूमिस्तु गन्धतन्मात्रादभूत्पञ्चगुणान्विता।। ३.२६।
प्रायो गन्धगुणा सा तु बुद्धिरेषा गरीयसी।
एभिः सम्पादितं भुङ्क्ते पुरुषः पञ्चविंशकः।। ३.२७ ।।
ईश्वरेच्छावशः सोऽपि जीवात्मा कथ्यते बुधैः।
एवं षड्विंशकं प्रोक्तं शरीर इह मानवे।। ३.२८ ।।
सांख्यं संख्यात्मकत्वाच्च कपिलादिभिरुच्यते।
एतत्तत्त्वात्मकं कृत्वा जगद्वेधा अजीजनत्।। ३.२९ ।।
सावित्रीं लोकसृष्ट्यर्थं हृदि कृत्वा समास्थितः।
ततः सञ्जपतस्तस्य भित्वा देहमकल्मषम्।। ३.३० ।।
स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरुपवत्।
शतरूपा च सा ख्याता सावित्री च निगद्यते।। ३.३१ ।।
सरस्वत्यथ गायत्री ब्रह्माणी च परन्तप!।
ततः स्वदेहसम्भूतामात्मजामित्यकल्पयत्।। ३.३२।
दृष्ट्वा तां व्यथितस्तावत्कामबाणार्दितो विभुः।
अहो रूपमहोरूपमितिचाह प्रजापतिः।। ३.३३ ।।
ततो वशिष्ठप्रमुखाः भगिनीमिति चुक्रुशुः।
ब्रह्मा न किञ्चिद्ददृशे तन्मुखालोकनादृते।। ३.३४।
अहो रूपमहोरूपमिति प्राह पुनः पुनः।
ततः प्रणामनम्रान्तां पुनरेवाभ्यलोकयत्।। ३.३५।
अथ प्रदक्षिणं चक्रे सा पितुर्वरवर्णिनी।
पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया।। ३.३६ ।।
आविर्भूतं ततो वक्त्रं दक्षिणं पाण्डुगण्डवत्।
विस्मयस्फुरदोष्ठञ्च पाश्चात्यमुदगात्ततः।। ३.३७।।
चतुर्थमभवत्पश्चाद्वामं कामशरातुरम्।
ततोऽन्यदभवत्तस्य कामातुर तया तथा।। ३.३८ ।।
उत्पतन्त्यास्तदाकारा आलोकन कुतूहलात्।
सृष्ट्यर्थं यत् कृतं तेन तपः परमदारुणम्।। ३.३९।
तत् सर्वं नाशमगमत् स्वसुतोपगमेच्छया।
तेनोर्ध्वं वक्त्रमभवत् पञ्चमं तस्य धीमतः।।
आविर्भवज्जटाभिश्च तद्वक्त्रंञ्चावृणोत्प्रभुः।। ३.४०।।
ततस्तानब्रवीत् ब्रह्मा पुत्रानात्मसमुद्भवान्।
प्रजाः सृजध्वमभितः सदेवासुरमानुषी।। ३.४१ ।।
एवमुक्तास्ततः सर्वे ससृजुर्विविधाः प्रजाः।
गतेषु तेषु सृष्ट्यर्थं प्रणामावनतामिमाम्।। ३.४२ ।।
उपयेमे स विश्वात्मा शतरूपामनिन्दिताम्।
सम्बभूव तया सार्द्धमतिकामातुरो विभुः।।
सलज्जाञ्चकमे देवः कमलोदरमन्दिरे।। ३.४३ ।।
यावदब्दशतं दिव्यं यथान्यः प्राकृतो जनः।
ततः कालेन महता तस्याः पुत्रोऽभवन्मनुः।।३.४४
स्वायम्भुव इति ख्यातः स विराडिति नः श्रुतम्।
तद्रूपगुणसामान्यादधिपूरुष उच्यते।। ३.४५ ।।
वैराजा यत्र ते जाता बहवः शंसितव्रताः।
स्वायम्भुवा महाभागाः सप्त सप्त तथापरे।। ३.४६।
स्वारोचिषाद्याः सर्वे ते ब्रह्मतुल्यस्वरूपिणः।
औत्तमिप्रमुखास्तद्वद्येषान्त्वं सप्तमोऽधुना।। ३.४९।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें