← अध्यायः | ब्रह्मवैवर्तपुराणम् अध्यायः ०७ वेदव्यासः | अध्यायः → |
"सौतिरुवाच ।।
तदा ब्रह्मा तपः कृत्वा सिद्धिं प्राप्य यथेप्सिताम् ।।
ससृजे पृथिवीमादौ मधुकैटभमेदसा ।। १ ।।
ससृजे पर्वतानष्टौ प्रधानान्सुमनोहरान् ।।
क्षुद्रानसंख्यान्किं ब्रूमः प्रधानाख्यां निशामय।२।
सुमेरुं चैव कैलासं मलयं च हिमालयम्।।
उदयं च तथाऽस्तं च सुवेलं गन्धमादनम् ।। ३ ।।
समुद्रान्ससृजे सप्त नदान्कतिविधा नदीः ।।
वृक्षांश्च ग्रामनगरं समुद्राख्या निशामय ।। ४ ।।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवान् ।।
लक्षयोजनमानेन द्विगुणांश्च परात्परान् ।। ५ ।।
सप्तद्वीपांश्च तद्भूमिमण्डले कमलाकृते ।।
उपद्वीपांस्तथा सप्तसीमाशैलांश्च सप्त च ।। ६ ।।
निबोध विप्र द्वीपाख्यां पुरा या विधिना कृता ।।
जम्बूशाककुशप्लक्षक्रौञ्चन्यग्रोधपौष्करान् । ७।
मेरोरष्टसु शृङ्गेषु ससृजेऽष्टौ पुरी प्रभुः ।।
अष्टानां लोकपालानां विहाराय मनोहराः ।। ८ ।।
मूलेऽनन्तस्य नगरीं निर्माय जगतां पतिः ।।
ऊर्ध्वे स्वर्गांश्च सप्तैव तेषामाख्या निशामय।।९।।
भूर्लोकं च भुवर्लोकं स्वर्लोकं सुमनोहरम् ।।
जनोलोकं तपोलोकं सत्यलोकं च शौनक।।1.7.१०।।
शृङ्गमूर्ध्नि ब्रह्मलोकं जरादिपरिवर्जितम् ।।
तदूर्ध्वे ध्रुवलोकं च सर्वतः सुमनोहरम् ।।११।।
तदधः सप्त पातालान्निर्ममे जगदीश्वरः ।।
स्वर्गातिरिक्तभोगाढ्यानधोधः क्रमतो मुने ।१२।
अतलं वितलं चैव सुतलं च तलातलम् ।।
महातलं च पातालं रसातलमधस्ततः ।। १३ ।।
सप्तद्वीपैः सप्तनाकैः सप्तपातालसंज्ञकैः ।।
एभिर्लोकैश्च ब्रह्माण्डं ब्रह्माधिकृतमेव च ।। १४ ।।
एवञ्चासंख्यब्रह्माण्डं सर्वं कृत्रिममेव च ।।
महाविष्णोश्च लोम्नां च विवरेषु च शौनक ।१९।
प्रतिविश्वेषु दिक्पाला ब्रह्मविष्णुमहेश्वराः ।।
सुरा नरादयः सर्वे सन्ति कृष्णस्य मायया ।१६।
ब्राह्माण्डगणनां कर्तुं न क्षमो जगतां पतिः ।।
न शङ्करो न धर्मश्च न च विष्णुश्च के सुराः।।१७।।
संख्यातुमीश्वरः शक्तो न संख्यातुं तथापि सः ।।
विश्वाकाशदिशां चैव सर्वतो यद्यपि क्षमः ।। १८ ।।
कृत्रिमाणि च विश्वानि विश्वस्थानि च यानि च ।।
अनित्यानि च विप्रेन्द्र स्वप्नवन्नश्वराणि च ।। १९ ।।
वैकुण्ठः शिवलोकश्च गोलोकश्च तयोः परः ।।
नित्यो विश्वबहिर्भूतश्चात्माकाशदिशो यथा ।। 1.7.२० ।।
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे सृष्टिनिरूपणं नाम सप्तमोऽध्यायः।७।
← अध्यायः | ब्रह्मवैवर्तपुराणम् अध्यायः ०८ | अध्यायः → |
"सौतिरुवाच ।।
ब्रह्मा विश्वं विनिर्माय सावित्र्यां वरयोषिति ।।
चकार वीर्य्याधानं च कामुक्यां कामुको यथा ।१।
सा दिव्यं शतवर्षं च धृत्वा गर्भं सुदुस्सहम् ।।
सुप्रसूता च सुषुवे चतुर्वेदान्मनोहरान् ।२।
विविधाञ्शास्त्रसंघांश्च तर्कव्याकरणादिकान् ।।
षट्त्रिंशत्संख्यका दिव्या रागिणीः सुमनोहराः ।३।
षड्रागान्सुन्दरांश्चैव नानाताल समन्वितान् ।।
सत्यत्रेताद्वापरांश्च कलिं च कलहप्रियम् ।। ४ ।।
वर्षमासमृतुं चैव तिथिं दण्डक्षणादिकम् ।।
दिनं रात्रिं च वारांश्च सन्ध्यामुषसमेव च ।। ५ ।।
पुष्टिं च देवसेनां च मेधां च विजयां जयाम् ।।
षट्कृत्तिकाश्च योगांश्च करणं च तपो धनः ।। ६ ।।
देवसेनां महाषष्ठीं कार्त्तिकेयप्रियां सतीम् ।।
मातृकासु प्रधाना सा बालानामिष्टदेवता ।। ७ ।।
ब्राह्मं पाद्मं च वाराहं कल्पत्रयमिदं स्मृतम् ।।
नित्यं नैमित्तिकं चैव द्विपरार्द्धं च प्राकृतम् ।। ८ ।।
चतुर्विधं च प्रलयं कालं वै मृत्युकन्यकाम् ।।
सर्वान्व्याधिगणांश्चैव सा प्रसूय स्तनं ददौ ।। ९ ।।
अथ धातुः पृष्ठदेशादधर्मः समजायत।।
अलक्ष्मीस्तद्वामपार्श्वाद्बभूवात्यन्तकामिनी ।।1.8.१०।।
नाभिदेशाद्विश्वकर्मा जातो वै शिल्पिनां गुरुः ।।
महान्तौ वसवोऽष्टौ च महाबलपराक्रमाः ।११।
अथ धातुश्च मनस आविर्भूताः कुमारकाः ।।
चत्वारः पञ्चवर्षीया ज्वलन्तो ब्रह्मतेजसा ।१२।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।।
सनत्कुमारो भगवांश्चतुर्थो ज्ञानिनां वरः ।।१३।।
आविर्बभूव मुखतः कुमारः( मनु:) कनकप्रभः।
दिव्यरूपधरः श्रीमान्सस्त्रीकः सुन्दरो युवा । १४।
क्षत्त्रियाणां बीजरूपो नाम्ना स्वायम्भुवो मनुः।
या स्त्री सा शतरूपा च रूपाढ्या कमला कला ।।१५।।
सस्त्रीकश्च मनुस्तस्थौ धात्राज्ञा परिपालकः ।।
स्वयं विधाता पुत्रांश्च तानुवाच प्रहर्षितान् ।१६।
सृष्टिं कर्त्तुं महाभागो महाभागवतान्द्विज ।।
जग्मुस्ते च नहीत्युक्त्वा तप्तुं कृष्णपरायणाः ।। १७।
चुकोप हेतुना तेन विधाता जगतां पतिः ।।
कोपासक्तस्य च विधेर्ज्वलतो ब्रह्मतेजसा ।१८।
आविर्भूता ललाटाच्च रुद्रा एकादश प्रभो ।।
कालाग्निरुद्रः संहर्ता तेषामेकः प्रकीर्तितः ।१९।
सर्वेषामेव विश्वानां स तामस इति स्मृतः ।।
राजसश्च स्वयं ब्रह्मा शिवो विष्णुश्च सात्त्विकौ । 1.8.२० ।
___
गोलोकनाथः कृष्णश्च निर्गुणः प्रकृतेः परः।
परमज्ञानिनो मूर्खा वदन्तं तामसं शिवम् । २१।
शुद्धसत्त्वस्वरूपं च निर्मलं वैष्णवाग्रणीम् ।।
शृणु नामानि रुद्राणां वेदोक्तानि च यानि च ।२२।
महान्महात्मा मतिमान्भीषणश्च भयंकरः ।।
ऋतुध्वजश्चोर्ध्वकेशः पिङ्गलाक्षो रुचिः शुचिः।२३।
पुलस्त्यो दक्षकर्णाच्च पुलहो वामकर्णतः ।
दक्षनेत्रात्तथाऽत्रिश्च वामनेत्रात्क्रतुः स्वयम् ।२४।
_________________________________
अरणिर्नासिकारन्ध्रादङ्गिराश्च मुखाद्रुचिः ।।
भृगुश्च वामपार्श्वाच्च दक्षो दक्षिणपार्श्वतः ।। २५ ।।
छायायाः कर्दमो जातो नाभेः पञ्चशिखस्तथा ।।
वक्षसश्चैव वोढुश्च कण्ठदेशाच्च नारदः ।। २६ ।।
मरीचिः स्कन्धदेशाच्चैवापान्तरतमा गलात् ।।
वसिष्ठो रसनादेशात्प्रचेता अधरोष्ठतः ।। २७ ।।
हंसश्च वामकुक्षेश्च दक्षकुक्षेर्यतिः स्वयम् ।।
सृष्टिं विधातुं स विधिश्चकाराज्ञां सुतान्प्रति ।।
पितुर्वाक्यं समाकर्ण्य तमुवाच स नारदः ।। २८ ।।
"नारद उवाच ।।
पूर्वमानय मज्ज्येष्ठान्सनकादीन्पितामह ।।
कारयित्वा दारयुक्तानस्मान्वद जगत्पते ।। २९ ।।
पित्रा ते तपसे युक्ताः संसाराय वयं कथम् ।।
अहो हन्त प्रभोर्बुद्धिर्विपरीताय कल्पते ।। 1.8.३० ।।
कस्मै पुत्राय पीयूषात्परं दत्तं तपोऽधुना ।।
कस्मै ददासि विषयं विषमं च विषाधिकम् ।३१।
अतीव निम्ने घोरे च भवाब्धौ यः पतेत्पितः ।।
निष्कृतिस्तस्य नास्तीति कोटिकल्पे गतेऽपि च ।। ३२ ।।
निस्तारबीजं सर्वेषां बीजं च पुरुषोतमम् ।।
सर्वदं भक्तिदं दास्यप्रदं सत्यं कृपामयम् ।। ३३ ।।
भक्तैकशरणं भक्तवत्सलं स्वच्छमेव च ।।
भक्तप्रियं भक्तनाथं भक्तानुग्रहकारकम् ।। ३४ ।।
भक्ताराध्यं भक्तसाध्यं विहाय परमेश्वरम् ।।
मनो दधाति को मूढो विषये नाशकारणे ।। ३५ ।।
विहाय कृष्णसेवां च पीयूषादधिकां प्रियाम् ।।
को मूढो विषमश्नाति विषमं विषयाभिधम् ।३६।
स्वप्नवन्नश्वरं तुच्छमसत्यं मृत्युकारणम् ।।
यथा दीपशिखाग्रं च कीटानां सुमनोहरम् ।।३७।।
यथा बडिशमांसं च मत्स्यापातसुखप्रदम्।।
तथा विषयिणां तात विषयं मृत्युकारणम्।।३८।।
इत्युक्त्वा नारदस्तत्र विरराम विधेः पुरः ।।
तस्थौ तातं नमस्कृत्य ज्वलदग्निशिखोपमः ।।३९।।
ब्रह्मा कोपपरीतश्च शशाप तनयं द्विज ।।
उवाच कम्पिताङ्गश्च रक्तास्यः स्फुरिताधरः ।। 1.8.४० ।।
"ब्रह्मोवाच ।।
भविता ज्ञानलोपस्ते मच्छापेन च नारद ।।
क्रीडामृगश्च त्वं साध्यो योषिल्लुब्द्धधश्च लम्पटः।।४१।।
स्थिरयौवनयुक्तानां रूपाढ्यानां मनोहरः ।।
पञ्चाशत्कामिनीनां च भर्ता च प्राणवल्लभः।।४२।।
शृङ्गारशास्त्रवेत्ता च महाशृङ्गारलोलुपः।।
नानाप्रकारशृङ्गारनिपुणानां गुरोर्गुरुः ।।४३।।
गन्धर्वाणां च सुवरः सुस्वरश्च सुगायनः ।।
वीणावादनसन्दर्भनिष्णातः स्थिरयौवनः ।। ४४ ।।
प्राज्ञो मधुरवाक् शान्तः सुशीलः सुन्दरः सुधीः ।।
भविष्यसि न सन्देहो नामतश्चोपबर्हणः ।। ४५ ।।
ताभिर्दिव्यं लक्षयुगं विहृत्य निर्जने वने ।।
पुनर्मदीयशापेन दासी पुत्रश्च तत्परः ।। ४६ ।।
वत्स वैष्णवसंसर्गाद्वैष्णवोच्छिष्टभोजनात् ।।
पुनः कृष्णप्रसादेन भविष्यसि ममात्मजः ।४७ ।
ज्ञानं दास्यामि ते दिव्यं पुनरेव पुरातनम् ।।
अधुना भव नष्टस्त्वं मत्सुतो निपत धुवम्।।४८।।
ब्रह्मेत्युक्त्वा सुतं विप्र विरराम जगत्पतिः ।।
रुरोद नारदस्तातमवोचत्संपुटाञ्जलिः ।। ४९ ।।
"नारद उवाच ।।
क्रोधं संहर संहर्तस्तात तात जगद्गुरो ।।
स्रष्टुस्तपस्वीशस्याहो क्रोधोऽयं मय्यनाकरः ।। 1.8.५० ।।
शपेत्परित्यजेद्विद्वान्पुत्रमुत्पथगामिनम् ।।
तपस्विनं सुतं शप्तुं कथमर्हसि पण्डित ।। ५१ ।।
जनिर्भवतु मे ब्रह्मन्यासु यासु च योनिषु ।।
न जहातु हरेर्भक्तिर्मा वेदं देहि मे वरम् ।।५२।।
पुत्रश्चेज्जगतां धातुर्नास्ति भक्तिर्हरेः पदे।।
सूकरादतिरिक्तश्च सोऽधमो भारते भुवि ।। ५३ ।।
जातिस्मरो हरेर्भक्तियुक्तः सूकरयोनिषु ।।
जनिर्लभेत्स प्रवरो गोलोकं याति कर्मणा ।। ५४ ।।
गोविन्दचरणाम्भोजभक्तिमाध्वीकमीप्सितम् ।।
पिबतां वैष्णवादीनां स्पर्शपूता वसुन्धरा ।। ५५ ।।
तीर्थानि स्पर्शमिच्छन्ति वैष्णवानां पितामह ।।
पापानां पापितत्त्वानां क्षालनायात्मनामपि ।।५६।।
मन्त्रोपदेशमात्रेण नरा मुक्ताश्च भारते ।।
परैश्च कोटिपुरुषैः पूर्वैः सार्धं हरेरहो ।। ५७ ।।
कोटिजन्मार्जितात्पापान्मन्त्रग्रहणमात्रतः ।।
मुक्ताः शुध्यन्ति यत्पूर्वं कर्म निर्मूलयन्ति च ।।५८।।
पुत्रान्दारांश्च शिष्यांश्च सेवकान्बान्धवांस्तथा ।।
यो दर्शयति सन्मार्गं सद्गतिस्तं लभेद्ध्रुवम् ।।५९।।
यो दर्शयत्यसन्मार्गं शिष्यैर्विश्वासितो गुरुः ।।
कुम्भीपाके स्थितिस्तस्य यावच्चन्द्रदिवाकरौ ।। 1.8.६० ।।
स किंगुरुः स किंतातः स किंस्वामी स किंसुतः।।
यः श्रीकृष्णपदाम्भोजे भक्तिं दातुमनीश्वरः।६१।
शप्तो निरपराधेन त्वयाऽहं चतुरानन ।।
मया शप्तुं त्वमुचितो घ्नन्तं घ्नन्त्यपि पण्डिताः ।। ६२ ।।
कवचस्तोत्रपूजाभिः सहितस्ते मनुर्मनोः ।।
लुप्तो भवतु मच्छापात्प्रतिविश्वेषु निश्चितम् ।६३।
अपूज्यो भव विश्वेषु यावत्कल्पत्रयं पितः ।।
गतेषु त्रिषु कल्पेषु पूज्यपूज्यो भविष्यसि।।६४।।
अधुना यज्ञभागस्ते व्रतादिष्वपि सुव्रत ।।
पूजनं चास्तु मामैकं वन्द्यो भव सुरादिभिः ।६५।
इत्युक्त्वा नारदस्तत्र विरराम पितुः पुरः ।।
तस्थौ सभायां स विधिर्हृदयेन विदूयता ।। ६६ ।।
उपबर्हेण गन्धर्वो नारदस्तेन हेतुना ।।
दासीपुत्रश्च शापेन पितुरेव च शौनक ।। ६७ ।।
ततः पुनर्नारदश्च स बभूव महानृषिः ।।
ज्ञानं प्राप्य पितुः पश्चात्कथयिष्यामि चाधुना ।६८।
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे ब्रह्मनारदशापोपलम्भनं नामाष्टमोऽध्यायः ।। ८ ।
ब्रह्मखण्ड : अध्याय 8
यथा दीपशिखाग्रं च कीटानां सुमनोहरम्।। |
जगत्स्रष्टा का ही पुत्र क्यों न हो, यदि भगवान श्रीहरि के चरणों में उसकी भक्ति नहीं है तो वह भारत भूमि में सूअर से भी बढ़कर अधम है। जो अपने पूर्वजन्म का स्मरण रखते हुए श्रीहरि की भक्ति से युक्त होता है, वह सूअर की योनियों में जन्म ले तो भी श्रेष्ठ है: क्योंकि उस भजनरूपी कर्म से वह गोलोक में चला जाता है। जो गोविन्द के चरणारविन्दों की भक्ति रूप मनोवांछित मकरन्द का पान करते रहते हैं, उन वैष्णव आदि के स्पर्श से सारी पृथ्वी पवित्र हो जाती है। श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे ब्रह्मनारदशापोपलम्भनं नामाष्टमोऽध्यायः ।। ८ । |
← अध्यायः ०८ | ब्रह्मवैवर्तपुराणम् अध्यायः ०९ वेदव्यासः | अध्यायः १० → |
"सौतिरुवाच।
अथ ब्रह्मा स्वपुत्रांस्तानादिदेश च सृष्टये ।।
सृष्टिं प्रचक्रुस्ते सर्वे विप्रेन्द्र नारदं विना ।। १ ।।
मरीचेर्मनसो जातः कश्यपश्च प्रजापतिः ।।
अत्रेर्नेत्रमलाच्चन्द्रः क्षीरोदे च बभूव ह ।। २ ।।
प्रचेतसोऽपि मनसो गौतमश्च बभूव ह ।।
पुलस्त्यमानसः पुत्रो मैत्रावरुण एव च ।। ३ ।।
मनोश्च शतरूपायां तिस्रः कन्याः प्रजज्ञिरे ।।
आकूतिर्देवहूतिश्च प्रसूतिस्ताः पतिव्रताः ।। ४ ।।
प्रियव्रतोत्तानपादौ द्वौ च पुत्रौ मनोहरौ ।।
उत्तानपादतनयो ध्रुवः परमधार्मिकः ।। ५ ।।
आकूतिं रुचये प्रादाद्दक्षायाथ प्रसूतिकाम् ।।
देवहूतिं कर्दमाय यत्पुत्रः कपिलः स्वयम् ।। ६ ।।
प्रसूत्यां दक्षबीजेन षष्टिकन्याः प्रजज्ञिरे ।।
अष्टौ धर्माय स ददौ रुद्रायैकादश स्मृताः ।। ७ ।।
शिवायैकां सतीं प्रादात्कश्यपाय त्रयोदश ।।
सप्तविंशति कन्याश्च दक्षश्चन्द्राय दत्तवान् ।। ८ ।।
नामानि धर्मपत्नीनां मत्तो विप्र निशामय ।।
शान्तिः पुष्टिर्धृतिस्तुष्टिः क्षमा श्रद्धा मतिः स्मृतिः। ९।
__________________
शान्तेः पुत्रश्च सन्तोषः पुष्टेः पुत्रो महानभूत् ।।
धृतेधैर्य्यं च तुष्टेश्च हर्षदर्पौ सुतौ स्मृतौ ।1.9.१०।
क्षमापुत्रः सहिष्णुश्च श्रद्धापुत्रश्च धार्मिकः ।।
मतेर्ज्ञानाभिधः पुत्रः स्मृतेर्जातिस्मरो महान् ।। ११।
पूर्वपत्न्यां च मूर्त्यां च नरनारायणावृषी ।।
बभूवुरेते धर्मिष्ठा धर्मपुत्राश्च शौनक ।। १२ ।।
नामानि रुद्रपत्नीनां सावधानं निबोध मे ।।
कला कलावती काष्ठा कालिका कलहप्रिया।१३।
कन्दली भीषणा रास्ना प्रमोचा भूषणा शुकी ।।
एतासां बहवः पुत्रा बभूवुः शिवपार्षदाः ।१४।
सा सती स्वामिनिन्दायां तनुं तत्याज यज्ञतः ।।
पुनर्भूत्वा शैलपुत्री लेभे सा शङ्करं पतिम् ।१५।
________________
कश्यपस्य प्रियाणां च नामानि शृणु धार्मिक ।।
अदितिर्देवमाता वै दैत्यमाता दितिस्तथा।।१६।।
सर्पमाता तथा कद्रूर्विनता पक्षिसूस्तथा ।।
सुरभिश्च गवां माता महिषाणां च निश्चितम् ।१७।
_________
सारमेयादिजन्तूनां सरमा सूश्चतुष्पदाम् ।।
दनुः प्रसूर्दानवानामन्याश्चेत्येवमादिकाः ।। १८ ।।
इन्द्रश्च द्वादशादित्या उपेन्द्राद्याः सुरा मुने ।।
कथिताश्चादितेः पुत्रा महाबलपराक्रमाः।।१९।।
इन्द्रपुत्रो जयन्तश्च ब्रह्मञ्शच्यामजायत ।। ।
आदित्यस्य सवर्णायां कन्यायां विश्वकर्मणः।।1.9.२०।।
शनैश्चरयमौ पुत्रौ कालिन्दी कन्यका तथा ।।
उपेंद्रवीर्य्यात्पृथ्व्यां तु मङ्गलः समजायत।।२१।
"शौनक उवाच ।।
कथं सौते स चोपेद्रान्मङ्गलः समजायत ।।
वसुन्धरायां बलवांस्तन्मे व्याख्यातुमर्हसि ।२२।
सौतिरुवाच ।।
उपेन्द्ररूपमालोक्य कामार्ता च वसुन्धरा ।।
विधाय सुन्दरीवेषमक्षता प्रौढयौवना ।।२३।।
मलये निर्जने रम्ये चारुचन्दनपल्लवे ।।
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम्।।२४।।
तं सुशीलं शयानं च शान्तं सस्मितमीप्सितम् ।।
सस्मिता तस्य तल्पे च सहसा समुपस्थिता।।२५।।
सुरम्यां मालतीमालां ददौ तस्मै वरानना ।।
सुगन्धि चन्दनं चारु कस्तूरीकुङ्कुमान्वितम् ।।२६।।
______________________________
उपेन्द्रस्तन्मनो ज्ञात्वा कामिनीं कामपीडिताम्।
नानाप्रकारशृङ्गारं चकार च तया सह ।। २७ ।।
तदङ्गसङ्गसंसक्ता मूर्छां प्राप सती तदा ।।
मृतेव निद्रितेवासौ बीजाधानं कृते हरौ ।। २८ ।।
तां विलग्नां च सुश्रोणीं सुखसम्भोगमूर्छिताम् ।।
बृहन्मुक्तनितम्बां च स स्मितां विपुलस्तनीम् ।२९।
क्षणं वक्षसि कृत्वा तां तदोष्ठं च चुचुम्ब ह ।।
विहाय तत्र रहसि जगाम पुरुषोत्तमः ।1.9.३०।
___________________
उर्वशी पथि गच्छन्ती बोधयामास तां मुने ।।
सा च पप्रच्छ वृत्तान्तं कथयामास भूश्च ताम्।३१।
वीर्य्यसंवरणं कर्तुं सा चाशक्ता च दुर्बला ।।
प्रवालस्याकरे त्रस्ता वीर्य्यन्यासं चकार सा ।३२।
तेन प्रवालवर्णश्च कुमारः समपद्यत ।।
तेजसा सूर्य्यसदृशो नारायण सुतो महान् ।। ३३ ।।
मङ्गलस्य प्रिया मेधा तस्य घण्टेश्वरो महान्।।
व्रणदाताऽतितेजस्वी विष्णुतुल्यो बभूव ह ।।३४।।
दितेर्हिरण्यकशिपुहिरण्याक्षौ महाबलौ ।।
कन्या च सिंहिका विप्र सैंहिकेयश्च तत्सुतः ।।३५।।
निर्ऋतिः सिंहिका सा च तेन राहुश्च नैर्ऋतः।।
सूकरेण हिरण्याक्षोऽप्यनपत्यो मृतो युवा ।। ३६ ।।
हिरण्यकशिपोः पुत्रः प्रह्रादो वैष्णवाग्रणीः ।।
विरोचनश्च तत्पुत्रस्तत्पुत्रश्च बलिः स्वयम् ।। ३७।।
बलेः पुत्रो महायोगी ज्ञानी शङ्करकिंकरः ।।
दितेर्वंशश्च कथितः कद्रूवंशं निबोध मे ।। ३८ ।।
अनन्तं वासुकिं चैव कालीयं च धनञ्जयम् ।।
कर्कोटकं तक्षकं च पद्ममैरावतं तथा ।। ३९ ।।
महापद्मं च शंकुं च शंखं संवरणं तथा ।।
धृतराष्ट्रं च दुर्द्धर्षं दुर्जयं दुर्मुखं बलम् ।1.9.४०।
गोक्षं गोकार्मुकं चैव विरूपादींश्च शौनक ।।
न तेषां प्रवराश्चैव यावत्यः सर्पजातयः ।। ४१ ।।
कन्यका मनसा देवी कमलांशसमुद्भवा ।
तपस्विनीनां प्रवरा महातेजस्विनी शुभा ।४२।
यत्पतिश्च जरत्कारुर्नारायणकुलोद्भवः ।।
आस्तीकस्तनयो यस्या विष्णुतुल्यश्च तेजसा ।। ४३।
एतेषां नाममात्रेण नास्ति नागभयं नृणाम् ।।
कद्रूवंशो निगदितो विनतायाः शृणुष्व मे ।। ४४ ।।
वैनतेयारुणौ पुत्रौ विष्णुतुल्यपराक्रमौ ।।
तौ बभूवुः क्रमेणैव यावत्यः पक्षिजातयः ।। ४५ ।।
____________________
गावश्च महिषाश्चैव सुरभिप्रवरा इमे ।।
सर्वे वै सारमेयाश्च बभूवुः सरमासुताः ।।४६ ।।
दानवाश्च दनोर्वंशा अन्यास्सामान्यजातयः ।।
उक्तः कश्यपवंशश्च चन्द्राख्यानं निबोध मे ।४७ ।
नामानि चन्द्रपत्नीनां सावधानं निशामय ।।
अत्यपूर्वं च चरितं पुराणेषु पुरातनम् ।। ४८ ।।
अश्विनी भरणी चैव कृत्तिका रोहिणी तथा ।।
मृगशीर्षा तथाऽऽर्द्रा च पूज्या साध्वी पुनर्वसुः ।। ४९ ।।
पुष्याऽऽश्लेषा मघा पूर्वफल्गुन्युत्तरफल्गुनी ।।
हस्ता चित्रा तथा स्वाती विशाखा चानुराधिका ।। 1.9.५० ।।
ज्येष्ठा मूला तथा पूर्वाऽऽषाढा चैवोत्तरा स्मृता ।।
श्रवणा च धनिष्ठा च तथा शतभिषक् शुभा ।५१।
पूर्वा भाद्रोत्तराभाद्रा रेवत्यन्ता विधुप्रियाः ।।
तासां मध्ये च सुभगा रोहिणी रसिका वरा ।५२।
सन्ततं रसभावेन चकार शशिनं वशम् ।।
रोहिण्युपगतश्चन्द्रो न यात्यन्यां च कामिनीम् ।। ५३ ।।
सर्वा भगिन्यः पितरं कथयामासुरादृताः ।।
सपत्नीकृतसन्तापं प्राणनाशकरं परम् ।। ५४ ।।
दक्षः प्रकुपितश्चन्द्रमशपन्मन्त्रपूर्वकम् ।।
द्रुतं श्वशुरशापेन यक्ष्मग्रस्तो बभूव सः ।। ५५ ।।
दिने दिने यक्ष्मणा स क्षीयमाणश्च दुःखितः ।।
वपुष्यर्द्धं क्षीयमाणे शंकरं शरणं ययौ ।। ५६ ।।
दृष्ट्वा चन्द्रं शंकरश्च क्लेशितं शरणागतम् ।।
करुणासागरस्तस्मै कृपया चाभयं ददौ ।। ५७ ।।
निर्मुक्तं यक्ष्मणा कृत्वा स्वकपोले स्थलं ददौ ।।
अमरो निर्भयो भूत्वा स तस्थौ शिवशेखरे ।५८।
तं शिवः शेखरे कृत्वा चाभवच्चन्द्रशेखरः ।।
नास्ति देवेषु लोकेषु शिवाच्छरणपंजरः ।। ५९ ।।
दक्षकन्याः पतिं मुक्तं दृष्ट्वा च रुरुदुः पुनः ।।
आजग्मुः शरणं तातं दक्षं तेजस्विनां वरम् ।। 1.9.६०।
उच्चैश्च रुरुदुर्गत्वा निहत्याङ्गं पुनः पुनः ।।
तमूचुः कातरं दीना दीननाथं विधेः सुतम् ।। ६१ ।।
"दक्षकन्या ऊचुः ।।
स्वामिसौभाग्यलाभाय त्वमुक्तोऽस्माभिरेव च ।।
सौभाग्यमस्तु नस्तात गतः स्वामी गुणान्वितः ।। ६२ ।।
स्थिते चक्षुषि हे तात दृष्टं ध्वान्तमयं जगत् ।।
विज्ञातमधुना स्त्रीणां पतिरेव हि लोचनम् ।६३।
पतिरेव गतिः स्त्रीणां पतिः प्राणाश्च सम्पदः ।।
धर्मार्थकाममोक्षाणां हेतुः सेतुर्भवार्णवे ।। ६४ ।।
पतिर्नारायणः स्त्रीणां व्रतं धर्मः सनातनः ।।
सर्वं कर्म वृथा तासां स्वामिनां विमुखाश्च याः ।। ६५ ।।
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा ।।
सर्वदानानि पुण्यानि व्रतानि नियमाश्च ये ।। ६६ ।।
देवार्चनं चानशनं सर्वाणि च तपांसि च ।।
स्वामिनः पादसेवायाः कलां नार्हंति षोडशीम्।६७।
सर्वेषां बान्धवानां च प्रियः पुत्रश्च योषिताम् ।।
स एव स्वामिनोंऽशश्च शतपुत्रात्परः पतिः ।६८।
असद्वंशप्रसूता या सा द्वेष्टि स्वामिनं सदा ।।
यस्या मनश्चलं दुष्टं सन्ततं परपूरुषे ।। ६९ ।।
पतितं रोगिणं दुष्टं निर्धनं गुणहीनकम् ।।
युवानं चैव वृद्धं वा भजेत्तं न त्यजेत्सती ।। 1.9.७० ।।
सगुणं निर्गुणं वापि द्वेष्टि या संत्यजेत्पतिम् ।।
पच्यते कालसूत्रे सा यावच्चंद्रदिवाकरौ ।। ७१ ।।
कीटैः शुनकतुल्यैश्च भक्षिता सा दिवानिशम् ।।
भुङ्क्ते मृतवसामांसं पिबेन्मूत्रं च तृष्णया । ७२।
गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः ।।
श्वापदः शतजन्मानि सा भवेद्बन्धुहा ततः ।। ७३ ।।
ततो मानवजन्मानि लभेच्चेत्पूर्वकर्मणः ।।
विधवा धनहीना च रोगयुक्ता भवेद् ध्रुवम् ।७४ ।।
देहि नः कान्तदानं च कामपूरं विधेः सुत ।।
विधात्रा सदृशस्त्वं च पुनः स्रष्टुं क्षमो जगत्।७९।
कन्यानां वचनं श्रुत्वा दक्षः शंकरसन्निधिम् ।।
जगाम शम्भुस्तं दृष्ट्वा समुत्थाय ननाम च ।७६।
दक्षस्तस्याशिषं कृत्वा समुवाच कृपानिधिम् ।।
तत्याज कोपं दुर्द्धषो दृष्ट्वा च प्रणतं शिवम् ।७७।
"दक्ष उवाच ।
देहि जामातरं शम्भो मदीयं प्राणवल्लभम् ।।
मत्सुतानां च प्राणानां परमेव प्रियं पतिम् ।७८।
न चेद्ददासि जामातर्मम जामातरं विधुम् ।।
दास्यामि दारुणं शापं तुभ्यं त्वं केन मुच्यसे। ७९।
दक्षस्य वचनं श्रुत्वा तमुवाच कृपानिधिः ।।
सुधाधिकं च वचनं ब्रह्मञ्शरणपञ्जरः।1.9.८०।
"शिव उवाच ।
करोषि भस्मसाच्चेन्मां दद्या वा शापमेव च ।।
नाहं दातुं समर्थश्च चन्द्रं च शरणागतम् ।। ८१ ।।
शिवस्य वचनं श्रुत्वा दक्षस्तं शप्तुमुद्यतः ।।
शिवः सस्मार गोविन्दं विपन्मोक्षणकारकम् ।८२।
एतस्मिन्नन्तरे कृष्णो वृद्धब्राह्मणरूपधृक्।।
समाययौ तयोर्मूलं तौ तं च नमतुः क्रमात् ।८३।
दत्त्वा शुभाशिषं तौ स ब्रह्मज्योतिः सनातनः ।।
उवाच शङ्करं पूर्वं परिपूर्णतमो द्विज ।। ८४ ।।
"श्रीभगवानुवाच ।।
न चात्मनः प्रियः कश्चिच्छर्व सर्वेषु बन्धुषु ।।
आत्मानं रक्ष दक्षाय देहि चन्द्रं सुरेश्वर ।।८९।।
तपस्विनां वरः शान्तस्त्वमेवं वैष्णवाग्रणीः ।।
समः सर्वेषु जीवेषु हिंसाक्रोधविवर्जितः ।। ८६ ।।
दक्षः क्रोधी च दुर्द्धर्षस्तेजस्वी ब्रह्मणः सुतः ।।
शिष्टो बिभेति दुर्द्धर्षं न दुर्द्धर्षश्च कंचन ।। ८७ ।।
नारायणवचः श्रुत्वा हसित्वा शङ्करः स्वयम् ।।
उवाच नीतिसारं च नीतिबीजं परात्परम् ।। ८८ ।।
"शङ्कर उवाच ।।
तपो दास्यामि तेजश्च सर्वसिद्धिं च सम्पदम् ।।
प्राणांश्च न समर्थोऽहं प्रदातुं शरणागतम् ।। ८९ ।।
यो ददाति भयेनैव प्रपन्नं शरणागतम् ।।
तं च धर्मः परित्यज्य याति शप्त्वा सुदारुणम् ।। 1.9.९० ।।
सर्वं त्यक्तुं समर्थोऽहं न स्वधर्मं जगत्प्रभो ।।
यः स्वधर्मविहीनश्च स च सर्वबहिष्कृतः ।। ९१ ।।
यश्च धर्मं सदा रक्षेद्धर्मस्तं परिरक्षति ।।
धर्मं वेदेश्वर त्वं च किं मां ब्रूहि स्वमायया ।। ९२ ।।
त्वं सर्वमाता स्रष्टा च हन्ता च परिणामतः ।।
त्वयि भक्तिर्दृढा यस्य तस्य कस्माद्भयं भवेत् ।। ९३ ।।
शङ्करस्य वचः श्रुत्वा भगवान्सर्वभाववित् ।।
चन्द्रं चन्द्राद्विनिष्कृष्य दक्षाय प्रददौ हरिः । ९४।
प्रतस्थावर्द्धचन्द्रश्च निर्व्याधिः शिवशेखरे ।।
निजग्राह परं चन्द्रं विष्णुदत्तं प्रजापतिः ।। ९५ ।।
यक्ष्मग्रस्तं च तं दृष्ट्वा दक्षस्तुष्टाव माधवम् ।।
पक्षे पूर्णं क्षतं पक्षे तं चकार हरिः स्वयम् ।। ९६ ।।
कृष्णस्तेभ्यो वरं दत्त्वा जगाम स्वालयं द्विज ।।
दक्षश्चन्द्रं गृहीत्वा च कन्याभ्यः प्रददौ पुनः।९७।
चन्द्रस्ताश्च परिप्राप्य विजहार दिवानिशम् ।।
समं ददर्श ताः सर्वास्तत्प्रभृत्येव कम्पितः ।९८।
इत्येवं कथितं सर्वं किञ्चित्सृष्टिक्रमं मुने ।।
श्रुतं च गुरुवक्त्रेण पुष्करे मुनिसंसदि ।। ९९ ।।
ब्रह्मवैवर्तपुराण- अध्याय (१०) |
"सौतिरुवाच।
भृगोः पुत्रश्च च्यवनः शुक्रश्च ज्ञानिनां वर ।।
क्रतोरपि क्रिया भार्य्या वालखिल्यानसूयत ।। १ ।।
त्रयः पुत्राश्चाङ्गिरसो बभूवुर्मुनिसत्तमाः ।।
बृहस्पतिरुतथ्यश्च शम्बरश्चापि शौनक ।। २ ।।
वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः ।।
पराशरसुतः श्रीमान्कृष्णद्वैपायनो हरिः ।। ३ ।।
व्यासपुत्रः शिवांशश्च शुकश्च ज्ञानिनां वरः ।।
विश्वश्रवाः पुलस्त्यस्य यस्य पुत्रो धनेश्वरः ।। ४ ।।
"शौनक उवाच ।।
अहो पुराण वदुषामत्यन्तं दुर्गमं वचः ।।
न बुद्धं वचनं किंचिद्धनेशोत्पत्तिपूर्वकम् ।। ५ ।।
अधुना कथितं जन्म धनेशस्येश्वरादिदम् ।।
पुनर्भिंन्नक्रमं जन्म ब्रवीषि कथमेव माम् ।। ६ ।।
"सौतिरुवाच ।।
बभूवुरेते दिक्पालाः पुरा च परमेश्वरात् ।।
पुनश्च ब्रह्मशापेन स च विश्वश्रवस्सुतः ।। ७ ।।
गुरवे दक्षिणां दातुमुतथ्यश्च धनेश्वरम् ।।
ययाचे कोटिसौवर्णं यत्नतश्च प्रचेतसे ।। ८ ।।
धनेशो विरसो भूत्वा तस्मै तद्दातुमुद्यतः ।।
चकार भस्मसाद्विप्र पुनर्जन्म ललाभ सः ।। ९ ।।
तेन विश्रवसः पुत्रः कुबेरश्च धनाधिपः ।।
रावणः कुम्भकर्णश्च धार्मिकश्च विभीषणः ।। 1.10.१० ।।
पुलहस्य सुतो वात्स्यः शाण्डिल्यश्च रुचेः सुतः ।।
सावर्णिर्गौतमाज्जज्ञे मुनिप्रवर एव सः ।। ११ ।।
काश्यपः कश्यपाज्जातो भरद्वाजो बृहस्पतेः ।।
( स्वयं वात्स्यश्च पुलहात्सावर्णिर्गौतमात्तथा । १२।
शाण्डिल्यश्च रुचेः पुत्रो मुनिस्तेजस्विनां वरः ।।)
बभूवुः पञ्चगोत्राश्च एतेषां प्रवरा भवे ।। १३ ।।
बभूवुर्ब्रह्मणो वक्त्रादन्या ब्राह्मणजातयः।।
ताः स्थिता देशभेदेषु गोत्रशून्याश्च शौनक ।१४ ।।
चन्द्रादित्यमनूनां च प्रवराः क्षत्रियाः स्मृताः ।।
ब्रह्मणो बाहुदेशाच्चैवान्याः क्षत्रियजातयः ।१५।
ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः ।।
तासां सङ्करजातेन बभूवुर्वर्णसङ्कराः।१६ ।।
गोपनापितभिल्लाश्च तथा मोदककूबरौ ।।
ताम्बूलिस्वर्णकारौ च वणिग्जातय एव च । १७।
इत्येवमाद्या विप्रेन्द्र सच्छूद्राः परिकीर्त्तिताः ।।
शूद्राविशोस्तु करणोऽम्बष्ठो वैश्यद्विजन्मनोः।१८।
विश्वकर्मा च शूद्रायां वीर्य्याधानं चकार सः ।।
ततो बभूवुः पुत्राश्च नवैते शिल्पकारिणः ।। १९ ।।
मालाकारः शङ्खकारः कर्मकारः कुविन्दकः ।।
कुम्भकारः कांस्यकारः षडेते शिल्पिनां वराः ।। 1.10.२० ।।
सूत्रकारश्चित्रकारः स्वर्णकारस्तथैव च ।।
पतितास्ते ब्रह्मशापादयाज्या वर्णसङ्कराः ।। ।।२१।।
"शौनक उवाच ।।
कथं देवो विश्वकर्मा वीर्य्याधानं चकार सः ।।
शूद्रायामधमायां च कथं ते पतितास्त्रयः ।। २२ ।।
कथं तेषु ब्रह्मशापो ह्यभवत्केन हेतुना ।।
हे पुराणविदां श्रेष्ठ तन्नः शंसितुमर्हसि ।। २३ ।।
"सौतिरुवाच ।।
घृताची कामतः कामं वेषं चक्रे मनोहरम् ।।
तामपश्यद्विश्वकर्मा गच्छन्तीं पुष्करे पथि ।। २४।
आगच्छत्तद्विलोकाच्च प्रसादोत्फुल्लमानमः ।।
तां ययाचे स शृङ्गारं कामेन हृतचेतनः ।। २५ ।।
रत्नालङ्कारभूषाढ्यां सर्वावयवकोमलाम् ।।
यथा षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।।२६।।
बृहन्नितम्ब भारार्तां मुनिमानसमोहिनीम् ।।
अतिवेगकटाक्षेण लोलां कामातिपीडिताम् ।।२७।।
तच्छ्रोणीं कठिनां दृष्ट्वा वायुनाऽपहृतांशुकाम् ।।
अतीवोच्चैः स्तनयुगं कठिनं वर्तुलं परम् ।। २८ ।।
सुस्मितं चारु वक्त्रं च शरच्चन्द्रविनिन्दकम् ।।
पक्वबिम्बफलारक्तस्वोष्ठाधरमनोहरम् ।। २९ ।।
सिन्दूरबिन्दुसंयुक्तं कस्तूरीबिन्दुसंयुतम् ।।
कपोलमुज्ज्वलं शश्वन्महार्हमणिकुण्डलम् ।। 1.10.३० ।।
तामुवाच प्रियां शान्तां कामशास्त्रविशारदः ।।
कामाग्निवर्द्धनोद्योगि वचनं श्रुतिसुन्दरम् ।। ३१ ।।
"विश्वकर्मोवाच ।।
अयि क्व यासि ललिते मम प्राणाधिके प्रिये ।।
मम प्राणांश्चापहत्य तिष्ठ कान्ते क्षणं शुभे ।। ३२।
तवैवान्वेषणं कृत्वा भ्रमामि जगतीतलम् ।।
स्वप्राणांस्त्यक्तुमिष्टोऽहं त्वां न दृष्ट्वा हुताशने ।।३३।।
त्वं कामलोकं यासीति श्रुत्वा रम्भामुखोदितम् ।।
आगच्छमहमेवाद्य चास्मिन्वर्त्मन्यवस्थितः ।। ३४।
अहो सरस्वतीतीरे पुष्पोद्याने मनोहरे ।।
सुगन्धिमन्दशीतेन वायुना सुरभीकृते ।। ३५ ।।
यभ कान्ते मया सार्द्धं यूना कान्तेन शोभने।।
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् ।।३६।।
स्थिरयौवनसंयुक्ता त्वमेव चिरजीविनी।।
कामुकी कोमलाङ्गी च सुन्दरीषु च सुन्दरी।।३७।।
मृत्युंजयवरेणैव मृत्युकन्या जिता मया ।।
कुबेरभवनं गत्वा धनं लब्धं कुबेरतः।।३८।।
रत्नमाला च वरुणाद्वायोः स्त्रीरत्नभूषणम् ।।
वह्निशुद्धं वस्त्रयुगं वह्नेः प्राप्तं महौजसः।।३९।।
कामशास्त्रं कामदेवाद्योषिद्रञ्जनकारम्।।
शृङ्गारशिल्पं यत्किञ्चिल्लब्धं चन्द्राच्च दुर्लभम् ।। 1.10.४० ।।
रत्नमालां वस्त्रयुग्मं सर्वाण्याभरणानि च ।।
तुभ्यं दातुं हृदि कृतं प्राप्तं तत्क्षणमेव च ।। ४१ ।।
गृहे तानि च संस्थाप्य चागतोऽन्वेषणे भवे ।।
विरामे सुखसम्भोगे तुभ्यं दास्यामि साम्प्रतम् ।। ४२ ।।
कामुकस्य वचः श्रुत्वा घृताची सस्मिता मुने ।।
ददौ प्रत्युत्तरं शीघ्रं नीतियुक्तं मनोहरम् ।। ४३ ।।
"घृताच्युवाच ।।
त्वया यदुक्तं भद्रं तत्स्वीकरोम्यधुना परम् ।। ।
किन्तु सामयिकं वाक्यं ब्रवीष्यामि स्मरातुर ।४४ ।
कामदेवालयं यामि कृतवेषा च तत्कृते ।।
यद्दिने यत्कृते यामो वयं तेषां च योषितः ।।४५।।
अद्याहं कामपत्नी च गुरुपत्नी तवाधुना ।।
त्वयोक्तमधुनेदं च पठितं कामदेवतः ।। ४६ ।।
विद्यादाता मन्त्रदाता गुरुर्लक्षगुणैः पितुः ।।
मातुः सहस्रगुणवान्नास्त्यन्यस्तत्समो गुरुः ।।४७।।
गुरोः शतगुणैः पूज्या गुरुपत्नी श्रुतौ श्रुता।।
पितुः शतगुणं पूज्या यथा माता विचक्षण ।।४८।।
मात्रा समागमे सूनोर्यावान्दोषः श्रुतौ श्रुतः ।।
ततो लक्षगुणो दोषो गुरुपत्नीसमागमे ।। ४९ ।।
मातरित्येव शब्देन यां च सम्भाषते नरः ।।
स मातृतुल्या सत्येन धर्मः साक्षी सतामपि ।। 1.10.५० ।।
तया हि संगतो यस्स्यात्कालसूत्रं प्रयाति सः ।।
तत्र घोरे वसत्येव यावच्चन्द्रदिवाकरौ ।। ५१ ।।
मात्रा सह समायोगे ततो दोषश्चतुर्गुणः ।।
सार्द्धं च गुरुपत्न्या च तल्लक्षगुण एव च।।५२।।
कुम्भीपाके पतत्येव यावद्वै ब्रह्मणो वयः ।।
प्रायश्चित्तं पापिनश्च तस्य नैव श्रुतौ श्रुतम् ।।५३।।
चक्राकारं कुलालस्य तीक्ष्णधारं च खङ्गवत् ।।
वसामूत्रपुरीषैश्च परिपूर्णं सुदुस्तरम् ।। ५४ ।।
शूलवत्कृमिसंयुक्तं तप्तमग्निसमं द्रवत् ।।
पापिनां तद्विहारं च कुम्भीपाकप्रकीर्तितम् ।५५ ।।
यावान्दोषो हि पुंसां च गुरुपत्नीसमागमे ।।
तावांश्च गुरुपत्न्यां वै तत्र चेत्कामुकी यदि । ५६ ।।
अद्य यास्यामि कामस्य मन्दिरं तस्य कामिनी ।।
वेषं कृत्वा गमिष्यामि त्वत्कृतेऽहं दिनान्तरे ।।५७।।
घृताचीवचनं श्रुत्वा विश्वकर्मा रुरोष ताम् ।।
शशाप शूद्रयोनिं च व्रजेति जगतीतले ।।५८।।
घृताची तद्वचः श्रुत्वा तं शशाप सुदारुणम् ।।
लभ जन्म भवे त्वं च स्वर्गभ्रष्टो भवेति च ।। ५९।
घृताची कारुमुक्त्वा च साऽगच्छत्काममन्दिरम् ।।
कामेन सुरतं कृत्वा कथयामास तां कथाम् ।।1.10.६० ।।
सा भारते च कामोक्त्या गोपस्य मदनस्य च ।।
पत्न्यां प्रयागे नगरे लेभे जन्म च शौनक ।। ६१ ।
जातिस्मरा तत्प्रसूता बभूव च तपस्विनी ।।
वरं न वव्रे धर्मिष्ठा तपस्यायां मनो दधौ ।। ६२ ।।
तपश्चकार तपसा तप्तकाञ्चनसन्निभा ।।
दिव्यं च शतवर्षं सा गङ्गातीरे मनोरमे ।। ६३ ।।
वीर्येण सुरकारोश्च नव पुत्रान्प्रसूय सा ।।
पुनः स्वलोकं गत्वा च सा घृताची बभूव ह ।६४ ।।
"शौनक उवाच ।।
कथं वीर्य्यं सा दधार सुरकारोस्तपस्विनी ।।
पुत्रान्नव प्रसूता च कुत्र वा कति वासरान्।। ६५ ।
"सौतिरुवाच ।।
विश्वकर्मा तु तच्छापं समाकर्ण्य रुषाऽन्वितः ।।
जगाम ब्रह्मणः स्थानं शोकेन हृतचेतनः ।। ६६ ।।
नत्वा स्तुत्वा च ब्रह्माणं कथयामास तां कथाम् ।।
ललाभ जन्म ब्राह्मण्यां पृथिव्यामाज्ञया विधेः ।। ६७ ।।
स एव ब्राह्मणो भूत्वा भुवि कारुर्बभूव ह ।।
नृपाणां च गृहस्थानां नानाशिल्पं चकार ह ।।६८।।
शिल्पं च कारयामास सर्वेभ्यः सर्वतः सदा ।
विचित्रं विविधं शिल्पमाश्चर्य्यं सुमनोहरम् ।६९।
एकदा तु प्रयागे च शिल्पं कृत्वा नृपस्य च ।।
स्नातुं जगाम गङ्गां स चापश्यत्तत्र कामिनीम्।1.10.७०।।
घृताचीं नवरूपां च युवतिं तां तपस्विनीम् ।।
जातिस्मरां तां बुबुधे स च जातिस्मरो द्विज ।। ७१।
दृष्ट्वा सकामः सहसा बभूव हृतचेतनः ।।
उवाच मधुरं शान्तः शान्तां तां च तपस्विनीम्।।७२।।
"ब्राह्मण उवाच ।।
अहोऽधुना त्वमत्रैव घृताचि सुमनोहरे ।।
मा मां स्मरसि रम्भोरु विश्वकर्माऽहमेव च।।७३।।
शापमोक्षं करिष्यामि भज मां तव सुन्दरि।।
त्वत्कृतेऽतिदहत्येव मनो मे स च मन्मथः। ७४ ।।
द्विजस्य वचनं श्रुत्वा घृताची नवरूपिणी।।
उवाच मधुरं शान्ता नीतियुक्तं परं वचः ।।७५।।
"गोपिकोवाच।।
तद्दिने कामकान्ताऽहमधुना च तपस्विनी ।।
कथं त्वया संगता स्यां गंगातीरे च भारते ।। ७६ ।।
विश्वकर्मन्निदं पुण्यं कर्मक्षेत्रं च भारतम् ।।
अत्र यत्क्रियते कर्म भोगोऽन्यत्र शुभाशुभम्।७७ ।
धर्मी मोक्षकृते जन्म प्रलभ्य तपसः फलात् ।।
निबद्धः कुरुते कर्म मोहितो विष्णुमायया ।७८ ।।
माया नारायणीशाना परितुष्टा च यं भवेत् ।।
तस्मै ददाति श्रीकृष्णो भक्तिं तन्मन्त्रमीप्सितम् ।। ७९ ।।
यो मूढो विषयासक्तो लब्धजन्मा च भारते ।।
विहाय कृष्णं सर्वेशं स मुग्धो विष्णुमायया ।। 1.10.८० ।।
सर्वं स्मरामि देवाहमहो जातिस्मरा पुरा ।।
घृताची सुरवेश्याऽहमधुना गोपकन्यका ।। ८१ ।।
तपः करोमि मोक्षार्थं गङ्गातीरे सुपुण्यदे ।।
नात्र स्थलं च क्रीडायाः स्थिरस्त्वं भव कामुक ।। ८२ ।।
अन्यत्र यत्कृतं पापं गंगायां तद्विनश्यति ।।
गंगातीरे कृतं पापं सद्यो लक्षगुणं भवेत् ।। ८३ ।।
तत्तु नारायणक्षेत्रे तपसा च विनश्यति ।।
यद्येव कामतः कृत्वा निवृत्तश्च भवेत्पुनः ।। ८४ ।।
घृताचीवचनं श्रुत्वा विश्वकर्माऽनिलाकृतिः ।।
जगाम तां गृहीत्वा च मलयं चन्दनालयम्। ८५ ।।
रम्यायां मलयद्रोण्यां पुष्पतल्पे मनोरमे ।। ।
पुष्पचन्दनवातेन संततं सुरभीकृते।।८६।।
चकार सुखसम्भोगं तया स विजने वने ।।
पूर्णं द्वादशवर्षं च बुबुधे न दिवानिशम्।।८७।।
बभूव गर्भः कामिन्याः परिपूर्णः सुदुर्वहः।।
सा सुषाव च तत्रैव पुत्रान्नव मनोहरान्।।८८।।
कृतशिक्षितशिल्पांश्व ज्ञानयुक्तांश्च शौनक।।
पूर्णप्राक्तनतो युग्यान्बलयुक्तान्विचक्षणान् ।८९ ।।
मालाकारान्कर्मकाराञ्छङ्खकारान्कुविन्दकान् ।
कुम्भकारान्सूत्रकारान्स्वर्णचित्रकरांस्तथा ।। 1.10.९० ।।
तौ च तेभ्यो वरं दत्त्वा तान्संस्थाप्य महीतले ।।
मानवीं तनुमुत्सृज्य जग्मतुर्निजमन्दिरम् ।। ९१ ।।
स्वर्णकारः स्वर्णचौर्याद्ब्राह्मणानां द्विजोत्तम ।।
बभूव पतितः सद्यो ब्रह्मशापेन कर्मणा ।। ९२ ।।
सूत्रकारो द्विजानां तु शापेन पतितो भुवि ।।
शीघ्रं च यज्ञकाष्ठानि न ददौ तेन हेतुना।।९३।।
व्यतिक्रमेण चित्राणां सद्यश्चित्रकरस्तथा ।।
पतितो ब्रह्मशापेन ब्राह्मणानां च कोपतः।।९४।
कश्चिद्वणिग्विशेषश्च संसर्गात्स्वर्णकारिणः ।।
स्वर्णचौर्य्यादिदोषेण पतितो ब्रह्मशापतः ।।९५।।
कुलटायां च शूद्रायां चित्रकारस्य वीर्य्यतः ।।
बभूवाट्टालिकाकारः पतितो जारदोषतः ।। ९६ ।।
अट्टालिकाकारबीजात्कुम्भकारस्य योषिति ।।
बभूव कोटकः सद्यः पतितो गृहकारकः ।। ९७ ।।
कुम्भकारस्य बीजेन सद्यः कोटकयोषिति ।।
बभूव तैलकारश्च कुटिलः पतितो भुवि।। ।। ९८ ।।
सद्यः क्षत्रियबीजेन राजपुत्रस्य योषिति ।।
बभूव तीवरश्चैव पतितो जारदोषतः ।। ९९ ।।
तीवरस्य तु बीजेन तैलकारस्य योषिति।।
बभूव पतितो दस्युर्लेटश्च परिकीर्तितः ।। 1.10.१०० ।।
लेटस्तीवरकन्यायां जनयामास षट् सुतान् ।।
माल्लं मन्त्रं मातरं च भण्डं कोलं कलन्दरम् ।। १०१ ।।
ब्राह्मण्यां शूद्रवीर्य्येण पतितो जारदोषतः ।।
सद्यो बभूव चण्डालः सर्वस्मादधमोऽशुचिः ।। ।। १०२ ।।
तीवरेण च चण्डाल्यां चर्मकारो बभूव ह ।।
चर्मकार्य्यां च चण्डालान्मांसच्छेदो बभूव ह ।। १०३ ।।
मांसच्छेद्यां तीवरेण कोञ्चश्च परिकीर्तितः ।।
कोञ्चस्त्रियां तु कैवर्त्तात्कर्त्तारः परिकीर्तितः ।। १०४ ।।
सद्यश्चण्डालकन्यायां लेटवीर्य्येण शौनक ।।
बभूवतुस्तौ द्वौ पुत्रौ दुष्टौ हड्डिडमौ तथा ।।१०५।।
क्रमेण हड्डिकन्यायां सद्यश्चण्डालवीर्य्यतः ।।
बभूवुः पञ्च पुत्राश्च दुष्टा वनचराश्च ते ।। १०६ ।।
लेटात्तीवरकन्यायां गङ्गातीरे च शौनक ।।
बभूव सद्यो यो बालो गङ्गापुत्रः प्रकीर्तितः।१०७ ।
गङ्गापुत्रस्य कन्यायां वीर्य्याद्वै वेषधारिणः ।।
बभूव वेषधारी च पुत्रो युङ्गी प्रकीर्तितः ।। १०८ ।।
वैश्यात्तीवरकन्यायां सद्यः शुण्डी बभूव ह ।।
शुण्डीयोषिति वैश्यानु पौण्ड्रकश्च बभूव ह ।। १०९।
क्षत्रात्करणकन्यायां राजपुत्रो बभूव ह ।।
राजपुत्र्यां तु करणादागरीति प्रकीर्तितः ।। 1.10.११० ।।
_______________
क्षत्रवीर्य्येण वैश्यायां कैवर्त्तः परिकीर्तितः ।।
कलौ तीवरसंसर्गाद्धीवरः पतितो भुवि ।। १११ ।।
तीवर्यां धीवरात्पुत्रो बभूव रजकः स्मृतः ।।
रजक्यां तीवराच्चैव कोयालीति बभूव ह ।११२ ।।
नापिताद्गोपकन्यायां सर्वस्वी तस्य योषिति ।।
क्षत्राद्बभूव व्याधश्च बलवान्मृगहिंसकः ।। ११३ ।।
तीवराच्छुण्डिकन्यायां बभूवुः सप्त पुत्रकाः ।।
ते कलौ हड्डिसंसर्गाद्बभूवुर्दस्यवः सदा ।। ११४ ।।
ब्राह्मण्यामृषिवीर्य्येण ऋतोः प्रथमवासरे ।।
कुत्सितश्चोदरे जातः कूदरस्तेन कीर्तितः ।११५ ।।
तदशौचं विप्रतुल्यं पतितश्चर्तुदोषतः ।।
सद्यः कोटकसंसर्गादधमो जगतीतले ।। ११६ ।।
क्षत्रवीर्य्येण वैश्यायामृतोः प्रथमवासरे ।।
जातः पुत्रो महादस्युर्बलवांश्च धनुर्द्धरः ।। ११७ ।।
चकार वागतीतं च क्षत्रियेणापि वारितः ।।
तेन जात्याः स पुत्रश्च वागतीतः प्रकीर्तितः ।११८।
क्षत्त्रवीर्य्येण शूद्रायामृतुदोषेण पापतः ।।
बलवन्तो दुरन्ताश्च बभूवुर्म्लेच्छजातयः ।। ११९ ।।
अविद्धकर्णाः क्रूराश्च निर्भया रणदुर्जयाः ।।
शौचाचारविहीनाश्च दुर्द्धर्षा धर्मवर्जिताः ।। 1.10.१२० ।।
म्लेच्छात्कुविन्दकन्यायां जोला जातिर्बभूव ह।। ।
जोलात्कुविन्दकन्यायां शराङ्कः परिकीर्तितः ।। १२१ ।।
वर्णसङ्करदोषेण बह्व्यश्चाश्रुतजातय ।।
तासां नामानि संख्याश्च को वा वक्तुं क्षमो द्विज ।। १२२ ।।
वैद्योऽश्विनीकुमारेण जातो विप्रस्य योषिति ।।
वैद्यवीर्य्येण शूद्रायां बभूवुर्बहवो जनाः ।। १२३ ।।
ते च ग्राम्यगुणज्ञाश्च मन्त्रौषधिपरायणाः ।।
तेभ्यश्च जाताः शूद्रायां ये व्यालग्राहिणो भुवि ।। १२४ ।।
"शौनक उवाच ।।
कथं ब्राह्मणपत्न्यां तु सूर्य्यपुत्रोऽश्विनीसुतः ।।
अहो केनाविवेकेन वीर्य्याधानं चकार ह ।१२९ ।।
"सौतिरुवाच ।।
गच्छन्तीं तीर्थयात्रायां ब्राह्मणीं रविनन्दनः ।।
ददर्श कामुकः शान्तः पुष्पोद्याने च निर्जने ।१२६।
तया निवारितो यत्नाद्बलेन बलवान्सुरः ।।
अतीव सुन्दरीं दृष्ट्वा वीर्य्याधानं चकार सः ।। १२७ ।।
द्रुतं तत्याज गर्भं सा पुष्पोद्याने मनोहरे ।।
सद्यो बभूव पुत्रश्च तप्तकाञ्चनस न्निभः ।१२८ ।।
सपुत्रा स्वामिनो गेहं जगाम व्रीडिता सदा ।।
स्वामिनं कथयामास यन्मार्गे दैवसङ्कटम् ।। १२९।
विप्रो रोषेण तत्याज तं च पुत्रं स्वकामिनीम् ।।
सरिद्बभूव योगेन सा च गोदावरी स्मृता ।। 1.10.१३० ।।
पुत्रं चिकित्साशास्त्रं च पाठयामास यत्नतः ।।
नानाशिल्पं च मंत्रं च स्वयं स रविनन्दनः ।१३१ ।।
विप्रश्च वेतनाज्योतिर्गणनाच्च निरन्तरम् ।।
वेदधर्मपरित्यक्तो बभूव गणको भुवि ।। १३२ ।।
लोभी विप्रश्च शूद्राणामग्रे दानं गृहीतवान् ।।
ग्रहणे मृतदानानामग्रादानो बभूव सः ।। १३३ ।।
कश्चित्पुमान्ब्रह्मयज्ञे यज्ञकुण्डात्समुत्थितः ।।
स सूतो धर्मवक्ता च मत्पूर्वपुरुषः स्मृतः ।१३४ ।
पुराणं पाठयामास तं च ब्रह्मा कृपानिधिः ।।
पुराणवक्ता सूतश्च यज्ञकुण्डसमुद्भवः ।। १३९ ।।
वैश्यायां सूतवीर्य्येण पुमानेको बभूव ह ।।
स भट्टो वावदूकश्च सर्वेषां स्तुतिपाठकः ।१३६ ।।
एवं ते कथितः किंचित्पृथिव्यां जातिनिर्णय ।।
वर्णसङ्करदोषेण बह्व्योऽन्याः सन्ति जातयः।१ ३७।
सबन्धो येषु येषां यः सर्वजातिषु सर्वतः ।।
तत्त्वं ब्रवीमि वेदोक्तं ब्रह्मणा कथितं पुरा ।१३८ ।।
पिता तातस्तु जनको जन्मदाता प्रकीर्तितः ।।
अम्बा माता च जननी जनयित्री प्रसूरपि ।१३९ ।।
पितामहः पितृपिता तत्पिता प्रपितापहः ।।
अत ऊर्ध्वं ज्ञातयश्च सगोत्राः परिकीर्तितः ।। 1.10.१४० ।।
मातामहः पिता मातुः प्रमातामह एव च ।।
मातामहस्य जनकस्तत्पिता वृद्धपूर्वकः ।१४१ ।।
पितामही पितुर्माता तच्छ्वश्रूः प्रपितामही ।।
तच्छ्वश्रूश्च परिज्ञेया सा वृद्धप्रपितामही ।१४२ ।।
मातामही मातृमाता मातृतुल्या च पूजिता ।।
प्रमातामहीति ज्ञेया प्रमातामहकामिनी ।। १४३ ।।
वृद्धमातामही ज्ञेया पत्पितुः कामिनी तथा ।।
पितृभ्राता पितृ व्यश्च मातृभ्राता च मातुलः ।१४४।
पितृष्वसा पितुर्मातृष्वसा मातुस्स्वसा स्मृता ।।
सूनुश्च तनयः पुत्रो दायादश्चात्मजस्तथा।।१४५ ।।
धनभाग्वीर्य्यजश्चैव पुंसि जन्ये च वर्त्तते ।।
जन्यायां दुहिता कन्या चात्मजा परिकीर्तिता। १४६।
पुत्रपत्नी वधू ज्ञेया जामाता दुहितुः पतिः ।।
पतिः प्रियश्च भर्ता च स्वामीकान्ते च वर्तते ।। १४७ ।।
देवरः स्वामिनो भ्राता ननांदा स्वामिनः स्वसा ।।
श्वशुरः स्वामिनस्तातः श्वश्रूश्च स्वामिनः प्रसूः ।। १४८ ।।
भार्य्या जाया प्रिया कान्ता स्त्री व पत्नी प्रकीर्तिता।
पत्नीभ्राता श्यालकश्च स्वसा पत्न्याश्च श्यालिका ।। १४९ ।।
पत्नीमाता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः ।।
सगर्भः सोदरो भ्राता सगर्भा भगिनी स्मृता ।। 1.10.१५० ।।
भगिनीजो भागिनेयो भ्रातृजो भ्रातृपुत्रकः ।।
आवुत्तो भगिनीकान्तो भगिनीपतिरेव च।१९१ ।।
श्यालीपतिस्तु भ्राता च श्वशुरैकत्वहेतुना ।।
श्वशुरस्तु पिता ज्ञेयो जन्मदातुः समो मुने ।।१९२।।
अन्नदाता भयत्राता पत्नीतातस्तथैव च ।।
विद्यादाता जन्मदाता पंचैते पितरो नृणाम् ।। १५३।।
अन्नदातुश्च या पत्नी भगिनी गुरुकामिनी
माता च तत्सपत्नी च कन्या पुत्रप्रिया तथा ।।१५४।।
मातुर्माता पितुर्माता श्वश्रूपित्रोः स्वसा तथा।।
पितृव्यस्त्री मातुलानी मातरश्च चर्तुदश।।१५५।।
पौत्रस्तु पुत्रपुत्रे च प्रपौत्रस्तत्सुतेऽपि च ।।
तत्पुत्राद्याश्च ये वंश्याः कुलजाश्च प्रकीर्तिताः।।१५६।।
कन्यापुत्रश्च दौहित्रस्तत्पुत्राद्याश्च बांधवाः।।
भागिनेयसुताद्याश्च पुरुषा बांधवाः स्मृताः।।१५७।।
भ्रातृपुत्रस्य पुत्राद्यास्ते पुनर्ज्ञातयः स्मृताः ।।
गुरुपुत्रस्तथा भ्राता पोष्यः परमबान्धवः।।१५८।।
गुरुकन्या च भगिनी पोष्या मातृसमा मुने।।
पुत्रस्य च गुरुर्भ्राता पोष्यः सुस्निग्धबान्धवः ।।१५९।।
पुत्रस्य श्वशुरो भ्राता बन्धुर्वैवाहिकः स्मृतः।।
कन्यायाः श्वशुरे चैव तत्सम्बन्धः प्रकीर्तितः।।1.10.१६०।।
गुरुश्च कन्यकायाश्च भ्राता सुस्निग्धबान्धवः ।।
गुरुश्वशुरभ्रातॄणां गुरुतुल्यः प्रकीर्तितः ।। १६१।।
बन्धुता येन सार्द्ध च तन्मित्रं परिकीर्तितम् ।।
मित्रं सुखप्रदं ज्ञेयं दुःखदो रिपुरुच्यते ।। १६२ ।।
बान्धवो दुःखदो दैवान्निस्सम्बन्धोऽसुखप्रदः ।।
सम्बन्धास्त्रिविधाः पुंसां विप्रेन्द्र जगतीतले ।१६३।
विद्याजो योनिजश्चैव प्रीतिजश्च प्रकीर्तितः ।।
मित्रं तु प्रीतिजं ज्ञेयं स सम्बधः सुदुर्लभः ।१६४ ।।
मित्रमाता मित्रभार्य्या मातृतुल्या न संशयः।।
मित्रभ्राता मित्रपिता भ्रातृतातसमौ नृणाम् ।।१६५।।
चतुर्थं नामसम्बन्धमित्याह कमलोद्भवः।।
जारश्चोपपर्तिर्बन्धुर्दुष्टा सम्भोगकर्त्तरि ।। १६६ ।।
उपपत्न्यां नवज्ञा च प्रेयसी चित्तहारिणी ।।
स्वामितुल्यश्च जारश्च नवज्ञा गृहिणी समा ।१६७।
सम्बन्धो देशभेदे च सर्वदेशे विगर्हितः ।।
अवैदिको निन्दितस्तु विश्वामित्रेण निर्मितः ।१६८।
दुस्त्यजश्च महद्भिस्तु देशभेदे विधीयते ।।
अकीर्तिजनकः पुंसां योषितां च विशेषतः।१६९।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें