हविष्यमत्स्यमांसैस्तु शशस्य नकुलस्य च ।
सोकरच्छाकलैणेयरौरवैर्गवयेन च ॥३,१६.१॥
औरभ्रगव्यैश्च तथा मासवृद्ध्या पितामहाः।
प्रयान्ति तृप्तिं मांसैस्तु नित्यं वार्ध्रोणसामिषैः॥ ३,१६.२॥
खड्गमांसमतीवात्र कालशाकं तथा मधु ।
शस्तानि कर्मण्यत्यन्ततृप्तिदानि नरेश्वर ॥ ३,१६.३ ॥
गयामुपेत्य यः श्राद्धं करोति पृथिवीपते ।
सफलं तस्य तज्जन्म जायते पितृतीष्टिदम् ॥ ३,१६.४ ॥
प्रशान्तिकाःसमीवाराः श्यामाका द्विविधास्तथा ।
वन्यैषधीप्रधानास्तु श्राद्धार्हाः पुरुषर्षभ ॥ ३,१६.५ ॥
यवाः प्रियङ्गवो मुद्गा गोधूमा व्रीहयस्तिलाः ।
निष्पावाः कोविदाराश्च सर्षपाश्चात्र सोभनाः ॥ ३,१६.६ ॥
अकृताग्रयणं यच्च धान्यजातं नरेश्वर ।
राजमाषानणुंश्चैव मसूरांश्च विसर्जयेत् ॥ ३,१६.७ ॥
अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम् ।
गान्धारककरंवादिलवणान्यौषराणि च ॥ ३,१६.८ ॥
आरक्ताश्चैव निर्यासाः प्रत्यक्षलवणानि च ।
वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते ॥ ३,१६.९ ॥
नक्ताहृतमनुच्छिन्नं तृप्यते न च यत्र गौः ।
दुर्गंधिफेनिलं चांबु श्राद्धयोग्यं न पार्थिव ॥ ३,१६.१० ॥
क्षीरमेकशफानां यदौष्ट्रमाविकमेव च ।
मार्गं च माहिषं चैव वर्जयेच्छ्राद्धकर्मणि ॥ ३,१६.११ ॥
षण्डापविद्धचण्डालपापिपाषण्डरोगिभिः ।
कृकवाकुश्वाननग्नवानरग्रामसूकरैः ॥ ३,१६.१२ ॥
उदक्यासूतिकाशौचमृतहारैश्च वीक्षिते ।
श्राद्धे सुरा न पितरो भुञ्जन्ते पुरुषर्षभ ॥ ३,१६.१३ ॥
तस्मात्परीश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः ।
उर्व्यां च तिलविक्षेपाद्यातुधानान्निवारयेत् ॥ ३,१६.१४ ॥
नखादिना चोपपन्नं केशकीटादिभिर्नृप ।
न चैवाभिषवैर्मिश्रमन्नं पर्युषितं तथा ॥ ३,१६.१५ ॥
श्रद्धासमन्वितैर्दत्तं पितृभ्यो नामगोत्रतः ।
यदाहारास्तु ते जातास्तदाहारत्वमेति तत् ॥ ३,१६.१६ ॥
श्रूयते चापि पितृर्भिगीता गाथा महीपते ।
इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा ॥ ३,१६.१७ ॥
अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः ।
गयामुपेत्य ये पिण्डान्दास्यन्त्यस्माकमादरात् ॥ ३,१६.१८ ॥
अपि नःस कुले जायाद्यो नो दद्यात्त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च ॥ ३,१६.१९ ॥
गौरीं वाप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् ।
यजेत वाश्वमेधेन विधिवद्दक्षिणावता ॥ ३,१६.२० ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे षोडशोऽध्यायः (१६)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें