गुरुवार, 25 मई 2023

महाभारतम्/शांतिपव अध्याय- (186) भृगुणा भरद्वाजंप्रति सर्वेषां ब्राह्मणत्वाविशेषेपि क्षत्रियादिवर्णविभागस्य तत्तत्स्वैराचारनिबन्धनत्वोक्तिः

महाभारतम्/शांतिपव अध्याय- (186) 

भृगुणा भरद्वाजंप्रति सर्वेषां ब्राह्मणत्वाविशेषेपि क्षत्रियादिवर्णविभागस्य तत्तत्स्वैराचारनिबन्धनत्वोक्तिः।। 1।।

भृगुरुवाच।12-186-1x
असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतीन्।
आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान्।।
12-186-1a
12-186-1b
ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम्।
आचारं चैव शौचं च सर्गादौ विदधे प्रभुः।।
12-186-2a
12-186-2b
देवदानवगन्वर्गा दैत्यासुरमहोरगाः।
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा।।
12-186-3a
12-186-3b
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम।
ये चान्ये भूतसङ्घानां संघातास्तांश्च निर्ममे।।
12-186-4a
12-186-4b
ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः।
वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा।।
12-186-5a
12-186-5b
भरद्वाज उवाच।12-186-6x
चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते।
सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः।।
12-186-6a
12-186-6b
कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः।
सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते।।
12-186-7a
12-186-7b
स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम्।
तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते।।
12-186-8a
12-186-8b
जङ्गमानामसङ्ख्येयाः स्थावराणां च जातयः।
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः।।
12-186-9a
12-186-9b
भृगुरुवाच।12-186-10x
न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत्।
ब्राह्मणाः पूर्वसृष्टा हि कर्मभिर्वर्णतां गताः।।
12-186-10a
12-186-10b
कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः।
त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः।।
12-186-11a
12-186-11b
गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः।
स्वधर्मान्नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः।।
12-186-12a
12-186-12b
हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः।
कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रता गताः।।
12-186-13a
12-186-13b
इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः।
धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते।।
12-186-14a
12-186-14b
इत्येते चतुरो वर्णा येषां ब्राह्मी सरस्वती।
विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः।।
12-186-15a
12-186-15b
ब्राह्मणा ब्रह्मतन्त्रस्थास्तपस्तेषां न नश्यति।
ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा।।
12-186-16a
12-186-16b
ब्रह्म वैव परं सृष्टं ये तु जानन्ति ते द्विजाः।
तेषां बहुविधास्त्वन्ये तत्रतत्र द्विजातयः।।
12-186-17a
12-186-17b
पिशाचा राक्षसाः प्रेता विविधा म्लेच्छजातयः।
प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः।।
12-186-18a
12-186-18b
प्रजा ब्राह्मणसंस्काराः स्वकर्मकृतनिश्चयाः।
ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः।।
12-186-19a
12-186-19b
आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया।
सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा।।
12-186-20a
12-186-20b
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि षडशीत्यधिकशततमोऽध्यायः।। 186।।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें