रविवार, 26 मार्च 2023

राध्नोति साधयति भक्तानां कार्य्याणीति इति राधा।(राध् + अच् + टाप् )

(राध्नोति साधयति भक्तानां कार्य्याणीति इति राधा।(राध् + अच् +  टाप् ) 

गोपीविशेषः ) श्रीराधिका।  सा च श्रीकृष्णवामभागांशा शक्तिः। 
यथा “स कृष्णः सर्व्वसृष्ट्यादौ सिसृक्षुरेक एव च।
सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः॥

स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह। स्त्रीरूपा वामभागांशा दक्षिणांशः पुमान् स्मृतः॥

तां ददर्श महाकामी कामाधारः सनातनः। अतीवकमनीयाञ्च चारुचम्पकसन्निभाम्॥
“ इत्यादि॥

तस्या अनपत्यताकारणादिर्यथा -“दृष्टिमात्रं तया सार्द्धं रासेशो रासमण्डले।
रासोल्लासे सुरहसि रासक्रीडाञ्चकार ह॥

 नानाप्रकारशृङ्गारं शृङ्गारो मूर्त्तिमानिव।
 चकार सुखसम्भोगं यावद्वै ब्रह्मणो दिनम् ॥ 

ततः स चापरिश्रान्तस्तस्या योनौ जगत्पिता।
चकार वीर्य्याधानञ्च नित्यानन्दः शुभे क्षणे॥

गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत। निःससार श्रमजलं श्रान्तायास्तेजसा हरेः॥

महाक्रमणक्लिष्टाया निःश्वासश्च बभूव ह।
तदा वव्रे श्रमजलं तत्सर्व्वं विश्वगोलकम् ॥ 

स तु निश्वासवायुश्च सर्व्वाधारो बभूव ह । निःश्वासवायुः सर्व्वेषां जीविनाञ्च भवेषु च॥

 बभूवमूर्त्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा ।
 तत्पत्नी सा च तत्पुत्त्राःप्राणाश्च पञ्चजीविनाम्॥

प्राणोऽपानः समानश्चैवोदानो व्यान एव च। 
बभूवुरेव तत्पुत्त्रा अधःप्राणाश्च पञ्च च॥

घर्म्मतोयाधिदेवश्च बभूव वरुणो महान्। 
तद्वामाङ्गात्तु तत्पत्नी वरुणानी बभूव ह॥ 

अथ सा कृष्णशक्तिश्च कृष्णगर्भं दधार च। शतमन्वन्तरं यावत् ज्वलन्ती ब्रह्मतेजसा॥

 कृष्णपाणाधिदेवी सा कृष्णप्राणाधिकप्रिया। कृष्णस्य सङ्गिनी शश्वत् कृष्णवक्षःस्थलस्थिता शतमन्वन्तरातीतकालेऽतीतेऽपि सुन्दरी। 
सुषाव डिम्बं स्वर्णाभं विश्वाधारालयं परम्॥

 दृष्ट्वा डिम्बञ्च सा देवी हृदयेन विदूयता। उत्ससर्ज्ज च कोपेन ब्रह्माण्डं गोलके जले॥
________________________
दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार ह।
शशाप देवीं देवेशस्तत्क्षणञ्च यथोचितम्॥ 
यतोऽपत्यं त्वया त्यक्तं कोपशीले सुनिष्ठुरे।
भव त्वमनपत्यापि चाद्यप्रभृति निश्चितम्॥
 या यास्तदंशरूपाश्च भविष्यन्ति सुरस्त्रियः। अनपत्याश्च ताः सर्व्वास्तत्समा नित्ययौवना ॥ 
एतस्मिन्नन्तरे देवीजिह्वाग्रात् सहसा ततः।
आविर्ब्बभूव कन्यैका शुक्लवर्णा मनोहरा॥
पीतवस्त्रपरीधाना वीणापुस्तकधारिणी रत्नभूषणभूषाढ्या सर्व्वशास्त्राधिदेवता ॥
अथ कालान्तरे सा च द्विधारूपा बभूव ह । वामार्द्धाङ्गा च कमला दक्षिणार्द्धा सरस्वती ॥
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः । दक्षिणार्द्धाच्च द्बिभुजो वामार्द्धाच्च चतुर्भुजः॥
उवाच वाणीं श्रीकृष्णस्त्वमस्य कामिनी भव। 
अत्रैव मानिनी राधा नैव भद्रं भविष्यति ॥
एवं लक्ष्मीञ्च प्रददौ तुष्टो नारायणाय च ।
स जगाम च वैकुण्ठं ताभ्यां सार्द्धं जगत्पतिः ॥ 
अनपत्ये च ते द्वे च यतो राधाङ्गसम्भवा ॥ 
“इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे (२) अध्यायः॥
__________________
राधाया उत्पत्तिर्यथा -“ पुरा वृन्दावने रम्ये गोलोके रासमण्डले ।
शतशृङ्गैकदेशे च मल्लिकामाधवीवने॥

रत्नसिंहासने रम्ये तस्थौ तत्र जगत्पतिः। स्वेच्छामयश्च भगवान् बभूव रमणोत्सुकः॥

रमणं कर्त्तुमिच्छुश्च तद्बभूव सुरेश्वरी। 
इच्छया च भवेत् सर्व्वं तस्य स्वच्छामयस्य च॥
___________________________________
एतस्मिन्नन्तरे दुर्गे द्बिधारूपो बभूव सः। दक्षिणाङ्गश्च श्रीकृष्णो वामार्द्धाङ्गा च राधिका।
बभूव रमणी रम्या रासेशी रमणोत्सुका । अमूल्यरत्नाभरणा रत्नसिंहासनस्थिता ॥
वह्निशुद्धांशुकाधाना कोटिपूर्णशशिप्रभा । तप्तकाञ्चनवर्णाभा राजिता च स्वतेजसा ॥
सस्मिता सुदती शुद्धा शरत्पद्मनिभानना । 
विभ्रती कवरीं रम्यां मालतीमाल्यमण्डिताम् ॥
रत्नमालाञ्च दधती ग्रीष्मसूर्य्यसमप्रभाम् । मुक्ताहारेण शुभ्रेण गङ्गाधारानिभेन च ॥
संयुक्तं वर्त्तुलोत्तुङ्गं सुमेरुगिरिसन्निभम्। 
कठिनं सुन्दरं दृश्यं कस्तूरीपत्रचित्रितम्॥
माङ्गल्यं मङ्गलार्हञ्च स्तनयुग्भञ्च विभ्रतीम् । नितम्बश्रोणिभारार्त्तां नवयौवनसंयुताम् ॥
कामातुरां सस्मिताञ्च ददर्श रसिकेश्वरः । 
दृष्ट्वा कान्तां जगत्कान्तो बभूव रमणोत्सुकः॥
दृष्ट्वा रिरंसुं कान्तञ्च सा दघार हरेः पुरः।
रासेशं भूय गोलोके सा दधार हरेः पुरः॥ 
तेन राधा समाख्याता पुराविद्भिर्महेश्वरि ।
राधा जयति श्रीकृष्णं स च ताञ्च परस्परम् ॥
उभयोः सर्व्वसाम्यञ्च सदा सर्व्वे वदन्ति च।
भवनं धावनं रासे स्मरत्यालिङ्गनं जपेत्॥
तेन जल्पति सङ्केताद्रस्या राधा यदीश्वरः । राशब्दोच्चारणाद्भक्तो राति मुक्तिं सुदुर्लभाम् ॥
धाशब्दोच्चारणाद्दर्गे धावत्येव हरेः पदम् । कृष्णवामांशसम्भूता राधा रासेश्वरी पुरा ॥
________________
 तस्याश्चांशांशकलया वभूवुर्देवयोषितः ।
 रा इत्यादानवचनो धा च निर्व्वाणवाचकः ॥

यतोऽवाप्नोति मुक्तिञ्च सा च राधा प्रकीर्त्तिता ।
बभूव गोपीसंघश्च राधाया लोमकूपतः ॥
श्रीकृष्णलोमकूपैश्च बभूवुः सर्व्ववल्लवाः
राधा वामांशभागेन महालक्ष्मीर्बभूव सा ॥
चतुर्भुजस्य सा पत्नी देवी वैकुण्ठवासिनी ।
तदंशा राजलक्ष्मीश्च राजसम्पत्प्रदायिनी॥
तदंशा मर्त्यलक्ष्मीश्च गृहिणाञ्च गृहे गृहे । शस्याधिष्ठातृदेवी च सा एव गृहदेवता ॥

स्वयं राधा कृष्णपत्नी कृष्णवक्षःस्थलस्थिता । प्राणाधिष्ठातृदेवी च तस्यैव परमात्मनः॥

ब्रह्मादिस्तम्बपर्य्यन्तं सर्व्वं मिथ्यैव पार्व्वति ।
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात् परम् ॥
परं प्रधानं परमं परमात्मानमीश्वरम्।
सर्व्वाद्यं सर्व्वपूज्यञ्च निरीहं प्रकृतेः परम् ॥
स्वेच्छामयं नित्यरूपं भक्तानुग्रहविग्रहम् । तद्भिन्नानाञ्च देवानां प्राकृतं रूपमेव च ॥ 
तस्य प्राणाधिका राधा बहुसौभाग्यसंयुता। महद्बिष्णोः प्रसूः सा च मूलप्रकृतिरीश्वरी॥
मानिनीं राधिकां सन्तः सदा सेवन्ति नित्यशः । सुलभं यत्पदाम्भोजं ब्रह्मादीनां सुदुर्लभम् ॥
स्वप्ने राधापदाम्भोजं न हि पश्यन्ति वल्लवाः । 
स्वयं देवी हरेः क्रोडे छाया रायाणकामिनी ॥
स च द्वादशगोपानां रायाणः परमः प्रिये । श्रीकृष्णांशश्च भगवान् विष्णुतुल्यपराक्रमः ॥
श्रीदामशापात् सा देवी गोलोकादागतामहीम् ॥ “
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे राधोपाख्यानं ४५ अध्यायः 
_____________________   
अपि च ।
गर्ग उवाच ।
 “शृणु नन्द प्रवक्ष्येऽहमितिहासं पुरातनम्।
 पुरा गोलोकवृत्तान्तं श्रुतं शङ्करवक्त्रतः॥
 श्रीदाम्नो राधया सार्द्धं बभूव कलहो महान् । श्रीदामा शापाद्दैत्यश्च गोपी राधा च गोकुले ॥
__________________________________
वृषभानुसुता सा च माता यस्याः कलावती । कृष्णस्यार्द्धाङ्गसम्भूता नाथस्य सदृशी सती ॥
गोलोकवासिनी सेयमत्र कृष्णाज्ञयाधुना । अयोनिसम्भवा देवी मूलप्रकृतिरीश्वरी ॥
मातुर्गर्भं वायुपूर्णं कृत्वा च मायया सती । वायुनिःसारणे काले धृत्वा च शिशुविग्रहम् ॥
आविर्बभूव सा सद्यः पृथ्व्यां कृष्णोपदेशतः । 
बर्द्धते सा व्रजे राधा शुक्ले चन्द्रकला यथा ॥
श्रीकृष्णतेजसोऽर्द्धेन सा च मूर्त्तिमती सती ।
एका मूर्त्तिर्द्विघा भूता भेदो वेदे निरूपितः ॥ 
इयं स्त्री न पुमान् किंवा सा वा कान्ता पुमानयम् ।
द्वे रूपे तेजसा तुल्ये रूपेण च गुणेन च ॥
पराक्रमेण बुद्ध्या वा ज्ञानेन सम्पदेन च ।
पुरतो गमनेनैव किन्तु सा वयसाधिका ॥
ध्यायते तामयं शश्वदिमं सा स्मरति प्रियम् ।
रचिता सास्य प्राणैश्च तत्प्राणैर्मूर्त्तिमानयम् ॥
अस्य राधानुसारेण गोकुलागमनं परम् ।
स्वीकारं सार्थकं कर्त्तुं गोलोके यत् कृतं पुरा ॥
कंसभीतिच्छलेनैव गोकुलागमनं हरेः। प्रतिज्ञापालनार्थञ्च भयेशस्य भयं कुतः॥
राधाशब्दस्य व्युत्पत्तिर्यथा -“ राधाशब्दस्य व्युत्पत्तिः सामवेदे निरूपिता।
नारायणस्तामुवाच ब्रह्माणं नाभिपङ्कजे॥

ब्रह्मा तां कथयामास ब्रह्मलोके च शङ्करम् । 
पुरा कैलासशिखरे मामुवाच महेश्वरः ॥
देवानां दर्लभं नन्द निशामय वदामि ते । सुरासुरमुनीन्द्रानां वाञ्छितां मुक्तिदां पराम् ॥ 
रेफो हि कोटिजन्माघं कर्म्मभोगं शुभाशुभम् । आकारो गर्भवासञ्च मृत्युञ्च रोगमुत्सृजेत् ॥ धकारमायुषो हानिमाकारो भवबन्धनम् । श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः ॥
 रेफो हि निश्चलां भक्तिं दास्यं कृष्णपदाम्बुजे । सर्व्वेप्सितं सदानन्दं सर्व्वसिद्धौघमीश्वरम् ॥ धकारः सहवासञ्च तत्तुल्यकालमेव च ।
ददाति सार्ष्णिं सारूप्यं तत्त्वज्ञानं हरेः स्वयम् ॥ आकारस्तेजसो राशिं दानशक्तिं हरौ यथा । योगशक्तिं योगमतिं सर्व्वकालहरिस्मृतिम् ॥ श्रुत्युक्तिस्मरणाद्योगान्मोहजालञ्च किल्विषम् । रोगशोकमृत्युमया वेपन्ते नात्र संशयः ॥ 
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३ अध्यायः

 ॥ तस्याः षोडशनामानि तेषां व्युत्पत्तिश्च यथा  नारद उवाच । “ कानि षोडश नामानि राधिकाया जगद्गुरोः । तानि मे वद शिष्याय श्रोतुं कौतूहलं मम ॥ श्रुतं नाम्नां सहस्रञ्च सामवेदनिरूपितम् । तथापि श्रोतुमिच्छामि त्वत्तो नामानि षोडश ॥ अभ्यन्तराणि तेषां वा तदन्यान्येव वा विभो । 
अहो पुण्यस्वरूपाणि भक्तानां वाञ्छितानि च ॥ 
नामानि तेषां व्युत्पत्तिं सर्व्वेषां दुर्लभानि च ।
 पावनानि जगन्मातुर्जगतां गूढरूपिणी ॥ 
नारायण उवाच । राधा रासेश्वरी रासवासिनी रसिकेश्वरी । कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी ॥ कृष्णवामांशसम्भूता परमानन्दरूपिणी । 
कृष्णा वृन्दावनी वृन्दा वृन्दावनविनोदिनी ॥ 
चन्द्रावती चन्द्रकान्ता शतचन्द्रनिभानना । नामान्येतानि साराणि तेषामभ्यन्तराणि च ॥ 
राधेत्येवञ्च संसिद्धा राकारो दानवाचकः । 
स्वयं निर्व्वाणधात्री या सा राधा परिकीर्त्तिता ॥ 
रा च रासे च भवनाद्धा एव धारणादहो । हरेरालिङ्गनाधारात्तेन राधा प्रकीर्त्तिता ॥ रासेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता । रासे च वासो यस्याश्च तेन रासनिवासिनी ॥ सर्व्वांशा रसिकानाञ्च देवीनामीश्वरी परा । प्रवदन्ति पुरा सन्तस्तेन तां रसिकेश्वरीम् ॥ प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः । कृष्णप्राणाधिका सा च कृष्णेन परिकीर्त्तिता ॥ कृष्णस्यासि प्रिया शान्ता कृष्णो वास्याः प्रियः सदा । सव्व दवगणैरुक्ता तेन कृष्णप्रिया स्मृता ॥ कृष्णरूपं संविधातुं या शक्ता चावलीलया । सर्व्वांशैः कृष्णसदृशी तेन कृष्णस्वरूपिणी ॥ वामार्द्धाङ्गेन कृष्णस्य या सम्भूता परा सती । कृष्णवामांशसम्भूता तेन कृष्णेति कीर्त्तिता ॥ परमानन्दराशिश्च स्वयं मूर्त्तिमती सती । 
श्रुतिभिः कीर्त्तिता तेन परमानन्दरूपिणी ॥ कृषिर्मोक्षार्थवचनो ण एवीत्कृष्टवाचकः ॥ 
आकारो दातृवचनस्तेन कृष्णा प्रकीर्त्तिता ॥ 
अस्ति वृन्दावनं यस्यास्तेन वृन्दावनी स्मृता । 
वृन्दावनस्याधिदेवी तेन राधा प्रकीर्त्तिता ॥ 
वृन्दः संघवचः सख्युराकारोऽप्यस्तिवाचकः ।
सखिवृन्दास्ति यस्याश्च सा वृन्दा परिकीर्त्तिता ॥ 
मुद्बाचको विनोदश्च सा यस्या अस्ति तत्र च।
वेदा वदन्ति तां तेन वृन्दावनविनोदिनीम् ॥ नखचन्द्रावलीवक्रचन्द्रोऽस्ति यत्र सन्ततम् । 
तेन चन्द्रावली सा च कृष्णेन कीर्त्तिता पुरा ॥ कान्तिरस्ति चन्द्रतुल्या यदा यस्या दिवानिशम् । सा चन्द्रकान्ता हर्षेण हरिणा परिकीर्त्तिता ॥ शरच्चन्द्रप्रभा यस्याश्चाननेऽस्ति दिवानिशम् । मुनिना कीर्त्तिता तेन शरच्चन्द्रप्रभानना ॥
 इदं षोडशनामोक्तमर्थव्याख्यानसंयुतम् । नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ॥ 
ब्रह्मणा च पुरा दत्तं धर्म्माय जनकाय मे ।
 धर्म्मेण कृपया दत्तं मह्यमादित्यपर्व्वणि ॥ 
पुष्करे च महातीर्थे पुण्याहे देवसंसदि । राधाप्रभावप्रस्तावे सुप्रसन्नेन चेतसा ॥ 
इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं महामुने । निन्दकायावैष्णवाय न दास्यसि महामुने ॥ यावज्जीवमिदं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः । राधामाधवयोः पादपद्मे भक्तिर्भवेदिह ॥ 
अन्ते लभेत्तयोर्द्दास्यं शश्वत् सहचरो भवेत् । अणिमादिकसिद्धिञ्च संप्राप्य नित्यविग्रहम् ॥ व्रतदानोपवासैश्च सर्व्वैर्नियमपूर्व्वकम् । चतुर्णाञ्चव वेदानां पाठैः सर्व्वार्थसंयुतैः ॥ 
सर्व्वेषां यज्ञतीर्थानां करणैर्विधिबोधितैः । प्रादक्षिण्येन भूमेश्च कृत्स्नाया एव सप्तधा ॥ शरणागतरक्षायामज्ञानज्ञानदानतः । 
देवानां वष्णवानाञ्च दर्शनेनापि यत् फलम् ॥ तदेव स्तोत्रपाठस्य कलां नार्हन्ति षोडशीम् । स्तोत्रस्यास्य प्रभावेन जीवन्मुक्तो भवेन्नरः ॥
 “इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अध्यायः ॥ 

राधानामोच्चारणानन्तरं कृष्णनामोच्चारणविधिर्यथा   -नारद उवाच । “ आदौ राधां समुच्चार्य्य पश्चात् कृष्णं विदुर्ब्बुधाः । निमित्तमस्य मां शक्तं वद भक्तजनप्रिय ॥ श्रीनारायण उवाच ।
 निमित्तमस्य त्रिविधं कथयामि निशामय । जगन्माता च प्रकृतिः पुरुषश्च जगत्पिता ॥ गरीयसीति जगतां माता शतगुणैः पितुः । राधाकृष्णेति गौरीशेत्येवं शब्दः श्रुतौ श्रुतः ॥ कृष्णराधेशगौरीति लोके न च कदा श्रुतः । प्रसीद रोहिणीचन्द्र गृहाणार्घ्यमिदं मम ॥ गृहाणार्घ्यं मया दत्तं संज्ञया सह भास्कर ।
 प्रसीद कमलाकान्त गृहाण मम पूजनम् ॥ इति दृष्टं सामवेदे कौथुमे मुनिसत्तम ॥
 राशब्दोच्चारणादेव स्फीतो भवति माधवः । धाशब्दोच्चारतः पश्चाद्धावत्येव ससम्भ्रमः ॥ आदौ पुरुषमुच्चार्य्य पश्चात् प्रकृतिमुच्चरेत् । स भवेन्मातृगामी च वेदातिक्रमणे मुने ॥ 
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५२ अध्यायः ॥ 

तस्या निन्दायां दोषो यथा   -“ ये वा द्बिषन्ति निन्दन्ति पापिनश्च हसन्ति च । 
कृष्णप्राणाधिकां देव देवीञ्च राधिकां पराम् ॥ ब्रह्महत्याशतं ते च लभन्ते नात्र संशयः ।
 तत्पापेन च पच्यन्ते कुम्भीपाके च रौरवे ॥ 
तप्ततैले महाघोरे ध्वान्ते कीटे च यन्त्रके । चतुर्द्दशेन्द्रावच्छिन्नं पितृभिः सप्तभिः सह ॥ 
ततः परमजायन्त जन्मैकं कोलयोनितः । 
दिव्यं वर्षसहस्रञ्च विष्ठाकीटाश्च पापतः ॥ पुंश्चलीनां योनिकीटास्तद्रक्तमलभक्षणाः । मलकीटाश्च तन्मानवर्षञ्च पूयभक्षकाः । 
वेदे च काण्वशाखायामित्याह कमलोद्भवः ॥ 
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९७ अध्यायः

 ॥ राधास्वरूपं यथा   -यशोदोवाच । 
“ हरौ च निश्चला भक्तिस्तद्दास्यं वाञ्छितं मम । तव नाम्नश्च व्युत्पत्तिं का वा त्वं वक्तमर्हसि ॥

 राधिकोवाच । भवेद्भक्तिर्निश्चला ते हरेर्दास्यञ्च दुर्लभम् । लभस्व मद्बरेणापि कथयामि स्वनिर्णयम् ॥
षुरा नन्देन दृष्टाहं भाण्डीरे बटमूलके । मया च कथितो नन्दो निषिद्धश्च व्रजेश्वरः ॥
अहमेव स्वयं राधा छाया रायाणकामिनी । 
रायाणः श्रीहरेरंशः पार्श्वदप्रवरो महान् ॥ 

राशब्दश्च महद्विष्णोर्विश्वानि यस्य लोमसु । विश्वप्राणिषु विश्वेषु धा धात्रीमातृवाचकः ॥ 
धात्री माताहमेतेषां मूलप्रकृतिरीश्वरी ।
तेन राधा समाख्याता हरिणा च पुरा बुधैः ॥
अहं श्रीदामशापेन वृषभानुसुताधुना । 
शतवर्षञ्च विच्छेदो हरिणा सह साम्प्रतम् ॥ वृषभानुञ्च कृष्णस्य पार्श्वदप्रवरो महान् ।
पितृणां मानसी कन्या मम माता कलावती ॥ अयोनिसम्भवाहञ्च मम माता च भारते । पुनः सार्द्धञ्च युष्माभिर्यास्यामि श्रीहरेः पदम् ॥ इति ते कथितं सर्व्वं व्रजं व्रज व्रजेश्वरि । व्रजेश्वरेण सहिता स्वामिना ज्ञानिना सति ! ॥ “ इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥

 राधापार्व्वत्योरभेदो यथा   -पार्व्वत्युवाच । “
 किं वा प्रश्नं करिष्यामि त्वां राधां मङ्गलालयाम् । गता ते विरहज्वाला श्रीदाम्नः शापमोक्षणे ॥ 
सततं तन्मनःप्राणा त्वय्येव मयि ते तथा ।
 न ह्येवमावयोर्भेदः शक्तिपूरुषयोर्यथा ॥ 
ये त्वां निन्दन्ति मद्भक्तास्त्वद्भक्ताश्चापि मामपि । कुम्भीपाके च पच्यन्ते यावच्चन्द्रदिवाकरौ ॥ राधामाधवयोर्भेदं ये कुर्व्वन्ति नराधमाः । वंशहानिर्भवेत्तस्य पच्यन्ते नरकं चिरम् ॥ 
यान्ति शूकरयोनिञ्च पितृभिः शतकैः सह ।
 षष्टिं वर्षसहस्राणि विष्ठायां कृमयस्तथा ॥
 “ इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १२३ अध्यायः ॥ गोलोके तस्या आश्रमो यथा   -“ एतान् मनोरमान् दृष्ट्वा ते देवा गमनोन्मुखाः । जग्मुः शीघ्रं कियद्दूरं ददृशुः सुन्दरं ततः ॥ 
आश्रमं राधिकायाश्च रासेश्वर्य्याश्च नारद । देवाधिदेव्या गोपीनां वरायाश्चारु निर्म्मितम् ॥ प्राणाधिकायाः कृष्णस्य रम्याद्रम्यं मनोहरम् । सर्व्वानिर्व्वचनीयञ्च पण्डितैर्न निरूपितम् ॥ सुचारु वर्त्तुलाकारं षड्गव्यूतिप्रमाणकम् । शतमन्दिरसंयुक्तं ज्वलितं रत्नतेजसा ॥ अमूल्यरत्नसाराणां वरैर्विरचितं वरम् । दुर्लङ्घ्याभिर्गभीराभिः परिखाभिः सुशोभितम् ॥ कल्पवृक्षैः परिवृतं पुष्पोद्यानशतान्तरम् । सुमूल्यरत्नरचितं प्राकारैः परिवेष्टितम् ॥ सद्रत्नवेदिकायुक्तं युक्तैर्द्वारैश्च सप्तभिः । संयुक्तरत्नचित्रैश्च विचित्रैर्व्वर्त्तुलैर्मुने ॥ प्रधानद्बारसप्तभ्यः क्रमशः क्रमशो मुने । सर्व्वतोऽपि ततस्तत्र षोडशद्वारसंयुतम् ॥ 
देवा दृष्ट्वा च प्राकारं सहस्रधनुरुच्छ्रितम् । सद्रत्नरत्नकलससमूहैः सुमनोहरम् ॥ 
सुदीप्तं तेजसा रम्यं परमं विस्मयं ययुः । 
ततः प्रदक्षिणीकृत्य कियद्दूरं ययुर्मुदा ॥ “
 इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४ अध्यायः ॥

 तस्या जन्मतिथिर्यथा  -“ भाद्रस्य कृष्णपक्षे तु हरिजन्माष्टमी यदा । 
तस्याः परे तु या शुक्ला तस्यां जाता हरिप्रिया ॥ 

वृषभानुपुरी नाम्ना सर्व्वरत्नमयी शुभा । सुवर्णमणिमाणिक्यविचित्रभवनाङ्गना ॥

 अणिमादिसुखैश्वर्य्यपरिपूर्णमनोहरा । चित्रध्वजपताकादिविचित्रा चित्रनिर्म्मिता ॥

 चिदानन्दस्वरूपा सा चिदानन्दप्रदायिनी । आनन्दकलिला नार्य्यो यत्र तिष्ठन्ति सर्व्वदा ॥

 विचित्रवेशालङ्कारा विचित्रवसनाम्बरा । नानावेशविचित्राङ्गा प्रमदामोददायिनी ॥

 सर्व्वलक्षणसम्पन्ना राधा नाम्ना विनोदिनी । जगतां मोहिनी देवी गुह्यगुह्यातिसुन्दरी । मूढानामसताञ्चैव न कथ्यं मुनिसत्तम ॥ 

नारद उवाच ।
प्रणिपत्य महाभाग पृच्छामि तव किङ्करः । 
सा लक्ष्मीः किं सुरवधूर्महालक्ष्मीः सरस्वती ॥ विद्या किमन्तरङ्गाथ वैष्णवी प्रकृतिः किमु । वेदकन्या देवकन्या मुनिकन्याथवा वद ॥

 सदाशिव उवाच ।
कोटिकोटिमहालक्ष्मीर्लक्ष्मीः का वा परा वरा । निन्दिता यत्पदाम्भोजे कथिता मुनिसत्तम ॥ 
अपरं किं निगदेऽहमेकवक्त्रेण नारद । श्रीराधारूपलावण्यगुणादीन् वक्तुमक्षमः ॥ तत्तद्रूपादिमाहात्म्यं लज्जेऽहमपि नारद । 
त्रैलोक्ये तु समर्थो हि न मातुं वक्तुमर्हति ॥ 
तद्देहरूपमाधुर्य्यं जगन्मोहनमोहनम् । यद्यनन्तमुखोऽपि स्यां तद्बक्तुं नास्ति मे गतिः ॥ लक्षशः कमला दास्यो यस्याः सा लाक्षकी मता । एवं शतसहस्राणामीश्वरी राधिका परा ॥ 

नारद उवाच । 
प्रभो श्रीराधिकाजन्ममाहात्म्यं सर्व्वतः परम् । 
तदहं श्रोतुमिच्छामि समस्तं भक्तवत्सल ॥ कथ्यतां मे महाभाग व्रतानाञ्च व्रतोत्तमम् ।
 ध्यानं वा कीदृशी पूजा स्तुतिर्वापि वदस्व मे ॥ तत्सर्व्वं श्रोतुमिच्छामि कथ्यतां मे सदाशिव ।
 चर्य्यां पूजाविधानञ्च विशेषमर्च्चनं भव ॥
 यन्त्रं मन्त्रं स्तुतिर्ध्यानं पूजनं यत्र निर्म्मितम् । पूजने किं विधानञ्च तत्तत्सेवार्च्चने विधौ ॥

               ।शिव उवाच । 
वृषभानुपुरीराजा वृषभानुर्महाशयः । महाकुलप्रसूतोऽसौ सर्व्वशास्त्रविशारदः ॥ महाशयो धनी श्रीमानणिमाद्यष्टवैभवः । 
वैश्यः सदन्तःकरणः कुलीनः कृष्णदैवतः ॥

 तस्य भार्य्या महाभागा श्रीमत्श्रीकीर्त्तिदाह्वया । रूपयौवनसम्पन्ना महाराजकुलोद्भवा ॥

महालक्ष्मीस्वरूपा सा भव्या परमसुन्दरी । महापतिव्रता कार्ष्णा सर्व्वविद्यागुणान्विता ॥
 तस्यां श्रीराधिका जाता श्रीमद्वृन्दावनेश्वरी । 
भाद्रे मासि सिताष्टम्यां मध्याह्ने शुभदायिनी ॥
 वेदागमपुराणादिगीता या कृष्णवल्लभा । 
सदा कृष्णप्रिया साध्वी श्रीकृष्णानन्ददायिनी ॥
 शृणु मत्तो महाभाग पूजनं भजनं तथा ।
 कर्त्तव्यं यदनुष्ठानं राधाजन्मगहोत्सवः ॥ 
समर्च्चय सदा राधां जन्मव्रतपरायणैः । 
तत् समग्रं प्रवक्ष्यामि ध्यानादिकमनुक्रमात् ॥ सर्व्वदा पश्चिमद्वारे श्रीराधाकृष्णमन्दिरे । ध्वजस्रग्वस्त्रकलसपताकातोरणादिभिः ॥ नानासुमङ्गलद्रव्यैर्यथाविधि प्रवर्त्तते । सुवासितगन्धपुष्पैर्धूपैश्च धूपितैर्गृणन् ॥ 
मध्ये पञ्चवर्णचूर्णैर्मण्डपं ससरोरुहम् । सुषोडशदलाकारं तत्र निर्म्माय यत्नतः ॥ दिव्यासने पद्ममध्ये पश्चिमाभिमुखीं स्थिताम् । श्रीयुग्ममूर्त्तिं सूपास्य ध्यानपाद्यादिभिः क्रमात् ॥ भक्तैः सह सजातीयैः शक्यानुसारवस्तुभिः । तद्भक्तः पूजयेद्भक्त्या तां सदा संयतेन्द्रियः ॥ 
 अथ ध्यानम् । 
“ हेमेन्दीवरकान्तिमञ्जुलतरं श्रीमज्जगन्मोहनं नित्याभिर्ललितादिभिः परिवृतं सन्नीलपीताम्बरम् । नानाभूषणभूषणाङ्गमधुरं कैशोररूपं युगं गान्धर्व्वाजनमव्ययं सुललितं नित्यं शरण्यं भजे ॥
 युग्गमूर्त्तिमिति ध्यात्वा शालग्रामेऽथवा पुनः । साक्षात् शैलादिमूर्त्तौ वा मनोमय्यां समर्च्चयेत् ॥
 ततो मण्डलपूजाञ्च तयोः सम्मुखतः क्रमात् । कुर्य्याद्भक्तः प्रयत्नेन ध्यानपाद्यादिभिः सदा ॥
 ललिता पश्चिमे पूज्या पीतवर्णदलेऽपरा । चन्द्रावतीं शुक्लदले तद्वामे पूजयेत् सुधीः ॥
 वायव्ये श्यामलां देवीं कृष्णवर्णदलेऽर्च्चयेत् । तद्वामे चित्ररेखाख्यां शुक्लवर्णदले ततः ॥ 
उत्तरे श्रीमती त्वर्च्या रक्तवर्णदले तथा । तद्वामपार्श्वे चन्द्राख्यां नीलवर्णदलेऽर्च्चयेत् ॥
 रक्तवर्णदलेऽप्यर्च्या ईशाने श्रीहरिप्रिया । 
तस्या वामे शुक्लदले पूज्या मदनसुन्दरी ॥
 पीतवर्णदले पूर्ब्बे विशाखामर्च्चयेत्ततः । 
प्रियां तस्या वामपार्श्वे शुक्लवर्णदलेऽर्च्चयेत् ॥
 अग्निकोणे श्यामवर्णां दले सव्यां समर्च्चयेत् । तद्वामे श्रीमधुमतीं शुक्लवर्णदलेऽर्च्चयेत् ॥
 पूजयेद्दक्षिणे पद्मां रक्तवर्णदले तथा । शशिरेखाञ्च तद्बामे नीलवर्णदलेऽर्च्चयेत् ॥
 पूजयेन्नैरृते भद्रां रक्तवर्णदले ततः । 
रसप्रियाञ्च तद्वामे शुक्लवर्णदलेऽर्च्चयेत् ॥

श्रीराधाप्रियसङ्गिनीं विधुमुखीं कृष्णप्रियां प्रेयसीं हेमाभां परिवादिनीं सुमधुरध्वानां सुवेशाम्बराम् । सद्रत्नाभरणैर्मनोज्ञसुतनुं नित्यां जगन्मोहिनीं वन्दे श्रीललितां कुरङ्गनयनीं पीताम्बरेणावृताम् ॥ १॥

 श्यामां श्यामपरायणां वरतनुं चामीकराङ्गच्छटां मञ्जीरैर्मधुरध्वनिंपरिलसच्चन्द्राननां सुस्वराम् । सद्रत्नाभरणां सरोजनयनीं शुक्लांशुकेनावृतां ध्यायेत् श्रीललितासखीं सुचिवुकां चन्द्रावतीमुत्तमाम् ॥ २॥


कान्त्या काञ्चनसन्निभां सुललितां कृष्णाम्बरं बिभ्रतीं नानाभूषणमञ्जुलाञ्च सुदतीं मार्द्दङ्गिकीं सुन्दरीम् ।
श्रीवृन्दाविपिनेश्वरीं प्रियसखीं भव्यां शशाङ्काननां वेणीचारुसुमल्लिकास्रजममूं नित्यं भजे श्यामलाम् ॥  ३ ॥ 

श्रीकृष्णप्रियवल्लभां शशिमुखीं सच्छब्दडम्फान्वितां शुद्धस्वर्णशरीरकान्तिमतुलां शुक्लाम्बरेणावृताम् । 
स्वर्णाद्याभरणां सदा पुलकिनीं श्रीकृष्णभावेन वै गायन्तीं मधुरस्वरैरविरतं श्रीचित्रलेखां भजे ॥४॥

 कनकनिभशरीरां बिभ्रतीं रक्तवस्त्रं ललितनलिननेत्रां चारुभूषाङ्गशोभाम् । सुमधुरपिकवाक्यां चन्द्रवक्त्रां सुवेशां मधुरिपुनिजदासीं श्रीमतीं तां हि वन्दे ॥  ५ ॥

वृन्दावनेशनिजसेवनसौख्यदासीं रम्यां सुनीलवसनां सुरवावयन्त्राम् । 
नानाविभूषिततनुं स्फुरदम्बुजाक्षीं चन्द्रां भजे सकलरागमनोज्ञगानाम् ॥  ६ ॥ 

सुवर्णवर्णां शुकधारिणीं तामुपाङ्गयन्त्रां मणिभूषणाङ्गीम् । 
हरिप्रियां मञ्जुलपत्रनेत्रां भजेऽहमीड्यां कनकाङ्गशोभाम् ॥  ७ ॥

 रवावकलवादिनीं सकलरागसंगायिनीं सुचारुमणिकुण्डलां शरदपूर्णचन्द्राननाम् । सुरत्नवरभूषणां रुचिरशुभ्रपट्टाम्बरां भजे मदनसुन्दरीं कनकवर्णदेहां शुभाम् ॥  ८ ॥

 सुतानज्ञां गीते भ्रमरकलकण्ठीं सुचतुरां जगद्वन्द्यां वेल्लन्नलिननयनामिन्दुवदनाम् । 
विशाखां गौराङ्गीं कलितमुरलीं पीतवसनां भजे श्यामां सेव्यां सकलगुणपूर्णां सुखमयीम् ॥९।।

 सुचामीकराभूषणाढ्यां सुवेशां सुसङ्गीतविद्यासुधीरां वरेण्याम् । 
सुवंशीसुगानां सुहेमाङ्गशोभां भजे श्रीप्रियां शुक्लवस्त्रां मनोज्ञाम् ॥  १० ॥ 

गान्धर्व्वानिजदासिकां सुगदवाग्यन्त्रं सदा बिभ्रतीं मञ्जुस्वर्णविभूषितां वरतनुं पाथोजनेत्रां वराम् । ध्यायेत् कृष्णपदारविन्दमधुपीं कृष्णाम्बरेणावृतां संगीते मधुरवरामविरतं सैव्यां मनोहारिणीम् ॥  ११ ॥

 रुचिरमधुमतीं तां तप्तचामीकराभां पिककलरवकण्ठीं शुक्लवस्त्रं दधानाम् । तिलकुसुमसुनासां चारुहेमाङ्गभूषां युगलचरणसेवातत्परामाभजेऽहम् ॥  १२ ॥

 रत्नालङ्कारदेहां जितकुसुमरुचीमङ्गलावण्यरूपैर्भव्यां सङ्गीतविद्यासुनिपुणरसिकां तानमानातिविज्ञाम् । शारङ्गीयन्त्रगानां कनकनिभतनुं सर्व्वदा कृष्णसेवीं वन्दे पद्मां सुवेशां शशधरवदनां बिभ्रतीं रङ्गवस्त्रम् ॥  १३ ॥

 शशिरेखां मृदङ्गञ्च वादयन्तीं मुहुर्मुहुः । रसालापस्वरूपाञ्च रसप्रेमैकसंयुताम् ॥  १४ ॥

भव्यां श्रीशशिरेखिकां सुखमकां यन्त्रादिगानांवरां वन्देऽहं मधुरस्वरां परमिकां लावण्यसारान्विताम् । नानायन्त्रविशारदां वरतनुं पट्टाम्बरेणावृतां फुल्लेन्दीवरलोचनामविरतं ध्याये जगन्मोहिनीम् ॥  १५॥

श्रीयन्त्रं स्वरमण्डलं कलरवं गाने सदा बिभ्रतीं श्रीभद्रां मधुरस्वरां सुललितां सद्रक्तवस्त्रावृताम् । राजत्स्वर्णरुचिं विभूषणवरैरङ्गैः सदा शोभितां ध्याये श्रीयुगसेविकां परमिकां ह्लादैकमग्नां सदा ॥१६ ॥ 

राधाकृष्णपदारविन्दमधुपीं सद्भृङ्गतुल्यार्थिनीं नानाभूषणभूषिताङ्गरुचिरां सद्रक्तवस्त्रां शुभाम् । ध्याये सन्ततकृष्णभावललितां केयूरहेमाङ्गदां स्वर्णाङ्गीञ्च रसप्रियां सुखमयीं सर्व्वाङ्गशोभान्विताम् ॥  १७ ॥ 

मधुस्वरां कोकिलभृङ्गगानां सतुम्बरीयन्त्रविधारिणीञ्च ।
वनप्रियां शुक्लसुचीनवस्त्रां भजे हरिद्राङ्गसमञ्जुशोभाम् ॥  १८ ॥ 

एवं ध्यात्वा पूजयित्वा ललिताद्या यथाक्रमात् ॥ 
पाद्यादिभिः सोपचारैर्विधिवद्भक्तितत्परः ॥ सङ्गिन्यो ललितादीनां दलात्पश्चिमतो मुने ! । प्रणवादिनमोऽन्तेन संप्रदानपदेन वै ।
 तत्तन्नाम्ना तु मनुना पुष्पगन्धादिभिर्मुने !॥ 
इति पाद्मेउत्तरखण्डे
श्रीराधाजन्माष्टमीव्रतकथनमाहात्म्यं नाम १६२ अध्यायः ॥ 
_______________________________

         श्रीसदाशिव उवाच ।
 “प्रत्येकेऽष्टौ पूजयेद्वै क्रमतस्तु दले दले ।
 शृणु नाम्ना कथ्यते ताश्चाष्टाविंशाधिकं शतम् । इन्दुमुखी रसज्ञा च शुभदा सुमुखी तथा । 
वल्लवी चन्द्रिका चारुचतुरा च सुचञ्चला ॥ 
मधुरा हस्तकमला तथा मधुरभाविनी । 
विलासिनी रसवती तथा खञ्जनलोचना ॥ 
सुखदा चम्पकलिका रसदा रसमञ्जरी ।
 सदा सुमञ्जरी शीला चन्द्रा चन्द्रप्रभावती ॥ वासन्ती मालती जाती चन्द्रकान्ती सुकुन्तला । रम्भा भ्रमरगम्भीरा सुशीला च सुवेशिनी ॥ आमलकी सुधाकण्ठी श्रिता च श्रीरतिप्रिया । शुकप्रिया मधुकरी सुवेशा चामृतोद्भवा ॥ मुरलीवल्लभा वृन्दा पारिजातप्रिया शुभा । पञ्चस्वरा रत्नमाला मदिरा रासवल्लवी ॥ मातङ्गगमनी तारावती कुण्डलधारिणी । 
केशरी मित्रवृन्दा च लक्षणाच्युतमालिका ॥ मायावती कौशिकी च कोमलाङ्गी सुचन्दनी । पीयूषभाषिणी सत्यवती च कुञ्जवासिनी ॥ कपोतमालिका लोपामुद्रा च किंशुकप्रिया । दलावती कुङ्कुमा च कमला च मदालसा ॥ तिलोत्तमा च सावित्री बहुला प्रियवादिनी । मुक्तावली चित्ररेखा सुमित्रा लोककुण्डला ॥ अरुन्धती चित्रवती श्रीरक्ता पद्मगन्धिनी ।
 मेनका कलिका रङ्गकेतकी काममूर्च्छनी ॥ कुमुदप्रिया च तानज्ञा तथा नृत्यविलासिनी । हिरावती हारकण्ठी सिंहमध्या सुलोचना ॥ नन्दव्या नन्दकलिका सुनन्दा नन्ददायिनी । कुरङ्गाक्षी च सुश्रोणी केलिलोला प्रियंवदा ॥ श्यामाराध्या श्यामसेव्या कस्तूरी मानभञ्जिनी । विचित्रवसना रत्नमञ्जीरा मञ्जुकिङ्किणी ॥ पिकस्वरा भृङ्गगाना तथा रासविहारिणी । श्रीकृष्णदक्षिणे पूज्या यत्नात् चन्द्रावली ततः । ध्यानपाद्यादिभिः सम्यक्प्रकारेण च पूजकैः ॥ हेमाभां मधुरस्वरां विधुमुखीं गान्धर्व्वविद्यारतां नानामूषणभूषिताङ्गमधुरां जातीसुमल्लीस्रजम् । वीणायन्त्रसुवादिनीं वरतनुं चित्राम्बरं बिभ्रतीं ध्याये कृष्णपरायणां सुचिवुकां चन्द्रावलीं मञ्जुलाम् ॥ एवं राधाजन्मतिथौ कुर्य्यान्मण्डलपूजनम् । कार्ष्णादीन् वैष्णवान् सर्व्वान् यत्नतः परिपूजयेत् ॥ एवं राधाकृष्णपूजां तयोर्मण्डलपूजनम् । प्रत्यब्दे यत्नतः कुर्य्यात् कार्ष्णे रासमहोत्सवे ॥ न्यूनातिरिक्तं देवर्षे ! न कर्त्तव्यं कदाचन । श्रीमत्कृष्णैकतानेनावश्यं तेनैव सर्व्वदा ॥ 
नाहूयेत् शैवशाक्तादीन् राधाजन्ममहोत्सवे ।
पाषण्डान् पतितान् कोलानन्त्यजान्न निमन्त्रयेत् ॥ विना भागवताँल्लोकान्न च तत्र प्रवेशयेत् । गन्धपुष्पादिभिर्माल्यैश्चन्दनैस्तन्निवेदितैः ॥ नानापराधभीतस्तु भक्तांस्तांस्तत्र चार्च्चयेत् । तत्तन्महाप्रसादैश्च भक्ष्यपेयादिभिस्तथा ॥ तत्तन्मण्डलपूजायाः कार्ष्णो नान्यांश्च भोजयेत् । वहिर्मुखान् श्रीकृष्णस्य गान्धर्व्वाभक्तितत्परः ॥ कार्ष्णादीन् वैष्णवान् भक्त्या भोजयेत् पूजयेत्तथा । तन्नैवेद्यैर्गन्धपुष्पैर्माल्यैर्मलयजादिभिः ॥ सजातीयैर्भक्तवृन्दैः समं तत्र महोत्सवम् । 
दिवा कुर्य्यात् प्रयत्नेन राधाभक्तिपरायणः ॥ महाप्रसादं भुञ्जीत दिनान्ते चरणोदकम् ।
पूजां कृत्वा पिबेत् कार्ष्णैः सार्द्बमानन्दितैस्ततः ॥ रात्रौ जागरणं कुर्य्याद्राधाकृष्णेति वा स्मरन् । पूजयेन्मूर्त्तिमारोप्य रूप्यस्वर्णादिसंस्कृताम् ॥ अकृत्वान्यकथालापं पूराणाद्यनुकीर्त्तनम् । श्रवणीयं प्रयत्नेन नारीभिर्व्वान्धवैः सह ॥ 
यः करोति नरो भक्त्या राधाजन्माष्टमीं शुभाम् । वदन्ति विबुधाः सर्व्वे राधाभक्तोऽस्ति भूतले ॥ प्रहरे प्रहरे राधां गोष्ठाष्टम्यां दिवानिशि । 
पूजयित्वा विधानेन श्रीकृष्णसहितां तथा ॥ तद्रसिकैः सहालापै राधाकृष्णस्मृतिं मुहुः । तत्तन्महोत्सवं कृत्वा परमानन्दितो भवन् ॥ दण्डवत् प्रणतिं कुर्य्यादष्टाङ्गविधिबोधिताम् । प्रत्यब्दमेव कुरुते राधाजन्ममहोत्सवम् ॥
 यः पुमानथवा नारी राधाभक्तिपरायणा । 
भूत्वा वृन्दावने वासः श्रीराधाकृष्णसङ्गिनी ॥ व्रजदासी भवेत् सोऽपि राधाभक्तिपरायणः । तस्यालापप्रयोगाच्च मुक्तवन्धो नरो भवेत् ॥ राधाराधेति यो ब्रूयात् स्मरणं कुरुते नरः । सर्व्वतीर्थेषु संस्कारात् सर्व्वविद्याप्रयत्नवान् ॥ राधाराधेति कुर्य्यात्तु राधाराधेति पूजयेत् । राधाराधेति यन्निष्ठा राधाराधेति जल्पति ॥ वृन्दारण्ये महाभागा राधासहचरी भवेत् । 
जगतां पृथिवी धन्या तत्र वृन्दावनं पुरी । 
तत्र धन्या सती राधा ध्येया या मुनिसत्तमैः ॥
ब्रह्मादीनां महाराध्यां दूरतः सेवते सुरः ।
तां राधिकां यो भजते देवर्षे तं भजेमहि ॥ 
तदालापं कुरुष्वैव जपस्व मन्त्रमुत्तमम् । 
अहर्निशं महाभाग कुरु राधेति कीर्त्तनम् ॥ 
राधेति कीर्त्तनं कुर्य्यात् कृष्णेन सह यो जनः । तन्माहात्म्यं न शक्येऽहं वक्तुं शेषोऽत्र नैव च ॥
 न गङ्गा न गया नित्यं न हिता च सरस्वती । कदाचिन्नैव विमुखा सर्व्वतीर्थफलप्रदा ॥ सर्व्वतीर्थमयी राधा सर्व्वैश्वर्य्यमयी पुनः । कदाचिद्विमुखा लक्ष्मीर्न भवेत्तु तदालये ॥ तस्यालये वसेत् कृष्णो राधया सह नारद ॥ राधाकृष्णेति यस्येष्टं तदेतद्व्रतमुत्तमम् । 
तद्गेहे देहमनसोः कदाचिन्न चलेद्धरिः ॥ 
एतदेवं वचः श्रुत्वा नारदो मुनिसचमः । 
प्रणतः पूजयामास गोष्ठाष्टम्यां यथोदितम् ॥ जन्माष्टमीव्रतकथां यः शृणोतीह मानवः । श्रीराधायाः सुखी मानी धनी सर्व्वगुणान्वितः ॥ जपेद्वै भक्तिसंयुक्तः पठेन्नाम्ना स्मरेन्नरः ।
धर्म्मार्थी लभते धर्म्ममर्थार्थी लभते धनम् ॥ कामार्थी लभते कामं मोक्षार्थी मोक्षमाप्नुयात् ॥ सर्व्वदानन्यशरणः कार्ष्णादिवैष्णवः सुखी । विवेकी च तथा निष्कामी यदा भक्तिमाप्नुयात् ॥ “ इति पाद्मे उत्तरखण्डे श्रीसदाशिवनारदसंवादे
श्रीराधाजन्माष्टमीकथनमाहात्म्ये १६३ अध्यायः ॥ 

____________________________________


(तन्त्रमतेऽस्या उत्पत्यादिविवरणानि यथा   -

कात्यायन्युवाच । 
“ वासुदेव महाबाहो मा भयं कुरु पुत्त्रक । 
मथुरां गच्छ तातेति तव सिद्धिर्भविष्यति ॥
 गच्छ गच्छ महाबाहो पद्मिनीसङ्गमाचर । 
पद्मिनी मम देवेश व्रजे राधा भविष्यति ।
 अन्याश्च मातृकादेव्यः सदा तस्यानुचारिकाः ॥ वासुदेव उवाच । 
शृणु मातर्म्महामाये चतुवर्गप्रदायिनि । 
त्वां विना परमेशानि ! विद्यासिद्धिर्न जायते ॥ पद्मिनीं परमेशानि ! शीघ्रं दर्शय सुन्दरि ! ।
 प्रत्ययं मम देवेशि ! तदा भवति मानसम् ॥ 
इति श्रुत्वा वचस्तस्य वासुदेवस्य तत्क्षणात् ।आविरासीत्तदा देवी पद्मिनी परसंस्थिता ॥ रक्तविद्युल्लताकारा पद्मगन्धसमन्विता ।
 रूपेण मोहयन्ती सा सखीगणसमन्विता ॥ सहस्रदलपद्मान्तर्म्मध्यस्थानस्थिता सदा । सखीगणयुता देवी जपन्ती परमाक्षरम् ॥ 
एकाक्षरी महेशानि ! सा एव परमाक्षरा । 
कालिका या महाविद्या पद्मिन्या इष्टदेवता । वासुदेवो महाबाहुर्दृष्ट्वा विस्मयमागतः ॥ पद्मिन्युवाच । व्रजं गच्छ महाबाहो शीघ्रं हि भगवन् ! प्रभो ! । त्वया सह महाबाहो कुलाचारं करोम्यहम् ॥
 वासुदेव उवाच । 
शृणु पद्मिनि मे वाक्यं कदा ते दर्शनं भवेत् । कृपया वद देवेशि ! जपं किंवा करोम्यहम् ॥ पद्मिन्युवाच । 
तवाग्रे देवदेवेश मम जन्म भविष्यति ।
 गोकुले माथुरे पीठे वृकभानुगृहे ध्रुवम् ॥ 
दुःखं नास्ति महाबाहो मम संसर्गहेतुना । कुलाचारोपयुक्ता या सामग्री पञ्चलक्षणा ॥ मालायां तव देवेश सदा स्थास्यति नान्यथा । इत्युक्त्वा पद्मिनी सा तु सुन्दर्य्या दूतिका तदा ॥ अन्तर्ध्यानं ततो गत्वा मालायां सहसा क्षणात् । वासुदेवोऽपि तां दृष्ट्वा क्षीराब्धिं प्रययौ ध्रुवम् ॥ त्यक्त्वा काशीपूरं रम्यं महापीठं दुरासदम् ।
 प्रययौ माथुरं पीठं पद्मिनी परमेश्वरी ॥ 
यत्र कात्यायनी दुर्गा महामायास्वरूपिणी । नारदार्द्यैर्म्मुनिश्रेष्ठैः पूजिता संस्तुता सदा ॥ कात्यायनी महामाया यमुनाजलसंस्थिता । यमुनाया जलं तत्र साक्षात् कालीस्वरूपिणी ॥ बहुपत्रयुतं रम्यं शुक्लपीतं महाप्रभम् । 
रक्तं कृष्णं तथा चित्रं हरितं सर्व्वमोहनम् । कालिन्द्याख्या महेशानि यत्र कात्यायनी परा ॥ कालिन्दी कालिका माता जगतां हितकाम्यया । साराध्यास्ते महेशानि ! देवर्षिसंस्तुता परा । सहस्रदलपत्रान्तर्म्मध्ये माथुरमण्डलम् ॥ 
केशबन्धे महेशानि ! यत् पद्मं सततं स्थितम् । पद्ममध्ये महेशानि ! केशपीठं मनोहरम् ॥ केशबन्धं महेशानि ! व्रजं माथुरमण्डलम् ।
 यत्र कात्यायनी माया महामाया जगन्मयी ॥ 
व्रजं वृन्दावनं देवि ! नानाशक्तिसमन्वितम् । शक्तिस्तु परमेशानि ! कलारूपेण साक्षिणी । शक्तिं विना परं ब्रह्म न भाति शवरूपवत् ॥
 “ इति वासुदेवरहस्ये राधातन्त्रे षष्ठः पटलः ॥ 


देव्युवाच । 
“ व्रजं गत्वा महादेवाकरोत् किं पद्मिनी तदा । कस्य वा भवने सा तु जाता सा पद्मिनी परा ॥
 तत् सर्व्वं परमेशान विस्ताराद्वद शङ्कर । 
यदि नो कथ्यते देव विमुञ्चामि तदा तनुम् ॥ 
ईश्वर उवाच । पद्मिनी पद्मगन्धा सा वृकभानुगृहे प्रिये ! । 
आविरासीत्तदा देवी कृष्णस्य प्रथमं प्रिया । 
चैत्रे मासि सिते पक्षे नवम्यां पुष्यसंयुते ॥ कालिन्दीजलकल्लोले नानापद्मगणावृते । आविरासीत्तदा पद्मा मायाडिम्बमुपाश्रिता ॥
 डिम्बोभूत्वा तदा पद्मा स्थिता कनकमध्यतः । कोटिचन्द्रप्रतीकाशं डिम्बं मायासमन्वितम् ॥ पुष्ययुक्तनवम्यां वै निश्यर्द्धे पद्ममध्यतः । आविरासीत्तदा पद्मा रङ्गिणी कुसुमप्रभा ॥ तरुणादित्यसङ्काशे पद्मे परमकामिनी । वृकभानुपुरं देवि ! कालिन्दीपारमेव च । 
नाम्ना पद्मपुरं रम्यं चतुर्व्वर्गसमन्वितम् ॥ डिम्बज्योतिर्म्महेशानि ! सहस्रादित्यसन्निभम् । तत्क्षणात् परमेशानि गाढध्वान्तविनाशकृत् ॥ वृकभानुर्म्महात्मा स कालिन्दीतटमास्थितः । महाविद्यां महाकालीं सततं प्रजपेत्सुधीः ॥ आविरासीन्महामाया तदा कात्यायनी परा । 
शृणु पुत्त्र महाबाहो वृकभानो महीधर । 
सिद्धोऽसि पुरुषश्रेष्ठ वरं वरय साम्प्रतम् ॥ वृकभानुरुवाच । 
सिद्धोऽहं सततं देवि ! त्वत्प्रसादात् सुरेश्वरि ! । त्वत्प्रसादान्महामाये यथा मुक्तो भवाम्यहम् ॥ त्वत्प्रसादान्महामाये असाध्यं नास्ति भूतले । आत्मनः सदृशाकारां कन्यामेकां प्रयच्छ मे ॥ तच्छ्रुत्वा परमेशानि ! तदा कात्यायनी परा । मेषगम्भीरया वाचा यदाह वृकभानवे ॥
 तच्छृणुष्व महेशानि ! पीयूषसदृशं वचः । 
भक्त्या त्वदीयपत्न्यास्तु तुष्टाहं त्वयि सुन्दरि ! ॥ एतद्धि वचनं वत्स ! तव पत्न्या सुयुज्यते । इत्युक्त्वा सहसा तत्र महामाया जगन्मयी ॥ 
प्रददौ परमेशानि ! तस्मै डिम्बं मनोहरम् । वृकभानुर्म्महात्मा स तत्क्षणाद्गृहमाययौ ॥
 भार्य्या तस्य विशालाक्षी विशालकटिमोहिनी । रत्नप्रदीपमाभाष्य रत्नपर्य्यङ्कमाश्रिता ॥ 
तस्या हस्ते तदा भानुः प्रददौ डिम्बमोहनम् । 
तं दृष्ट्वा परमेशानि ! विस्मयं परमं गता ॥ 
हस्ते कृत्वा तु डिम्बं वै निरीक्ष्य च पुनः पुनः । नानागन्धयुतं डिम्बं सर्व्वशक्तिसमन्वितम् ॥ नानाज्योतिर्म्मयं डिम्बं तत्क्षणाच्च द्बिधाभवत् । तत्रापश्यन्महाकन्यां पद्मिनीं कृष्णमोहिनीम् ॥ 

कात्यायन्युवाच—

वासुदेव महाबाहो मा भयं कुरु पुत्रक।            मथुरां गच्छ तातेति तव सिद्धिर्भविष्यति।।१।।

गच्छ गच्छ महाबाहो पद्मिनीसङ्गमाचर।पद्मिनी मम देवेश व्रजे राधा भविष्यति।

अन्याश्च मातृका देव्यः सदा तस्यानुचारिकाः।।२।।

वासुदेव उवाच—

शृणु मातर्महामाये चतुर्वर्गप्रदायिनि।त्वां विना परमेशानि विद्यासिद्धिर्न जायते।।३।।

पद्मिनीं परमेशानि शीघ्रं दर्शय सुन्दरि।प्रत्ययं मम देवेशि तदा भवति मानसम्।।४।।

इति श्रुत्वा वचस्तस्य वासुदेवस्य तत्क्षणात्।आविरासीस्तदा देवी पद्मिनी परसंस्थिता।।५।।

रक्तविद्युल्लता कारा पद्मगन्धसमन्विता।रूपेण मोहयन्ती सा सखीगणसमन्विता।।६।।

सहस्रदलपद्मान्तर्मध्यस्थानस्थिता सदा।सखीगणयुतैर्देवी जपन्ती परमाक्षरम्।।७।।

एकाक्षरी महेशानि सा एव परमाक्षरा।कालिन्दी या महाविद्या पद्मिन्या इष्टदेवता।

वासुदेवो माहाबाहुर्दृष्ट्वा विस्मयमागतः।।८।।पद्मिन्युवाच—

व्रजं गच्छ महाबाहो शीघ्रं हि भगवान्प्रभो।त्वया सह महाबाहो कुलाचारं करोम्यहम्।।९।।

वासुदेव उवाच—

शृणु पद्मिनि मे वाक्यं कदा ते दर्शनं भवेत्।कृपया वद देवेशि जपं किं वा करोम्यहम्।।१०।।

पद्मिन्युवाच—

तवाग्रे देवदेवेश मम जन्म भविष्यति।गोकुले माथुरे पीठे वृकभानुगृहे ध्रुवम्।।११।।

दुःखं नास्ति महाबाहो मम संसर्गहेतुना।कुलाचारोपयुक्ता या सामग्री पञ्चलक्षणा।मालायां तव देवेश सदा स्थास्यति नान्यथा।।१२।।

इत्युक्त्वा पद्मिनी सा तु सुन्दर्या दूतिका तदा।अन्तर्ध्यानं ततो गत्वा मालायां सह सा क्षणात्।।१३।।

वासुदेवो ऽपि तां दृष्ट्वा क्षीराब्धिं प्रययौ ध्रुवम्।त्यक्त्या काशीपुरं रम्यं महापीठं दुरासदम्।।१४।।

प्रययौ माथुरं पीठं पद्मिनी परमेश्वरी।यत्र कात्यायनी दुर्गा महामायास्वरूपिणी।।१५।।

नारदाद्यैर्मुनिश्रेष्ठैः पूजिता संस्तुता सदा।कात्यायनी महामाया यमुनाजलसंस्थिता।।१६।।

यमुनाया जलं तत्र साक्षात्कालीस्वरूपिणी।बहुपद्मयुतं रम्यं शुक्लपीतं महत्प्रभम्।।१७।।

रक्तं कृष्णं तथा चित्रं हरितं सर्वमोहनम्।कालिन्द्याख्या महेशानि यत्र कात्यायनी परा।।१८।।

कालिन्दी कालिका माता जगतां हितकाम्यया।सदाध्यास्ते महेशानि देवर्षिसंस्तुता परा।।१९।।

सहस्रदलपद्मान्तर्मध्ये माथुरमण्डलम्।केशबन्धे महेशानि यत्पद्मं सततं स्थितम्।।२०।।

पद्ममध्ये महेशानि केशपीठं मनोहरम्।केशबन्धे महेशानि व्रजं माथुरमण्डलम्।।२१।।

यत्र कात्यायनी माया महामाया जगन्मयी।

દીપજ્યોતિઃ



रक्तविद्युल्लताकारां सर्व्वसौभाग्यवर्द्धिनीम् ।
 तां दृष्ट्वा परमेशानि सहसा विस्मयं गता ॥ कीर्त्तिदोवाच । हे मातः पद्मिनीरूपे रूपं संहर संहर । ततस्तु परमेशानि ! तद्रूपं तत्क्षणात् प्रिये ! ॥ संहृत्य सहसा देवी सामान्यं रूपमास्थिता । ततस्तु कीर्त्तिदा देवी रूपन्तस्या व्यलोकयत् ॥ रङ्गिणी कुसुमाकारा रक्तविद्युत्समप्रभा ॥ कन्योवाच । हे मातः कीर्त्तिदे भद्रे क्षीरं पायय सुन्दरि ! । स्तनं देहि स्तनं देहि तव कन्या भवाम्यहम् ॥ तत्श्रुत्वा वचनं तस्याः पद्मिन्याः कमलेक्षणे । अपाययत् स्तनं तस्यै पद्मिन्यै नगनन्दिनि ॥ चकार नाम तस्यास्तु भानुः कीर्त्तिदयान्वितः । रक्तविद्युत्प्रभां देवी धत्ते यस्मात् शुचिस्मिते । तस्मात्तु राधिका नाम सर्व्वलोकेषु गीयते ॥ ईश्वर उवाच । 
दिने दिने वर्द्धमाना वृकभानुगृहे प्रिये ! । एवं माथुरपीठे च चकार व्रजवासिनी ॥ तस्माद्भाद्रपदे मासि कृष्णोऽभूत् कमलेक्षणः ॥ महादेव उवाच । श्रूयतां पद्मपत्राक्षि रहस्यं पद्मिनीमतम् । सम्प्राप्ते परमेशानि ! द्वितीये वत्सरे तदा ॥ कुर्य्याद्यत्नेन देवेशि ! शिवलिङ्गप्रपूजनम् । प्रजपेत् परमां विद्यां कालीं ब्रह्माण्डरूपिणीम् ॥ पूजयेद्विविधैः पुष्पैर्गन्धैश्च सुमनोहरैः । फलैर्ब्बहुविधैर्भद्रे पूजयेत् परमेश्वरीम् ॥ पद्मिन्युवाच । कात्यायनि महामाये महायोगिन्यधीश्वरि ! । 
देहि देहि महामाये विद्यासिद्धिमनुत्तमाम् ॥ सिद्धिञ्च वासुदेवस्य देहि मातर्नमोऽस्तु ते । 
त्वां विना ब्रह्म निःशब्दं निश्चलं सततं सदा ॥ शरीरस्थं हि कृष्णस्य कृष्णो ज्योतिर्म्मयं सदा । विना देहं परं ब्रह्म शवरूपवदीरितम् ॥ 
अतएव महामाये ब्रह्मणः कारणं परा । एवं प्रार्थ्य महेशानि ! सततं परमेश्वरीम् ॥ संपूज्य परया भक्त्या लक्ष्यं जप्त्वा तु मानसम् । वरं प्राप्ता महेशानि कात्यायन्याः समीपतः ॥ कात्यायन्युवाच । पद्मिनि शृणु मद्वाक्यं शीघ्रं प्राप्स्यसि केशवम् । इत्युक्त्वा परमेशानि ! तत्रैवान्तरधीयत ॥ कात्यायनी महामाया सदा वृन्दावनेश्वरी । वृकभानुसुता राधा सखीगणवृता सदा ॥ वर्द्धमाना सदा राधा यथा चन्द्रकला प्रिये ! । सर्व्वशृङ्गारवेशाढ्या स्फुरच्चकितलोचना ॥ सर्व्वालङ्कारसंयुक्ता साक्षात् श्रीरिव पार्व्वति । चचार गहने घोरे पद्मिनी परसुन्दरी ॥ या राधा परमेशानि ! पद्मिनी परमेश्वरी । पद्मस्य वनमाश्रित्य सदा तिष्ठति कामिनी ॥ अन्यमूर्त्तिं महेशानि ! दृष्ट्वा चैवात्मसन्निभाम् । आत्मनः सदृशाकारां राधामन्यां ससर्ज्ज सा ॥ या सा तु कृत्रिमा राधा वृकभानुगृहे सदा । अयोनिसम्भवा यातु पद्मिनी सा पराक्षरा ॥ कृत्रिमा या महेशानि ! तस्यास्तु चरितं शृणु । वृकभानुर्म्महात्मा स तस्या वैवाहिकीं क्रियाम् ॥ कारयामास यत्नेन पञ्चवर्षे तु सुन्दरि ! । तस्यास्तु चोभयं वंशं सावधानावधारय ॥ श्वशुरस्य वृकस्यापि वंशं परमसुन्दरम् । श्वश्रूस्तु जटिला ख्याता पतिर्म्मान्योऽतिमन्युकः ॥ ननान्दा कुटिलानाम्नी देवरो दुर्म्मदाभिधः । तिलकं स्मरमादाख्यं हरोहरिमनोहरः ॥ रोचनो रत्नताडङ्को घृणियुक्तप्रभाकरी । छत्रं दृष्ट्वा प्रतिच्छायं पद्मञ्च मदनाभिधम् ॥ स्यमन्तकान्यपर्य्यायः शङ्खचूडशिरोमणिः । पुष्पवन्तोक्षिपलकः सौभाग्यमणिरुच्यते ॥ काञ्ची काञ्चनचित्राङ्गि नूपुरे चित्रगोपुरे । मधुसूदनमाबद्धा ययोः सिञ्जितमाधुरी ॥ वासो मेघाम्बरं नाम कुरुविन्दनिभं सदा । आद्यं सुप्रियमभ्राभं रक्तमन्त्यं हरेः प्रियम् ॥ सुधांशो र्दर्पहरणो दर्पणो मणिबान्धवः । शलाका नर्म्मदा हैमी स्वस्तिका नाम कङ्कतिः ॥ कन्दर्पकुहरी नाम कटिका पुष्पभूषिता । स्वर्णमुखीतडिद्वली कुण्डा ख्याता स्वनामतः ॥ नीपा नदीतटे यस्य रहस्यकथनस्थली । मन्दारश्च धनुः स्त्रीश्च रागोहृदयमन्दगौ ॥ छानिक्यं दयिता नित्यं वल्लभा रुद्रधन्वकी । सख्यः ख्याताः सदा भद्राचारुचन्द्रावलीमुखाः ॥ गन्धर्व्वास्तु कलाकण्ठी सुकण्ठी पिककण्ठिका । कलावती रसोल्लासा गुणवत्यादयः स्मृताः ॥ या विशाखाकृतागीतिर्गायन्त्यः सुखदा हरेः । वादयन्त्यद्य शुषिरं ताललब्धघनन्त्वपि ॥ माणिक्या नर्म्मदा प्रेमवती कुसुमपेषलाः । दिवाकीर्त्तेस्तनूजे तु सुगन्धानलिनीत्युभे ॥ मञ्जिष्ठा रङ्गवत्याख्ये रजकस्य किशोरिके । पालिन्धिसमसैरिन्ध्री वृन्दाकन्दलतादयः ॥ धनिष्ठा गुणवत्याद्या धन्ववेश्वरगेहगाः । कामधा नामधा प्रेयी सखीभावविशेषभाक् ॥ लवङ्गमञ्जरी रागमञ्जरी गुणमञ्जरी । सुभानुसत्यनुपमा सुप्रिया रतिमञ्जरी ॥ रागलेखा कलाकेली भूविदाद्याश्च नायिकाः । नान्दीमुखी बिन्दुमुखी आद्याः सन्धिविधायिकाः ॥ सुहृत्पद्मतया ख्याताः श्यामला मङ्गलादयः । प्रतिपक्षतया श्रेष्ठा राधाचन्द्रावलीत्युभे ॥ समूहास्तु ययोः सन्ति कोटिसंख्यामृगीदृशाम् । तयोरप्युभयोर्म्मध्ये सर्व्वमाधुर्य्यतोऽधिका ॥ श्रीराधा त्रिपुरादूती पुराणपुरुषप्रिया । असमानगुणोदर्य्या धूर्य्यो गोपेन्द्रनन्दनः ॥ यस्याः प्राणपरार्द्धानां परार्द्धादतिवल्लभः । श्रेष्ठा सा मातृकादिभ्यस्तत्र गोपेन्द्रगेहिनी । वृषभानुः पिता यस्या वृषभानुविधो महान् । रत्नगर्भा क्षितौ ख्याता जननी कीर्त्तिदा क्षया ॥ उपास्यो जगतां चक्षुर्भगवान् पद्मबान्धवः । जप्यः स्वाभीष्टसंसर्गे कात्यायन्या महामनुः ॥ पौर्णमासी भगवती सर्व्वसौभाग्यवर्द्धिनी । पितामहो महीभानुर्व्विन्दुर्म्मातामहो मतः ॥ मातामहीपितामह्यौ सुखदामोक्षदाभिधे । रत्नभानुः स्वभानुश्च भानुश्च भ्रातरः पितुः ॥ भद्रकीर्त्तिर्म्महाकीर्त्तिः कीर्त्तिचन्द्रश्च मातुलः । स्वसा कीर्त्तिमती मातुर्भानुमुद्रा पितृष्वसा ॥ पितृष्वसृपतिः काश्यो मातृष्वसृपतिः कृशः । मातुली मेनकामेना षष्ठी धात्री तु धातकी ॥ श्रीदामा पूर्ब्बजो भ्राता कनिष्ठानङ्गमञ्जरी । परमप्रेष्ठसख्यस्तु ललिता च विशाखिका ॥ विचित्रा चम्पकलता रङ्गदेवी सुदेविका । तुङ्गवेद्यङ्गलेखा च इत्यष्टौ च गणा मताः ॥ प्रियसख्यः कुरङ्गाक्षी मण्डली मानकुण्डला । मालती चन्द्रलतिका माधवामदनालसा ॥ मञ्जुमेया शशिकला सुमध्या मधुमेक्षणा । कमला कामलतिका कान्तचूडा वराङ्गना ॥ मधूरी चन्द्रिका प्रेममञ्जरी तनुमध्यमा । कन्दर्पसुन्दरी मञ्जुवेशी चाद्यास्तु कोटिशः ॥ रक्ताजीवितयाख्याता कलिका केलिसुन्दरी । पृष्ठ ४/१४०कादम्बरी शशिमुखी चन्द्ररेखा प्रियंवदा ॥ मदोन्मादा मधुमती वासन्ती कलभाषिणी । रत्नवेणी मालवती कर्पूरतिलकादयः ॥ एता वृन्दावनेश्वर्य्याः प्रायः सारूप्यमागताः । नित्यसख्यस्तु कस्तूरी मनोज्ञा मणिमञ्जरी ॥ सिन्दूरा चन्दनवती कौमुदी मुदितादयः । काननादिगतास्तस्या विहारार्थं कला इव ॥ अथ तस्याः प्रकीर्त्त्यन्ते प्रेयस्यः परमाद्भुताः । वनादित्योप्युरुप्रेमसौन्दर्य्यभरभूषिताः ॥ चन्द्रावली च पद्मा च श्यामा सैका च भद्रिका । तारा चित्रा च गन्धर्व्वी पालिका चन्द्रमालिका ॥ मङ्गला विमला नीला भवनाक्षी मनोरमा । कल्पलता तथा मञ्जुभाषिणी मञ्जुमेखला ॥ कुमुदा कैरवी पारी शारदाक्षी विशारदा । शङ्करी कुसुमा कृष्णा सारङ्गी प्रविलाशिनी ॥ तारावती गुणवती सुमुखी केलिमञ्जरी । हारावली चकोराक्षी भारती कामिनीति च ॥ आसां यूथानि शतशः ख्यातान्यन्यानि सुभ्रुवाम् । लक्षसंख्यास्तु कथिता यूथे यूथे वराङ्गनाः ॥ मुख्यास्तु तेषु यूथेषु कान्ताः सर्व्वगुणोत्तमाः । राधा चन्द्रावली भद्रा श्यामला पालिकादयः ॥ जन्मनाम्नाथ सा ख्याता मधुमासे विशेषतः । पुष्यर्क्षे च नवम्यां वै शुक्लपक्षे शुचिस्मिते ॥ जाता राधा महेशानी स्वयं प्रकृतिपद्मिनी । तासु रेमे महेशानि स्वयं कृष्णः शुचिस्मिते । रमणं वासुदेवस्य मन्त्रसिद्धेस्तु कारणम् ॥ देव्युवाच । भो देव तापसां श्रेष्ठ विस्ताराद्वद ईश्वर । कथं सा पद्मिनी राधा सदा पद्मवने स्थिता ॥ पितरं मातरं त्यक्त्वा आत्मतुल्यां ससर्ज्ज सा । पद्ममाश्रित्य देवेश वृन्दावनविलासिनी । सदाध्यास्ते महेशानि एतद्गुह्यं वद प्रभो ! ॥ “ इति वासुदेवरहस्ये राधातन्त्रे सप्तमः पटलः ॥ ईश्वर उवाच । “ या राधा मृगशावाक्षि ! पद्मिनी विष्णुवल्लभा । महामाया जगद्धात्री त्रिपुरा परमेश्वरी ॥ तस्या दूती महेशानि पद्मिनी पद्मगन्धिनी । कृष्णस्य दृढभक्ता तु पद्मिनी तस्य बल्लभा ॥ वृकभानोर्म्महेशानि दृढभक्तिः शुचिस्मिते । दुहितृत्वं गता देवी पद्मिनी गन्धमालिनी ॥ कृत्वा तु स्तनपानं हि राधामन्यां ससर्ज्ज सा । पद्मषण्डं समाश्रित्य यमुनाजलमध्यतः ॥ महाकाल्या महामन्त्रं प्रजपेन्निर्ज्जने वने । अन्या चन्द्रावली राधा वृकभानुगृहे स्थिता ॥ पूर्ब्बोक्तं यद्गुणं देवि पद्मिनी कमलेक्षणे । तत् सर्व्वं पद्मिनीसृष्टं नान्यथा परमेश्वरि ॥ राधिका त्रिविधा प्रोक्ता चन्द्रा तु पद्मिनी तथा । न पश्येत् परमेशानि चन्द्रसूर्य्यं शुचिस्मिते ॥ मानवानां महेशानि वराकाणां हि का कथा । आत्मनोऽपह्नवं कृत्वा पद्मिनी पद्ममाश्रिता । त्रिपुराया महेशानि पद्मिनी अनुचारिणी ॥ “ इति वासुदेवरहस्ये राधातन्त्रे अष्टमः पटलः ॥ ) अस्याः सहस्रनामानि यथा   -पार्व्वत्युवाच । “ देवदेव जगन्नाथ मक्तानुग्रहकारक । यद्यस्ति मयि कारुण्यं यद्यस्ति मयि ते दया ॥ यद्यत् त्वया प्रगदितं तत् सर्व्वं मे श्रुतं प्रभो । गुह्यात् गुह्यतरं यत्तु यत्ते मनसि काशते ॥ त्वया न गदितं यत्तु यस्मै कस्मै कदाचन । तन्मां कथय देवेश सहस्रं नाम चोत्तमम् ॥ श्रीराधाया महादेव्या गोप्या भक्तिप्रसाधनम् । ब्रह्माण्डकर्त्री हर्त्री सा कथं गोपीत्वमागता ॥ महादेवौवाच । शृणु देवि ! विचित्रार्थां कथां पापहरां शुभाम् । सन्ति जन्मानि कर्म्माणि तस्या नूनं महेश्वरि ! ॥ यदा हरिश्चरित्राणि कुरुते कार्य्यगौरवात् । तदा विधत्ते रूपाणि हरिसान्निध्यसाधिनी ॥ तस्या गोपीत्वभावस्य कारणं गदितं पुरा । इदानीं शृणु देवेशि ! नाम्नां चैव सहस्रकम् ॥ यन्मया कथितं नैव तन्त्रेष्वपि कदाचन । तव स्नेहात् प्रवक्ष्यामि भक्त्या धार्य्यं मुमुक्षुभिः ॥ मम प्राणसमा विद्या भाव्यते मे त्वहर्निशम् । शृणुष्व गिरिजे नित्यं पठस्व च यथामति ॥ यस्याः प्रसादात् कृष्णस्तु गोलोकेशः परःप्रभुः ।  * ।
 अस्या नामसहस्रस्य ऋषिर्नारद एव च ॥ देवी राधा परा प्रोक्ता चतुर्व्वर्गप्रसाधिनी । श्रीराधा राधिका कृष्णबल्लभा कृष्णसंयुता ॥ वृन्दावनेश्वरी कृष्णप्रिया मदनमोहिनी । श्रीमती कृष्णकान्ता च कृष्णानन्दप्रदायिनी ॥ यशस्विनी यशोगण्या यशोदानन्दवल्लभा । दामोदरप्रिया गोपी गोपानन्दकरी तथा ॥ कृष्णाङ्गवासिनी हृद्या हरिकान्ता हरिप्रिया । प्रधाना गोपिका गोपकन्या त्रैलोक्यसुन्दरी ॥ वृन्दावनविहारी च विस्फूर्ज्जितमुखाम्बुजा । गोपकुलानन्दकर्त्री गोकुलानन्ददायिनी ॥ गतिप्रदा गीतगम्या आगमागमनप्रिया । विष्णुप्रिया विष्णुकान्ता विष्णोरङ्गनिवासिनी ॥ यशोदानन्दपत्नी च यशोदानन्दगेहिनी । कामारिकान्ता कामेशी कामलालसविग्रहा ॥ जयप्रदा जया जीवा जीवानन्दप्रदायिनी । यशोदानन्दपत्नी च वृषभानुसुता शिवा ॥ गणाध्यक्षा गवाध्यक्षा गवां गतिरनुत्तमा । काञ्चनाभा हेमगात्री काञ्चनाङ्गदधारिणी ॥ 

अशोका शोकरहिता विशोका शोकनाशिनी । गायत्त्री वेदमाता च वेदातीता विदुत्तमा ॥
 नीतिशास्त्रप्रिया नीतिर्गतिर्म्मतिरभीष्टदा । वेदप्रिया वेदगर्भा वेदमार्गप्रवर्द्धिनी ॥
 वेदगम्या वेदपरा विचित्रकनकोज्ज्वला । तथोज्ज्वलप्रदा नित्या तथैवोज्ज्वलगात्रिका ॥ नन्दप्रिया नन्दसुता राधानन्दप्रदा शुभा ।
 शुभाङ्गी विमलाङ्गी च विलासिन्यपराजिता ॥ जननी जन्मशून्या च जन्ममृत्युज्वरापहा । गतिर्गतिमतां धात्री धात्रानन्दप्रदायिनी ॥ जगन्नाथप्रिया शैलवासिनी हेमसुन्दरी । विचित्रवासिनी चित्रवासिनी चित्ररूपिणी ॥ निर्गुणा सुकुलीना च निष्कुलीना निराकुला । गोकुलान्तरगेहा च योगानन्दकरी तथा ॥ 
वेणुवाद्या वेणुरतिर्वेणुवाद्यपरायणा ।
 गोपालस्य प्रिया सौम्या रम्या सौम्यकुलोद्भवा ॥ अतिसौम्यातिमोहा च गतिरिष्टा गतिप्रदा । गीर्व्वाणवन्द्या गीर्व्वाणा गीर्ब्बाणगणसेविता ॥ ललिता च विशोका च विशाखा चित्रमालिनी । जितेन्द्रिया शुद्धसत्त्वा कुलीना कुलदीपिका ॥ दीपप्रिया दीपदात्री विमला विमलोदका । कान्तारवासिनी कृष्णा कृष्णचन्द्रप्रिया मतिः ॥ अनुत्तरा दुःखहन्त्री दुःखकर्त्री कुलोद्भवा । मतिर्लक्ष्मीर्धृ तिर्लज्जा कान्तिः पुष्टिः स्मृतिः क्षमा ॥ क्षीरोदशायिनी देवी देवारिकुलमर्द्दिनी ।
 वैष्णवी च महालक्ष्मीः कुलपूज्या कुलप्रिया ॥ संहत्रीं सर्व्वदैत्यानां सावित्री वेदगामिनी । वेदातीता निरालम्बा निरालम्बगणप्रिया ॥ निरालम्बजनैः पूज्या निरालोका निराश्रया । एकाङ्गी सर्व्वगा सेव्या विष्णोः पत्नी सरस्वती ॥ रासप्रिया रासगम्या रासाधिष्ठातृदेवता । रसिका रसिकानन्दा स्वयं रासेश्वरी परा ॥ रासमण्डलमध्यस्था रासमण्डलशोभिता । रासमण्डलसेव्या च रासक्रीडामनोहरा ॥ पुण्डरीकाक्षनिलया पुण्डरीकाक्षगेहिनी । पुण्डरीकाक्षसेव्या च पुण्डरीकाक्षवल्लभा ॥ सर्व्वजीवेश्वरी सर्व्वजीववन्द्या परात्परा । प्रकृतिः शम्भुकान्ता च सदाशिवमनोहरा ॥ क्षुत् पिपासा दया निद्रा भ्रान्तिः श्रान्तिः क्षमा कुला ।
 विधुरूपा गोपपत्नी भारती सिद्धयोगिनी ॥ शत्रुरूपा मित्ररूपा नित्याङ्गी नित्यगेहिनी । स्थानदात्री तथा धात्री महालक्ष्मीः स्वयंप्रभा ॥ सिन्धुकन्या स्थानदात्री द्बारकावासिनी तथा । बुद्धिः स्थितिः स्थानरूपा सर्व्वकारणकारणम् ॥ भक्तप्रिया भक्तगम्या भक्तानन्दप्रदायिनी । भक्तकल्पद्रुमातीता तथातीतगुणा तथा ॥ मनोऽधिष्ठातृदेवी च कृष्णप्रेमपरायणा । निरामया सौम्यदात्री तथा मदनमोहिनी ॥ 
एकानंशा शिवा क्षेमा दुर्गा दुर्गतिनाशिनी । ईश्वरी सर्व्ववन्द्या च गोपनीया शुभङ्करी ॥ पालिनी सर्व्वभूतानां तथा कामाङ्गहारिणी । सद्योमुक्तिप्रदा देवी वेदसारा परात्परा ॥ हिमालयसुता सर्व्वा पार्व्वती गिरिजा सती । दक्षकन्या देवमाता मन्दलज्जा हरेस्तनुः ॥ वृन्दारण्यप्रिया वृन्दा वृन्दावनविलासिनी । विलासिनी वैष्णवी च ब्रह्मलोकप्रतिष्ठिता ॥ रुक्मिणी रेवती सत्यभामा जाम्बवती तथा । सुलक्षणा मित्रविन्दा कालिन्दी जह्नुकन्यका ॥ परिपूर्णा पूर्णतरा तथा हैमवती गतिः । अपूर्व्वा ब्रह्मरूपा च ब्रह्माण्डपरिपालिनी ॥ ब्रह्माण्डभाण्डमध्यस्था ब्रह्माण्डभाण्डरूपिणी । अण्डरूपाण्डमध्यस्था तथाण्डपरिपालिनी ॥ अण्डवाह्याण्डसंहन्त्री ब्रह्मशिवहरिप्रिया । महाविष्णुप्रिया कल्पवृक्षरूपा निरन्तरा ॥ सारभूता स्थिरा गौरी गौराङ्गी शशिशेखरा । श्वेतचम्पकवर्णाभा शशिकोटिसमप्रभा ॥ तीमाल्यभूषाढ्या मालतीमाल्यधारिणी । कृष्णस्तुता कृष्णकान्ता वृन्दावनविलासिनी ॥ तुलस्यधिष्ठातृदेवी संसारार्णवपारदा । सारदा हारदा गोपनन्दिनी सर्व्वसिद्धिदा ॥ अतीतगमना गौरी परानुग्रहकारिणी । करुणार्णवसंपूर्णा करुणार्णवधारिणी ॥ माधवी माधवमनोहारिणी श्यामवल्लभा । अन्धकारभयध्वस्ता मङ्गल्या मङ्गलप्रदा ॥ श्रीप्रभा श्रीप्रदा श्रीशा श्रीनिवासाच्युतप्रिया । श्रीरूपा श्रीहरा श्रीदा श्रीकामा श्रीस्वरूपिणी ॥ श्रीदामानन्ददात्री च श्रीदामेश्वरवल्लभा । श्रीनितम्बा श्रीगणेशा श्रीस्वरूपाश्रिता श्रुतिः ॥ श्रीक्रियारूपिणी श्रीला श्रीकृष्णभजनाश्रिता । श्रीराधा श्रीमतिः श्रेष्ठा श्रेष्ठरूपा श्रुतिप्रिया ॥ योगेशा योगमाता च योगातीता युगप्रिया । योगप्रिया योगगम्या योगिनीगणवर्द्धिता ॥ जवाकुसुमसङ्काशा दाडिमीकुसुमोपमा । नीलाम्बरधरा धारी धैर्य्यरूपा धरा धृतिः ॥ रत्नसिंहासनस्था च रत्नकुण्डलभूषिता । रत्नालङ्कारसंयुक्ता रत्नमाल्यधरा परा ॥ रत्नेन्द्रसारहाराढ्या रत्नमालाविभूषिता । इन्द्रनीलमणिन्यस्तपादपद्मा शुभा शुचिः ॥ कार्त्तिकी पौर्णमासी च अमावस्या भयापहा । गोविन्दराजगृहिणी गोविन्दराजपूजिता ॥ गोविन्दार्पितचित्ता च गोपीजनगणान्विता । वैकुण्ठनाथगृहिणी गोविन्दपरमानसा ॥ गोविन्ददेवदेवाढ्या तथा वैकुण्ठसुन्दरी । मानदा सा वेदवती सीता साध्वी पतिव्रता ॥ अन्नपूर्णा सदानन्दरूपा कैवल्यसुन्दरी । कैवल्यदायिनी श्रेष्ठा गोपीनाथमनोहरा ॥ गोपीनाथेश्वरी चण्डी नायिका नयनान्विता । नायका नायकप्रीता नायकानन्दरूपिणी ॥ शेषा शेषवती शेषरूपा चैव जगन्मयी । गोपालपालिका माया नन्दजाया तथा परा ॥ कुमारी यौवनानन्दी युवती गोपसुन्दरी । गोपमाता जानकी च जनकानन्दकारिणी ॥ कैलासवासिनी रम्भा हरतोषणतत्परा । हरेश्वरी रामरता रामरामेश्वरी रमा ॥ श्यामला चित्रलेखा च तथा भुवनमोहिनी । सुगोप्या गोपवनिता गोपराज्यप्रदा शुभा ॥ आनन्दपूर्णा माहेशी मत्स्यराजसुता सती । कौमारी नारसिंही च वाराही नवदुर्गिका ॥ चञ्चलाचञ्चला मोदा नारी भुवनसुन्दरी । दक्षयज्ञहरा दाक्षी दक्षकन्या सुलोचना ॥ रतिरूपा रतिप्रीता रतिश्रेष्ठा रतिप्रदा । रतिलक्षणगेहस्था विरजा भुवनेश्वरी ॥ शङ्कास्पदा हरेर्जाया जामातृकुलवन्दिता । वकुला वकुलामोदधारिणी यमुना जया ॥ विजया जयपत्नी च यमलार्ज्जुनभञ्जिनी । वक्रेश्वरी वक्ररूपा वक्रवीक्षणदीक्षिता ॥ अपराजिता जगन्नाथा जगन्नाथेश्वरी मतिः । खेचरी खेचरसुता खेचरत्वप्रदायिनी ॥ विष्णुवक्षःस्थलस्था च विष्णुभावनतत्परा । चन्द्रकोटिसुगात्रा च चन्द्राननमनोहरा ॥ सर्व्वसेव्या शिवा क्षेमा तथा क्षेमङ्करी बधूः । यादवेन्द्रबधूः शैव्या शिवभक्ता शिवान्विता ॥ केवला निष्कला सूक्ष्मा महाभीमा भयप्रदा । जीमूतरूपा जैमूती जिता मित्रप्रमोदिनी ॥ गोपालवनितानङ्गा कुलजेन्द्रनिवासिनी । जयन्ती यमुनाङ्गी च यमुनातोषकारिणी ॥ कलिकल्मषभङ्गा च कलिकल्मषनाशिनी । कलिकल्मषरूपा च नित्यानन्दकरी कृपा ॥ कृपावती कुलवती कैलासाचलवासिनी । वामदेवी वामभागा गोविन्दप्रियकारिणी ॥ नगेन्द्रकन्या योगेशी योगिनी योगरूपिणी । योगसिद्धा सिद्धरूपा सिद्धक्षेत्रनिवासिनी ॥ क्षेत्राधिष्ठातृरूपा च क्षेत्रातीता कुलप्रदा । केशवानन्ददात्री च केशवानन्ददायिनी ॥ केशवा केशवप्रीता कैशोरी केशवप्रिया । रासक्रीडाकरी रासवासिनी राससुन्दरी ॥ गोकुलान्वितदेहा च गोकुलत्वप्रदायिनी । लवङ्गनाम्नी नारङ्गी नारङ्गकुलमण्डला ॥ एलालवङ्गकर्पूरमुखवासमुखान्विता । मुख्या मुख्यप्रदा मुख्यरूपा मुख्यप्रदायिनी ॥ नारायणी कृपा राधा करुणा करुणामयी । कारुण्या करुणाकर्णी गोकर्णा नागकर्णिका ॥ सर्पिणी कौलिनी क्षेत्रवासिनी च जगन्मयी । जटिला कुटिला नीला नीलाम्बरधरा शुभा ॥ नितम्बिनी रूपवती युवती कृष्णपीवरी । विभावरी वेत्रवती संकटा कुटिलालका ॥ नारायणप्रिया शैला सृक्कणीपरिमोहिता । दृक्पातमोहिता प्रातराशितनवनीतिका ॥ नवीना नवनारी च नारङ्गफलशोभिता । हैमी हेममुखी चन्द्रमुखी शशिसुशोभना ॥ अर्द्धचन्द्राधरा चन्द्रवल्लभा रोहिणी तिमिः । तिमिङ्गिलकुलामोदमत्स्यरूपाङ्गहारिणी ॥ कारणी सर्व्वभूतानां कार्य्यातीता किशोरिणी । किशोरवल्लभा केशकारिका कामकारिका ॥ कामेश्वरी कामकला कालिन्दीकुलदीषिका । कलिन्दतनयातीरवासिनी तीरगेहिनी ॥ कादम्बरीपानपरा कुसुमामोदधारिणी । कुमुदा कुमुदानन्दा कृष्णेशी कामवल्लभा ॥ तर्कारी वैजयन्ती च निम्बदाडिम्बरूपिणी । विल्ववृक्षप्रिया कृष्णाम्बरा विल्वोपमस्तनी ॥ विल्वात्मिका विल्ववपुर्विल्ववृक्षनिवासिनी । तुलसी तोषिका चैव तैतिलानन्दकारिणी ॥ गजेन्द्रगामिनी श्यामलतानङ्गलता तथा । योषिच्छक्तिस्वरूपा च योषिदानन्दकारिणी ॥ प्रेमप्रिया प्रेमरूपा प्रेमानन्दतरङ्गिणी । प्रेमहरा प्रेमदात्री प्रेमशक्तिमयी तथा ॥ कृष्णप्रेमवती धन्या कृष्णप्रेमतरङ्गिणी । प्रेमार्थदायिनी सर्व्वश्वेता नित्यतरङ्गिणी ॥ हावभावान्विता रौद्रा रुद्रानन्दप्रकाशिनी । कपिला शृङ्खला केशपाशसम्बर्द्धिनी धटी ॥ कुटीरवासिनी धूम्रा धूम्रकेशा जनोदरी । ब्रह्माण्डगोचरा ब्रह्मरूपिणी भवभाविनी ॥ संसारनाशिनी शैवा शैवानन्दप्रदायिनी । शिशिरा हेमरागाढ्या मेघरूपातिसुन्दरी ॥ मनोरमा वेगवती वेगाढ्या वेदवादिनी । दयान्विता दयाधारा दयारूपा सुसेविनी ॥ किशोरसङ्गसंसर्गा गौरचन्द्रानना कला । कलाधिनाथवदना कलानाथाधिरोहिणी ॥ विरागकुशला हेमपिङ्गला हेममण्डला । भाण्डीरतालवनगा कैवर्त्ती पीवरी शुकी ॥ शुकदेवगुणातीता शुकदेवप्रियासखी । विकलोत्कर्षिणी कौषा कौषेयाम्बरधारिणी ॥ कोषावरी कोषरूपा जगदुत्पत्तिकारिका । सृष्टिस्थितिकरी संहारिणी संहारकारिणी ॥ केशशैवालधात्री च चन्द्रगात्रा सुकोमला । पद्माङ्गरागसंरागा विन्ध्याद्रिपरिवासिनी ॥ विन्ध्यालया श्यामसखी सखी संसाररागिणी । भूता भविष्या भव्या च भव्यगात्रा भवातिगा ॥ भवनाशान्तकारिण्याकाशरूपा सुवेशिनी । रतिरङ्गपरित्यागा रतिवेशा रतिप्रिया ॥ तेजस्विनी तेजरूपा कैवल्यपथदा शुभा । मुक्तिहेतुर्मुक्तिहेतुलङ्घिनी लक्ष्मणा क्षमा ॥ विशालनेत्रा वैशाली विशालकुलसम्भवा । विशालगृहवासा च विशालवदरीरतिः ॥ भक्त्यतीता भक्तिगतिर्भक्तिवाध्या भवाकृतिः । वामाङ्गहारिणी विष्णोः शिवभक्तिसुखान्विता ॥ विजिताविजिता मोदमग्ना च गणतोषिता । हयास्या हेरम्बसुता गणमाता सुरेश्वरी ॥ दुःखहन्त्री दुःखहरा सेवितेप्सितसर्व्वदा । सर्व्वाङ्गानुविधात्री च कुलक्षेत्रविनाशिनी ॥ लवङ्गा पाण्डवसखी सखीमध्यविलासिनी । ग्राम्यगीता गया गम्या गमनातीतनिर्भरा ॥ सर्व्वाङ्गसुन्दरी गङ्गा गङ्गाजलमयी तथा । गङ्गेरिता पूतमात्रा पवित्रकुलदीपिका ॥ पवित्रगुणशीलाढ्या पवित्रानन्ददायिनी । पवित्रगुणसीमाढ्या पवित्रकुलपाविका ॥ गतिज्ञा गीतकुशला दनुजेन्द्रनिवारिणी । निर्व्वाणदात्री नैर्वाणी हेतुयुक्तागमोत्तरा ॥ पर्व्वताधिनिवासा च निवासकुशला तथा । सन्न्यासधर्म्मकुशला सन्न्यासे फलदा शुभा ॥ शरच्चन्द्रमुखी श्यामहारा क्षेत्रनिवासिनी । वसन्तरागा सुश्रोणी वसन्तवसनाकृतिः ॥ चतुर्भुजा षड्भुजा च द्बिभुजा गौरविग्रहा । सहस्रास्या विहास्या च मुद्रास्या मुद्रदायिनी ॥ प्राणप्रिया प्राणरूपा प्राणरूपिण्यपावृता । कृष्णप्रीता कृष्णरता कृष्णतोषणतत्परा ॥ कृष्णप्रेमवती कृष्णभक्ता भक्तफलप्रदा । कृष्णप्रेमप्रेमभक्ता हरिभक्तिप्रदायिनी ॥ चैतन्यरूपा चैतन्यप्रिया चैतन्यरूपिणी । उग्ररूपा शिवक्रोडा कृष्णक्रोडा जलोदरी ॥ महोदरी महादुर्गकान्तारस्थलवासिनी । चन्द्रावली चन्द्रकेशी चन्द्रप्रेमतरङ्गिणी ॥ समुद्रामृतरूपा च समुद्रजलवासिका । केशपाशरता निद्रा क्षुधा प्रेमरताम्बिका ॥ दूर्ब्बादलश्यामतनुर्दूर्व्वादलतनुच्छविः । नागरा नागरीवासा नगरानन्दकारिणी ॥ नागरालिङ्गनपरा नगराङ्गनमङ्गला । उच्चनीचा हैमवती प्रियाकृष्णतरङ्गिणी ॥ प्रेमालिङ्गनसिद्धाङ्गी सिद्धसाध्यविलासिका । मङ्गला मोदजननी मेखला मोदधारिणी ॥ रत्नमञ्जीरभूषाङ्गी रत्नभूषणभूषणा ॥ जम्बालमालिका कृष्णप्राणा प्राणविमोचना ॥ सत्यप्रदा सत्यवती सेवकानन्ददायिका । जगद्योनिर्ज्जगद्दीप्ता विचित्रमणिभूषणा ॥ राधारमणकान्ता च राध्याराधनरूपिणी । कैलासवासिनी कृष्णप्राणसर्व्वस्वदायिनी ॥ कृष्णावतारनिरता कृष्णभक्तफलार्थिनी । याचका याचकानन्दकारिणी याचकोज्ज्वला ॥ हरिभूषणभूषाढ्या नन्दयुक्ता कृपापगा । हैहैतालधरा थैथैशब्दशक्तिप्रकाशिनी ॥ हेहेशब्दस्वरूपा च हीहीवाक्यविशारदा ॥ जगदानन्दकर्त्री च शास्त्रानन्दविशारदा ॥ पण्डिता पण्डितगुणा पण्डितानन्दकारिणी । परिपालनकर्त्री च तथा स्थितिविनोदिनी ॥ तथा संहारशब्दाढ्या विद्वज्जनमनोहरा । विदुषां प्रीतिजननी विद्वत्प्रेमविवर्द्धिनी ॥ नादेयी नादरूपा च नादबिन्दुविधारिणी । शून्यस्थानस्थिता शून्यरूपा पादपवासिनी ॥ कार्त्तिकव्रतकर्त्री च रसनाहारिणी खरा । ज्वलना चातलतली शिलातलनिवासिनी ॥ क्षुद्रकीटाङ्गसंसर्गसङ्गदोषविनाशिनी । कोटिकन्दर्पलावण्या कन्दर्पकोटिसुन्दरी ॥ कन्दर्पकोटिजननी कामबीजप्रदायिनी । कामशास्त्रविनोदा च कामशास्त्रप्रकाशिनी ॥ कामप्रकाशिका कामिन्यणिमाद्यष्टसिद्धिदा । यामिनी यामिनीनाथवदना यामिनीश्वरी ॥ योगेश्वरी हरयोगमुक्तिदात्री हिरण्यदा । कपालमालिनी देवी सीमाधामस्वरूपदा ॥ कृपान्वितगुणा गौण्या गुणातीता फलप्रदा । कुष्माण्डभूतवेतालनाशिनी शारदान्विता ॥ सितासिता च सरला लीलालावण्यमङ्गला । विद्यार्थिविद्या माया च विद्याविद्यास्वरूपिणी ॥ आन्वीक्षिकीशास्त्ररूपा शास्त्रसिद्धान्तकारिणी । नागेन्द्राणी नागमाता क्रीडाकौतुकरूपिणी ॥ हरिभावनशीला च हरिसेवनतत्परा । हरिप्राणा हरप्राणा शिवप्राणा शिवान्विता ॥ नरकार्णवसंहन्त्री नरकार्णवनाशिनी । नरेश्वरी नरातीता नरसेव्या वराङ्गना ॥ यशोदानन्दिनीक्रीडा यशोदाक्रोडवासिनी । यशोदानन्दनप्राणा यशोदानन्दनार्थदा ॥ वत्सला कोषला काला करुणार्णवरूपिणी । स्वगलक्ष्मीर्भूमिलक्ष्मीर्द्रौपदी पाण्डवप्रिया ॥ तथार्ज्जुनसखी भौमी भीमा भैमी भयानका । त्रिजगन्मोहिनी क्षीणा प्राणासक्ततरा तथा ॥ पानार्थिनी पानपात्रा पानपानन्ददायिनी । दुग्धमन्थनकर्म्माढ्या दधिमन्थनतत्परा ॥ दधिभाण्डार्थिनी कृष्णक्रोधिनी नन्दनाङ्गना । घृतलिप्ता तक्रयुक्ता यमुनापारकौतुका ॥ विचित्रकर्म्मका कृष्णहास्यभाषणतत्परा । गोपाङ्गनावेष्टिता च कृष्णसङ्गार्थिनी तथा ॥ राससक्ता रासरतिरासवासक्तवासना । हरिद्रा हरितारूपा हरावर्पितचेतसा ॥ निश्चैतन्या च निश्चेता तथा दारुहरिद्रिका । सुवलस्य स्वसा चैव कृष्णभाषातिवेगिनी ॥ श्रीदामस्य सखी दामदामिनी दामधारिणी । मल्लिकोल्लासिनी केशी हरिदम्बरधारिणी ॥ हरिसान्निध्यदात्री च हरिकौतुकमङ्गला । हरिप्रदा हरिप्राणा यमुनाजलवासिनी ॥ तपःप्रदा जितार्था च चतुरा चातुरीतमी । तमिश्रा तपरूपा च रौद्ररूपा यशोऽर्थिनी ॥ कृष्णकामा कृष्णभक्ता कृष्णानन्दप्रदायिनी । कृष्णार्थवासना कृष्णरागिणी भाविनी तथा ॥ कृष्णार्थरहिता भक्ता भक्ताभक्तसुभक्तिदा । श्रीकृष्णरहिता दीना विरहिणी हरेः प्रिया ॥ मथुरा मधुराराजगेहभावनभाजना । श्रीकृष्णभावनामोदा तस्योन्मादविधायिनी ॥ कृष्णार्थकुशला कृष्णसारचर्म्मधरा शुभा । अलकेश्वरपूज्या च कुबेरेश्वरवल्लभा ॥ धनधान्यविधात्री च जया काया हया हयी । प्रणवा प्रणवेशी च प्रणवार्थस्वरूपिणी ॥ ब्रह्मविष्णुशिवार्द्धांशहारिणी शैवशिंशपा । राक्षसीनाशिनी भूतप्रेतप्राणविनाशिनी ॥ सकलेप्सितदात्री च सती साध्वी अरुन्धती । पतिव्रता पतिप्राणा पतिवाक्यविनोदिनी ॥ अशेषसाधिनी कल्पवासिनी कल्परूपिणी ॥ इत्येतत् कथितं देवि ! राधानामसहस्रकम् । यः पठेत् पाठयेद्वापि तस्य तुष्यति माधवः ॥ 

किं तस्य यमुनाभिर्व्वा नदीभिः सर्व्वतः प्रिये । कुरुक्षेत्रादितीर्थेन यस्य तुष्टो जनार्द्दनः ॥ स्तोत्रस्यास्य प्रसादेन किं न सिध्यति भूतले ॥ ब्राह्मणो ब्रह्मवर्च्चस्वी क्षत्त्रियो जगतीपतिः । वैश्यो निधिपतिर्भूयात् शूद्रो मुच्येत जन्मतः ॥ ब्रह्महत्या सुरापानमित्यादीन्यतिपापतः । सद्यो मुच्येत देवेशि ! सत्यं सत्यं न संशयः ॥ राधानामसहस्रस्य समानं नास्ति भूतले । स्वर्गे वाप्यथ पाताले गिरौ वा जलतोऽपि वा ॥ नातः परं शुभं स्तोत्रं तीर्थं नातः परं परम् । एकादश्यां शुचिर्भूत्वा यः पठेत् सुसमाहितः ॥ तस्य सर्व्वार्थसिद्धिः स्यात् शृणुयाद्वा सुशोभने । द्वादश्यां पौर्णमास्यां वा तुलसीसन्निधौ शिवे ! ॥ यः पठेत् शृणुयाद्वापि तस्य तत्तत् फलं शृणु । अश्वमेधं राजसूयं बार्हस्पत्यं तथाविधम् ॥ अतिरात्रं वाजपेयं अग्निष्टोमं तथा शुभम् । कृत्वा यत्फलमाप्नोति श्रुत्वा तत्फलमाप्नुयात् ॥ कार्त्तिके चाष्टमीं प्राप्य पठेद्वा शृणुयादपि । सहस्रयुगकल्पान्तं वैकुण्ठवसतिं लभेत् ॥ ततश्च ब्रह्मभवने शिवस्य भवने पुनः । सुराधिनाथभवने पुनर्याति सलोकताम् ॥ गङ्गातीरं समासाद्य यः पठेत् शृणुयादपि । विष्णोः स्वरूपतां याति सत्यं सत्यं सुरेश्वरि ! ॥ मम वक्त्रगिरेर्जाता पार्व्वतीसागराश्रिता । राधानामसहस्राख्या नदी त्रैलोक्यपावनी ॥ पट्यतेहि मयानित्यं भक्त्याशक्त्या यथोचितम् । मम प्राणसमं ह्येतत् तव भक्त्या प्रकाशितम् ॥ नाभक्ताय प्रदातव्यं पाषण्डाय कदाचन । नास्तिकाय विरागाय रागयुक्ताय सुन्दरि ! ॥ तथा देयं महास्तोत्रं हरिभक्ताय शङ्करि ! । वैष्णवेषु यथाशक्तिदात्रे पुण्यार्थशीलिने ॥ राधानामसुधावारि मम वक्त्रं महाखनिः । उद्धृतं हि त्वया यत्नात् पाता सद्वैष्णवाग्रणीः ॥ विशुद्धसत्त्वाय यथार्थवादिने द्विजस्य सेवानिरताय मन्त्रिणे । दात्रे यथाशक्ति सुभक्तिमानसे राधापदध्यानपराय शोभने ॥ हरिपादाब्जमधुपमनोभूताय मानसे । राधापादसुधास्वादशालिने वैष्णवाय च ॥ दद्यात् स्तोत्रं महापुण्यं हरिभक्तिप्रसाधनम् । जन्मान्तरं न तस्यास्ति राधाकृष्णपदार्थिनः ॥ मम प्राणा वैष्णवा हि तेषां रक्षार्थमेव हि । शूलं मया धार्य्यते हि नान्यथा मैत्रकारणम् ॥ हरिभक्तिद्विषामर्थे शूलं संधार्य्यते मया । शृणु देवि यथार्थं मे गदितं त्वयि सुव्रते ! ॥ भक्तासि मे प्रियासि त्वमतः स्नेहात् प्रकाशितम् । कदापि नोच्यते देवि मया नामसहस्रकम् ॥ किं परं त्वां प्रवक्ष्यामि प्राणतुल्यं मम प्रिये । स्तोत्रं मन्त्रं राधिकाया यन्त्रं कवचमेव हि ॥ “ इति नारदपञ्चरात्रे राधिकासहस्रनामसमाप्तोऽध्यायः ॥  * ॥ 


 (राधातन्त्रोक्तसहस्रनामस्त्रोत्रं यथा   -ईश्वर उवाच । “ इति ते कथितं देवि किमन्यत् कथयामि ते । श्रोत्री त्वं परमेशानि अहं वक्ता च शाश्वतः ॥ देव्युवाच । कियदन्यन्महादेव पृच्छामि यदि रोचते । हृदये तव देवेश नानातन्त्राणि सन्ति वै ॥ नानातन्त्राणि मन्त्राणि रहस्यानि पृथक् पृथक् । बहूनि तव देवेश हृदये देव सुव्रत । कृपया परमेशान कथयस्व दयानिधे ॥ ईश्वर उवाच । पद्मिन्याः परमेश्वानि रहस्यं नास्ति सुन्दरी । त्वयि सर्व्वं महेशानि कथितं परमेश्वरि ॥ किञ्चिदन्यन्महेशानि नास्ति मे गोचरे प्रिये । यद्यदस्ति महेशानि रहस्यं कथितं मया ॥ देव्युवाच । पद्मिन्याः परमेशान रहस्यं कथय प्रभो । यदि नो कथ्यते देव त्यजामि विग्रहं तदा ॥ ईश्वर उवाच । शृणु प्रिये कुरङ्गाक्षि एतत् प्रौढं कथं तव । प्रौढत्वं यदि चार्व्वङ्गि रहस्यं कथयामि ते ॥ रहस्यं शृणु चार्व्वङ्गि स्तोत्रं परमदुर्लभम् । स्तोत्रं सहस्रनामाख्यं उपविद्यासु सम्मतम् ॥ उपविद्यासु देवेशि अतिगुप्तं मनोहरम् । एतत् स्तोत्रं महेशानि पद्मिनीसम्मतं सदा ॥ एतत्तु पद्मिनीस्तोत्रमाश्चर्य्यं परमाद्भुतम् । यन्नोक्तं सर्व्वतन्त्रेषु तव भक्त्या प्रकाशितम् ॥ अस्य श्रीपद्मिनीसहस्रनामस्तोत्रस्य श्रीकृष्णऋषिर्म्महिषमर्द्दिन्यधिष्ठात्री देवता गायत्रीच्छन्दो महाविद्यासिद्ध्यर्थे विनियोगः ।  ॐ ह्नीं ऐं पद्मिन्यै राधिकायै ।  राधा रमणीरूपा निरुपमरूपवती रूपधन्या वश्या वामा रजोगुणा । रक्ताङ्गी रक्तपुष्पाभा राधा रासपरायणा । रम्भावती रूपशीला रदनी रञ्जिनी रतिः ॥ रतिप्रिया रमणीया रसपुण्डा रसायना । रासमध्ये रासरूपा रसवेशा रसोत्सुका ॥ रसवती रसोल्लासा रसिका रसभूषणा । रसमालाधरी रङ्गी रसपट्टपरिच्छदा ॥ कमला कल्पलतिका कुलव्रतपरायणा । कामिनी कमला कुन्ती कलिकल्मषनाशिनी । कुलिना कुलवती कामी कामसन्दीपनी तथा ॥ कौमारी कृष्णवनिता कामार्त्ता कामरूपिणी । कामुकी कलुषघ्नी च कुलज्ञा कुलपण्डिता ॥ कृष्णवर्णा कृशाङ्गी च कृष्णवस्त्रपरिच्छदा । कान्ता कामस्वरूपा च कामरूपा कृपावती ॥ क्षेमा क्षमावती चैव खेलत्खञ्जनगामिनी । खस्था खगा खगस्थात्री खगणस्य विहारिणी ॥ गरिष्ठा गरिमा गङ्गा गया गोदावरी गतिःगान्धारी गुणिनी गौरी गङ्गा गोकुलवासिनी ॥ गान्धर्व्वी गानकुशला गुणा गुप्तविलासिनी । घर्घरा घर्म्मदा घर्म्मा घनस्था घनवासिनी ॥ घृणा घृणावती घोरा घोरकर्म्मविवर्ज्जिता । चन्द्रा चन्द्रप्रभा चैव चन्द्रमूर्त्तिपरिच्छदा ॥ चन्द्ररूपा च चन्द्राख्या चञ्चला चारुभूषणा । चतुरा चारुशीला च चम्पा चम्पावती तथा ॥ चन्द्ररेखा चन्द्रकला चारुवेशा विनोदिनी । चन्द्रचन्दनभूषाङ्गी चार्व्वङ्गी चन्द्रभूषणा ॥ चित्रिणी चित्ररूपा च चित्रमूर्त्तिधरा सदा । छद्मरूपा छद्मवेशी श्वेतच्छत्रविधारिणी ॥ छत्रातपा च छत्राङ्गी छत्रघ्नी छत्रपालिनी । छुरितामृतधारौघा छद्मवेशनिवासिनी ॥ छटीकृतमरालौघा छटीकृतनिजामृता । जयन्ती च जगन्माता जननी जन्मदायिनी ॥ जया जैत्री च जरती जीवनी जगदम्बिका । जीवा जीवस्वरूपा च जाड्यविध्वंसकारिणी ॥ जगज्जनिर्ज्जनश्रेष्ठा जगद्धेतुर्ज्जगन्मयी । जगदानन्दजननी जनयित्री जनास्पदा ॥ झङ्कारवाहिनी झञ्जा झञ्जारनिर्झरावती । टङ्कारटङ्किनी टङ्का टङ्किता टङ्करूपिणी ॥ डम्बरा डम्भरा डम्बा डमडम्बा च डम्बुरा । ढोकिताशेषनिर्घोषा ढलढेलितलोचना ॥ तापिनी त्रिपथा तीर्थवासिनी त्रिदशेश्वरी । त्रिलोकत्रयी त्रैलोक्यतरणी तरणे तरुः ॥ तापहन्त्री तपा तापा तपनीया तपावती । तापिनी त्रिपुरादेवी त्रिपुराज्ञाकरी सदा ॥ त्रिलक्षा तारिणी तारा तारामायकमोहिनी । त्रैलोक्यगमना तीर्णा तुष्टिता त्वरिता त्वरा ॥ तृष्णा तरङ्गिणी तीर्था त्रिविक्रमविधारिणी । तमोमयी तामसी च तपस्या तपसः फला ॥ त्रैलोक्यव्यापिनी तुष्टा तृप्तिस्तुत्या तुला तथा । त्रैलोक्यमोहिनी तूर्णा त्रैलोक्यविभवप्रदा ॥ त्रिपदी च तथा तथ्या तिमिरध्वंसचन्द्रिका । तेजोरूपा तपःपारा त्रिपुरा त्रिपदस्थिता ॥ त्रयी तन्वी तापहरा तपनाङ्गजवाहिनी । तरिस्तरणितारुण्या तपिता तरणीप्रिया ॥ तीव्रपापहरातुल्यातुलपापतनूनपात् । दारिद्र्यनाशिनी दात्री दक्षा देया दयावती ॥ दिव्या दिव्यस्वरूपा च दीक्षादक्षा दया द्रवा । दिव्यरूपा दिव्यमूर्त्तिर्दैत्येन्द्रप्राणनाशिनी ॥ द्रुता च द्रुतरूपा च दन्दशूकविनाशिनी । दुर्व्वारादमनीया च देवकार्य्यकरी सदा ॥ देवप्रिया देवयाज्या दैवा दैवधिया सदा । दिक्पालपददात्री च दीर्घाद्या दीर्घलोचना ॥ दुष्टद्वेषकामदुघा दोग्ध्री दूषणवर्ज्जिता । दुग्धा द्युसदृशाभाषा दिव्या दिव्यगतिप्रिया ॥ द्युनदी दीनशरणा दिव्या देहविहारिणी । दुर्गमा दरिमा दामा दूरघ्नी दूरवासिनी ॥ दुर्व्विगाह्या दयाधारा दूरसन्तापनाशिनी । दुराशया दुराधारा द्राविणी द्रुहिनस्तुता ॥ दैत्यशुद्धिकरी देवी सदादानवसिद्धिदा । दुर्बुद्धिनाशिनी देवी सततं दानदायिनी ॥ दानदात्री च देवेशी द्यावाभूमिविगाहिनी । दृष्टिदा दृष्टिफलदा देवतागृहसंस्थिता ॥ दीर्घव्रतकरी दीर्घा दीर्घधर्म्मा दयावती । दण्डिनी दण्डनीतिश्च दीप्तदण्डधरार्च्चिता ॥ दानार्च्चिता द्रवद्रव्या द्रव्यैकनियमा परा । दुष्टसन्तापशाम्या च दात्री दवथुरोधिनी ॥ देवी दिव्या बलवती दान्ता दान्तजनप्रिया । दारिद्रादितटा दुर्गा दुर्गादन्यप्रचारिणी ॥ धर्म्मरूपा धर्म्मधुरा धेनुरूपा धृतिर्ध्रुवा । धेनुदाना ध्रुवस्पर्शा धर्म्मकामार्थमोक्षदा ॥ धर्म्मिणी धर्म्ममाता च धर्म्मदात्री धनुर्द्धरा । धात्री ध्येया धरा धर्म्मधारिणी धृतकल्मषी ॥ धनदा धर्म्मदा धन्या धन्यदा धान्यदा धना । धन्या धनाधिरूपा च धरित्री धनपूरिता ॥ धारणा धनरूपा च धर्म्मा धर्म्मप्रचारिणी । धर्म्मिणी धर्म्मतन्त्राख्या धम्मिल्लामलकेशिनी ॥ धर्म्मप्रचारनिरता धर्म्मरूपा धुरन्धरी । धनुर्व्विद्याधरी धात्री धनुर्व्विद्याविशारदा ॥ निरानन्दा निरीहा च निर्व्वाणद्वारसंस्थिता । निर्व्वाणपदवी दात्री नन्दिनी नाकनायिका ॥ नारायणी निषिद्धघ्नी निजरूपप्रकाशिनी । 
नमस्या निर्द्वया नन्दनता नूतनरूपिणी ॥ निर्म्मला निर्म्मलाभासा निरख्या निरपत्रपा । नित्यानन्दमयी नित्यानित्या न्रतनविग्रहा ॥ निषिद्धा नीतिधैर्य्या च निर्व्वाणपददीपिका । निःशङ्का च निरातङ्का निर्नाशितमहामनाः ॥ निर्म्मला नन्दजननी निर्म्मलश्यामवेशिनी । निरवद्यकुलस्रष्ट्री नित्यानन्दस्वरूपिणी ॥ निर्णया निर्णयज्ञाता निषिद्धकर्म्मवर्ज्जिता । नित्योत्सवा नित्यतप्ता नमस्कार्य्या निरञ्जना ॥ निष्ठावती निरातङ्का निर्लेपा निश्चलात्मिका । निरवद्या निरीशा च निरञ्जनपुरस्थिता ॥ पुण्यप्रदा पुण्यकरी पुण्यगर्भा पुरातनी । पुण्यरूपा पुण्यदेहा पुण्यगीता च पावनी ॥ पूजा पवित्रा परमा परा पुण्यविभूषणा । पुण्यदात्री पुण्यधरा पुण्या पुण्यप्रवाहिनी ॥ पुण्यदेहा पुण्यवती पूर्णिमा पूर्णचन्द्रमा । पौर्णमासी परा पद्मा पथज्ञा पद्मगन्धिनी ॥ पद्मिनी पद्मवस्त्रा च पद्ममालाधरा सदा ।पद्मोद्भवा परथ्या च परमानन्दरूपिणी ॥ प्रकाश्या परमाश्चर्य्या पद्मगर्भनिवासिनी । पावनी च तथा पूता पवित्रा परमाकला ॥ पद्मार्च्चिता पद्मसंस्था पद्ममाता पुरातनी । पद्मासनगता नित्या पद्मासनपरिच्छदा ॥ शुक्लपद्मासनगता रक्तपद्मासना तथा । पीतपद्मासनगता कृष्णपद्मस्थिता तथा ॥ पदार्थदायिनी पद्मवनवासपरायणा । प्रकाशिनी प्रगम्या च पुण्यश्लोका च पावनी ॥ फलहन्त्री फलहरा फलिनी फलरूपिणी । फुल्लेन्दीलोचना फुल्ला फुल्लकोरकगन्धिनी ॥ फलिनी फालिनी फेणा फुल्लच्छाटितपातका । विश्वमाता च विश्वेशी विश्वा विश्ववरप्रिया ॥ ब्रह्मण्या ब्राह्मणीं ब्राह्मी ब्रह्मज्ञा विमलामला । बहुला बाहुला वल्ली बल्लरी वनदायिनी ॥ विक्रान्ता विक्रमामाला बहुभाग्यविलोचना । विश्वामित्रा विष्णुसखी वैष्णवी विष्णुवल्लभा ॥ विरूपाक्षप्रिया देवी विभूतिर्विश्वतोमुखी । वेद्यवेदरता वाणी वेदाक्षरसमन्विता ॥ विद्या विद्यावती वन्द्या बृहती ब्रह्मवादिनी । वरदा विप्रहृष्टा च वरिष्ठा च विशोधिनी ॥ विद्याधरी वसुमती विप्रवृद्धा विशोधिता । व्योमस्थानावती वामा विधात्री विबुधप्रिया ॥ बुद्धिर्व्विनाशिनी वित्ता ब्रह्मरूपा वरानना । वासिनी ब्रह्मजननी ब्रह्महत्यापहारिणी ॥ ब्रह्मविष्णुस्वरूपा च सदा विभववर्द्धिनी । विभाषिणी व्यापिनी च व्यापिका परिचारिका ॥ विपन्नार्त्तिहरा देवी विनयव्रतचारिणी । विपन्नशोकसंहर्त्री विपञ्चीवाद्यतत्परा ॥ वेणुवाद्यपरा देवी वेणुश्रुतिपरायणा । वर्च्चस्विनी बलकरी बलमूला विवस्वती ॥ विपाप्मा विशिखा चैव विकल्पपरिवर्ज्जिता । बुद्धिदा बृहती देवी विधिविच्छिन्नसंशया ॥ विचित्राङ्गी विचित्राभा विच्छा विभववर्द्धिनी । विजया विनया वन्द्या वामदेवी वरप्रदा ॥ विषघ्नी च विशालाक्ष्मी विज्ञानवित्तमानिनी । भद्रा भोगवती भव्या भतानी भयवासिनी ॥ भूतधात्री भयहरी भक्तवश्या भयापहा । भक्तिदा भयहा भेरीभक्तदुर्गप्रदारिणी ॥ भागीरथी भानुमती भाग्यदा भगनिर्हिता । भवप्रिया भूततुष्टिर्भूतिदा भूतभूषणा ॥ भोगवती भूतिमती भव्यरूपा भ्रमिर्भ्रमा । भूरिदा भक्तिसुलभा भाग्यवृद्धिकरी सदा ॥ भिक्षुमाता भिक्षुनिभा भव्या भवस्वरूपिणी । महामाया मातृप्रिया महानन्दा महोदरी ॥ मतिर्म्मुक्तिर्म्मनोज्ञा च महामङ्गलदायिनी ॥ महापुण्या महादात्री मैथुनप्रियलालसा ॥ मनोज्ञा मालिनी मान्या मणिमाणिक्यधारिणी । मुनिस्तुता मोहकरी मोहहन्त्री मदोत्कटा ॥ मधुपानरता मद्या मदाघूर्णितलोचना । मधुपानप्रमत्ता च मधुलुब्धा मधुव्रता ॥ माधवी मालिनी मान्या मनोरथपथातिगा । मोक्षैश्वर्य्यप्रदामर्त्त्या महापद्मवनाश्रिता ॥ महाप्रभावा महती मृगाक्षी मीनलोचना । महाकाठिन्यसम्पूर्णा महाक्षी महती कला ॥ मुक्तिरूपा महामुक्ता णिमाणिक्यभूषणा । मुक्ताफलविचित्राङ्गी मुक्तारञ्जितनासिका ॥ महापातकराशिघ्नी मनोनयननन्दिनी । महामाणिक्यरचिता महाभूषणभूषिता ॥ मायावती मोहहन्त्री महाविद्याविधारिणी । महामेधा महाभूतिर्म्महामाया प्रिया सखी ॥ मनोधरी महोपाया महामणिविभूषिता । महामोहप्रणयिनी महामङ्गलदायिनी ॥ यशस्विनी यशोदा च यमुनावारिहारिणी । योगसिद्धिकरी यज्ञा यज्ञेशवन्दितप्रिया ॥ यज्ञेशी यज्ञफलदा यजनीया यशस्करी । योगयोनिर्योगसिद्धा योगिनी योगबुद्धिदा ॥ योगयुक्ता यमाद्यष्टसिद्धिर्यज्ञैकधारिणी । यमुनाजलसेव्या च यमुनाजलहारिणी ॥ यामिनी यमुना याम्या यमलोकनिवासिनी । लोकालोकविलासा च लोलत्कल्लोलमालिका ॥ लोलाक्षी लोकमाता च लोकानन्दप्रदायिनी । लोकबन्धुर्लोकधात्री लोकालोकनिवासिनी ॥ लोकत्रयनिवासा च लक्षलक्षणलक्षिता । लीलालोका च लावण्या लघिमा लसदीक्षणा ॥ वासुदेवप्रिया वामा वसन्तसमयप्रिया । वासन्ती वसुदा वज्रा वेणुवादपरायणा ॥ वीणावाद्यप्रमत्ता च वीणानादविभूषणा । वेणुवाद्यरता चैव वंशीनादविभूषणा ॥ शुभा शुभरतिः शान्तिः शैशवा शान्तिविग्रहा । शीतला शोषिता शोभा शुभदा शुभदायिनी ॥ शिवप्रिया शिवानन्दा शिवपूजासु तत्परा । शिवस्तुत्या शिवसत्या शिवनित्यपरायणा ॥ श्रीमती श्रीनिवासा च श्रुतिरूपा शुभव्रता । शुद्धविद्याजपकरी शुभकर्त्री शुभाशया ॥ श्रुतानन्दा श्रुतिः श्रोत्री शिवप्रेमपरायणा । शोषणी शुभवार्त्ता च शालिनी शिवनर्त्तकी ॥ षड्गुणायुपदाक्रान्ता षडङ्गश्रुतिरूपिणी । सरसा सुप्रभा सिद्धा सिद्धसिद्धिप्रदायिनी ॥ सेव्यासङ्गा सती सूक्ता सूक्तिरूपा सदाप्रिया । सम्पत्प्रदा स्तुतिः स्तुत्या स्तवनीया स्तवप्रिया ॥ स्थैर्य्यदा स्थैर्य्यगा सौख्या स्त्रैणसौभाग्यदायिनी । सूक्ष्मसूक्ष्मा स्वधा स्वाहा स्वधालेपप्रमोदिनी ॥ स्वर्गप्रिया समुद्राभा सर्व्वपातकनाशिनी । संसारवारिणी राधा सौभाग्यवर्द्धिनी सदा ॥ हरप्रिया हिरण्याभा हरिणाक्षी हिरण्मयी । हंसरूपा हरिद्राभा हरिद्वर्णा शुचिस्मिते ॥ क्षेमदा क्षालिता क्षेमा क्षुद्रघण्टाविधारिणी । अपरैकं शृणु प्रौढे स्वराक्षरसमन्वितम् ॥ स्तोत्रं सहस्रनामाख्यं स्वरव्यञ्जनसंयुतम् । अजपा अतुलानन्ता अनन्तामृतदायिनी ॥ अन्नदाना अशोका च अलका अमृतश्रवा । अनाथवल्लभानन्ता अयोनिसम्भवा प्रिये ॥ अव्यक्तलक्षणाक्षुण्णा विच्छिन्नाचापराजिता । अनाथानामभीष्टार्थसिद्धिदानन्दवर्द्धिनी ॥ अणिमादिगुणाधारा अगण्यालिकहारिणी । अचिन्त्यशक्तिवलयाद्भुतरूपा च हारिणी ॥ अद्रिराजसुता दूती अष्टयोगसमन्विता । अच्युता अनवच्छिन्ना अक्षुण्णशक्तिधारिणी ॥ अनन्ततीर्थरूपा च अनन्तामृतरूपिणी । अनन्तमहिमा पारा अनन्तसुखदायिनी ॥ अर्थदा अन्नदा अर्था सदा अमृतवर्षिणी । अविद्याजालशमनी अप्रतर्कगतिप्रदा ॥ अशेषविघ्नसंहन्त्री अशेषगुणगुम्फिता । अज्ञाननाशिनी देवी अनन्तसिद्धिदायिनी ॥ अशेषपापसंहन्त्री शेषदेवतामयी । अघोरा अमृता देवी अज्ञानतिमिरप्रदा ॥ अनुग्रहपरा देवी अभिरामविनोदिनी । अनवद्यपरिच्छिन्ना अत्यनन्तकलङ्किणी ॥ आरोग्यदात्रीं आनन्दा आपन्नार्त्तिविनाशिनी । आश्चर्य्यरूपा आद्यस्था आप्तविद्या सदा प्रिया ॥ आप्यायिनी च आलस्या आपदाहामृतप्रदा । इष्टारतिरिष्टदात्री इष्टपूर्णफलप्रदा ॥ इतिहासस्मृतिः श्वेता इहामूत्रफलप्रदा । इष्टा च इष्टरूपा च इत्यादिपरिवन्दिता ॥ इन्दिरा इतराक्षीच इलङ्कार इधारिणी । इन्द्राणीसेवितपदा इन्द्रियप्रीतिदायिनी ॥ ईश्वरी ईशजननी ईशस्यैश्वर्य्यदायिनी ॥ उतङ्कशक्तिसंयुक्ता उपमानविवर्ज्जिता । उत्तमश्लोकसंसेव्या उत्तमोत्तमरूपिणी ॥ उक्षा उषा उधाराधा उर्म्मिला च शुचिस्मिते । ऊहा ऊहवितर्का च ऊर्द्ध्वधारा च ऊर्द्ध्वगा ॥ ऊर्द्ध्वधारा ऊर्द्ध्वथोनी उपपापविनाशिनी । ऋषिवृन्दस्तुता ऋद्धिकरणत्रयनाशिनी ॥ ऋतम्भरा ऋद्धिदात्री ऋक्था ऋक्थस्वरूपिणी ऋतुप्रिया ऋक्षमाता ऋक्षार्च्चिरृक्षमार्गगा ॥ ऋतुलक्षणरूपा च ऋतुमार्गप्रदर्शिनी । एषिताखिलसर्व्वस्वा एकैकायुतदायिनी ॥ ऐश्वर्य्यतर्प्यरूपा च ऐतिरैन्द्रशिरोमणिः । ओजस्विनी ओषधी च ओजोनादौजदायिनी ॥ ओङ्कारजननी देवि ओङ्कारप्रतिपादिता । औदार्य्यप्रकरा भद्रे औपेन्द्रौषधिविग्रहा ॥ अंश्ववस्था च अमृता अम्बा अम्बालिका तथा । अम्बुजाक्षी च अन्धाना अम्बुस्निग्धाम्बुजानना ॥ अंशुमाली अंशुमती अंशीत्यंशांशसम्भवा । अन्धतामिस्रहा भद्रे अत्यन्तशोभनस्वरा ॥ अर्थेशा अर्थदात्री च अर्णरूपा अनाहता । शृणु नामान्तरं भद्रे ककारादि वरानने ! ॥ अत्यन्तसुन्दरं शुद्धं निर्म्मोलोत्पलगन्धिनी । कुटन्ता करुणा कान्ता कर्म्मजालविनाशिनी ॥ कमला कल्पलतिका कलिकल्मषनाशिनी । कमनीयकला कर्णा कपर्द्दिपूजनप्रिया ॥ कदम्बकुसुमाभाषा सदा कोकनदेक्षणा । कालिन्दीकेलिकलिता कणा कादम्बमालिका ॥ कान्तालोकत्रया कन्था कन्थरूपा मनोहरा । खड्गिनी खड्धाराभा खगा खगेन्दुधारिणी ॥ खेखेलगामिनी खड्गा खड्गेन्दुतलकाष्ठिता । खेचरी खेचरी विद्या खगतिः ख्यातिदायिनी ॥ खण्डिपाशेषपापौघा खलवृद्धिविनाशिनी । खातेन कन्दसन्दोहा खड्गखट्वाङ्गधारिणी ॥ खरसन्तापशमनी खरदुःखनिकृन्तनी । गुहागन्धगतिर्गौरी गन्धर्व्वनगरप्रिया ॥ गूढरूपा गुणवती गुर्व्वी गौरवरङ्गिणी । ग्रहपीडाहरा गुप्ता गदस्निग्धमना प्रिया ॥ चाम्पेयलोचना चारु चार्व्वङ्गी चारुरूपिणी । चन्द्रचन्दनसिक्ताङ्गी चर्व्वनीया चिरस्थिता ॥ चारुचम्पकमालाढ्या चलिताशेषदुष्कृता । चारिताशेषवृजिना चारुताशेषमस्तुला ॥ रक्तचन्दनसिक्ताङ्गी रक्ताङ्गी रक्तमालिका । शुक्लचन्दनसिक्ताङ्गी शुक्लाङ्गी शुक्लमालिका ॥ पीतचन्दनसिक्ताङ्गी पीताङ्गी पीतमालिका । कृष्णचन्दनसिक्ताङ्गी कृष्णाङ्गी कृष्णमालिका ॥ शुक्लवस्त्रपरीधाना शुक्लषस्त्रोत्तरीयिका । रक्तवस्त्रपरीधाना रक्तवस्त्रोत्तरीयिका । पीतवस्त्रपरीधाना पीतवस्त्रोत्तरीयिका । कृष्णपट्टपरीधाना कृष्णपट्टोत्तरीयिका ॥ वृन्दावनेश्वरी राधा कृष्णकार्य्यप्रकाशिनी । पद्मिनी नागिनी गोपी कालिन्दी अवगाहिनी ॥ गोपीश्वरप्रिया भृत्या सदा नगरमोहिनी । त्रिपुरा त्रिपुरादेवी त्रिपुराज्ञाकरी सदा ॥ त्रिपुरासन्निकर्षस्था त्रिपुरापरिचारिका । त्रिपुरापुरसंस्था तु या राधा पद्मिनी परा ॥ नानासौभाग्यसम्पन्ना नानाभरणभूषिता । स्तोत्रं सहस्रनामाख्यं कथितं तव भक्तितः ॥ एतत् स्तोत्रञ्च मन्त्रञ्च कवचञ्च वरानने । कल्पे कल्पे च देवेशि प्रपठेद्यदि मानवः ॥ उपास्य राधिकां विद्यां केवलं कमलेक्षणे । बहुकालेन देवेशि उपविद्यापि सिध्यति ॥ पद्मिनी राधिका विद्या उपविद्यासु निश्चिता । महाविद्यां महेशानि उपास्य यत्नतः स्वयम् ॥ प्रकटं परमेशानि राधामन्त्रेण सुन्दरि ! ।
 शृणु नाम सहस्राणि प्रकटे यत्तु शस्यते ॥ कृष्णस्तु कालिका साक्षात् राधाप्रकृतिपद्मिनी ।
 हे कृष्ण राधे गोविन्द इदमुच्चार

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें