चतुर्मुखानामुत्पत्तिं विस्तरेण ममानघ।
तथा ब्रह्मेश्वराणां च श्रोतुमिच्छा प्रवर्तते १।
सनत्कुमार उवाच।
शृणु सर्वमशेषेण कथयिष्यामि तेऽनघ।
ब्रह्मणः स्रष्टुकामस्य यद्वृत्तं पद्मजन्मनः २।
उत्पन्न एव भगवान् ब्रह्मा लोकपितामहः।
ससर्ज सर्वभूतानि स्थावराणि चराणि च ३।
पुनश्चिन्तयतः सृष्टिं जज्ञे कन्या मनोरमा।
नीलोत्पलदलश्यामा तनुमध्या सुलोचना ४।
तां दृष्ट्वाभिमतां ब्रह्मा मैथुनायाजुहाव ताम्।
तेन पापेन महता शिरोऽशीर्यत वेधसः ।५।
तेन शीर्णेन स ययौ तीर्थं त्रैलोक्यविश्रुतम्।
सान्निहत्यं सरः पुण्यं सर्वपापक्षयावहम् ।६।
तत्र पुण्ये स्थाणुतीर्थे ऋषिसिद्धनिषेविते।
सरस्वत्युत्तरे तीरे प्रतिष्ठाप्य चतुर्मुखम् ।७।
आराधयामास तदा धूपैर्गन्धैर्मनोरमैः।
उपहारैस्तथा हृद्यै रौद्र सूक्तैर्दिने दिने ।८।
इति श्रीवामनपुराणे सरोमाहात्म्ये नवचत्वारिंशात्तमोऽध्यायः।
समाप्तं सरोमाहात्म्यम्।
__________________________________
शूद्रा श्च तस्मादुत्पन्नाः शुश्रूषार्थं द्विजन्मनाम्।
ततश्चिन्तयतः सृष्टिं ब्रह्मणोऽव्यक्तजन्मनः।
मनसा मानसा जाताः सनकाद्या महर्षयः ।३९।
पुनश्चिन्तयतस्तस्य प्रजाकामस्य धीमतः ।
उत्पन्ना ऋषयः सप्त ते प्रजापतयोऽभवन् ।४०।
पुनश्चिन्तयतस्तस्य रजसा मोहितस्य च ।
बालखिल्याः समुत्पन्नास्तपःस्वाध्यायतत्पराः।४१।
ते सदा स्नाननिरता देवार्चनपरायणाः।
उपवासैर्व्रतैस्तीव्रैः शोषयन्ति कलेवरम् ।४२।
वानप्रस्थेन विधिना अग्निहोत्रसमन्विताः।
तपसा परमेणेह शोषयन्ति कलेवरम् ।४३।
इति श्रीवामनपुराणे सरोमाहात्म्ये त्रिचत्वारिंशत्तमोऽध्यायः।
_____________
ब्राह्मणाश्च तपो धर्मं तीर्थयात्राश्च कुर्वते।
वैश्याश्च पशुवृत्तिस्थाः शूद्राः शुश्रूषणे रताः।। ७.२४
चातुर्वर्ण्यं ततः स्वे स्वे आश्रमे धर्मकर्मणि।
आवर्त्तत ततो देवा वृत्त्या युक्ताभवन् मुने।। ७.२५
(श्रीवामनपुराणे सप्तम् अध्याय)
।ऋषय ऊचुः।
कथं मङ्कणकः सिद्धः कस्माज्जातो महानृषिः।
नृत्यमानस्तु देवेन किमर्थं स निवारितः।१।
।लोमहर्षण उवाच।
कश्यपस्य सुतो जज्ञे मानसो मङ्कणो मुनिः।
स्नानं कर्तुं व्यवसितो गृहीत्वा वल्कलं द्विजः।२।
तत्र गता ह्यप्सरसो रम्भाद्याः प्रियदर्शनाः।
स्नायन्ति रुचिराः स्निग्धास्तेन सार्धमनिन्दिताः।३ ।
ततो मुनेस्तदा क्षोभाद्रे तः स्कन्नं यदम्भसि ।
तद्रे तः स तु जग्राह कलशे वै महातपाः ।४ ।
सप्तधा प्रविभागं तु कलशस्थं जगाम ह ।
तत्रर्षयः सप्त जाता विदुर्यान् मरुतां गणान् ।५।
वायुवेगो वायुबलो वायुहा वायुमण्डलः ।
वायुज्वालो वायुरेतो वायुचक्रश्च वीर्यवान् ।६ ।
एते ह्यपत्यास्तस्यर्षेर्धारयन्ति चराचरम् ।
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति मे श्रुतम् ।७।
क्षतः किल करे विप्रास्तस्य शाकरसोऽस्रवत् ।
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ।८।
ततः सर्वं प्रनृत्तं च स्थावरं जङ्गमं च यत् ।
प्रनृत्तं च जगद् दृष्ट्वा तेजसा तस्य मोहितम् ।९ ।
ब्रह्मादिभिः सुरैस्तत्र ऋषिभिश्च तपोधनैः ।
विज्ञप्तो वै महादेवो मुनेरर्थे द्विजोत्तमाः ।१०।
नायं नृत्येद् यथा देव तथा त्वं कर्तुमर्हसि ।
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि ।११।
सुराणां हितकामार्थं महादेवोऽभ्यभाषत ।
हर्षस्थानं किमर्थं च तवेदं मुनिसत्तम ।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ।१२।
।ऋषिरुवाच।
किं न पश्यसि मे ब्रह्मन् कराच्छाकरसं स्रुतम् ।
यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः ।१३।
तं प्रहस्याब्रवीद् देवो मुनिं रागेण मोहितम् ।
अहं न विस्मयं विप्र गच्छामीह प्रपश्यताम् ।१४।
एवमुक्त्वा मुनिश्रेष्ठं देवदेवो महाद्युतिः ।
अङ्गुल्यग्रेणवप्रेन्द्रा : ! स्वाङ्गुष्ठं ताडयद् भवः ।१५।
ततो भस्म क्षतात् तस्मान्निर्गतं हिमसन्निभम् ।
तद् दृष्ट्वा व्रीडितो विप्रः पादयोः पतितोऽब्रवीत् ।१६।
नान्यं देवादहं मन्ये शूलपाणेर्महात्मनः ।
चराचरस्य जगतो वरस्त्वमसि शूलधृक् ।१७।
त्वदाश्रयाश्च दृश्यन्ते सुरा ब्रह्मादयोऽनघ ।
पूर्वस्त्वमसि देवानां कर्ता कारयिता महत् ।१८।
त्वत्प्रसादात् सुराः सर्वे मोदन्ते ह्यकुतोभयाः ।
एवं स्तुत्वा महादेवमृषिः स प्रणतोऽब्रवीत् ।१९ ।
भगवंस्त्वप्रसादाद्धि तपो मे न क्षयं व्रजेत् ।
ततो देवः प्रसन्नात्मा तमृषिं वाक्यमब्रवीत् ।२०।
।ईश्वर उवाच।
तपस्ते वर्द्धतां विप्र मत्प्रसादात् सहस्रधा ।
आश्रमे चेह वत्स्यामि त्वया सार्द्धमहं सदा ।२१ ।
सप्तसारस्वते स्नात्वा यो ममर्चिष्यते नरः ।
न तस्य दुर्लभं किञ्चिदिह लोके परत्र च ।२२ ।
सारस्वतं च तं लोकं गमिष्यति न संशयः ।
शिवस्य च प्रसादेन पाप्नोति परमं पदम् ।२३ ।
________________
इति श्रीवामनपुराणे सरोमाहात्म्ये अष्टत्रिंशत्तमोऽध्यायः।
तत्र ब्रह्मर्षिकुण्डेषु स्नातस्य द्विजसत्तमाः ।
सप्तर्षीणां प्रसादेन सप्तसोमफलं भवेत् ८ ।
भरद्वाजो गौतमश्च जमदग्निश्च कश्यपः ।
विश्वामित्रो वसिष्ठश्च अत्रिश्च भगवानृषिः ।९।
तत्र ब्रह्मर्षिकुण्डेषु स्नातस्य द्विजसत्तमाः ।
सप्तर्षीणां प्रसादेन सप्तसोमफलं भवेत् ८ ।
भरद्वाजो गौतमश्च जमदग्निश्च कश्यपः ।
विश्वामित्रो वसिष्ठश्च अत्रिश्च भगवानृषिः ९
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् कुरुक्षेत्रं स बाह्याभ्यन्तरः शुचिः ।६ ।
कुरुक्षत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
इत्येवं वाचमुत्सृज्य सर्वपाषैः प्रमुच्यते ।७।
इति श्रीवामनपुराणे सरोमाहात्म्ये त्रयस्त्रिंशत्तमोऽध्यायः।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें