या रक्ता रक्तवसना वाजिस्था रजसान्विता।। ७५.२३
तां प्रादाद् देवराजाय मनवे तत्समेषु च।
पीताम्बरा या सुभगा रथस्था कनकप्रभा।। ७५.२४
प्रजापतिभ्यस्तां प्रादात् शुक्राय च विशःसु च।
नीलवस्त्राऽलिसदृशी या चतुर्थी वृषस्थिता।। ७५.२५
सा दानवान् नैऋतांश्च शूद्रान् विद्याधरानपि।
विप्राद्याः श्वेतरूपां तां कथयन्ति सरस्वतीम्।। ७५.२६
स्तुवन्ति ब्रह्मणा सार्धं मखे मन्त्रादिभिः सदा।
क्षत्रिया रक्तवर्णां तां जयश्रीमिति शंसिरे।। ७५.२७
सा चेन्द्रेणासुरश्रेष्ठ मनुना च यशस्विनी।
वैश्यास्तां पीतवसनां कनकाङ्गीं सदैव हि।। ७५.२८
स्तुवन्ति लक्ष्मीमित्येवं प्रजापालास्तथैव हि।
शूद्रास्तां नीलवर्णाङ्गीं स्तुवन्ति च सुभक्तितः।। ७५.२९
श्रिया देवीति नाम्ना तां समं दैत्यैश्च राक्षसैः।
एवं विभक्तास्ता नार्यस्तेन देवेन चक्रिणा।। ७५.३०
एतासां च स्वरूपस्तास्तिष्ठन्ति निधयोऽव्ययाः।
इतिहासपुराणानि वेदाः साङ्गास्तथोक्तयः।। ७५.३१
स्वाध्याययज्ञनिरता दातारः शस्त्रजीविनः।
क्षत्रियाः सन्तु दैत्येन्द्र प्रजापालनधर्मिणः।। ७४.४५
यज्ञाध्ययनसंपन्ना दातारः कृषिकारिणः।
पाशुपाल्यं प्रकुर्वन्तु वैश्या विपणिजीविनः।। ७४.४६
ब्राह्मणक्षत्रियविशां सदा शुश्रूषणे रताः।
शूद्राः सन्त्वसुरश्रेष्ठ तवाज्ञाकारिणः सदा।। ७४.४७
यदा वर्णाः स्वधर्मस्था भवन्ति दितिजेश्वर।
धर्मवृद्धिस्तदा स्याद्वै धर्मवृद्धौ नृपोदयः।। ७४.७४
तस्माद् वर्णाः स्वधर्मस्थास्त्वया कार्याः सदा बले।
तद्वृद्धौ भवतो वृद्धिस्तद्धानौ हानिरुच्यते।। ७४.४९
इत्थं वचः श्राव्य महासुरेन्द्रो बलिं महात्मा स बभूव तूष्णीम्।
ततो यदाज्ञापयसे करिष्ये इत्थं बलिः प्राह वचो महर्षे।। ७४.५०
इति श्रीवामनपुराणे अष्टचत्वारिंशोऽध्यायः ।।

पुन्नाम्नो नरकात् त्राति पुत्रस्तेनेह गीयते।
शेषपापहरः शिष्य इतीयं वैदिकी श्रुतिः।। ६०.७७
सनत्कुमार उवाच।।
कोऽयं पुन्नामको देव नरकात् त्राति पुत्रकः।
कस्माच्छेषं ततः पापं हरेच्छिष्यश्च तद्वद।। ६०.७८
ब्रह्मोवाच।।
एतत् पुराणं परमं महर्षे योगाङ्गयुक्तं च सदैव यच्च।
तथैव चोग्रं भयहारि मानवं वदामि ते साध्य निशामयैनम्।। ६०.७९
इति श्रीवामनपुराणे चतुस्त्रिंशोऽध्यायः ।।
मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुर्वसिष्ठो भृगुरङ्गिराश्च।
मृकण्डुजस्ते कुरुतां हि स्वस्ति स्वस्ति सदा सप्त महर्षयश्च।। ५८.१८
विश्वेश्विनौ साध्यमरुद्गणाग्नयो दिवाकराः शूलधरा महेश्वराः।
यक्षाः पिशाचा वसवोऽथ किन्नराः ते स्वस्ति कुर्वन्तु सदोद्यतास्त्वमी।। ५८.१९
नागाः सुपर्णाः सरितः सरांसि तीर्थानि पुण्यायतनाः समुद्राः।
महाबला भूतगणा गणेन्द्राः ते स्वस्ति कुर्वन्तु सदा समुद्यताः।। ५८.२०
स्वस्ति द्विपादिकेभ्यस्ते चतुष्पादेभ्य एव च।
स्वस्ति ते बहुपादेभ्यस्त्वपादेभ्योऽप्यनामयम्।। ५८.२१
प्राचीं दिग् रक्षतां वज्री दक्षिणां दण्डनायकः।
पाशी प्रतीचीं रक्षतु लक्ष्मांशुः पातु चोत्तराम्।। ५८.२२
वह्निर्दक्षिणपूर्वां च कुबेरो दक्षिणापराम्।
प्रतीचीमुत्तरां वायुः शिवः पूर्वोत्तरामपि।। ५८.२३
उपरिष्टाद् ध्रुवः पातु अधस्ताच्च धराधरः।
मुसती लाङ्गली चक्री धनुष्मानन्तरेषु च।। ५८.२४
वाराहोऽम्बुनिधौ पातु दुर्गे पातु नृकेसरी।
सामवेदध्वनिः श्रीमान् सर्वतः पातु माधवः।। ५८.२५

(वामनपुराण-58अध्याय-)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें