शनिवार, 28 अक्तूबर 2023

विश्लेषण गोलोक का( यम और सावित्री का संवाद:- श्रीकृष्ण सर्वस्वम्-

परिपूर्णतमं सिद्धं सिद्धेशं सिद्धिकारकम् ।
ध्यायन्ते वैष्णवाः शश्वद्देवदेवं सनातनम् ॥२२॥

जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ।
ब्रह्मणो वयसा यस्य निमेष उपचर्यते ॥२३॥

स चात्मा स परं ब्रह्म कृष्ण इत्यभिधीयते ।
कृषिस्तद्‍भक्तिवचनो नश्च तद्दास्यवाचकः ॥२४॥

भक्तिदास्यप्रदाता यः स च कृष्णः प्रकीर्तितः।
कृषिश्च सर्ववचनो नकारो बीजमेव च ॥ २५ ॥

स कृष्णः सर्वस्रष्टाऽऽदौ सिसृक्षन्नेक एव च ।
सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥२६॥

स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह ।
स्त्रीरूपो वामभागांशो दक्षिणांशः पुमान्स्मृतः।२७।

दृष्ट्वा तां तु तया सार्धं रासेशो रासमण्डले ।
रासोल्लासे सुरसिको रासक्रीडाञ्चकार ह।३६।

नानाप्रकारशृङ्‌गारं शृङ्‌गारो मूर्तिमानिव ।
चकार सुखसम्भोगं यावद्वै ब्रह्मणो दिनम्।३७।

ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता ।
चकार वीर्याधानं च नित्यानन्दे शुभक्षणे ॥ ३८ ॥

गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत ।
निःससार श्रमजलं श्रान्तायास्तेजसा हरेः ॥३९॥

महाक्रमणक्लिष्टाया निःश्वासश्च बभूव ह ।
तदा वव्रे श्रमजलं तत्सर्वं विश्वगोलकम् ॥४०॥

स च निःश्वासवायुश्च सर्वाधारो बभूव ह ।
निःश्वासवायुः सर्वेषां जीविनां च भवेषु च ॥४१॥

बभूव मूर्तिमद्वायोर्वामाङ्‌गात्प्राणवल्लभा ।
तत्पत्‍नी सा च तत्पुत्राःप्राणाःपञ्च च जीविनाम्।४२।

प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।
बभूवुरेव तत्पुत्रा अधः प्राणाश्च पञ्च च ॥ ४३॥

घर्मतोयाधिदेवश्च बभूव वरुणो महान् ।
तद्वामाङ्‌गाच्च तत्पत्‍नी वरुणानी बभूव सा।४४।

अथ सा कृष्णचिच्छक्तिः कृष्णगर्भं दधार ह ।
शतमन्वन्तरं यावज्ज्वलन्ती ब्रह्मतेजसा ॥ ४५ ॥
कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया ।
कृष्णस्य सङ्‌गिनी शश्वत्कृष्णवक्षःस्थलस्थिता।४६।

शतमन्वन्तरान्ते च कालेऽतीते तु सुन्दरी ।
सुषाव डिम्भं स्वर्णाभं विश्वाधारालयं परम्।४७।

दृष्ट्वा डिम्भं च सा देवी हृदयेन व्यदूयत ।
उत्ससर्ज च कोपेन ब्रह्माण्डगोलके जले।४८।
___________
अथ कालान्तरे सा च द्विधारूपो बभूव ह ।
वामार्धाङ्‌गाच्च कमला दक्षिणार्धाच्च राधिका ॥५४॥

एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।
दक्षिणार्धश्च द्विभुजो वामार्धश्च चतुर्भुजः।५५।

एवं लक्ष्मीं च प्रददौ तुष्टो नारायणाय च ।
स जगाम च वैकुण्ठं ताभ्यां सार्धं जगत्पतिः।५७।

अनपत्ये च ते द्वे च जाते राधांशसम्भवे ।
भूता नारायणाङ्‌गाच्च पार्षदाश्च चतुर्भुजाः॥५८॥

तेजसा वयसा रूपगुणाभ्यां च समा हरेः ।
बभूवुः कमलाङ्‌गाच्च दासीकोट्यश्च तत्समाः। ५९॥

अथ गोलोकनाथस्य लोम्नां विवरतो मुने ।
भूताश्चासंख्यगोपाश्च वयसा तेजसा समाः।६०।

रूपेण च गुणेनैव बलेन विक्रमेण च ।
प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः।६१।

___________
एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः ।
पद्मनाभेर्नाभिपद्मान्निःससार महामुने ॥ ७८ ॥

एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः।
वामार्धाङ्‌गो महादेवो दक्षिणे गोपिकापतिः
८२।


प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः
पातालाद्‌ ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्तितम् ।८।

तत ऊर्ध्वं च वैकुण्ठो ब्रह्माण्डाद्‌ बहिरेव सः।
तत ऊर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः।९।

नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम् ।
सप्तद्वीपमिता पृध्वी सप्तसागरसंयुता।१०।

ऊनपञ्चाशदुपद्वीपासंख्यशैलवनान्विता ।
ऊर्ध्वं सप्त स्वर्गलोका ब्रह्यलोकसमन्विताः।११।

पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च ।
ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परम्।१२।

ततः परश्च स्वर्लोको जनलोकस्तथा परः ।
ततः परस्तपोलोकः सत्यलोकस्ततः परः।१३।

ततः परं ब्रह्मलोकस्तप्तकाञ्चनसन्निभः ।
एवं सर्वं कृत्रिमं च बाह्याभ्यन्तरमेव च ।१४।

तद्विनाशे विनाशश्च सर्वेषामेव नारद ।
जलबुद्‌बुदवत्सर्वं विश्वसंघमनित्यकम्।१५।
__________
नित्यौ गोलोकवैकुण्ठौ प्रोक्तौ शश्वदकृत्रिमौ ।
प्रत्येकं लोमकूपेषु ब्रह्माण्डं परिनिश्चितम् ।१६।

एषां संख्यां न जानाति कृष्णोऽन्यस्यापि का कथा 
प्रत्येकं प्रतिब्रह्माण्डं ब्रह्मविष्णुशिवादयः।१७।

तिस्रः कोट्यः सुराणां च संख्या सर्वत्र पुत्रक ।
दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः।१८।

मन्त्रं दत्त्वा तदाहारं कल्पयामास वै विभुः ।
श्रूयतां तद्‌ ब्रह्मपुत्र निबोध कथयामि ते।२८।

प्रतिविश्वं यन्नैवेद्यं ददाति वैष्णवो जनः ।
तत्षोडशांशो विषयिणो विष्णोः पज्वदशास्य वै। २९।

निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च ।
नैवेद्ये चैव कृष्णस्य न हि किञ्चित्प्रयोजनम्।३०।

यद्यद्ददाति नैवेद्यं तस्मै देवाय यो जनः ।
स च खादति तत्सर्वं लक्ष्मीनाथो विराट् तथा।३१।


                 "श्रीकृष्ण उवाच !
सुचिरं सुस्थिरं तिष्ठ यथाहं त्वं तथा भव ।
ब्रह्मणोऽसंख्यपाते च पातस्ते न भविष्यति।४१।

अंशेन प्रतिब्रह्माण्डे त्वं च क्षुद्रविराड् भव ।
त्वन्नाभिपद्माद्‌ ब्रह्मा च विश्वस्रष्टा भविष्यति।४२।
______________________________
ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव ते ।
शिवांशेन भविष्यन्ति सृष्टिसंहरणाय वै।४३।

कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः ।
पाता विष्णुश्च विषयी रुद्रांशेन भविष्यति। ४४***

मद्‍भक्तियुक्तः सततं भविष्यसि वरेण मे ।
ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम् ।४५।

मातरं कमनीयां च मम वक्षःस्थलस्थिताम् ।
यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत।४६।

गत्वा स्वलोकं ब्रह्माणं शङ्‌करं समुवाच ह ।
स्रष्टारं स्रष्टुमीशं च संहर्तुं चैव तत्क्षणम् ॥ ४७ ॥

                 "श्रीभगवानुवाच
सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्‍भवो भव ।
महाविराड् लोमकूपे क्षुद्रस्य च विधे शृणु ।४८।

गच्छ वत्स महादेव ब्रह्मभालोद्‍भवो भव ।
अंशेन च महाभाग स्वयं च सुचिरं तप।४९।

इत्युक्त्वा जगतां नाथो विरराम विधेः सुत ।
जगाम ब्रह्मा तं नत्वा शिवश्च शिवदायकः ॥ ५० ॥

महाविराड् लोमकूपे ब्रह्माण्डगोलके जले ।
बभूव च विराट् क्षुद्रो विराडंशेन साम्प्रतम् ॥ ५१ । (  नारायण वर्णन-‡)

महाविराड् लोमकूपे ब्रह्माण्डगोलके जले ।
बभूव च विराट् क्षुद्रो विराडंशेन साम्प्रतम्।५१।

श्यामो युवा पीतवासाः शयानो जलतल्पके ।
ईषद्धास्यः प्रसन्नास्यो विश्वव्यापी जनार्दनः।५२।



                   "श्रीकृष्ण उवाच
सुचिरं सुस्थिरं तिष्ठ यथाहं त्वं तथा भव ।
ब्रह्मणोऽसंख्यपाते च पातस्ते न भविष्यति ।४१।

अंशेन प्रतिब्रह्माण्डे त्वं च क्षुद्रविराड् भव
त्वन्नाभिपद्माद्‌ ब्रह्मा च विश्वस्रष्टा भविष्यति।४२।

ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव ते ।
शिवांशेन भविष्यन्ति सृष्टिसंहरणाय वै ।४३।
_________________________________________
कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः ।
पाता विष्णुश्च विषयी रुद्रांशेन भविष्यति ॥ ४४ ॥
(ब्रह्म वैवर्त- प्रकृति खण्ड अध्याय -३)

कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः ।
पाता विष्णुश्च विषयी रुद्रांशेन भविष्यति ॥ ४४ ॥
(देवीभागवतपुराण नवम स्कन्ध अध्याय -३ )


__________________________________
कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि ।
त्वत्तो बलवती राधा न भद्रं ते भविष्यति ॥१५॥

यो यस्माद्‌ बलवान्वापि ततोऽन्यं रक्षितुं क्षमः ।
कथं परान्साधयति यदि स्वयमनीश्वरः॥१६॥

सर्वेशः सर्वशास्ताहं राधां बाधितुमक्षमः ।
तेजसा मत्समा सा च रूपेण च गुणेन च ॥१७॥

प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः।
प्राणतोऽपि प्रियः पुत्रः केषां वास्ति च कश्चन॥ १८॥
____________________
भूमण्डल-में की बात-
_________________ 

मद्‍भक्तियुक्तः सततं भविष्यसि वरेण मे ।
ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम्।४५।

मातरं कमनीयां च मम वक्षःस्थलस्थिताम् ।
यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत।४६।

गत्वा स्वलोकं ब्रह्माणं शङ्‌करं समुवाच ह ।
स्रष्टारं स्रष्टुमीशं च संहर्तुं चैव तत्क्षणम् ॥४७॥

                    "श्रीभगवानुवाच
सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्‍भवो भव ।
महाविराड् लोमकूपे क्षुद्रस्य च विधे शृणु ॥४८।

गच्छ वत्स महादेव ब्रह्मभालोद्‍भवो भव ।
अंशेन च महाभाग स्वयं च सुचिरं तप ॥ ४९ ॥

इत्युक्त्वा जगतां नाथो विरराम विधेः सुत ।
जगाम ब्रह्मा तं नत्वा शिवश्च शिवदायकः ॥ ५० ॥
__________________________________
                  ★ नारायण उत्पत्ति★

महाविराड् लोमकूपे ब्रह्माण्डगोलके जले ।
बभूव च विराट् क्षुद्रो विराडंशेन साम्प्रतम्।५१।

श्यामो युवा पीतवासाः शयानो जलतल्पके ।
ईषद्-हास्यः प्रसन्नास्यो विश्वव्यापी जनार्दनः।५२।

तन्नाभिकमले ब्रह्मा बभूव कमलोद्‍भवः ।
सम्भूय पद्मदण्डे च बभ्राम युगलक्षकम् ।५३।

नान्तं जगाम दण्डस्य पद्मनालस्य पद्मजः ।
नाभिजस्य च पद्मस्य चिन्तामाप पिता तव।५४।

स्वस्थानं पुनरागम्य दध्यौ कृष्णपदाम्बुजम् ।
ततो ददर्श क्षुद्रं तं ध्यानेन दिव्यचक्षुषा ।५५।

शयानं जलतल्पे च ब्रह्माण्डगोलकाप्लुते ।
यल्लोमकूपे ब्रह्माण्डं तं च तत्परमीश्वरम् ॥५६॥

श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम् ।
तं संस्तूय वरं प्राप ततः सृष्टिं चकार सः॥५७॥

बभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः ।
ततो रुद्रकलाश्चापि शिवस्यैकादश स्मृताः।५८।

बभूव पाता विष्णुश्च क्षुद्रस्य वामपार्श्वतः ।********************************
चतुर्भुजश्च भगवान् श्वेतद्वीपे स चावसत् ॥५९ ॥
_________________________   

क्षुद्रस्य नाभिपद्मे च ब्रह्मा विश्वं ससर्ज ह ।
स्वर्गं मर्त्यं च पातालं त्रिलोकीं सचराचराम्।६०।

एवं सर्वं लोमकूपे विश्वं प्रत्येकमेव च ।
प्रतिविश्वे क्षुद्रविराड् ब्रह्मविष्णुशिवादयः।६१।
__________________

इत्येवं कथितं ब्रह्मन् कृष्णसङ्‌कीर्तनं शुभम् ।
सुखदं मोक्षदं ब्रह्मन्किं भूयः श्रोतुमिच्छसि।६२।
____________________________________
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनं नाम तृतीयोऽध्यायः ॥३॥ 
___________________________________


इन्द्रायुश्चैव दिव्यानां युगानामेकसप्ततिः ।
अष्टाविंशे शक्रपाते ब्रह्मणश्च दिवानिशम् ॥ ५०॥

एवं त्रिंशद्दिनैर्मासो द्वाभ्यामाभ्यामृतुः स्मृतः ।
ऋतुभिः षड्भिरेवाब्दं ब्रह्मणो वै वयः स्मृतम्।५१।

ब्रह्मणश्च निपाते च चक्षुरुन्मीलनं हरेः।
चक्षुरुन्मीलने तस्य लयं प्राकृतिकं विदुः।५२।

प्रलये प्राकृते सर्वे देवाद्याश्च चराचराः ।
लीना धाता विधाता च श्रीकृष्णनाभिपङ्‌कजे ।५३।

विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः।*********************************
विलीना वामपार्श्वे च कृष्णस्य परमात्मनः।५४।

यस्य ज्ञाने शिवो लीनो ज्ञानाधीशः सनातनः ।
दुर्गायां विष्णुमायायां विलीनाः सर्वशक्तयः।५५।

सा च कृष्णस्य बुद्धौ च बुद्ध्यधिष्ठातृदेवता
नारायणांशः स्कन्दश्च लीनो वक्षसि तस्य च ।५६।

श्रीकृष्णांशश्च तद्‌बाहौ देवाधीशो गणेश्वरः ।
पद्मांशाश्चैव पद्मायां सा राधायां च सुव्रते ॥५७॥

गोप्यश्चापि च तस्यां च सर्वाश्च देवयोषितः ।
कृष्णप्राणाधिदेवी सा तस्य प्राणेषु संस्थिता।५८।

सावित्री च सरस्वत्यां वेदाः शास्त्राणि यानि च ।
स्थिता वाणी च जिह्वायां यस्य च परमात्मनः।५९।

गोलोकस्य च गोपाश्च विलीनास्तस्य लोमसु ।
तत्प्राणेषु च सर्वेषां प्राणा वाता हुताशनाः ॥६०॥

जठराग्नौ विलीनाश्च जलं तद्रसनाग्रतः ।
वैष्णवाश्चरणाम्भोजे परमानन्दसंयुताः ॥६१॥

सारात्सारतरा भक्तिरसपीयूषपायिनः ।
विराडंशाश्च महति लीनाः कृष्णे महाविराट्। ६२।*****************

यस्यैव लोमकूपेषु विश्वानि निखिलानि च ।
यस्य चक्षुष उन्मेषे प्राकृतः प्रलयो भवेत् ॥६३॥

चक्षुरुन्मीलने सृष्टिर्यस्यैव पुनरेव सः ।
यावत्कालो निमेषेण तावदुन्मीलनेन च ॥६४॥
____________    

ब्रह्मणश्च शताब्दे च सृष्टेः सूत्रलयः पुनः ।
ब्रह्मसृष्टिलयानां च संख्या नास्त्येव सुव्रते ॥ ६५ ॥

यथा भूरजसां चैव संख्यानं नैव विद्यते ।
चक्षुर्निमेषे प्रलयो यस्य सर्वान्तरात्मनः ॥ ६६ ॥

उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया ।
स कृष्णः प्रलये तस्यां प्रकृतौ लीन एव हि ॥६७॥
__________    

एकैव च परा शक्तिर्निर्गुणः परमः पुमान् ।
सदेवेदमग्र आसीदिति वेदविदो विदुः ॥६८॥

मूलप्रकृतिरव्यक्ताप्यव्याकृतपदाभिधा ।
चिदभिन्नत्वमापन्ना प्रलये सैव तिष्ठति ॥ ६९ ॥

तद्‌गुणोत्कीर्तनं वक्तुं ब्रह्माण्डेषु च कः क्षमः ।
मुक्तयश्च चतुर्वेदैर्निरुक्ताश्च चतुर्विधाः ॥ ७० ॥

तत्प्रधाना देवभक्तिर्मुक्तेरपि गरीयसी ।
सालोक्यदा भवेदेका तथा सारूप्यदा परा।७१।

सामीप्यदाथ निर्वाणप्रदा मुक्तिश्चतुर्विधा ।
भक्तास्ता न हि वाञ्छन्ति विना तत्सेवनं विभोः॥ ७२॥

शिवत्वममरत्वं च ब्रह्मत्वं चावहेलया ।
जन्ममृत्युजराव्याधिभयशोकादिकं धनम् ॥७३॥

दिव्यरूपधारणं च निर्वाणं मोक्षणं विदुः ।
मुक्तिश्च सेवारहिता भक्तिः सेवाविवर्धिनी ॥ ७४ ॥

भक्तिमुक्त्योरयं भेदो निषेकखण्डनं शृणु ।
विदुर्बुधा निषेकं च भोगं च कृतकर्मणाम् ॥ ७५ ॥

तत्खण्डनं च शुभदं श्रीविभोः सेवनं परम् ।
तत्त्वज्ञानमिदं साध्वि स्थिरं च लोकवेदयोः।७६।

निर्विघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम् ।
इत्युक्त्वा सूर्यपुत्रश्च जीवयित्वा च तत्पतिम्।७७।

तस्यै शुभाशिषं दत्त्वा गमनं कर्तुमुद्यतः ।
दृष्ट्वा यमं च गच्छन्तं सा सावित्री प्रणम्य च।७८।

रुरोद चरणौ धृत्वा साधुच्छेदेन दुःखिता ।
सावित्रीरोदनं श्रुत्वा यमश्चैव कृपानिधिः ॥ ७९ ॥

तामित्युवाच सन्तुष्टः स्वयं चैव रुरोद ह ।
धर्मराज उवाच-
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ॥८० ॥

अन्ते यास्यसि तल्लोकं यत्र देवी विराजते ।
गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु ॥ ८१ ॥

द्विसप्तवर्षपर्यन्तं नारीणां मोक्षकारणम् ।
ज्येष्ठशुक्लचतुर्दश्यां सावित्र्याश्च व्रतं शुभम् ।८२।
शुक्लाष्टम्यां भाद्रपदे महालक्ष्या यथा व्रतम् ।
द्व्यष्टवर्षं व्रतं चैव प्रत्यादेयं शुचिस्मिते।८३।

करोति भक्त्या या नारी सा याति च विभोः पदम् ।
प्रतिमङ्‌गलवारे च देवीं मङ्‌गलदायिनीम् ॥ ८४ ॥

प्रतिमासं शुक्लषष्ठ्यां षष्ठीं मङ्‌गलदायिनीम् ।
तथा चाषाढसङ्‌क्रान्त्यां मनसां सर्वसिद्धिदाम् ॥ ८५ ॥
_________________
राधां रासे च कार्तिक्यां कृष्णप्राणाधिकप्रियाम् ।
उपोष्य शुक्लाष्टम्यां च प्रतिमासं वरप्रदाम् ।८६।

विष्णुमायां भगवतीं दुर्गां दुर्गतिनाशिनीम् ।
प्रकृतिं जगदम्बां च पतिपुत्रवतीषु च ॥ ८७ ॥

पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च ।
या नारी पूजयेद्‍भक्त्या धनसन्तानहेतवे ॥ ८८ ॥

इहलोके सुखं भुक्त्वा यात्यन्ते श्रीविभोः पदम् ।
एवं देव्या विभूतीश्च पूजयेत्साधकोऽनिशम् ।८९।

सर्वकालं सर्वरूपा संसेव्या परमेश्वरी ।
नातः परतरं किञ्चित्कृतकृत्यत्वदायकम् ॥ ९० ॥

इत्युक्त्वा तां धर्मराजो जगाम निजमन्दिरम् ।
गृहीत्वा स्वामिनं सा च सावित्री च निजालयम् । ९१॥

सावित्री सत्यवांश्चैव प्रययौ च यथागमम् ।
अन्यांश्च कथयामास स्ववृत्तान्तं हि नारद ॥९२॥

सावित्रीजनकः पुत्रान् सम्प्राप्तः प्रक्रमेण च ।
श्वशुरश्चक्षुषी राज्यं सा च पुत्रान् वरेण च ॥ ९३ ॥

लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ।
जगाम स्वामिना सार्धं देवीलोकं पतिव्रता ॥ ९४ ॥

सवितुश्चाधिदेवी या मन्त्राधिष्ठातृदेवता ।
सावित्री ह्यपि वेदानां सावित्री तेन कीर्तिता ।९५।

इत्येवं कथितं वत्स सावित्र्याख्यानमुत्तमम् ।
जीवकर्मविपाकं च किं पुनः श्रोतुमिच्छसि।९६।
__________________
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्यानवर्णनं नामाष्टत्रिलोऽध्यायः ।३८।
हिन्दी अनुवाद:-

[देवी भागवत महापुराण
स्कन्ध (9) अध्याय 38 - 
धर्मराज का सावित्री से संवाद-

सर्वात्मा, सबके भगवान्, सभी कारणों के भी कारण, सर्वेश्वर, सबके आदिरूप, सर्वज्ञ, परिपालक, नित्यस्वरूप, नित्य देहवाले, नित्यानन्द निराकार, स्वतन्त्र, निशंक, निर्गुण, निर्विकार, अनासक, सर्वसाक्षी, सर्वाधार, परात्पर तथा मायाविशिष्ट परमात्मा ही मूलप्रकृतिके रूपमें अभिव्यक्त हो जाते हैं; सभी प्राकृत पदार्थ उन्हीं से आविर्भूत हैं ।25-27।

स्वयं परम पुरुष ही प्रकृति हैं। वे दोनों परस्पर उसी प्रकार अभिन्न हैं, जैसे अग्निसे उसकी शक्ति कुछ भी भिन्न नहीं है ॥ 28 ॥

वे ही सच्चिदानन्दस्वरूपिणी शक्ति महामाया हैं। वे निराकार होते हुए भी भक्तों पर कृपा करने के लिये रूप धारण करती हैं ॥ 29 ॥

उन भगवती ने सर्वप्रथम गोपालसुन्दरी का रूप धारण किया था। वह रूप अत्यन्त कोमल, सुन्दर तथा मनोहर था। 
कृष्ण का किशोर गोपवेषवाला वह रूप नवीन मेघके समान श्याम वर्ण का था वह करोड़ों कामदेवों के समान सुन्दर था, वह मनोहर लीलाधामस्वरूप था उस विग्रहके नेत्र शरद ऋतुके मध्याहकालीन कमलोंकी शोभाको तुच्छ बना देनेवाले थे, मुख शरत्पूर्णिमाके करोड़ों चन्द्रमाकी शोभाको तिरस्कृत कर देनेवाला था, अमूल्य रत्नोंसे निर्मित अनेक प्रकारके आभूषणोंसे उनका विग्रह सुशोभित था, मुसकानयुक्त मुखमण्डलवाला वह विग्रह निरन्तर अमूल्य पीताम्बर से शोभित हो रहा था,।

परब्रह्मस्वरूप वह विग्रह ब्रह्मतेजसे प्रकाशित था, वह रूप देखने में बड़ा ही सुखकर था, वह शान्तरूपराधाको अत्यधिक प्रसन्न करने वाला था, मुसकराती वह हुई गोपियाँ उस रूपको निरन्तर निहार रही थीं, भगवदविग्रह रासमण्डलके मध्य रत्नजटित सिंहासनपर विराजमान था, उनकी दो भुजाएँ थीं, वे वंशी बजा रहे थे, उन्होंने वनमाला धारण कर रखी थी, उनके वक्षःस्थलपर मणिराज श्रेष्ठ कौस्तुभमणि निरन्तर प्रकाशित हो रही थी, उनका विग्रह कुमकुम अगुरु-कस्तूरीसे मिश्रित दिव्य चन्दनसे लिप्त था वह चम्पा और मालतीकी मनोहर मालाओंसे सुशोभित था, वह कान्तिमान् चन्द्रमाकी शोभासे परिपूर्ण तथा मनोहर चूडामणिसे सुशोभित था । भक्तिरससे आप्लावित भक्तजन उनके इसी रूपका ध्यान करते हैं ll 30-38 ॥

जगत्की रचना करनेवाले ब्रह्मा उन्हींके भय से सृष्टिका विधान करते हैं तथा कर्मानुसार सभी प्राणियोंके कर्मका उल्लेख करते हैं और उन्हींकी आज्ञासे वे मनुष्योंको तपों तथा कमका फल देते हैं। 

उन्होंके भयसे सभी प्राणियोंके रक्षक भगवान् विष्णु सदा रक्षा करते हैं और उन्होंके भयसे कालाग्निके समान भगवान् रुद्र सम्पूर्ण जगत्‌का संहार करते हैं। 

ज्ञानियोंके गुरुके भी गुरु मृत्युंजय शिव उसी परब्रह्मरूप विग्रह को जान लेनेपर ज्ञानवान्, योगीश्वर, ज्ञानविद् परम आनन्दसे परिपूर्ण तथा भक्ति-वैराग्यसे सम्पन्न हो सके हैं ।।39-42 ॥
__________

हे साध्वि ! उन्हींके भयसे तीव्र चलनेवालोंमें प्रमुख पवनदेव प्रवाहित होते हैं और उन्हों के भय से सूर्य निरन्तर तपते रहते हैं ॥ 43 ॥

उन्हींकी आज्ञा से इन्द्र वृष्टि करते हैं, मृत्यु प्राणियोंपर अपना प्रभाव डालती है, उन्हींकी आज्ञासे अग्नि जलाती है और जल शीतल करता है॥ 44 ॥

उन्होंकि आदेश से भयभीत दिक्पालगण दिशाओंकी रक्षा करते हैं और उन्होंके भयसे ग्रह तथा राशियाँ अपने मार्ग पर परिभ्रमण करती हैं ।। 45 ।।

उन्होंके भयसे वृक्ष फलते तथा फूलते हैं और उन्हींकी आज्ञा स्वीकार करके भयभीत काल निश्चित समय पर प्राणियों का संहार करता है ॥ 46॥

उनकी आज्ञाके बिना जल तथा स्थल में रहनेवाले कोई भी प्राणी जीवन धारण नहीं कर सकते और संग्राम में आहत तथा विषम स्थितियों में पड़े प्राणी की भी अकाल मृत्यु नहीं होती ll 47 ॥

उन्हों की आज्ञा से वायु जलराशिको जल कच्छप को, कच्छप शेषनागको, शेष पृथ्वी को और पृथ्वी सभी समुद्रों तथा पर्वतोंको धारण किये रहती है।
__________________
 जो सब प्रकारसे क्षमाशालिनी हैं, वे पृथ्वी उन्हींकी आज्ञासे नानाविध रत्नोंको धारण करती हैं। उन्हींकी आज्ञासे पृथ्वीपर सभी प्राणी रहते हैं तथा नष्ट होते हैं ll 48-49 ।।

_____________________
हे साध्वि ! देवताओं के इकहत्तर युगों की इन्द्र की आयु होती है; ऐसे अट्ठाईस इन्द्रों के समाप्त होने पर ब्रह्मा का एक दिन-रात होता है।
_______    
ऐसे तीस दिनों का एक महीना होता है और इन्हीं दो महीनोंकी एक ऋतु कही गयी है। इन्हीं छः ऋतुओं का एक वर्ष होता है और ऐसे (सौ वर्षों) की ब्रह्माकी आयु कही गयी है ।50-51l

ब्रह्मा की आयु समाप्त होनेपर श्रीहरि आँखें मूँद लेते हैं। श्रीहरिके आँखें मूंद लेनेपर प्राकृत प्रलय हो जाता है। उस प्राकृतिक प्रलय के समय समस्त चराचर प्राणी, देवता, विष्णु तथा ब्रह्मा ये सब श्रीकृष्ण के नाभिकमलमें लीन हो जाते हैं ।। 52-53 ll

क्षीरसागरमें शयन करनेवाले तथा वैकुण्ठवासी चतुर्भुज भगवान् श्रीविष्णु (नारायण) प्रलयके समय परमात्मा श्रीकृष्ण के वाम पार्श्वमें विलीन होते हैं।

 ज्ञानके अधिष्ठाता सनातन शिव उनके ज्ञान में विलीन हो जाते हैं। सभी शक्तियाँ विष्णुमाया दुर्गा में समाविष्ट हो जाती हैं और वे बुद्धि की अधिष्ठात्री देवता दुर्गा भगवान् श्रीकृष्णकी बुद्धिमें प्रविष्ट हो जाती हैं। 
***********************************
नारायण के अंश स्वामी कार्तिकेय उनके वक्षःस्थलमें लीन हो जाते हैं ll54-56 ॥

हे सुव्रते। श्रीकृष्णके अंशस्वरूप तथा गणोंके स्वामी देवेश्वर गणेश श्रीकृष्णकी दोनों भुजाओं में समाविष्ट हो जाते हैं।

श्रीलक्ष्मीकी अंशस्वरूपा देवियाँ भगवती लक्ष्मीमें तथा वे देवी लक्ष्मी राधा में विलीन हो जाती हैं। इसी प्रकार समस्त गोपिकाएँ तथा देवपत्नियाँ भी उन्हीं श्रीराधा में अन्तर्हित हो जाती हैं और श्रीकृष्णके प्राणों की अधीश्वरी वे राधा उन श्रीकृष्णके प्राणोंमें अधिष्ठित हो जाती हैं ।57-58।
___________________________

सावित्री तथा जितने भी वेद और शास्त्र हैं, वे सब सरस्वतीमें प्रवेश कर जाते हैं और सरस्वती उन परमात्मा श्रीकृष्ण की जिह्वा में विलीन हो जाती हैं ॥ 59 ॥
******

गोलोक के सभी गोप उनके रोमकूपों में प्रवेश कर जाते हैं। सभी प्राणियों की प्राणवायु उन श्रीकृष्णके प्राणों में, समस्त अग्नियाँ उनकी जठराग्नि में तथा जल उनकी जिह्वा के अग्रभाग में विलीन हो जाते हैं। सारके भी सारस्वरूप तथा भक्तिरसरूपी अमृतका पान करनेवाले वैष्णवजन परम आनन्दित होकर उनके चरण कमल में समाहित हो जाते हैं ।60-61॥

विराट्के अंशस्वरूप क्षुद्रविराट् महाविराट्में और महाविराट् उन श्रीकृष्णमें विलीन हो जाते हैं, 
**************************************
जिनके रोमकूपोंमें सम्पूर्ण विश्व समाहित हैं, जिनके आँख मीचने पर प्राकृतिक प्रलय हो जाता है और जिनके नेत्र खुल जानेपर पुनः सृष्टि कार्य आरम्भ हो जाता है। 
*************************************

जितना समय उनके पलक गिरने में लगता है, उतना ही समय उनके पलक उठाने में लगता है। ब्रह्माके सौ वर्ष बीत जानेपर सृष्टिका सूत्रपात और पुनः लय होता है। 
हे सुव्रते! जैसे पृथ्वी के रजः कणों की संख्या नहीं है, वैसे ही ब्रह्माकी सृष्टि तथा प्रलयकी कोई संख्या नहीं है ।। 62-65 ॥
______________________________      
जिन सर्वान्तरात्मा परमेश्वर की इच्छा से उनके पलक झपकते ही प्रलय होता है तथा पलक खोलते ही पुनः सृष्टि आरम्भ हो जाती है, वे श्रीकृष्ण प्रलयके समय उन परात्पर मूलप्रकृति में लीन हो जाते हैं; उस समय एकमात्र पराशक्ति ही शेष रह जाती है, यही निर्गुण परम पुरुष भी है। यही सत्स्वरूप तत्त्व सर्वप्रथम विराजमान था - ऐसा वेदों के ज्ञाताओं ने कहा है ।66-68।
____________________________
अव्यक्तस्वरूपी मूलप्रकृति 'अव्याकृत' नामसे कही जाती हैं। चैतन्यस्वरूपिणी वे ही केवल प्रलयकालमें विद्यमान रहती हैं। उनके गुणोंका वर्णन करने में ब्रह्माण्डमें कौन समर्थ है ? । 69।

चारों वेदों ने चार प्रकार को मुक्तियाँ बतलायी हैं। भगवान्की भक्ति प्रधान है; क्योंकि वह मुक्तिसे श्रेष्ठ है। एक मुक्ति सालोक्य प्रदान करने वाली, दूसरी सारूप्य देनेवाली तीसरी सामीप्य की प्राप्ति कराने वाली और चौथी निर्वाण प्रदान करने वाली है; इस प्रकार मुक्ति चार तरह की होती है। भक्तजन उन परमात्मप्रभु की सेवा छोड़कर उन मुक्तियोंकी कामना नहीं करते हैं। वे शिवत्व, अमरत्व तथा ब्रह्मत्व तक की अवहेलना करते हैं। वे जन्म, मृत्यु, जरा, व्याधि, भय, शोक, धन, दिव्यरूप धारण करना, निर्वाण तथा मोक्षकी अवहेलना करते हैं। मुक्ति सेवारहित है तथा भक्ति सेवाभावमें वृद्धि करनेवाली है-भक्ति तथा मुक्तिमें यही भेद है; अब निषेक खण्डन का प्रसंग सुनो। 70-74।

विद्वान् पुरुषोंने निषेक (जन्म) एवं भोग के खण्डनका कल्याणकारी उपाय श्रीप्रभु की एकमात्र परम सेवाको ही कहा है। हे साध्वि! यह तत्त्वज्ञान लोक और वेदमें प्रतिष्ठित है।

 इसे विघ्नरहित तथा शुभप्रद बताया गया है। हे वत्से ! अब तुम सुखपूर्वक जाओ ।। 75-76 ll

ऐसा कहकर सूर्यपुत्र धर्मराज उसके पतिको जीवितकर और उसे आशीर्वाद प्रदान करके वहाँसे जानेके लिये उद्यत हो गये। धर्मराजको जाते देखकर सावित्री उन्हें प्रणाम करके उनके दोनों चरण पकड़कर साधुवियोगके कारण उत्पन्न दुःखसे व्याकुल हो रोने लगी ।। 77-78॥

सावित्रीका विलाप सुनकर कृपानिधि धर्मराज भी स्वयं रोने लगे और सन्तुष्ट होकर उससे इस प्रकार कहने लगे- ।79 ॥

धर्मराज बोले- [हे] सावित्रि।] तुम पुण्यक्षेत्र भारतवर्ष में एक लाख वर्ष तक सुखका भोग करके अन्त में उस लोकमें जाओगी, जहाँ साक्षात् भगवती विराजमान रहती हैं ॥ 80 ॥

हे भद्रे अब तुम अपने घर जाओ और स्त्रियोंके लिये मोक्षके कारणरूप सावित्रीव्रत का चौदह वर्ष तक पालन करो। ज्येष्ठमास के शुक्लपक्षकी चतुर्दशी तिथिको किया गया सावित्रीव्रत उसी प्रकारअत्यन्त मंगलकारी होता है, जैसे भाद्रपद महीनेके शुक्लपक्षकी अष्टमी तिथिको महालक्ष्मीव्रत कल्याणप्रद होता है।

हे शुचिस्मिते। इस महालक्ष्मीव्रतको सोलह वर्षतक करना चाहिये। जो स्त्री इस व्रतका अनुष्ठान करती है, वह भगवान् श्रीहरिके चरणोंकी सन्निधि प्राप्त कर लेती है। ll81-82 ll

प्रत्येक मंगलवारको मंगलकारिणी भगवती मंगलचण्डिकाका व्रत करना चाहिये। प्रत्येक मासकी शुक्तपष्ठी के दिन व्रतपूर्वक मंगलदायिनी देवी पष्ठी को पूजा करनी चाहिये। 

उसी प्रकार आषाढ़ की-संक्रान्ति के अवसर पर समस्त सिद्धियाँ प्रदान करनेवाली देवी मनसा की पूजा करनी चाहिये ।। 84-85 ।।
___________________________________
कार्तिक पूर्णिमा को रास के अवसर पर श्रीकृष्ण के लिये प्राणों से भी अधिक प्रिय श्रीराधाकी उपासना करनी चाहिये। 

प्रत्येक मासके शुक्लपक्षको अष्टमी तिथिको उपवासपूर्वक व्रत करके वर प्रदान करनेवाली भगवती दुर्गाकी पूजा करनी चाहिये।

पति-पुत्रवती तथा पुण्यमयी पतिव्रताओं, प्रतिमाओं तथा यन्त्रों दुर्गतिनाशिनी विष्णुमाया भगवती दुर्गाकी भावना करके जो स्त्री धन-सन्तानकी प्राप्ति के लिये भक्ति पूर्वक उनका पूजन करती है, वह इस लोकमें सुख भोगकर अन्तमें ऐश्वर्यमयी भगवतीके परम पदको प्राप्त होती है।

 इस प्रकार साधकको भगवतीकी विभूतियोंकी निरन्तर पूजा करनी चाहिये।

 उन सर्वरूपा परमेश्वरीकी निरन्तर उपासना करनी चाहिये; इससे बढ़कर कृतकृत्यता प्रदान करनेवाला और नहीं है ll 86 - 90 ll

[ हे नारद!] उससे ऐसा कहकर धर्मराज अपने लोकको चले गये और अपने पतिको साथ लेकर सावित्री भी अपने घर चली गयी ॥ 91 ॥

हे नारद! सावित्री और सत्यवान् जब घरपर आ गये तब सावित्रीने अपने अन्य बन्धु सारा वृत्तान्त कहा ॥ 92 ॥ 

बान्धवोंसे यह धर्मराजके वरके प्रभावसे सावित्रीके पिताने पुत्र प्राप्त कर लिये, उसके ससुरको दोनों आँखें ठीक हो गर्यो और उन्हें अपना राज्य मिल गया तथा उस सावित्री को भी पुत्रोंकी प्राप्ति हुई। इस प्रकार पुण्यक्षेत्र भारतवर्षमें एक लाख वर्षतक सुख भोगकर वह पतिव्रता सावित्री अपने पतिके साथ देवीलोक चली गयी ।93-94 ॥

सविता की अधिष्ठात्री देवी होने अथवा सूर्यके ब्रह्मप्रतिपादक गायत्री मन्त्रकी अधिदेवता होने तथा सम्पूर्ण वेदों की जननी होनेसे ये जगत् में सावित्री नामसे प्रसिद्ध हैं ॥95॥

हे वत्स ! इस प्रकार मैंने सावित्रीके श्रेष्ठ उपाख्यान तथा प्राणियोंके कर्मविपाक का वर्णन कर दिया, अब आगे क्या सुनना चाहते हो ॥ 96।

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्यानवर्णनं नामाष्टत्रिलोऽध्यायः ।३८।


                 "श्रीकृष्ण उवाच -
गच्छ नन्द यशोदे त्वं पुत्रबुद्धिं विहाय च।
गोलोकं परमं धाम सार्धं गोकुलवासिभिः॥१५॥

अग्रे कलियुगो घोरश्चागमिष्यति दुःखदः।
यस्मिन्वै पापिनो मर्त्या भविष्यन्ति न संशयः।१६।

 स्त्रीपुंसोर्नियमो नास्ति वर्णानां च तथैव च ।
 तस्माद्‌गच्छाशु मद्धाम जरामृत्युहरं परम् ॥१७॥

 इति ब्रुवति श्रीकृष्णे रथं च परमाद्‌भुतम् ।
 पञ्चयोजनविस्तीर्णं पञ्चयोजनमूर्ध्वगम् ॥१८॥

 वज्रनिर्मलसंकाशं मुक्तारत्‍नविभूषितम् ।
 मन्दिरैर्नवलक्षैश्च दीपैर्मणिमयैर्युतम् ॥१९॥

 सहस्रद्वयचक्रं च सहस्रद्वयघोटकम् ।
 सूक्ष्मवस्त्राच्छादितं च सखीकोटिभिरावृतम्।२०।
_____________________
 गोलोकादागतं गोपा ददृशुस्ते मुदान्विताः।
 एतस्मिन्नंतरे तत्र कृष्णदेहाद्विनिर्गतः॥२१॥

 देवश्चतुर्भुजो राजन्कोटिमन्मथसन्निभः।
 शंखचक्रधरः श्रीमाँल्लक्ष्म्या सार्धं जगत्पतिः।२२।

 क्षीरोदं प्रययौ शीघ्रं रथमारुह्य सुन्दरम् ।
 तथा च विष्णुरूपेण श्रीकृष्णो भगवान् हरिः॥२३॥

 लक्ष्म्या गरुडमारुह्य वैकुण्ठं प्रययौ नृप
 ततो भूत्वा हरिः कृष्णो नरनारायणावृषी ॥२४॥
________________________________
 कल्याणार्थं नराणां च प्रययौ बद्रिकाश्रमम् ।
 परिपूर्णतमः साक्षाच्छ्रीकृष्णो राधया युतः ॥२५॥

 गोलोकादागतं यानमारुरोह जगत्पतिः ।
 सर्वे गोपाश्च नन्दाद्या यशोदाद्या व्रजस्त्रियः।२६।

 त्यक्त्वा तत्र शरीराणि दिव्यदेहाश्च तेऽभवन् ।
 स्थापयित्वा रथे दिव्ये नन्दादीन्भगवान्हरिः।२७।

 गोलोकं प्रययौ शीघ्रं गोपालो गोकुलान्वितः ।
 ब्रह्मांडेभ्यो बहिर्गत्वा ददर्श विरजां नदीम्।२८।

 शेषोत्संगे महालोकं सुखदं दुःखनाशनम् ।
 दृष्ट्वा रथात्समुत्तीर्य सार्धं गोकुलवासिभिः।
२९।

 विवेश राधया कृष्णः पश्यन्न्यग्रोधमक्षयम् ।
 शतशृङ्गं गिरिवरं तथा श्रीरासमण्डलम् ॥ ३०॥

 ततो ययौ कियद्‌दूरं श्रीमद्‌वृन्दावनं वनम् ।
 वनैर्द्वादशभिर्युक्तं द्रुमैः कामदुघैर्वृतम् ॥३१॥

 नद्या यमुनया युक्तं वसंतानिलमंडितम् ।
 पुष्पकुञ्जनिकुञ्जं च गोपीगोपजनैर्वृतम् ॥३२॥

 तदा जयजयारावः श्रीगोलोके बभूव ह ।
 शून्यीभूते पुरा धाम्नि श्रीकृष्णे च समागते ॥३३॥

 ततश्च यदुपत्‍न्यश्च चितामारुह्य दुःखतः ।
 पतिलोकं ययुः सर्वा देवक्याद्याश्च योषितः॥३४॥

 बंधूनां नष्टगोत्राणां चकार सांपरायिकम् ।
 गीताज्ञानेन स्वात्मानं शांतयित्वा स दुःखतः॥३५।

अर्जुनः स्वपुरं गत्वा तमुवाच युधिष्ठिरम् ।
 स राजा भ्रातृभिः सार्धं ययौ स्वर्गं च भार्यया॥ ३६॥

 प्लावयद्‌द्वारकां सिन्धू रैवतेन समन्विताम् ।
 विहाय नृपशार्दूल गेहं श्रीरुक्मणीपतेः ॥ ३७ ॥
________________________________
 अद्यापि श्रूयते घोषो द्वार्वत्यामर्णवे हरेः ।
 अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः ॥
 ३८ ॥
**********************************
ब्राह्मणवाद की दुर्गन्ध-

 विष्णुस्वामी रवेरंशः कलेरादौ महार्णवे ।
 गत्वा नीत्वा हरेरर्चां द्वार्वत्यां स्थापयिष्यति॥३९॥

 तं द्वारकेशं पश्यंति मनुजा ये कलौ युगे ।
 सर्वे कृतार्थतां यांति तत्र गत्वा नृपेश्वरः ॥ ४०॥

 यः शृणोति चरित्रं वै गोलोकारोहणं हरेः ।
 मुक्तिं यदूनां गोपानां सर्वपापैः प्रमुच्यते ॥४१॥


इति श्रीमद्‌गर्गसंहितायामश्वमेधखण्डे
राधाकृष्णयोर्गोलोकारोहणं नाम षष्टितमोऽध्यायः ॥ ६०॥
_________________________________

अनुवाद:-
अश्‍वमेध खण्‍ड : अध्याय (60)
कौरवों के संहार, पाण्‍डवों के स्‍वर्गगमन तथा यादवों के संहार आदि का संक्षिप्‍त वृत्‍तान्‍त-
श्रीराधा तथा व्रजवासियों सहित भगवान श्रीकृष्‍ण का गोलोकधाम में गमन:-
*********************************
श्रीगर्ग जी कहते हैं- राजन् ! व्‍यासजी के मुख से इस प्रकार श्रीकृष्‍ण सहस्‍त्रनाम का निरूपण सुनकर यादवेन्‍द्र उग्रसेन ने उनकी पूजा करके भगवान श्रीकृष्‍ण में भक्‍तिपूर्वक मन लगाया। तदनन्‍तर भगवान श्रीकृष्‍ण ने मिथिला में जाकर राजा बहुलाश्‍व तथा श्रुतदेव को दर्शन दिया। इसके बाद वे द्वारकापुरी को लौट आये। तत्‍पश्‍चात समस्‍त पाण्‍डव अपनी पत्‍नी द्रौपदी के साथ द्वारका से निकलकर वन-वन में विचरने लगे। नरेश्‍वर ! वनवास और अज्ञातवास का कष्‍ट भोगकर वे सब सेना सहित विराट नगर में एकत्र हुए। इधर श्रीकृष्‍ण के प्रार्थना करने पर भी समस्‍त कौरवों ने पाण्‍डवों को उनके राज्‍य के आधे के आधे का आधा भी नहीं दिया। तब पाण्‍डवों और कौरवों में युद्ध होना अनिवार्य हो गया। यह जानकर श्रीकृष्‍ण ने हथियार न उठाने की प्रतिज्ञा कर ली और बलरामजी तीर्थ यात्रा को चले गये। उसी यात्रा में उन्‍होंने रोमहर्षण सूत और बल्‍वल को मार डाला। 

इसके बाद समस्‍त कौरव और पाण्‍डव धर्मक्षेत्र कुरुक्षेत्र में प्रविष्‍ट हो परस्‍पर युद्ध करने लगे। श्रीकृष्‍ण की कृपा से पाण्‍डवों की विजय हुई तथा पापी और अपराधी सब कौरव महाभारत युद्ध में मारे गये।

नरेश्‍वर ! तदनन्‍तर धर्मराज युधिष्ठिर ने नौ वर्षों तक राज्‍य किया। इस बीच में उन्‍होंने तीन अश्‍वमेध यज्ञ किये, जिससे वे ज्ञाति-बन्‍धुओं के वध के दोष से श्रीकृष्‍ण की इच्‍छा से ही समस्‍त यादवों के लिये ब्रह्मर्षियों का महान शाप प्राप्‍त हुआ।

शाप के पश्‍चात भगवान श्रीकृष्‍ण ने शरणागत भक्‍त उद्धव को अश्‍वत्‍थ वृक्ष के नीचे परम उत्‍तम श्रीमद्भागवत धर्म का उपदेश दिया। 

कुछ दिनों के बाद यादवों में परस्‍पर संग्राम छिड़ गया। वे प्रभास क्षेत्र में नाना प्रकार के शस्‍त्रों द्वारा एक-दूसरे पर प्रहार करके मारे गये। बलरामजी मानव-शरीर को छोड़ कर अपने धाम को चले गये। वहाँ देवताओं को आया देख श्रीकृष्‍ण अन्‍तर्धान हो गये। 



व्रज में जाकर श्रीहरि ! नन्‍द, यशोदा, राधिका तथा गोपियों सहित गोपों से मिले और उन प्रेमी भगवान ने अपने प्रियजनों से प्रेमपूर्वक इस प्रकार कहा। श्रीकृष्‍ण बोले- नन्‍द और यशोदे ! अब तुम मुझ में पुत्र बुद्धि छोड़कर समस्‍त गोकुल वासियों के साथ मेरे परमधाम गोलोक को जाओ। 

अब आगे सबको दु:ख देने वाला घोर कलियुग आयेगा, जिसमें मनुष्‍य प्राय: पापी हो जायेगा; इसमें संशय नहीं है। 
उस समय परस्‍पर संपर्क स्‍थापित करने के लिये स्‍त्री-पुरुष का तथा वर्ण का कोई नियम नहीं रह जायेगा। 

इसलिये जरा और मृत्‍यु को हर लेने वाले मेरे उत्‍तम गोलोक में तुम लोग शीघ्र चले जाओ। श्रीकृष्‍ण इस प्रकार कह ही रहे थे कि गोलोक से एक परम अद्भुत रथ उतर आया जिसे गोपों ने बड़ी प्रसन्‍नता के साथ देखा।
___________________________________

उसका विस्‍तार पाँच योजन का था और ऊँचाई भी उतनी ही थी। वह व्रजमणि (हीरे) के समान निर्मल और मुक्‍ता-रत्‍नों से विभूषित था। उसमें नौ लाख मन्‍दिर थे और उन घरों में मणिमय दीप जल रहे थे। उस रथ में दो हजार पहिये लगे थे और दो ही हजार घोड़े जुते हुए थे। उस रथ पर महीन वस्‍त्र का आच्‍छादन (परदा) पड़ा था। करोड़ों सखियां उसे घेरे हुए थीं ।

_____________________________
गोलोकादागतं गोपा ददृशुस्ते मुदान्विताः ।
एतस्मिन्नंतरे तत्र कृष्णदेहाद्विनिर्गतः ॥ २१ ॥

 देवश्चतुर्भुजो राजन्कोटिमन्मथसन्निभः ।
 शंखचक्रधरः श्रीमाँल्लक्ष्म्या सार्धं जगत्पतिः॥२२॥

 क्षीरोदं प्रययौ शीघ्रं रथमारुह्य सुंदरम् ।
 तथा च विष्णुरूपेण श्रीकृष्णो भगवान् हरिः॥२३॥
___________________
 लक्ष्म्या गरुडमारुह्य वैकुण्ठं प्रययौ नृप ।
 ततो भूत्वा हरिः कृष्णो नरनारायणावृषी ॥ २४ ॥

 कल्याणार्थं नराणां च प्रययौ बद्रिकाश्रमम् ।
 परिपूर्णतमः साक्षाच्छ्रीकृष्णो राधया युतः ॥२५ ॥

अश्‍वमेध खण्‍ड : अध्याय (60)
राजन् ! इसी समय श्रीकृष्‍ण के शरीर से करोड़ों कामदेवों के समान सुन्‍दर चार भुजाधारी ‘श्रीविष्‍णु‘ प्रकट हुए, जिन्‍होंने शंख और चक्र धारण कर रखे थे। २१-२२।

***********************************
वे जगदीश्‍वर विष्णु श्रीमान् लक्ष्‍मी★ के साथ एक सुन्‍दर रथ पर आरूढ़ हो शीघ्र ही क्षीरसागर को चल दिये।२३।

इसी प्रकार ‘नारायण’ रूपधारी भगवान श्रीकृष्‍ण हरि महालक्ष्‍मी★ के साथ गरुड़ पर बैठकर वैकुण्‍ठधाम को चले गये।२४।

नरेश्‍वर !
इसके बाद श्रीकृष्‍ण हरि ‘नर और नारायण’- दो ऋषियों के रूप में अभिव्‍यक्‍त हो मानवों के कल्‍याणार्थ बदरिकाश्रम को गये।२५।
_______________________________
तदनन्‍तर साक्षात् परिपूर्णतम जगत्‍पति भगवान श्रीकृष्‍ण श्रीराधा के साथ गोलोक से आये हुए रथ पर आरूढ़ हुए। नन्‍द आदि समस्‍त गोप तथा यशोदा आदि व्रजांगनाएं सब-के-सब वहाँ भौतिक शरीरों का त्‍याग करके दिव्‍य देहधारी हो गये।
___________________________________
तब गोपाल भगवान श्रीहरि नन्‍द आदि को उस दिव्‍य रथ पर बिठाकर गोकुल के साथ शीघ्र ही गोलोकधाम को चले गये। ब्रह्माण्डों से बाहर जाकर उन सबने विरजा नदी को देखा। साथ ही शेषनाग की गोद में महालोक दृष्‍टिगोचर हुआ, जो दु:खो का नाशक तथा परम सुखदायक है।

उसे देखकर गोकुलवासियों सहित श्रीकृष्‍ण उस रथ से उतर पड़े और श्रीराधा के साथ अक्षय वट का दर्शन करते हुए उस परमधाम में प्रविष्‍ट हुए।
गिरिवर शतश्रृंग तथा श्रीरासमण्‍डल को देखते हुए वे कतिपय द्वारों से सुशोभित श्रीमद्वृन्‍दावन में गये, जो बारह वनों से संयुक्‍त तथा कामपूरक वृक्षों से भरा हुआ था।

यमुना नदी उसे छूकर बह रही थी। वसन्‍त–ऋतु और मलयानिल उस वन की शोभा बढ़ा रहे थे। वहाँ फूलों से भरे कितने ही कुंज और निकुंज थे। वह वन गोपियों और गोपों से भरा था। जो पहले सूना सा लगता था, उस श्रीगोलोकधाम में श्रीकृष्‍ण के पधारने पर जय-जयकार की ध्‍वनि गूंज उठी। तदनन्‍तर द्वारका में यदुकुल की पत्‍नियों-देवकी आदि सभी स्‍त्रियां दु:ख से व्‍याकुल हो चिता पर चढ़कर पतिलोक को चली गयीं। 

जिनके गोत्र नष्‍ट हो गये थे, उन यादव-बन्‍धुओं का पारलौकिक कृत्‍य अर्जुन ने किया। वे गीता के ज्ञान से अपने मन को शान्‍त करके बड़े दु:ख से सबका अन्‍त्‍येष्‍टि संस्‍कार कर सके। जब अर्जुन ने अपने निवास स्‍थान हस्‍तिनापुर में जाकर राजा युधिष्‍ठिर को यह सब समाचार बताया तब वे पत्‍नी और भाइयों के साथ स्‍वर्गलोक को चले गये। नृपश्रेष्‍ठ ! इधर समुद्र ने रैवतक पर्वत सहित श्रीरुक्‍मिणीवल्‍लभ श्रीकृष्‍ण के निवास गृह को छोड़ शेष सारी द्वारकापुरी को अपने जल में डुबोकर आत्‍मसात कर लिया।

आज भी द्वारका के समुद्रों में श्रीहरि का यह घोष सुनायी पड़ता है कि ‘ब्राह्मण विद्यमान हो या विद्याहीन, वह मेरा ही शरीर है’ (अविद्यो वा सविद्यो वा ब्राह्मणो माम की तनु:)।
____________________________________
कलियुग के प्रारम्‍भिक काल में ही श्रीहरि के अंशावातार विष्‍णुस्‍वामी महासागर में जाकर श्रीहरि की प्रतिमा को प्राप्‍त करेंगे और द्वारकापुरी में उसकी स्‍थापना कर देंगे। नृपेश्‍वर ! कलियुग में उन द्वारकानाथ का जो मनुष्‍य वहाँ जाकर दर्शन करते हैं, वे सब कृतार्थ हो जाते हैं। जो श्रीहरि के गोलोकधाम पधारने का चरित्र सुनते हैं तथा यादल गोपों की मुक्‍ति का वृत्तान्‍त पढ़ते हैं, वे सब पापों से मुक्‍त हो जाते हैं।
___________________    
इस प्रकार श्रीगर्ग संहिता के अन्‍तर्गत अश्‍वमेध खण्‍ड में ‘श्रीराधा और श्रीकृष्‍ण का गोलोकाहरण’ नामक साठवां अध्‍याय पूरा हुआ।
_________________

सूक्ष्मवस्त्राच्छादितं च गोपीकोटीभिरावृतम् ।
गोलोकादागतं तूर्णं ददृशुः सहसा व्रजे ।।४१।।

श्रीकृष्णमनसा जाता मर्त्यलक्ष्मीर्मनोहरा ।
श्वेतद्वीपं गते विष्णौ जगत्पालनकर्तरि ।६३ ।।

शुद्धसत्त्वस्वरूपे च द्विधारूपो बभूव सः ।
दक्षिणांशश्च द्विभुजो गोपबालकरूपकः ।। ६४ ।।

नपीनजलदश्यामः शोभितः पीतवाससा ।
श्रीवंशवदनः श्रीमान्सस्मितः पद्मलोचनः ।। ६५ ।।

शतकोटीन्दुसौन्दर्यं शतकोटिस्मरप्रभाम् ।
दधानः परमानन्दः परिपूर्णतमः प्रभुः ।। ६६ ।।

परं धाम परं ब्रह्मस्वरूपो निर्गुणः स्वयम् ।
परमात्मा च सर्वेषां भक्तानुग्रहविग्रहः ।। ६७ ।।

नित्यदेहश्च भगवानीश्वरः प्रकृतेः परः ।
योगिनो यं वदन्त्येवं ज्योतीरूपं सनातनम् ।६८।

ज्योतिरम्यन्तरे नित्यरूपं भक्ता विदन्ति यम् ।
वेदा वदन्ति सत्यं यं नित्यमाद्यं विचक्षणाः।६९।

यं वदन्ति सुराः सर्वे परं स्वेच्छामयं प्रभूम् ।
सिद्धेन्द्रा मुनयः सर्वे सर्वरूपं वदन्ति यम् ।७० ।।

यमनिर्वचनीयं च योगीन्द्रः शंकरो वदेत् ।
स्वयं विधाता प्रवदेत्कारणानां च कारणम् ।७१ ।।

शेषो वदेदनन्तं यं नवधारूपमीश्वरम् ।
तर्काणामेव षण्णां च षड्विधं रूपमीप्सितम्।७२।

वैष्णवानामेकरूपं वेदानामेकमेव च ।
पुराणानामेकरूपं तस्मान्नवविधं स्मृतम् ।७३।

न्यायोऽनिर्वचनीयं च यं मतं शंकरो वदेत् ।
नित्यं वैशेषिकाश्चाऽऽद्यं तं वदन्ति विचक्षणाः।७४।

सांख्य वदन्ति तं देवं ज्योतीरूपं सनातनम् ।
मीमांसा सर्वरूपं च वेदान्तः सर्वकारणम् ।७५

पातञ्जलोऽप्यनन्तं च वेदाः सत्यस्वरूपकम् ।
स्वेच्छामयं पुराणं च भक्ताश्च नित्यविग्रहम् ।७६।

सोऽयं गोलोकनाथश्च राधेशो नन्दनन्दनः ।
गोकुले गोपवेषश्च पुण्ये वृन्दावने वने ।। ७७ ।।

चतुर्भुजश्च वैकुण्ठे महालक्ष्मीपतिः स्वयम् ।
नारायणश्च भगवान्यन्नाम मुक्तिकारणम् ।। ७८ ।।

सकृन्नारायणेत्युक्त्वा पुमान्कल्पशतत्रयम् ।
गङ्गादिसर्वतीर्थेषु स्नातो भवति नारद ।। ७९ ।।

सुनन्दनन्दकुमुदैः पार्षदैः परिवारितः ।
शङ्खचक्रगदापद्मधरः श्रीवत्सलाञ्छनः ।। ८० ।।

कौस्तुभेन मणीन्द्रेण भूषितो वनमालया ।
देवैः स्तुतश्च यानेन वैकुण्ठं स्वपदं ययौ ।। ८१ ।।

गते वैकुण्ठनाथे च राधेशश्च स्वयं प्रभुः ।
चकार वंशीशब्दं च त्रैलोक्यमोहनं परम् ।। ८२ ।।

मूर्च्छांप्रापुर्देवगणा मुनयश्चापि नारद ।
अचेतना बभूवुश्च मायया पार्वतीं विना ।८३ ।।

उवाच पार्वती देवी भगवन्तं सनातनम् ।
विष्णुमाया भगवती सर्वरूपा सनातनी ।। ८४ ।।

परब्रह्मस्वरूपा या परमात्मस्वरूपिणी ।
सगुणा निर्गुणा सा च परा स्वेच्छामयी सती।८५।

                   "पार्वत्युवाच
एकाऽहं राधिकारूपा गोलोके रासमण्डले ।
रासशून्यं च गोलोकं परिपूर्ण कुरु प्रभो ।। ८६ ।।

गच्छ त्वं रथमारुह्य मुक्तामाणिक्यभूषितम् ।
परिपूर्णतमाऽहं च तव वङःस्थलस्थिता ।। ८७ ।।

तवाऽऽज्ञया महालक्ष्मीरहं वैकुण्ठगामिनी
सरस्वती च तत्रैव वामे पार्श्वे हरेरपि ।। ८८ ।।

तवाहं मनसा जाता सिन्धुकन्या तवाऽऽज्ञया ।
सावित्री वेदमाताऽहं कलया विधिसंनिधौ ।८९ ।।

तैजःसु सर्वदेवानां पुरा सत्ये तवाऽऽज्ञया ।
अधिष्ठानं कृत तत्र धृतं देव्या शरीरकम् ।। ९० ।।

शुम्भादयश्च दैत्याश्च निहताश्चावलीलया ।
दुर्ग निहत्य तुर्गाऽहं त्रिपुरा त्रिपुरे वधे ।। ९१ ।।

निहत्य रक्तबीजं च रक्तबीजविनाशिनी ।
तवाऽऽज्ञया दक्षकन्या सती सत्यस्वरूपिणी।९२ ।

तैजःसु सर्वदेवानां पुरा सत्ये तवाऽऽज्ञया ।
अधिष्ठानं कृत तत्र धृतं देव्या शरीरकम् ।। ९० ।।

शुम्भादयश्च दैत्याश्च निहताश्चावलीलया ।
दुर्ग निहत्य दुर्गाऽहं त्रिपुरा त्रिपुरे वधे ।। ९१ ।।

निहत्य रक्तबीजं च रक्तबीजविनाशिनी ।
तवाऽऽज्ञया दक्षकन्या सती सत्यस्वरूपिणी ।९२।

योगेन त्यक्त्वा देहं च शैलजाऽहं तवाऽऽज्ञया ।
त्वया दत्तवा (त्ताः शंकराय गोलोके रासमण्डले।९३।

विष्णुभक्तिरहं तेन विष्णुमाया च वैष्णवी ।
नारायणस्य मायाऽहं तेन नारायणी स्मृता ।९४।
____________________________________

कृष्णप्राणाधिकाऽहं च प्राणाधिष्ठातृदेवता ।
महाविष्णोश्च वासोश्च जननी राधिका स्वयम् ।९५।

तवाऽऽज्ञया पञ्चधाऽहं पञ्चप्रकृतिरूपिणी ।
कलाकलांशयाऽहं च देवपत्नयो गृहे गृहे ।। ९६ ।।

शीघ्रं गच्छ महाभाग तत्राऽहं विरहातुरा ।
गोपीभिः सहिता रासं भ्रमन्ती परितः सदा ।९७।

पार्वतीवचनं श्रुत्वा प्रहस्य रसिकेश्वरः ।
रत्नयानं समारुह्य ययौ गोलोकमुत्तमम् ।। ९८ ।।

पार्वती बोधयामास स्वयं देवगणं तथा ।
मायावंशीरवाच्छन्नं विष्णुमाया सनातनी ।९९।

कृत्वा ते हरिशब्दं च स्वगृहं विस्मयं ययुः ।
शिवेन सार्धं दुर्गा सा प्रहृष्टा स्वपुरं ययौ ।१००।

अथ कृष्णं समायान्तं राधा गोपीगणैः सह।
अनुव्रजं ययौ हृष्टा सर्वज्ञा प्राणवल्लभम् ।१०१।

दृष्ट्वा समीपमायान्तमवरुह्य रथात्सती ।
प्रणनाम जगन्नाथं सिरसा सखिभिः सह।१०२।

गोपा गोप्यश्च मुदिताः प्रफुल्लवदनेक्षणाः ।
दुन्दुभिं वादयामासुरीश्वरागमनोत्सुकाः।१०३।

विरजां च समुत्तीर्य दृष्ट्वा राधां जगत्पतिः ।
अवरुह्य रथात्तूर्णं गृहीत्वा राधिकाकरम् ।१०४।

शतशृङ्गं च बभ्राम सुरम्यं रासमण्डलम् ।
दृष्ट्वाऽक्षयवटं पुण्यं पुण्यं वृन्दावनं ययौ।१०५।

तुलसीकाननं दृष्ट्वा प्रययौ मालतीवनम् ।
वामे कृत्वा कुन्दवनं माधवीकाननं तथा।१०६।

चकार दक्षिणे कृष्णश्चम्पकारण्यमीप्सिनम् ।
चकार पश्चात्तूर्णं च चारुचन्दनकाननम् ।१०७।

ददर्श पुरतो रम्यं राधिकाभवनं परम् ।
उवास राधया सार्धं रत्नसिंहासने वरे ।१०८।

सकर्पूरं च ताम्बूलं बुभुजे वासितं जलम् ।
सुष्वाप पुष्पतल्पे च सुगन्धिचन्दनार्चिते ।१०९।

स रेमे रामया सार्धं निमग्नो रससागरे ।
इत्येवं कथितं सर्वं धर्मवक्त्राच्च यच्छ्रुतम् ।११०।

गोलोकारोहणं रम्यं किं भूयः श्रोतुमिच्छसि ।। १११ ।

इति श्रीब्रह्मवैवर्त  महापुराण श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारदनारायणसंवाद गोलोकारोहणं
नामैकोनत्रिंशदधिकशततमोऽध्यायः।१२९।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें