मंगलवार, 24 अक्तूबर 2023

छठ पूजा का शास्त्रीय विधान-सेयं शक्तिर्महामाया सच्चिदानन्दरूपिणी ।रूपं बिभर्त्यरूपा च भक्तानुग्रहहेतवे ॥२९॥गोपालसुन्दरीरूपं प्रथमं सा ससर्ज ह ।अतीव कमनीयं च सुन्दरं सुमनोहरम् ॥ ३० ॥नवीननीरदश्यामं किशोरं गोपवेषकम् ।कन्दर्पकोटिलावण्यं लीलाधाममनोहरम् ॥ ३१।

सेयं शक्तिर्महामाया सच्चिदानन्दरूपिणी ।
रूपं बिभर्त्यरूपा च भक्तानुग्रहहेतवे ॥२९॥

गोपालसुन्दरीरूपं प्रथमं सा ससर्ज ह ।
अतीव कमनीयं च सुन्दरं सुमनोहरम् ॥ ३० ॥

नवीननीरदश्यामं किशोरं गोपवेषकम् ।
कन्दर्पकोटिलावण्यं लीलाधाममनोहरम् ॥ ३१।
______________________

विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः ।
विलीना वामपार्श्वे च कृष्णस्य परमात्मनः ॥ ५४ ॥


ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः (४३)
 
               'नारद उवाच ।।
अनेकासां च देवीनां श्रुतमाख्यानमुत्तमम् ।।
अन्यासां चरितं ब्रह्मन्वद वेदविदां वर ।।१ ।।
                'नारायण उवाच ।
सर्वासां चरितं विप्र वेदेष्वस्ति पृथक्पृथक् ।।
पूर्वोक्तानां च देवीनां त्वं कासां श्रोतुमिच्छसि।२।
                 "नारद उवाच ।।
षष्ठी मङ्गलचण्डी च मनसा प्रकृतेः कला ।।
उत्पत्तिमासां चरितं श्रोतुमिच्छामि तत्त्वतः ।।३।।
                  'नारायण उवाच ।।
षष्ठांशा प्रकृतेर्या च सा च षष्ठी प्रकीर्तिता।।
बालकाधिष्ठातृदेवी विष्णुमाया च बालदा।४।

मातृकासु च विख्याता देवसेनाभिधा च सा।
प्राणाधिकप्रिया साध्वी स्कन्दभार्य्या च सुव्रता।५।

आयुःप्रदा च बालानां पात्री रक्षणकारिणी ।।
सततं शिशुपार्श्वस्था योगाद्वै सिद्धियोगिनी ।६।

तस्याः पूजाविधौ ब्रह्मन्नितिहासविधिं शृणु ।।
यच्छ्रुतं धर्ममुखतः सुखदं पुत्रदं परम् ।७।

राजा प्रियव्रतश्चासीत्स्वायम्भुव मनोः सुतः ।।
योगीन्द्रो नोद्वहेद्भार्य्यां तपस्यासु रतः सदा ।। ८ ।।

ब्रह्माज्ञया च यत्नेन कृतदारो बभूव सः ।।
सुचिरं कृतदारश्च न लेभे तनयं मुने ।।९ ।।

पुत्रेष्टियज्ञं तं चापि कारयामास कश्यपः ।।
मालिन्यै तस्य कान्तायै मुनिर्यज्ञचरुं ददौ ।। 2.43.१० ।।

भुक्त्वा चरुं च तस्याश्च सद्यो गर्भो बभूव ह ।।
दधार तं च सा देवी दैवं द्वादशवत्सरम् ।। ११ ।।

ततः सुषाव सा ब्रह्मन्कुमारं कनकप्रभम्।।
सर्वावयवसम्पन्नं मृतमुत्तारलोचनम् ।। १२ ।।

तं दृष्ट्वा रुरुदुः सर्वा नार्य्यो वै बान्धवस्त्रियः ।।
मूर्च्छामवाप तन्माता पुत्रशोकेन सुव्रता ।। १३ ।।

श्मशानं च ययौ राजा गृहीत्वा बालकं मुने ।।
रुरोद तत्र कान्तारे पुत्रं कृत्वा स्ववक्षसि ।। १४ ।।

नोत्सृज्य बालकं राजा प्राणांस्त्यक्तुं समुद्यतः ।।
ज्ञानयोगं विसस्मार पुत्रशोकात्सुदारुणात् ।१५।

एतस्मिन्नन्तरे तत्र विमानं च ददर्श ह ।।
शुद्धस्फटिकसङ्काशं मणिराजविराजितम्।१६।

तेजसा ज्वलितं शश्वच्छोभितं क्षौमवाससा ।।
नानाचित्रविचित्राढथं पुष्पमाला विराजितम् ।१७।

ददर्श तत्र देवीं च कमनीयां मनोहराम्।।
श्वेतचम्पकवर्णाभां रम्यसुस्थिरयौवनाम् ।१८।

ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ।
कृपामयीं योगसिद्धां भक्तानुग्रहकारिणीम्।१९ ।

दृष्ट्वा तां पुरतो राजा तुष्टाव परमादरात् ।।
चकार पूजनं तस्या विहाय भुवि बालकम् । 2.43.२०।

पप्रच्छ राजा तां दृष्ट्वा ग्रीष्मसूर्य्यसमप्रभाम् ।।
तेजसा ज्वलितां शान्तां कान्तां स्कन्दस्य नारद। २१।

प्रियव्रत उवाच।
का त्वं सुशोभने कान्ते कस्य कान्ताऽसि सुव्रते ।।
कस्य कन्या वरारोहे धन्या मान्या च योषिताम् ।। २२ ।

नृपेन्द्रस्य वचः श्रुत्वा जगन्मङ्गलदायिनी ।।
उवाच देवसेना सा देवरक्षणकारिणी ।। २३ ।।

देवानां दैत्यभीतानां पुरा सेना बभूव सा ।।
जयं ददौ च तेभ्यश्च देवसेना च तेन सा।।२४।।

                    'देवसेनोवाच।
ब्रह्मणो मानसी कन्या देवसेनाऽहमीश्वरी ।।
सृष्ट्वा मां मनसो धाता ददौ स्कन्दाय भूमिप।२५।

मातृकासु च विख्याता स्कन्दसेना च सुव्रता ।।
विश्वे षष्ठीति विख्याता षष्ठांशा प्रकृतेर्यतः।२६।

पुत्रदाऽहमपुत्राय प्रियदात्री प्रियाय च ।।
धनदा च दरिद्रेभ्यः कर्तृभ्यः शुभकर्मदा ।२७।

सुखं दुःखं भयं शोकं हर्षं मंगलमेव च ।।
सम्पत्तिश्च विपत्तिश्च सर्वं भवति कर्मणा ।। २८ ।।

कर्मणा बहुपुत्री च वंशहीनश्च कर्मणा ।।
कर्मणा रूपवांश्चैव रोगी शश्वत्स्वकर्मणा ।।२९ ।

कर्मणा मृतपुत्रश्च कर्मणा चिरजीविनः ।।
कर्मणा गुणवन्तश्च कर्मणा चांगहीनकाः ।। 2.43.३० ।।

तस्मात्कर्म परं राजन्सर्वेभ्यश्च श्रुतौ श्रुतम् ।।
कर्मरूपी च भगवांस्तद्द्वारा फलदो हरिः ।। ।। ३१ ।।

इत्येवमुक्त्वा सा देवी गृहीत्वा बालकं मुने ।।
महाज्ञानेन सहसा जीवयामास लीलया ।। ३२ ।।

राजा ददर्श तं बालं सस्मितं कनकप्रभम् ।।
देवसेना च पश्यन्तं नृपमम्बरमेव च।।३३।।

गृहीत्वा बालकं देवी गगनं गन्तुमुद्यता ।।
पुनस्तुष्टाव तां राजा शुष्ककण्ठौष्ठतालुकः।३४।

नृपस्तोत्रेण सा देवी परितुष्टा बभूव ह ।।
उवाच तं नृपं ब्रह्मन्वेदोक्तं कर्म निर्मितम् ।३५।

                "देवसेनोवाच।

त्रिषु लोकेषु राजा त्वं स्वायम्भुवमनोः सुतः ।।
मम पूजां च सर्वत्र कारयित्वा स्वयं कुरु ।। ३६ ।।

तदा दास्यामि पुत्रं ते कुलपद्मं मनोहरम् ।।
सुव्रतं नाम विख्यातं गुणवन्तं सुपण्डितम् ।३७।

जातिस्मरं च योगीन्द्रं नारायणपरायणम् ।।
शतक्रतुकरं श्रेष्ठं क्षत्त्रियाणां च वन्दितम् ।।३८।।

मत्तमातङ्गलक्षाणां धृतवन्तं बलं शुभम् ।।
धन्विनं गुणिनं शुद्धं विदुषां प्रियमेव च ।३९ ।।

योगिनं ज्ञानिनं चैव सिद्धरूपं तपस्विनम् ।।
यशस्विनं च लोकेषु दातारं सर्वसम्पदाम् ।। 2.43.४० ।।

इत्येवमुक्त्वा सा देवी तस्मै तद्बालकं ददौ ।।
राजा च तं स्वीचकार तत्पूजार्थं च सुव्रतः।४१।

जगाम देवी स्वर्गं च दत्त्वा तस्मै शुभं वरम् ।।
आजगाम महाराजः स्वगृहं हृष्टमानसः ।।
आगत्य कथयामास वृत्तान्तं पुत्रहेतुकम् ।।४२।।

तुष्टा बभूवुः सन्तुष्टा नरा नार्यश्च नारद ।।।
मङ्गलं कारयामास सर्वत्र सुतहेतुकम् ।।
देवीं च पूजयामास ब्राह्मणेभ्यो धनं ददौ ।। ४३ ।।

राजा च प्रतिमासेषु शुक्लषष्ठ्यां महोत्सवम् ।।
षष्ठ्या देव्याश्च यत्नेन कारयामास सर्वतः ।। ४४ ।

बालानां सूतिकागारे षष्ठाहे यत्नपूर्वकम् ।।
तत्पूजां कारयामास चैकविंशतिवासरे ।४५ ।

बालानां शुभकार्ये च शुभान्नप्राशने तथा ।।
सर्वत्र वर्द्धयामास स्वयमेव चकार ह ।४६।

ध्यानं पूजाविधानं च स्तोत्रं मत्तो निशामय ।।
यच्छ्रुतं धर्मवक्त्रेण कौथुमोक्तं च सुव्रत ।४७।

शालग्रामे घटे वाऽथ वटमूलेऽथवा मुने।।
भित्त्यां पुत्तलिकां कृत्वा पूजयेद्वा विचक्षणः।४८।

षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रताम् ।।
सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम् ।४९।

श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।।
पवित्ररूपां परमां देवसेनां परां भजे ।2.43.५०।।

इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः ।।
पुनर्ध्यात्वा च मूलेन पूजयेत्सुव्रतः सतीम् ।५१।

पाद्यार्घ्याचमनीयैश्च गन्धधूपप्रदीपकैः ।।
नैवेद्यैर्विविधैश्चापि फलेन च शुभेन च ।।९२।।

मूलमों ह्रीं षष्ठीदेव्ये स्वाहेति विधिपूर्वकम् ।।
अष्टाक्षरं महामन्त्रं यथाशक्ति जपेन्नरः ।। ५३ ।।

तत्र स्तुत्वा च नमते भक्तियुक्तः समाहितः ।।
स्तोत्रं च सामवेदोक्तं धनपुत्रफलप्रदम् ।। ५४ ।।

अष्टाक्षरं महामन्त्रं लक्षधा यो जपेन्मुने ।।
स पुत्रं लभते नूनमित्याह कमलोद्भवः ।। ५९ ।।

स्तोत्रं शृणु मुनिश्रेष्ठ सर्वेषां च शुभावहम् ।।
वाञ्छाप्रदं च सर्वेषां गूढं वेदे च नारद ।। ५६ ।।

                  "प्रियव्रत उवाच ।।
नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।।
सुखादायै मोक्षदायै षष्ठीदेव्यै नमो नमः ।५७ ।

वरदायै पुत्रदायै धनदायै नमो नमः ।।
सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः ।। ५८ ।।

शक्तेः षष्ठांशरूपायै सिद्धायै च नमो नमः ।।
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ।। ५९ ।।

पारायै पारदायै च षष्ठीदेव्यै नमो नमः ।।
सारायै सारदायै च पारायै सर्वकर्मणाम् ।। 2.43.६० ।।

बालाधिष्ठातृदेव्यै च षष्ठी देव्यै नमो नमः।
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ।६१।

प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः ।।
पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु।६२।।

देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः।।
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा।।६३।।

हिंसाक्रोधैर्वर्जितायै षष्ठीदेव्यै नमो नमः।।
धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ।। ६४ ।।

धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ।।
भूमिं देहि प्रजां देहि देहि विद्यां सुपूजिते ।। ६९ ।।

कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ।।
इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः ।। ६६ ।।

यशस्विनं च राजेन्द्रं षष्ठीदेवीप्रसादतः ।।
षष्ठीस्तोत्रमिदं ब्रह्मन्यः शृणोति च वत्सरम्।६७।

अपुत्रो लभते पुत्रं वरं सुचिरजीविनम् ।।
वर्षमेकं च या भक्त्या संयत्तेदं शृणोति च।६८।

सर्वपापाद्विनिर्मुक्ता महावन्ध्या प्रसूयते ।।
वीरपुत्रं च गुणिनं विद्यावन्तं यशस्विनम् ।। ६९ ।।

सुचिरायुष्मन्तमेव षष्ठीमातृप्रसादतः ।।
काकवन्ध्या च या नारी मृतापत्या च या भवेत् ।। 2.43.७०।

वर्षं श्रुत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः ।
रोगयुक्ते च बाले च पिता माता शृणोति च ।७१ ।

मासं च मुच्यते बालः षष्ठीदेवीप्रसादतः ।।
इति श्रीब्रह्मवैवर्त पुराणे षष्ठ्युपाख्याने षष्ठीदेव्युत्पत्तितत्पूजास्तोत्रादिकथनं नाम त्रिचत्वारिंशत्तमोऽध्यायः।।४३।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें