गुरुवार, 11 फ़रवरी 2021

ब्रह्माण्ड पुराणे यदुवंश वर्णन - अन्ध्राणां संस्थिताः पञ्च तेषां वंश्याश्च ये पुनः । सप्तैव तु भविष्यन्ति दश- आभीरास्ततो नृपाः॥ २,७४.१७१ ॥

                       सूत उवाच
तुर्वसोस्तु सुतो वह्निर्वह्नेर्गोभानुरात्मजः ।
गोभानोस्तु सुतो वीर स्त्रिसानुरपाजितः ॥२-७४-१ ॥

करन्धमस्तु त्रैसानो मरुत्तस्तस्य चात्मजः ।
अन्यस्त्वाविज्ञितो राजा मरुत्तः कथितः पुरा ॥२,७४.२॥

अनपत्यो मरुत्तस्तु स राजासीदिति श्रुतम् ।
दुष्कन्तं पौरवं चापि स वै पुत्रमकल्पयत् ॥२,७४.३॥

एवं ययातिशापेन जरासंक्रमणे पुरा ।
तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥२,७४.४॥
__________________________________________

दुष्यन्तस्य तु दायादः सरूप्यो नाम पार्थिवः ।
सरूप्यात्तु तथाण्डीरश्चत्वारस्तस्य चात्मजाः।२,७४.५

पाण्ड्यश्च केरलश्चैव चोलः कुल्यस्तथैव च ।
तेषां जनपदाः कुल्याः पाण्ड्याश्चोलाः सकेरलाः।२,७४.६॥

द्रुह्योश्च तनयौ वीरौ बभ्रुः सेतुश्च विश्रुतौ ।
अरुद्धः सेतुपुत्रस्तु बाब्रवो रिपुरुच्यते ॥ २,७४.७॥

यौवनाश्वेन समितौ कृच्छेण निहतो बली ।
युद्धं सुमहदासीत्तु मासान्परिचतुर्दश ॥ २,७४.८॥

अरुद्धस्य तु दायादो गान्धारो नाम पार्थिवः ।
ख्यायते यस्य नाम्ना तु गान्धारविषयो महान् ॥२,७४.९॥

गान्धारादेशजाश्चापि तुरगा वाजिनां वराः ।
गान्धारपुत्रो धर्मस्तु धृतस्तस्य सुतोऽभवत् ॥२,७४.१०॥

धृतस्य दुर्दमो जज्ञे प्रचेतास्तस्य चात्मजः ।
प्रचेतसः पुत्रशतं राजानः सर्व एव ते ॥ २,७४.११ ॥

म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमास्थिताः ।
अनोश्चैव सुता वीरास्त्रयः परमधार्मिकाः ॥२,७४.१२ ॥

सभानरः कालचक्षुः पराक्षस्चेति विश्रुताः ।
सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ॥ २,७४.१३ ॥

कालानलस्य धर्मात्मा सृंजयो नाम विश्रुतः ।
सृंजयस्याभवत्पुत्रो वीरो नाम्ना पुरञ्जयः ॥२,७४.१४॥

आसीदिन्द्रसमो राजा प्रतिष्टितयशादिवि ।
महामनाः सुतस्तस्य महाशालस्य धार्मिकः ॥ २,७४.१५ ॥

सप्तद्वीपेश्वरो राजा चक्रवर्त्ती महायशाः ।
महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ ॥२,७४.१६ ॥

उशीनरं च धर्मज्ञं तितिक्षुं चैव धार्मिकम् ।
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ २,७४.१७ ॥

नृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती ।
उशीनरस्य पुत्र्यस्तु पञ्च तासु कुलोद्वहाः ॥ २,७४.१८ ॥

तपस्यतः सुमहतो जाता वृद्धस्य धार्मिकाः ।
नृगायास्तु नृगः पुत्रो नवाया नव एव तु ॥ २,७४.१९ ॥

कृम्याः कृमिस्तु दर्वायाः सुव्रतो नाम धार्मिकः ।
दृषद्वती सुतश्चापि शिबिरौशीनरो द्विजाः ॥ २,७४.२० ॥

शिबे शिवपुरं ख्यातं यौधेयं तु नृगस्य च ।
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ॥ २,७४.२१ ॥

सुव्रतस्य तथांबष्टा शिबिपुत्रान्निबोधत ।
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकसंमताः ॥२,७४.२२ ॥

वृषदर्भः सुवीरस्तु केकयो मद्रकस्तथा ।
तेषां जनपदाः स्फीताः केकया मद्रकास्तथा ॥२,७४.२३।

वृषदर्भाः सुवीराश्च तितिक्षोः शृणुत प्रजाः ।
तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः ॥ २,७४.२४ ॥

उशद्रथो महाबाहुस्तस्य हेमः सुतोऽभवत् ।
हेमस्य सुतपा जज्ञे सुतः सुतपसो बलिः ॥ २,७४.२५ ॥

जातो मनुष्ययोन्यां वै क्षीणे वंशे प्रजेप्सया ।
महायोगी स तु बलिर्बद्धो यः स महामनाः ॥२,७४.२६ ॥

पुत्रानुत्पादयामास जातुर्वर्ण्यकरान्भुवि ।
अङ्गं स जनयामास वङ्गं सुह्मं तथैव च ॥ २,७४.२७ ॥

युद्धं कलिङ्गं च तथा वालेयं क्षत्रमुच्यते ।
वालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः॥२,७४.२८॥

बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन धीमतः ।
महायोगित्वमायुश्च कल्पस्य परिमाणकम् ॥ २,७४.२९॥

संग्रामे वाप्यजेयत्वं धर्मे चैव प्रभावतः ।
त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा ॥२,७४.३०॥

बलेश्चा प्रतिमत्वं वे धर्मतत्त्वार्थदर्शनम् ।
चतुरो नियतान्वर्णांस्त्वं वै स्थापयितेति वै ॥ २,७४.३१ ॥

इत्युक्तो विभुना राजा बलिः शान्ति पराययौ ।
कालेन महता विद्वान्स्वं च स्थानमुपागतः ॥२,७४.३२॥

तेषां जनपदाः स्फीता अङ्गवङ्गाश्च सुह्मकाः ।
पुण्ड्राः कलिङ्गश्च तथा तेषां वंशं निबोधत ॥२,७४.३३॥

तस्य ते तनयाः सर्वे क्षेत्रजा मुनिसंभवाः ।
संभूता दीर्घतमसः सुदेष्णायां महौजसः ॥ २,७४.३४ ॥

                     (ऋषय ऊचुः)
कथं बलेः सुताः पञ्च जनिताः क्षेत्रजाः प्रभो ।
ऋषिणा दीर्घतमसा ह्येतत्प्रब्रूहि पृच्छताम् ॥ २,७४.३५ ॥

                     (सूत उवाच)
उशिजो नाम विख्यात आसीद्धीमानृषिः पुरा ।
भार्या वै ममता नाम बभूवास्य महात्मनः ॥ २,७४.३६ ॥

उशिजस्य कनीयांस्तु पुरोधा यो दिवौकसाम् ।
बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यपद्यत ॥ २,७४.३७ ॥

उवाच ममता तं तु बृहस्पतिमनिच्छती ।
अन्तर्वत्न्यस्मि ते भ्रातुर्ज्येष्ठस्यास्य च भामिनी ॥ २,७४.३८ ॥

अयं हि मे महान्गर्भो रोरवीति बृहस्पते ।
अजस्रं ब्रह्म चाभ्यस्य षडङ्गं वेदमुद्गिरन् ॥ २,७४.३९ ॥

अमोघरे तास्त्वं चापि न मां भजितुमर्हसि ।
अस्मिन्नेव यथाकाले यथा वा मन्यसे विभो ॥ २,७४.४० ॥

एवमुक्तस्तया सम्यग्बृहतेजा बृहस्पतिः ।
कामात्मानं महात्मापि नात्मानं सोऽभ्यधारयत् ॥ २,७४.४१ ॥

संबभूवैव धर्मात्मा तया सार्द्धं बृहस्पति ।
उत्सृजन्तं तदा रेतो गर्भस्थः सोऽस्य भाषत ॥२,७४.४२ ॥

शुक्रं त्याक्षीश्च मा जीव द्वयोर्नेहास्ति संभवः ।
अमोघरेतास्त्वं वापि पूर्वं चाहमिहागतः ॥ २,७४.४३ ॥

शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः ।
उशिजस्य सुतं भ्रातुर्गर्भस्थं भगवानृषिः ॥ २,७४.४४ ॥

यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति ।
मामेवमुक्तवान्मोहात्तमो दीर्घं ग्रवेक्ष्यसि ॥ २,७४.४५ ॥

ततो दीर्घतमा नाम शापादृषिरजायत ।
अथौशिजो बृहत्कीर्तिर्बृहस्पतिरिबौजसा ॥ २,७४.४६ ॥

ऊर्द्ध्वरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे ।
गोधर्मं सौरभेयात्तु वृषभाच्छतवान्प्रभोः ॥ २,७४.४७ ॥

तस्य भ्राता पितृव्यस्तु चकार भवनं तदा ।
तस्मिन्हि तत्र वसति यदृच्छाभ्यागतो वृषः ॥ २,७४.४८ ॥

दर्शार्थमास्तृतान्दर्भाञ्चचार सुरभीसुतः ।
जग्राह तं दीर्घ तमा विस्फुरन्तं तु शृङ्गयोः ॥ २,७४.४९ ॥

स तेन निगृहीतस्तु न चचाल पदात्पदम् ।
ततोऽब्रवीद्वृषस्तं वै सुंच मां बलिनां वर ॥ २,७४.५० ॥

न मया सादितस्तात बलवांस्तद्विधः क्वचित् ।
त्र्यंबकं वहता देवं यतो जातोऽस्मि भूतले ॥२,७४.५१ ॥

सुंच मां बलिनां श्रेष्ठ प्रतिस्नेहं वरं वृणु ।
एवमुक्तोऽब्रवीदेनं जीवंस्त्वं मे क्व यास्यसि ॥२,७४.५२ ॥

तेन त्वाहं न मोक्ष्यामि परस्वादं चतुष्पदम् ।
ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह ॥ २,७४.५३ ॥

नास्माकं विद्यते तात पातकं स्तेयमेव च ।
भक्ष्याभक्ष्यं न जानीमः पेयापेयं च सर्वशः ॥ २,७४.५४ ॥

कार्या कार्यं च वै विप्र गम्यगम्यं तथैव च ।
न पाप्मानो वयं विप्र धर्मो ह्येष गवां श्रुतः ॥ २,७४.५५ ॥

गवां नाम स वे श्रुत्वा संभ्रान्तस्त ममुञ्चत ।
भक्त्या चानुश्रविकया गोसुतं वै प्रसादयन् ॥ २,७४.५६ ॥

प्रसादतो वृषेन्द्रस्य गोधर्मं जगृहेऽथ सः ।
मनसैव तदा दध्रे तद्विधस्तत्परायणः ॥ २,७४.५७ ॥

ततो यवीयसः पत्नीमौतथ्यस्याभ्यमन्यत ।
विचेष्टमानां रुदतीं दैवात्संमूढचेतनः ॥ २,७४.५८ ॥

अवलेपं तु तंमत्वा सुरद्वांस्तस्य नाक्षमत् ।
गोधर्म वै बलं कृत्वा स्नुषां स ह्यभ्यमन्यत ॥ २,७४.५९ ॥

विपर्ययं तु तं दृष्ट्वा शरद्वान्प्रविचिन्त्य च ।
भविष्यमर्थं ज्ञात्वा च महात्मा त्ववमत्य तम्॥२,७४.६०॥

प्रोवाच दीर्घतमसं क्रोधात्संरक्तलोचनः ।
गम्यागम्यं न जानीषे गोधर्मात्प्रार्थयन्स्रुषाम्॥२,७४.६१॥

दुर्वृत्तं त्वां त्यजाम्येष गच्छ त्वं स्वेन कर्मणा ।
यस्मात्त्वमन्धो वृद्धश्च भर्त्तव्यो दुरनुष्ठितः ॥ २,७४.६२॥

तेनासि त्वं परित्यक्तो दुराचारोऽसि मे मतः ।
                   सूत उवाच
कर्मण्यस्मिंस्ततः क्रूरे तस्य बुद्धिरजायत ॥२,७४.६३ ॥

निर्भर्त्स्य चैव बहुशो बाहुभ्यां परिगृह्य च ।
कोष्टे समुद्रे प्रक्षिप्य गङ्गांभसि समुत्सृजत् ॥ २,७४.६४ ॥

उह्यमानः समुद्रस्तु सप्ताहं श्रोतसा तदा ।
तं सस्त्रीको बलिर्नाम राजा धर्मार्थतत्त्ववित् ॥२,७४.६५ ॥

अपश्यन्मज्जमानं तु स्रोतसोभ्यासमागतम् ।
तं गृहीत्वा स धर्मात्मा बलिर्वैरोचनस्तदा ॥ २,७४.६६ ॥

अन्तःपुरे जुगोपैनं भक्ष्यैर्भोज्यैश्च तर्पयन् ।
प्रीतः स वै वरेणाथ च्छन्दयामास वै बलिम् ॥२,७४.६७ ॥

स च तस्माद्वरं वव्रे पुत्रार्थी दानवर्षभः ।
                  बलिरुवाच
संतानार्थं महाभाग भार्यायां मम मानद ॥२,७४.६८ ॥

पुत्रान्धर्मार्थसंयुक्तानुत्पादयितुमर्हसि ।
एवमुक्तस्तुतेनर्षिस्तथास्त्वित्युक्तवान्हितम् ॥२,७४.६९ ॥

सुदेष्णां नाम भार्यां स्वां राजास्मै प्राहिणोत्तदा ।
अन्धं वृद्धं च तं दृष्ट्वा न सा देवी जगाम ह ॥२,७४.७०॥

स्वां च धात्रेयिकां तस्मै भूषयित्वा व्यसर्जयत् ।
कक्षीवच्चक्षुषौ तस्यां शूद्रयोन्यामृषिर्वशी ॥२,७४.७१ ॥

जनया मास धर्मात्मा पुत्रावेतौ महौजसौ ।
कक्षीवच्चक्षुषौ तौ तु दृष्ट्वा राजा बलिस्तदा॥२,७४.७२॥

अधीतौ विधिवत्सम्य गीश्वरौ ब्रह्मवादिनौ ।
सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठतमावपि ॥२,७४.७३॥

ममैताविति होवाच बलिर्वैरोचनस्त्वृषिम् ।
नेत्युवाच ततस्तं तु ममैताविति चाब्रवीत् ॥२,७४.७४॥

उत्पन्नौ शूद्रयोनौ तु भवतः क्ष्मासुरोत्तमौ ।
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव ॥२,७४.७५॥

प्राहिणोदवमानीय शूद्रीं धात्रेयिकां मम ।
ततः प्रसादयामास पुनस्तमृषिसत्तमम् ॥ २,७४.७६ ॥

बलिर्भार्यां सुदेष्णा च भर्त्सयामास वै प्रभुः ।
पुनश्चैनामलङ्कृत्य ऋषये प्रत्यपादयत् ॥ २,७४.७७ ॥

तां स दीर्घतमा देवीमब्रवीद्यदि मां शुभे ।
दध्ना लवणमिश्रेण स्वभ्यक्तं नग्नकं तथा ॥ २,७४.७८ ॥

लेहिष्यस्यजुगुप्सन्ती ह्यापादतलमस्तकम् ।
ततस्त्वं प्राप्स्यसे देवि पुत्रांश्च मनसेप्सितान् ॥२,७४.७९॥

तस्य सा तद्वचो देवी सर्वं कृतवती तथा ।
अपानं च समासाद्य जुगुप्संती ह्यवर्जयत् ॥ २,७४.८० ॥

तमुवाच ततः सर्षिर्यस्ते परिहृतं शुभे ।
विनापानं कुमारं त्वं जनयिष्यसि पूर्वजम् ॥ २,७४.८१ ॥

ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह ॥
नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ॥ २,७४.८२ ॥

                   ऋषिरुवाच
तवापरधो देव्येष नान्यथा भविता तु वै ।
देवीदृशं च ते पौत्रमहं दास्यामि सुप्रते ॥२,७४.८३ ॥

तस्यापानं विना चैव योग्यभावो भविष्यति ।
तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वदमब्रवीत् ॥२,७४.८४ ॥

प्राशितं दधियत्तेऽद्य ममाङ्गाद्वै शुचिस्मिते ।
तेन ते पूरितो गर्भः पौर्णमास्यामिवोदधिः ॥२,७४.८५ ॥

भविष्यन्ति कुमारास्ते पञ्च देवसुतोपमाः ।
तेजस्विनःपराक्रान्ता यज्वानो धार्मिकास्तथा॥२,७४.८६।

ततोंऽगस्तु सुदेष्णाया ज्येष्ठपुत्रो व्यजायत ।
वङ्गस्तस्मात्कलिङ्गस्तु पुण्ड्रः सुह्मस्तथैव च ॥ २,७४.८७ ॥

वंशभाजस्तु पञ्चैते बलेः क्षेत्रेऽभवंस्तदा ।
इत्येते दीर्घतमसा बलेर्दत्ताः सुताः पुरा ॥ २,७४.८८ ॥

प्रजा ह्युपहतास्तस्य ब्रह्मणा कारणं प्रति ।
अपत्यमस्य दारेषु स्वेषु माभून्महात्मनः ॥ २,७४.८९ ॥

ततो मनुष्ययोन्यां वै जनयामास स प्रजाः ।
सुरभिर्दीर्घत मसमथ प्रीतो वचोऽब्रवीत् ॥ २,७४.९० ॥

विचार्य यस्माद्गोधर्मं त्वमेवं कृतवानसि ।
भक्त्याचानन्ययास्मासु मुने प्रीतास्मि तेन ते॥२,७४.९१ ॥

तस्मात्तव तमो दीर्घं निस्तदाम्यद्य पश्य वै ।
बार्हस्पत्यं च यत्तेऽन्यत्पापं संतिष्ठते तनौ ॥ २,७४.९२ ॥

जरामृत्युभयं चैव ह्याघ्राय प्रणुदामि ते ।
आघ्रातमात्रोऽसा पश्यत्सद्यस्तमसि नाशिते॥ २,७४.९३ ॥

आयुष्मांश्च युवा चैव चक्षुष्मांश्च ततोऽभवत् ।
गवा हृततमाः सोऽथ गौतमः समपद्यत ॥ २,७४.९४ ॥

कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिव्रजम् ।
यथोद्दिष्टं हि पित्राथ चचार विपुलं तपः॥२,७४.९५ ॥

ततः कालेन महता तपसा भावितः स वै ।
विधूय सानुजो दोषान्ब्राह्मण्यं प्राप्तवान्प्रभुः॥२,७४.९६ ॥

ततोऽब्रवीत्पिता त्वेनं पुत्रवानस्म्यहं प्रभो ।
सुपुत्रेण त्वया तात कृतार्थश्च यशस्विना ॥ २,७४.९७ ॥

युक्तात्मानं ततः सोऽथ प्राप्तवान्ब्रह्मणः क्षयम् ।
ब्राह्मण्यं प्राप्य कक्षीवान्सहस्रमसृजत्सुतान् ॥२,७४.९८ ॥

कूष्माण्डा गौतमास्ते वै स्मृताः कक्षीवतः सुताः ।
इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै ॥ २,७४.९९ ॥

समागमः समाख्यातः संतानश्चोभयोस्तथा ।
बलिस्तानभिषिच्येह पञ्च पुत्रानकल्मषान्॥२,७४.१००।

कृतार्थः सोऽपि योगात्मा योगमाश्रित्य च प्रभुः ।
अदृश्यः सर्वभूतानां कालाकाक्षी चरत्युत ॥ २,७४.१०१ ॥

तत्राङ्गस्य तु राजर्षे राजासीद्दधिवाहनः ।
सोऽपराधात्सुदेष्णाया अनपानोऽभवन्नृपः॥२,७४.१०२ ॥

अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः ।
पुत्रो दिविरथस्यासीद्विद्वान्धर्मरथो नृपः ॥२,७४.१०३ ॥

एते एक्ष्वाकवः प्रोक्ता भवितारः कलौ युगे ।
बृहद्बलान्वये जाता महावीर्यपराक्रमाः ॥ २,७४.१०४ ॥

शूराश्च कृतविद्याश्च सत्यसंधा जितेन्द्रियाः ।
अत्रानुवंशश्लोकोऽयं भविष्यज्ज्ञैरुदाहृतः ॥२,७४.१०५ ॥

इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति ।
सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ॥ २,७४.१०६॥

इत्येतन्मानवं क्षत्रमैलं च समुदात्दृतम् ।
अत ऊर्ध्वं प्रवक्ष्यामि मगधो यो बृहद्रथः ॥ २,७४.१०७ ॥

जरासंधस्य ये वंशे सहदेवान्वये नृपाः ।
अतीता वर्त्तमानाश्च भविष्याश्च तथा पुनः ॥२,७४.१०८ ॥

प्राधान्यतः प्रवक्ष्यामि गदतो मे निबोधत ।
संग्रामे भारते तस्मिन्सहदेवो निपातितः ॥२,७४.१०९ ॥

सोमापिस्तस्य तनयो राजर्षिः स गिरिव्रजे ।
पञ्चाशतं तथाष्टौ च समा राज्यमकारयत् ॥२,७४.११०॥

श्रुतश्रवाः सप्तषष्टिः समास्तस्य सुतोऽभवत् ।
अयुतायुस्तुषड्विंशद्राज्यं वर्षाण्यकारयत् ॥२,७४.१११ ॥

समाःशतं निरामित्रो महीं भुक्त्वा दिवं गतः ।
पञ्चाशतं समाःषट्च सुक्षत्रः प्राप्तवान्महीम्॥ २,७४.११२॥
____________________________
त्रयोविंशद्बृहत्कर्मा राज्यं वर्षाण्यकारयत् ।
सेनाजित्सांप्रतं चापि एता वै भोक्ष्यते स:॥ २,७४.११३ ॥

श्रुतञ्जयस्तु वर्षाणि चत्वारिंशद्भविष्यति ।
रिपुञ्जयो महाबाहुर्महाबुद्धिपराक्रमः ॥ २,७४.११४ ॥

पञ्जत्रिंशत्तु वर्षाणि महीं पालयिता नृपः ।
अष्टपञ्जाशतं जाब्दान्राज्ये स्थास्यति वै शुचिः॥ २,७४.११५ ॥

अष्टाविंशत्समाः पूर्णाः क्षेमो राजा भविष्यति ।
सुव्रतस्तुचतुःषष्टिं राज्यं प्राप्स्यति वीर्यवान्॥२,७४.११६ ॥

पञ्च वर्षाणि पूर्णानि धर्मनेत्रो भविष्यति ।
भोक्ष्यते नृपतिश्चेमा अष्टपञ्चाशतं समाः ॥२,७४.११७ ॥

अष्टत्रिंशत्समाराष्ट्रं सुश्रमस्य भविष्यति ।
चत्वारिंशद्दशाष्टौ च दृढसेनो भविष्यति॥२,७४.११८॥

त्रयस्त्रिंशत्तु वर्षाणि सुमतिः प्राप्स्यते ततः ।
चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः॥२,७४.११९॥

सत्यजित्पृथिवी राष्ट्रं त्र्यशीतिं भोक्ष्यते समाः ।
प्राप्येमं विश्वाजिच्चापि पञ्चविंशद्भविष्यति।२,७४.१२०।

अरिञ्जयस्तु वर्षाणां पञ्चाशत्प्राप्यते महीम् ।
द्वाविंशच्च नृपा ह्येते भवितारो बृहद्रथाः॥२,७४.१२१ ॥

पूर्मं वर्षसहस्रं वै तेषां राज्यं भविष्यति ।
बृहद्रथेष्वतीतेषु वीरहन्तृष्ववर्त्तिषु ॥२,७४.१२२ ॥

शुनकः स्वामिनं हत्वा पुत्रं समभिषेक्ष्यति ।
मिषतां क्षत्रियाणां हिप्रद्योतिं नृपतिं बलात्॥२,७४.१२३ ॥

स वै प्रणतसामन्तो भविष्येण प्रवर्त्तितः ।
त्रयोविंशत्समा राजा भविता स नरोत्तमः॥२,७४.१२४॥

चतुर्विंशत्समा राजा पालको भविता ततः ।
विशाखयूपो भविता नृपः पञ्चाशतं समाः॥२,७४.१२५॥

एकविंशत्समा राज्य मजकस्य भविष्यति ।
भविष्यति समा विंशत्तत्सुतो नन्दिवर्द्धनः ॥२,७४.१२६ ॥

अष्टत्रिंशच्छतं भाव्याः प्राद्योताः पञ्च ते नृपाः।
हत्वा तेषां यशः कृत्स्नं शिशुनागो भविष्यति॥२,७४.१२७।

वाराणस्यां सुतस्तस्य संयास्यति गिरिव्रजम् ।
शिशुनागश्च वर्षाणि चत्वारिंशद्भविष्यति॥२,७४.१२८॥

काकवर्णः सुतस्तस्य पट्त्रिंशच्च भविष्यति ।
ततस्तु विंशतिं राजा क्षेमधर्मा भवष्यति ॥२,७४.१२९॥

चत्वारिंशत्समा राष्ट्रं क्षत्रौजाः प्राप्स्यते ततः ।
अष्टत्रिंशत्समा राजाविधिसारो भविष्यति ॥२,७४.१३०॥

अजातशत्रुर्भविता पञ्चविंशत्समा नृपः ।
पञ्चत्रिंशत्समा राजा दर्भकस्तु भविष्यति॥२,७४.१३१ ॥

उदयी भविता तस्मात्त्रयस्त्रिंशत्समा नृपः ।
स वै पुरवरं राजा वृथिव्यां कुसुमाह्वयम् ॥२,७४.१३२॥

गगाया दक्षिणे कूले चतुर्थेऽह्नि कारिष्यति ।
चत्वारिशत्समा भाव्यो राजा वै नन्दिवर्द्धनः॥२,७४.१३३।

चत्वारिशत्त्रयश्चैव सहानन्दिर्भविष्यति ।
भविष्यन्ति च वर्षाणि षष्ट्युत्तरशतत्रयम् ॥२,७४.१३४॥

शिशुनागा दशैवैते राजानः क्षत्रबन्धवः ।
एतैः सार्द्धं भविष्यन्तितावत्कालं नृपाः परे॥२,७४.१३५ ॥

एक्ष्वाकवश्चतुर्विंशत्पञ्चालाः पञ्चविंशतिः ।
कालकास्तु चतुर्विंशच्चतुर्विंशत्तु हैहयाः॥२,७४.१३६ ॥

द्वात्रिंशदेकलिङ्गास्तु पञ्चविंशत्तथा शकाः ।
कुरवश्चापि षट्त्रिंशदष्टाविंशति मैथिलाः ॥२,७४.१३७ ॥

शूरसेनास्त्रयोविंशद्वीतिहोत्राश्च विंशतिः ।
तुल्यकालं भविष्यन्ति सर्वं एव महीक्षितः॥ २,७४.१३८ ॥

महानन्दिसुतश्चापि शूद्रायाः कालसंवृतः ।
उत्पत्स्यते महा पद्मः सर्वक्षत्रान्तकृन्नृपः ॥२,७४.१३९॥

ततः प्रभृति राजानो भविष्यः शूद्रयोनयः ।
एकराट्स महापद्म एकच्चत्रो भविष्यति ॥२,७४.१४०॥
___________________________________________
अष्टाशीति तु वर्षाणि पृथिवीं पालयिष्यति ।
सर्वक्षत्रं समुद्धृत्यभाविनोर्ऽथस्य वै बलात्॥२,७४.१४१।

तत्पश्चात्तत्सुता ह्यष्टौ समाद्वादश ते नृपाः ।
महापद्मस्य पर्याये भविष्यन्ति नृपाः क्रमात्॥२,७४.१४२।
______________________________________
उद्धरिष्यति तान्सर्वान्कौटिल्यो वै द्विजर्षभः ।
भुक्त्वा महीं वर्षशतं नरेद्रः स भविष्यति ॥२,७४.१४३॥

चन्द्रगुप्तं नृपं राज्ये कौटिल्यः स्थापयिष्यति ।
चतुर्विंशत्समा राजा चन्द्रगुप्तो भविष्यति ॥२,७४.१४४ ॥

भविता भद्रसारस्तु पञ्चविंशत्समा नृपः ।
षट्त्रिंशत्तु समा राजा अशोकानां च तृप्तिदः।२,७४.१४५।

तस्य पुत्रः कुलालस्तु वर्षाण्यष्टौ भविष्यति ।
कुशालसूनुरष्टौ च भोक्ता वै बन्धुपालितः ॥२,७४.१४६ ॥

बन्धुपालितदायादो भविता चेन्द्रपालितः ।
भविता सप्त वर्षाणि देववर्मा नराधिपः ॥२,७४.१४७ ॥

राजा शतधनुश्चापि तस्य पुत्रो भविष्यति ।
बृहद्रथश्च वर्षाणि सप्त वै भविता नृपः।२,७४.१४८

इत्येते नव मौर्या वै भोक्ष्यन्ति च वसुंधराम् ।
सप्तत्रिंशच्छतं पूर्णं तेभ्यः शुङ्गो गमिष्यति।२,७४.१४९ ॥

पुष्पमित्रस्तु सेनानीरुद्धृत्यतु बृहद्रथम् ।
कारयिष्यति वै राज्यं समाः षष्टिं स चैव तु॥२,७४.१५० ॥

अग्निमित्रो नृपश्चाष्टौ भविष्यति समा नृपः ।
भविता चापि सुज्येष्टः सप्त वर्षाणि वै ततः।२,७४.१५१ ॥

वसुमित्रस्ततो भाव्यो दशवर्षाणि पार्थिवः ।
ततो भद्रः समे द्वे तु भविष्यति नृपश्च वै ॥२,७४.१५२ ॥
_____________________________________
भविष्यति समास्तस्मात्तिस्र एव पुलिन्दकः ।
राजा घोषस्ततश्चापि वर्षाणि भविता त्रयः ॥२,७४.१५३

सप्त वै वज्र मित्रंस्तु समा राजा ततः पुनः ।
द्वात्रिंशद्भविता वापि समा भागवतो नृपः ॥२,७४.१५४ ॥

भविष्यति सुतस्तस्य देवभूमिः समा दश ।
दशैते शुङ्गराजानो भोक्ष्यन्तीमां वसुंधराम् ॥२,७४.१५५ ॥

शतं पूर्मं दश द्वे च तेभ्यः कण्वं गमिष्यति ।
अमात्यो वसुदेवस्तु बाल्याद्व्यसनिनं नृपम्॥२,७४.१५६ ॥

देवभूमिं ततो हत्वा शुङ्गेषु भविता नृपः ।
भविष्यति समा राजा पञ्च कण्वायनस्तु सः॥ २,७४.१५७ ॥

भूमिमित्रः सुतस्तस्य चतुर्विंशद्भविष्यति ।
भविता द्वादश समास्तस्मान्नारायणो नृपः॥२,७४.१५८ ॥

सुशर्मा तत्सुतश्चापि भविष्यति चतुःसमाः ।
कण्वायनास्तु चत्वारश्चत्वारिंशच्च पञ्च च॥२,७४.१५९ ॥

समा भोक्ष्यन्ति वृथिवीं पुनरन्ध्रान्गमिष्यति ।
कण्वायनमथोद्धृत्य सुशर्माणं प्रसह्य तम् ॥२,७४.१६० ॥

सिंधुको ह्यन्ध्रजातीयः प्राप्स्यतीमां वसुंधराम् ।
त्रयोविंशत्समा राजा सिंधुको भविता त्वथ॥२,७४.१६१ ॥

कृष्णो भ्रातास्य वर्षाणि सोऽस्माद्दश भविष्यति ।
श्रीशान्तकर्णिर्भविता तस्य पुत्रस्तु वै महान्॥२,७४.१६२ ॥

पञ्चाशत्तु समाः षट्च शान्तकर्णिर्भविष्यति ।
आपोलवोद्वादश वै तस्य पुत्रो भविष्यति ॥२,७४.१६३ ॥

चतुर्विंशत्तु वर्षाणि पटुमांश्च भविष्यति ।
भवितानिष्टकर्मा तु वर्षाणां पञ्चविंशतिम्॥ २,७४.१६४ ॥

ततः संवत्सरं पूर्णं हालो राजा भविष्यति ।
पञ्चपत्तल्लको नाम भविष्यति महाबलः ॥२,७४.१६५॥

भाव्यःपुरीषभीरुस्तु समाः सोऽप्येकविंशतिम् ।
शातकर्णिर्वर्षमेकं भविष्यति नराधिपः ॥२,७४.१६६॥

अष्टविंशतिवर्षाणि शिवस्वातिर्भविष्यति ।
राजा च गौतमी पुत्र एकविंशत्समा नृपः ॥२,७४.१६७॥

एकोनविंशति राजा यज्ञः श्रीशातकर्ण्यथ ।
षडेव भविता त्समाद्विजयस्तु समानृपः ॥२,७४.१६८॥

देडश्रीशातकर्णी च तस्य पुत्रः समास्त्रयः ।
पुलोमारिः समाः सप्त ततश्चैषां भविष्यति॥२,७४.१६९ ॥

इत्येते वै नृपास्त्रिंशदन्ध्रा भोक्ष्यन्ति वै महीम् ।
समाःशतानि चत्वारि पञ्चाशत्षट्तथैव च॥२,७४.१७० ॥

           (दश आभीर राजाओं का वर्णन )
________________________________________
अन्ध्राणां संस्थिताः पञ्च तेषां वंश्याश्च ये पुनः ।
सप्तैव तु भविष्यन्ति दशाभीरास्ततो नृपाः॥ २,७४.१७१

सप्त गर्दभिनश्चापि ततोऽथ दश वै शकाः ।
यवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश॥२,७४.१७२ ॥

त्रयोदश गुरुण्डाश्च मौना ह्येकादशैव तु ।
अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतञ्च वै ॥ २,७४.१७३ ॥
______________________________________
सप्तषष्टिं च वर्षाणि दश आभीरा: ततो नृपाः ।
सप्त गर्दभिनश्चैव भोक्ष्यन्तीमां द्विसप्ततिम् ॥ २,७४.१७४ ॥

शतानि त्रीण्यशीतिं च भोक्ष्यन्ति वसुधां शकाः ।
आशीती द्वे च वर्षाणि भोक्तारो यवना महीम् ॥ २,७४.१७५ ॥

पञ्चवर्षशतानीह तुषाराणां मही स्मृता ।
शतान्यर्द्धचतुर्थानि भवितारस्त्रयोदश ॥ २,७४.१७६ ॥

गुरुण्डा वृषलैः सार्द्धं भोक्ष्यन्ते म्लेच्छजातयः ।
शतानि त्रीणि भोक्ष्यन्ते मौना एकादशैव तु ॥ २,७४.१७७ ॥

तेषु च्छिन्नेषु कालेन ततः किलकिलो नृपः ।
ततः किलकिलेभ्यश्च विन्ध्यशक्तिर्भविष्यति ॥ २,७४.१७८ ॥

समाः षण्णवतिं चैव पृथिवीं तु समेष्यति ।
नृपान्वैदिशकांश्चाथ भविष्यांस्तु निबोधत ॥ २,७४.१७९ ॥

शेषस्य नागराजस्य पुत्रः सुर पुरञ्जयः ।
भोगी भविष्यते राजा नृपो नागकुलोद्वहः ॥ २,७४.१८० ॥

सदाचन्द्रस्तु चन्द्राशुर्द्वितीयो नखवांस्तथा ।
धनधर्मा ततश्चापि चतुर्थो वंशजः स्मृतः ॥ २,७४.१८१ ॥

भूतिनन्दस्ततश्चापि वैदिशे तु भविष्यति ।
तस्य भ्राता यवीयांस्तु नाम्ना नन्दियशाः किल ॥ २,७४.१८२ ॥

तस्यान्वयो भविष्यन्ति राजानस्ते त्रयस्तु वै ।
दैहित्रः शिशिको नाम पूरिकायां नृपोऽभवत् ॥ २,७४.१८३ ॥

विन्ध्यशक्तिसुतश्चापि प्रवीरो नाम वीर्यवान् ।
भोक्ष्यते च समाः षष्टिं पुरीं काञ्चनकां च वै ॥ २,७४.१८४ ॥

यक्ष्यते वाजपेयैश्च समाप्तवरदक्षिणैः ।
तस्य पुत्रास्तु चत्वारो भविष्यन्ति नराधिपाः ॥ २,७४.१८५ ॥

विन्ध्यकानां कुलानां ते नृपा वैवाहिकास्त्रयः ।
सुप्रतीको गम्भीरश्च समा भोक्ष्यति विंशतिम् ॥ २,७४.१८६ ॥

शङ्कमानोऽभवद्राजा महिषीणां महीपतिः ।
पुष्पमित्रा भविष्यन्ति षट्स्त्रिमित्रास्त्रयोदश ॥ २,७४.१८७ ॥

मेकलायां नृपाः सप्त भविष्यन्ति च सप्ततिः ।
कोमलायां तु राजानो भविष्यन्ति महाबलाः ॥२,७४.१८८ ॥

मेघा इति समाख्याता बुद्धिमन्तो नवैव तु ।
नैषधाः पार्थिवाः सर्वे भविष्यन्त्यामनुक्षयात् ॥ २,७४.१८९ ॥

नलवंशप्रसूतास्ते वीर्यवन्तो महाबलाः ।
मगधानां महावीर्यो विश्वस्फाणिर्भविष्यति ॥२,७४.१९० ॥

उत्साद्य पार्थिवान्सर्वान्सोऽन्यान्वर्णान्करिष्यति ।
कैवर्त्तान्मद्रकांश्चेव पुलिन्दान्ब्राह्मणांस्तथा ॥२,७४.१९१ ॥

स्थापयिष्यन्ति गजानो नानादेशेषु ते जनान् ।
विश्वस्फाणिर्महासत्त्वो युद्धे विष्णुसमप्रभः ॥२,७४.१९२ ॥

विश्वस्फाणिर्नरपतिः क्लीबाकृतिरिवोच्यते ।
उत्सादयित्वा क्षत्रं तु क्षत्रमन्यत्करिष्यति ॥२,७४.१९३ ॥

नव नागास्तु भोक्ष्यति पुरीं चंपावतीं नृपाः ।
मथुरां च पुरा रम्यां नागा भोक्ष्यन्ति सप्त वै ॥२,७४.१९४ ॥

अनुगङ्गाप्रयागं च साकेतं मगधांस्तथा ।
एताञ्जनपदान्सर्वान्भोक्ष्यन्ते सप्तवंशजाः ॥२,७४.१९५ ॥

नैष धान्य दुकांश्चैव शैशीतान् कालतोयकान् ।
एताञ्जनपदान्सर्वान्भोक्ष्यन्ते मणिधान्यजान् ॥ २,७४.१९६ ॥

कोशलांश्चान्ध्रपैण्ड्रांश्च ताम्रलिप्तान्ससागरान् ।
चंपां चैव पुरीं रम्यां भोक्ष्यन्ते देवरक्षिताः ॥२,७४.१९७ ॥

कलिङ्गा महिषाश्चैव महेन्द्रनिलयाश्च ये ।
एताञ्जनपदान्सर्वान् पालयिष्यति वै गुहः ॥२,७४.१९८ ॥

स्त्रीराष्ट्रभोजकांश्चैव भोक्ष्यते कनकाह्वयः ।
तुल्यकालं भविष्यन्ति सर्वे ह्यते महीक्षितः ॥ २,७४.१९९ ॥

अल्पप्रसादा ह्यनृता महाक्रोधा ह्यधार्मिकाः ।
भविष्यन्तीह यवना धर्मतः कामतोर्ऽथतः ॥ २,७४.२०० ॥

नैव मूर्द्धाभिषिक्तास्ते भविष्यन्ति नराधिपाः ।
युगदोषदुराचारा भविष्यन्ति नृपास्तु ते ॥ २,७४.२०१ ॥

भविष्यन्तीह पयाये कालेन वृथिवीक्षितः ।
विहीनास्तु भविष्यन्ति धर्मतः काम तोर्ऽथतः ॥ २,७४.२०२ ॥

तैर्विमिश्रा जनपदा म्लेच्छाचाराश्च सर्वशः ।
विपर्ययेण वर्तन्ते नाशायिष्यन्ति वै प्रजाः ॥ २,७४.२०३ ॥

लुब्धा अनृतवाचश्च भवितारस्तदा नृपाः ।
तेषां वर्त्तति पर्याये बहुस्त्रीके युगे तदा ॥ २,७४.२०४ ॥

लवाल्लवं भ्रश्यमाना आयुरूपबलश्रुतैः ।
तथा गतासु वै काष्ठं प्रजासु जगतीश्वराः ॥ २,७४.२०५ ॥

राजानः संप्रणश्यति कालेनोपहतास्तदा ।
कल्किना व्याहताः सर्वे म्लेच्छा यास्यन्ति संक्षयम् ॥ २,७४.२०६ ॥

अधार्मिकाश्च येऽत्यर्थं पाखण्डाश्चैव सर्वशः ।
प्रनष्टे नृपशब्दे च संध्याशिष्टे कलौ युगे ॥ २,७४.२०७ ॥

किञ्चिच्छिष्टाः प्रजास्ता वै धर्मे नष्टे परिग्रहाः ।
असाधना हतस्वाश्च व्याधिशोकनिपीडिताः ॥ २,७४.२०८ ॥

अनावृष्टिहताश्चैव परस्परवधेन च ॥२,७४.२०९ ॥

अनाधाराः परित्रस्ता वार्तामुत्सृज्य दुःखिताः ।
त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः॥ २,७४.२१०॥

एवंरूपेषु नष्टेषु प्रजास्त्यक्त्वा गृहाणि तु ।
नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनः ॥२,७४.२११ ॥

वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः ।
सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा ॥२,७४.२१२ ॥

सरितः सागरानूपान्सेवन्ते पर्वतानथ ।
अङ्गान्कलिङ्गान्वङ्गांश्च काश्मीरान्काशिकोशलान् ॥ २,७४.२१३ ॥

ऋषिकान्तागिरिद्रोणीः संश्रयिष्यन्ति मानवाः ।
कृत्स्नं हिमवतः पृष्ठं कूलं च लवणांभसः ॥२,७४.२१४ ॥

अरण्यमभिपत्स्यन्ते आर्या म्लेच्छजनैः सह ।
मृगैर्मीनैर्विहङ्गैश्च श्वापदैश्चेक्षुभिस्तथा ॥ २,७४.२१५ ॥

मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ।
चीरं पर्णं च विविधं वल्कलान्यजिनानि च ॥२,७४.२१६ ॥

स्वयं कृत्वा पिधास्यन्ति यथा मुनिजनस्तथा ।
बीजान्नानि तथा निम्नेष्वी हन्तः काष्ठशङ्कुभिः ॥ २,७४.२१७ ॥

अजैडकं खरोष्ट्रं च पालयिष्यन्ति यत्नतः ।
नदीर्वत्स्यन्ति तोयार्थे नूनमाश्रित्य मानवाः॥२,७४.२१८ ॥

पार्थिवा व्यवहारेण विबाधन्ते परस्परम् ।
बहुमन्याः प्रजाहीनाः शौचाचारविवर्जिताः ।२,७४.२१९ ॥

एवं भविष्यन्ति नरास्तदाधर्म व्यवस्थिताः ।
हीनान्दीनांस्तथाधर्मान्प्रजा समनुवर्त्स्यति ।२,७४.२२० ॥

आयुस्तदा त्रयोविंशन्न कश्चिदतिवर्तते ।
दुर्बला विषयग्लाना जराया संपरिप्लुताः।२,७४.२२१ ॥

पत्रमूलफलाहाराश्चीरकृष्णाजिनांबराः ।
वृत्त्यर्थमभिलिप्स्यन्तश्चरिष्यन्ति वसुंधराम्।२,७४.२२२ ॥

एतत्कालमनुप्राप्ताः प्रजाः कलियुगान्तके ।
क्षीणे कलियुगे तस्मिन्दिव्ये वर्षसहस्रके।
२,७४.२२३ ॥

निःशेषास्तु भविष्यन्ति सार्द्धं कलियुगेन तु ।
स संध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यते ॥२,७४.२२४ ॥

यदा यन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती ।
एकराशौ भविष्यन्ति तदा कृतयुगं भवेत् ॥२,७४.२२५ ॥

एष वंशक्रमः कृत्स्नः कीर्तितो वो यथाक्रमम् ।
अतीता वर्तमानाश्च तथैवानागताश्च ये ॥२,७४.२२६ ॥

महानन्दाभिषेकान्त जन्म यावत्परीक्षितः ।
एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥ २,७४.२२७ ॥

प्रमाणं वै तथा वक्तुं महापद्मोत्तरं च यत् ।
अन्तरं च शतान्यष्टौ षट्त्रिंशच्च समाः स्मृताः ॥ २,७४.२२८ ॥

एतत्कालान्तर भाव्यमन्ध्रान्ताद्याः प्रकीर्त्तिताः ।
भविष्यैस्तत्र संख्याताः पुराणज्ञैः श्रुतार्षिभिः ॥ २,७४.२२९ ॥

सप्तर्षयस्तदा प्राप्ताः पित्र्ये पारीक्षिते शतम् ।
सप्तविंशैः शतैर्भाव्या अन्ध्राणां तेऽन्वयाः पुनः ॥ २,७४.२३० ॥

सप्तविंशतिपर्यन्ते कृत्स्ने नक्षत्रमण्डले ।
सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतंशतम् ॥ २,७४.२३१ ॥

सप्तर्षीणां युगं त्वेतद्दिव्यया संख्यया स्मृतम् ।
मासा दिव्याः स्मृताः षट्च दिव्याब्दाश्चैव सप्त हि ॥ २,७४.२३२ ॥

तेभ्यः प्रवर्तते कालो दिव्यः सप्तर्षिभिस्तु तैः ।
सप्तर्षीणां तु यौ पूर्वौ दृश्येते उत्तरादिशि ॥२,७४.२३३ ॥

तयोर्मध्ये च नक्षत्रं दृश्यते यत्समं दिवि ।
तेन सप्तर्षयो युक्ता ज्ञेया व्योम्नि शतं समाः॥ २,७४.२३४ ॥

नक्षत्राणामृषीणां च भोगस्यैतन्निदर्शनम् ।
सप्तर्षयो ह्यथायुक्ताः काले परीक्षिते शतम् ॥ २,७४.२३५ ॥

अन्ध्रांशे सचतुर्विंशे भविष्यन्ति शतं समाः ।
इमास्तदा तु प्रकृतीर्व्यापत्स्यन्ते प्रजा भृशम् ॥ २,७४.२३६ ॥

अनृतोपहताः सर्वा धर्मतः कामतोर्ऽथतः ।
श्रौतस्मार्त्ते प्रशिथिले धर्मे वर्णाश्रमे तदा ॥ २,७४.२३७ ॥

संकरं दुर्बलात्मानः प्रतियास्यन्ति मोहिताः ।
संसक्ताश्च भविष्यन्ति शूद्राः सार्द्धं द्विजातिभिः ॥ २,७४.२३८ ॥

ब्राह्मणाः शूद्रयष्टारः शूद्रा वै मन्त्रयोनयः ।
उपस्थास्यन्ति तान्विप्रांस्तदा दौर्वृत्त्यलिप्सवः ॥ २,७४.२३९ ॥

लवाल्लवं भ्रश्यमानाः प्रजाः सर्वाः क्रमेण तु ।
क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये ॥ २,७४.२४० ॥

यस्मिन्कृष्णो दिव्यं यातस्त स्मिन्नेव तदा दिने ।
प्रतिपन्नः कलियुगस्तस्य संख्यां निबोधत ॥ २,७४.२४१ ॥

सहस्राणां शतानीह त्रीणि मानुषसंख्यया ।
षष्टिं चैव सहस्राणि वर्षाणां तूच्यते कलिः ।२,७४.२४२ ॥

दिव्यं वर्षसहस्रं तु तत्संध्यांशे हि कीर्तिते ।
निःशेषे च तदा तस्मिन्कृतं वै प्रतिपत्स्यते ।२,७४.२४३ ॥

एलश्चेक्ष्वाकुवंशश्च सह भेदैः प्रकीर्तितौ ।
इक्ष्वाकोस्तु समृतं क्षत्त्रं सुमित्रान्तं विवस्वतः ॥ २,७४.२४४ ॥

ऐलं क्षत्त्रं क्षेमकान्तं सोम वंशविदो विदुः ।
एते विवस्वतः पुत्राः कीर्तिताः कीर्त्तिवर्द्धनाः ॥ २,७४.२४५ ॥

अतीता वर्तमानाश्च तथैवानागताश्च ये ।
ब्राह्मणाः क्षत्त्रिया वैश्यः शूद्राश्चैवात्र ये स्मृताः ॥ २,७४.२४६ ॥

युगेयुगे महात्मानः समतीताः सहस्रशः ।
बहुत्वान्नामधेयानां परिसंख्या कुलेकुले ॥ २,७४.२४७ ॥

पुनरुक्तिबहुत्वाच्च न मया परिकीर्त्तिता ।
वैवस्वतंऽतरे ह्यस्मिन्न निमिवंशः समाप्यते ।२,७४.२४८ ॥

एतस्यां तु युगाख्यायां यतः क्षत्त्रं प्रपत्स्यते ।
तथा हि कथयिष्यामि गदतो मे निबोधत ॥ २,७४.२४९ ॥

देवापिः पौरवो राजा ऐक्ष्वाकुश्चैव यो मरुः ।
माहायोगबलोपेतौ कलापग्राममास्थितौ ॥ २,७४.२५० ॥

एतौ क्षत्त्रप्रणेतारौ चतुर्विंशे चतुर्युगे ।
सुवर्चा नाम पुत्रस्तु इक्ष्वाकोस्तु भविष्यति ।२,७४.२५१ ॥

नवविंशे युगे सोऽथ वंशस्यादिर्भविष्यति ।
देवापेश्च सपौलस्तु एलादिर्भविता नृपः।२,७४.२५२ ॥

क्षत्रप्रवर्त्तकौ ह्येतौ भविष्येते चतुर्युगे ।
एवं सर्वत्र विज्ञेयं संतानार्थे तु लत्रणम् ।२,७४.२५३ ॥

क्षीणे कलियुगे तस्मिन्भविष्ये त कृते युगे ।
सप्तर्षिभिस्तु तैः सार्द्धमाद्ये त्रेतायुगे पुनः ॥२,७४.२५४ ॥

गोत्राणां क्षत्रियाणां च भविष्येते प्रवर्त्तकौ ।
द्वापरांशेन तिष्ठन्ति क्षत्रिया ऋषिभिः सह ॥२,७४.२५५ ॥

भविष्ये तु ततः सर्गे काले कृतयुगे पुनः ।
बीजार्थं ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः ॥२,७४.२५६ ॥

एवमेव तु सर्वेषु तिष्ठन्तीहासुरेषु वै ।
सप्तर्षयो नृपैः सार्द्धं संतानार्थं युगेयुगे ॥२,७४.२५७ ॥

क्षत्रस्यैव समुच्छेदसंबन्धो वै द्विजैः स्मृतः ।
मन्वन्तराणां सप्तानां संतानश्च श्रुतश्च ते ॥२,७४.२५८ ॥

परस्पराद्युगानां च ब्रह्मक्षत्रस्य चोद्भवः ।
यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः ॥२,७४.२५९ ॥

सप्तर्षयो विदुस्तेषां दीर्घायुष्ट्वाद्भवाभवौ ।
एतेन क्रमयोगेन ऐलेक्ष्वाक्वन्वया द्विजाः ॥२,७४.२६० ॥

उत्पद्यमानास्त्रेतायां क्षीयमाणाः कलौ पुनः ।
अनुयान्ति युगाख्यां तु यावन्मन्वन्तरक्षयः ॥२,७४.२६१ ॥

जामदग्न्येन रामेण क्षत्रे निरवशेषिते ।
कृतेयं संकुला सर्वा क्षत्रियैर्वसुधाधिपैः ॥२,७४.२६२ ॥

द्विपंशकारणञ्चैव कीर्तयिष्ये निबोधत ।
ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्त्तते ॥२,७४.२६३ ॥

राजानः श्रेणिबद्धास्तु तथान्ये क्षत्रिया नृपाः ।
एलवंशस्य ये ख्यातास्तथैवेक्ष्वाकवो नृपाः॥२,७४.२६४ ॥

तेषामेकशतं पूर्णं कुलानामभिषेकितम् ।
तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः॥२,७४.२६५ ॥

भजते त्र्यंशकं क्षत्त्रं चतुर्थात्त द्यथा दिशम् ।
तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत ॥२,७४.२६६ ॥

शतं वै प्रतिविन्ध्यानां शतं नागाः सहैहयाः ।
धृत राष्ट्रश्चैकशतमशीतिर्जनमेजयाः ॥२,७४.२६७ ॥

शतं च ब्रह्मदत्तानां शारिणां विरिणां शतम् ।
ततः शतं तु पौलानां श्वेतकाश्य कुशादयः ॥२,७४.२६८ ॥

ततोऽपरे सहस्रं वै येऽतीताः शशविन्दवः ।
ईजिरे चाश्वमेधैस्ते सर्वे नियुतदक्षिणैः ॥ २,७४.२६९ ॥

एवं राजर्षयोऽतीता शतशोऽथ सहस्रशः ।
मनोर्वैवस्वतस्यास्मिन्वर्त्तमानेंऽतरे तु ये ॥ २,७४.२७० ॥

तेषां निबोधतोत्पन्ना लोके संततयः स्मृताः ॥
न शक्येविस्तरस्तासां संततीनां परस्परम् ॥२,७४.२७१ ॥

तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि ।
अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेन्तरे ॥ २,७४.२७२ ॥

एतै राजर्षिभिः सार्द्धं शष्टायास्ता निबोधत ।
चत्वारिंशत्त्रयश्चैव भविष्याः सह राजभिः॥ २,७४.२७३ ॥

युगाख्यानाव शिष्टास्तु ततो वैवस्वतक्षयः ।
एतद्वः कथितं सर्वे समासव्यासयोगतः ॥ २,७४.२७४ ॥

पुनरुक्तिबहुत्वाच्च न शक्य तु युगैः सह ।
एते ययातिपुत्राणां पञ्च वंशा विशां हिताः। २,७४.२७५ ॥

कीर्त्तिताश्च व्यतीता ये ये लोकान्धारयन्त्युत ।
लभते च वरान्पञ्च दुर्लभा निह लौकिकान् ।२,७४.२७६।

आयुः कीर्त्तिं धनं पुत्रान्स्वर्गं चानन्त्यमश्नुते ।
धारणाच्छ्रवणाच्चैव पञ्चवंशस्य धीमतः॥ २,७४.२७७ ॥

इत्येष वो मया पादस्तृतीयः कथितो द्विजाः ।
विस्तरेणानुपूर्व्या च किं भूयो वर्णयाम्यहम्॥२,७४.२७८ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे वंशानुवर्णनं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४॥

_________________________    

           गोप रूप में विष्णु का अवतरण

मानुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः।
गोपायन यः कुरुते जगतः सर्वकालिकम्॥२,७२.१२

ब्रह्माण्ड पुराण मध्यम भाग का ७२ वें  अध्याय का १२ वाँ श्लोक...
__________________________________



                        सूत उवाच
सात्त्वताज्जज्ञिरे पुत्राः कौशल्यायां महाबलाः ।
भजमानो भजिर्द्दिव्यो वृष्णिर्देवावृधोऽन्धकः ॥ २,७१.१ ॥

महाभोजश्च विख्यातो ब्रह्मण्यस्सत्यसंगरः ।
तेषां हि सर्गाश्चत्वारः शृणुध्वं विस्तरेण वै ॥ २,७१.२ ॥

भजमानस्य सृंजय्यो बाह्यका चोपवाह्यका ।
सृंज यस्य सुते द्वे तु बाह्यके ते उदावहत् ॥ २,७१.३ ॥

तस्य भार्ये भगिन्यौ ते प्रसूते तु सुतान्बहून् ।
निम्लोचिः किङ्कणश्चैव धृष्टिः पर पुरञ्जयः ॥ २,७१.४ ॥

ते बाह्यकाया सृंजय्या भजमानाद्विजज्ञिरे ।
अयुताजित्सहस्राजिच्छताजिदिति नामतः ॥ २,७१.५ ॥

बाह्यकायां भगिन्यां ते भजमानाद्विजज्ञिरे ।
तेषां देवावृधो राजा चचार परमं तपः ।
पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह ॥ २,७१.६ ॥

संयोज्या त्मानमेवं स पर्णाशजलमस्पृशत् ॥ २,७१.७ ॥

सा चोपस्पर्शनात्तस्य चकार प्रियमापगा ।
कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा ॥ २,७१.८ ॥

चिन्तयाभिपरीताङ्गी जगामाथ विनिश्चयम् ।
नाभिगच्छामि तां नारीं यस्यामेवंविधः सुतः ॥ २,७१.९ ॥

भवेत्सर्वगुणोपेतो राज्ञो देवावृधस्य हि ।
तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता ॥ २,७१.१० ॥

जज्ञे तस्याः स्वयं हृत्स्थो भावस्तस्य यथेरितः ।
अथ भूत्वा कुमारी तु सा चिन्तापरमेव च ॥ २,७१.११ ॥

वरयामास राजानं तामियेष स पार्थिवः ।
तस्यामाधत्त गर्भे स तेजस्विनमुदारधीः ॥ २,७१.१२ ॥

अथ सा नवमे मासि सुषुवे सरिता वरा ।
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधत्तदा ॥ २,७१.१३ ॥

तत्र वंशे पुराणज्ञा गाथां गायन्ति वै द्विजाः ।
गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः ॥ २,७१.१४ ॥

यथैव शृणुमो दूरात्सपंश्यामस्तथान्तिकात् ।
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृथः समः ॥ २,७१.१५ ॥

पुरुषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः ।
येमृतत्वमनुप्राप्ता बब्रोर्देवावृधादपि ॥ २,७१.१६ ॥

यज्वा दानपतिर्धीरो ब्रह्मण्यः सत्यवाग्बुधः ।
कीर्त्तिमांश्च महाभोजः सात्त्वतानां महारथः ॥ २,७१.१७ ॥

तस्यान्ववायः सुमहान्भोजा ये भुवि विश्रुताः ।
गान्धारी चैव माद्री च धृष्टैर्भार्ये बभूवतुः ॥ २,७१.१८ ॥
______________________________
गान्धारी जनयामास सुमित्रं मित्रनन्दनम् ।
साद्री युधाजितं पुत्रं ततो मीढ्वांसमेव च॥२,७१.१९॥

अनमित्रं शिनं चैव ताबुभौ पुरुषोत्तमौ ।
अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ॥ २,७१.२० ॥

प्रसेनश्च महाभागः सत्राजिच्च सुताबुभौ ।
तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् 
२,७१.२१॥

स कदाचिन्निशापाये रथेन रथिनां वरः ।
तोयं कूलात्समुद्धर्तुमुपस्थातुं ययौरविम् ॥२,७१.२२ ॥

तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः ।
सुस्पष्टमूर्त्तिर्भगवांस्तेजोमण्डलवान्विभुः ॥२,७१.२३ ॥

अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ।
यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषां पते ॥२,७१.२४ ॥

तेजोमण्डलिनं चैव तथैवाप्यग्रतः स्थितम् ।
को विशेषो विवस्वंस्ते सख्येनोपगतस्य वै ॥२,७१.२५ ॥

एतच्छ्रुत्वा स भगवान्मणिरत्नं स्यमन्तकम् ।
स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा ॥२,७१.२६ ॥

ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ।
प्रीतिमानथ तं दृष्ट्वा मुहूर्त्तं कृतवान्कथाम् ॥२,७१.२७ ॥

तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ।
प्रोवाचाग्निसवर्णं त्वां येन लोकः प्रपश्यति ॥२,७१.२८ ॥

तदेतन्मणिरत्नं मे भगवन्दातुमर्हसि ।
स्यमं तकं नाममणिं दत्तवांस्तस्य भास्करः ॥२,७१.२९ ॥

स तमामुच्य नगरीं प्रविवेश महीपतिः ।
विस्मापयित्वाथ ततः पुरीमन्तःपुरं ययौ ॥२,७१.३० ॥

स प्रसेनाय तद्दिव्यं मणिरत्नं स्यमन्तकम् ।
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम् ॥ २,७१.३१ ॥

स्यमन्तको नाम मणिर्यस्मिन्राष्ट्रे स्थितो भवेत् ।
कामवर्षी च पर्जन्यो न च व्याधिभयं तथा ॥२,७१.३२ ॥

लिप्सां चक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम् ।
गोविन्दो न च तं लेभे शक्तोऽपि न जहार च॥ २,७१.३३ ॥

कधाचिन्मृगयां यातः प्रसेनस्तेन भूषितः ।
स्यमन्तककृते सिंहाद्वधं प्राप सुदारुणम् ॥ २,७१.३४ ॥

जांबवानृक्षराजस्तु तं सिंहं निजघान वै ।
आदाय च मणिं दिव्यं स्वबिलं प्रविवेश ह ॥ २,७१.३५ ॥

तत्कर्म कृष्णस्य ततो वृष्ण्यन्धकमहत्तराः ।
मणिं गृध्नोस्तु मन्वानास्तमेव विशशङ्किरे॥२,७१.३६ ॥

मिथ्यापवादं तेभ्यस्तं बलवानरिसूदनः ।
अमृष्यमाणो भगवान्वनं स विचचार ह ॥ २,७१.३७ ॥

स तु प्रोसेनो मृगयामचरद्यत्र चाप्यथ ।
प्रसेनस्य पदं ग्राह्यं पुरं पौराप्तकारिभिः ॥ २,७१.३८ ॥

ऋक्षवन्तं गिरिवरं विन्ध्यं च नगमुत्तमम् ।
अन्वेषयत्परिश्रान्तः स ददर्श महामनाः ॥ २,७१.३९ ॥

साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम् ।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ २,७१.४० ॥

ऋक्षेण निहतो दृष्टः पदैरृक्षस्य सूचितः ।
पदैरन्वेषयामास गुहामृक्षस्य यादवः ॥ २,७१.४१ ॥

महत्यन्तर्बिले वाणीं शश्राव प्रमदेरिताम् ।
धात्र्या कुमारमादाय सुतं जांबवतो द्विजाः ।
क्रीडयन्त्याथ मणिना मारोदीरित्युदीरितम् ॥ २,७१.४२ ॥

                      धात्र्युवाच
प्रसेनमवधीत्सिंहः सिंहो जांबवता हतः ॥ २,७१.४३ ॥

सुकुमारक मारो दीस्तव ह्यें स्यमन्तकः ।
व्यक्तीकृतश्च शब्दः स तूर्णं चापि ययौ बिलम्।२,७१.४४।

अपश्यच्च बिलाभ्याशे प्रसेन मवदारितम् ।
प्रविश्य चापि भगवान्स ऋक्षबिलमञ्जसा ॥ २,७१.४५ ॥

ददर्श ऋक्षराजानं जांबवन्तमुदारधीः ।
युयुधे वासुदेवस्तु बिले जांबवता सह ॥ २,७१.४६ ॥

बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ।
प्रविष्टे च बिलं कृष्णे वसुदेवापुरस्सराः ॥ २,७१.४७ ॥

पुनर्द्वारवतीं चैत्य हतं कृष्णं न्यवेदयन् ।
वासुदेवस्तु निर्जित्य जांबवन्तं महाबलम् ॥ २,७१.४८ ॥

लेभे जांबवन्तीं कन्यामृक्षराजस्य सम्मनाम् ।
भगवत्तेजसा ग्रस्तो जांबवांन्प्रसभं मणिम् ॥ २,७१.४९ ॥

सुतां जांबवतीमाशु विष्वक्सेनाय दत्तवान् ।
मणिं स्यमन्तकं चैव जग्रहात्मविशुद्धये ॥ २,७१.५० ॥

अनुनीयर्क्षराजं तं निर्ययौ च तदा बिलात् ।
एवं स मणिमाहृत्य विशोध्यात्मानमात्मना ॥ २,७१.५१ ॥

ददौ सत्राजिते रत्नं मणिं सात्त्वतसन्निधौ ।
कन्यां पुनर्जांबवतीमुवाह मधुसूदनः ॥ २,७१.५२ ॥

तस्मान्मिथ्याभिशापात्तु व्यशुध्यन्मधुसूदनः ।
इमां मिथ्याभिशप्तिं यः कृष्णस्येह व्यपोहिताम् ॥ २,७१.५३ ॥

वेद मिथ्याभिशप्तिं स नाभिस्पृशति कर्हिचित् ।
दश त्वासन्सत्रजितो भार्यास्तस्यायुतं सुताः॥२,७१.५४ ॥

ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्वजः ।
वीरो वातपतिश्चैव तपस्वी च बहुप्रियः ॥२,७१.५५ ॥

अथ वीरमती नाम भङ्गकारस्य तु प्रसूः ।
सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः ॥ २,७१.५६ ॥

सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता ।
तथा तपस्विनी चैव पिता कृष्णय तां ददौ ॥ २,७१.५७ ॥

न च सत्राजितः कृष्णो मणिरत्नं स्यमन्तकम् ।
आदत्त तदुपश्रुत्य भोजेन शतधन्वना ॥ २,७१.५८ ॥

तदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
अक्रूरो धनमन्विच्छन्मणिं चैव स्यमन्तकम् ॥ २,७१.५९ ॥

सत्राजितं ततो इत्वा शतधन्वा महाबलः ।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥ २,७१.६० ॥

अक्रूरस्तु तदा रत्नमादाय स नरर्षभः ।
समयं कारयाञ्चक्रे बोध्यो नान्यस्य चेत्युत ॥ २,७१.६१ ॥

वयमभ्युपयोत्स्यामः कृष्णेन त्वां प्रधर्षितम् ।
मम वै द्वारका सर्वा वेशे तिष्ठत्य संशयम् ॥ २,७१.६२ ॥

हते पितरि दुःखार्त्ता सत्यभामा यशस्विनी ।
प्रययौ रथमारुह्य नगरं वारणावतम् ॥ २,७१.६३ ॥

सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः ।
भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्त्तयत् ॥२,७१.६४ ॥

पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् ।
कल्यार्थे चैव भ्रातॄणां न्ययोजयत सात्यकिम्॥२,७१.६५।

ततस्त्वरितमागत्य द्वारकां मधुसूदनः ।
पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ २,७१.६६ ॥

हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
स्यमन्तको मार्गणीयस्तस्य प्रभुरहं प्रभो ॥ २,७१.६७ ॥

तहारोह रथं शीघ्रं भोजं हत्वा महाबलम् ।
स्यमन्तकं महाबाहो सामान्यं वो भविष्यति ॥२,७१.६८॥

ततः प्रवृत्ते युद्धे तु तुमुले भोजकृष्णयोः ।
शतधन्वा तमक्रूरमवैक्षत्सर्वतो दिशम् ॥२,७१.६९ ॥

अनालब्धावहारौ तु कृत्वाभोजजनार्द्दनौ ।
शक्तोऽपिशाठ्याद्धार्दिक्योनाक्रूरोऽभ्युपपद्यत।
२,७१.७०।

अपयोते ततो बुद्धिं भूयश्चक्रे भयान्वितः ।
योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ २,७१.७१ ॥

विख्याता हृदया नाम शतयोजनगामिनी ।
भोजस्य वडवा दिव्या यया कृष्णमयोधयत् ॥२,७१.७२ ॥

क्षीणां जवेन त्दृदयामध्वनः शतयोजने ।
दृष्ट्वा रथस्य तां वृद्धिं शतधन्वा समुद्रवत् ॥ २,७१.७३ ॥

ततस्तस्या हयायास्तु श्रमात्खेदाच्च वै द्विजाः ।
खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ २,७१.७४ ॥

तिष्ठस्वेह महाबाहो दृष्टदोषा मया हयी ।
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ २,७१.७५ ॥

पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
मिथिलोपवने तं वै जघान परमास्त्रवित् ॥ २,७१.७६ ॥

स्यमन्तकं न चापश्यद्धत्वा भोजं महाबलम् ।
निवृत्तं चाब्र वीत्कृष्णं रत्नं देहीति लाङ्गली ॥ २,७१.७७ ॥

नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
धिक्छब्दपूर्वमसकृत्प्रत्युवाच जनार्द्दनम् ॥ २,७१.७८ ॥

भातृत्वान्मर्षयाम्वेष स्वस्ति तेऽस्तु व्रजाम्यहम् ।
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ।२,७१.७९ ॥

प्रविवेश ततो रामो मिथिलामरिमर्द्दनः ।
सर्वकामैरुपहृतैर्मैथिलेनैव पूजितः ॥ २,७१.८० ॥

एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः ।
नानारूपान्क्रतून्सर्वा नाजहार निरर्गलान् ॥ २,७१.८१ ॥

दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह ।
स्यमन्तककृते प्राज्ञो कान्दिनीजो महामनाः ।२,७१.८२ ॥

अकूर यज्ञा इति ते ख्यातास्तस्य महात्मनः ।
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ २,७१.८३ ॥

अथ दुर्योधनो राजा गत्वाथ मिथिलां प्रभुः ।
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥ २,७१.८४ ॥

प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः ।
आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ २,७१.८५ ॥

अक्रूरश्चान्धकैः सार्द्धमथायात्पुरुषर्षभः ।
युद्धे हत्वा तु शत्रुघ्नं सह बन्धुमता बली ॥ २,७१.८६ ॥

सुयज्ञतनयायां तु नरायां नरसत्तमौ ।
भङ्गकारस्य तनयौ विश्रुतौ सुमहाबलौ ॥ २,७१.८७ ॥

जज्ञातेंऽधकमुख्यस्य शक्रघ्नो बन्धुमांश्च तौ ।
वधे च भङ्गकारस्य कृष्णो न प्रीतिमानभूत् ॥ २,७१.८८ ॥

ज्ञातिभेदभयाद्भीतस्तमुबेक्षितवानथ ।
अपयाते ततोऽक्रूरे नावर्षत्पाकशासनः ॥ २,७१.८९ ॥

अनावृष्ट्या हतं राष्ट्रमभवद्बहुधा यतः ।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ २,७१.९० ॥

पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा ।
प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः ॥ २,७१.९१ ॥

कन्यां वै वासुदेवाय स्वसारं शीलसंमताम् ।
अक्रूरः प्रददौ श्रीमान्प्रीत्यर्थं मुनिपुङ्गवाः ॥ २,७१.९२ ॥

अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् ।
सभामध्ये तदा प्राह तमक्रूरं जनार्द्दनः ॥ २,७१.९३ ॥

यत्तद्रत्नं मणिवरं तव हस्तगतं प्रभो ।
तत्प्रयच्छ स्वमानार्ह मयि मानार्यकं कृथाः ॥ २,७१.९४ ॥

षष्टिवर्षगते काले यद्रोषोऽभूत्तदा मम ।
सुसंरूढोऽसकृत्प्राप्तस्तदा कालात्ययो महान् ।२,७१.९५।

ततः कृष्णस्य वचनात्सर्वसात्त्वतसंसदि ।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ २,७१.९६ ॥

ततस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिन्दमः ।
ददौ हृष्टमनास्तुष्टस्तं मणिं बभ्रवे पुनः ॥ २,७१.९७ ॥

स कृष्णहस्तात्संप्राप्य मणिरत्नं स्यमन्तकम् ।
आबध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥ २,७१.९८ ॥

इमां मिथ्याभिशाप्तिं यो विशुद्धिमपि चोत्तमाम् ।
वेद मिथ्याभिशप्तिं स न लभेत कथञ्चन ॥ २,७१.९९ ॥

अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ।
सत्यवान्सत्यसंपन्नः सत्यकस्तस्य चात्मजः॥२,७१.१००।

सात्यकिर्युयुधानश्च तस्य भूतिः सुतोऽभवत् ।
भूतेर्युगन्धरः पुत्र इति भौत्यः प्रकीर्त्तितः॥२,७१.१०१ ॥

माड्याः सुतस्य जज्ञे तु सुतो वृष्णिर्युधाजितः ।
जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकश्च यः ॥२,७१.१०२॥

श्वफल्कस्तु महाराजो धर्मात्मा यत्र वर्तते ।
नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा ॥ २,७१.१०३ ॥

कादाचित्काशिराजस्य विभोस्तु द्विजसत्तमाः ।
त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ॥२,७१.१०४ ॥

स तत्रवासयामास श्वफल्कं परमार्चितम् ।
श्वफल्कपरिवासेन प्रावर्षत्पाकशासनः ॥२,७१.१०५ ॥

श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत।
गान्दिनींनाम गां सा हि ददौ विप्राय नित्यशः॥२,७१.१०६।

सा मातुरुदरस्था वै बहून्वर्षशातान्किल ।
निवसंती न वै जज्ञे गर्भस्थां तां पिताब्रवीत्।२,७१.१०७ ॥

जायस्व शीघ्रं भद्रं ते किमर्थं वापि तिष्ठसि ।
प्रोवाच चैनं गर्भस्था सा कन्या गां दिने दिने॥२,७१.१०८।

यदि दद्यास्ततो गर्भाद्बहिः स्यां हायनैस्त्रिभिः ।
तथेत्युवाच तां तस्याः पिता काममपूरयत् ॥ २,७१.१०९ ॥

दाता यज्वा च शुरश्च श्रुतवानतिथिप्रियः ।
तस्याः पुत्रः स्मृतोऽक्रूरः श्वाफल्को भूरिदक्षिणः॥ २,७१.११० ॥

उपमङ्गुस्तथा मङ्गुर्मृदुरश्चारिमेजयः ।
गिरिरक्षस्ततो यक्षः शत्रुघ्नोऽथारिमर्दनः ॥ २,७१.१११ ॥

धर्मवृद्धः सुकर्मा च गन्धमादस्तथापरः ।
आवाहप्रतिवाहौ च वसुदेवा वराङ्गना ॥ २,७१.११२ ॥

अक्रूरादौग्रसेन्यां तु सुतौ द्वौ कुलनन्दिनौ ।
देववानुपदेवश्च जज्ञाते देवसंनिभौ ॥ २,७१.११३ ॥

चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च ।
अश्वग्रीवोऽश्ववाहश्च सुपार्श्वकगवेषणौ ॥ २,७१.११४ ॥

अरिष्टनेमिरश्वास्यः सुवार्मा वर्मभृत्तथा ।
अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ २,७१.११५ ॥

सत्यकात्काशिदुहिता लेभे या चतुरः सुतान् ।
कुकुरं भजमानं च शुचिं कंबल बर्हिषम् ॥ २,७१.११६ ॥

कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयोऽभवत् ।
कपोतरोमा तस्याथ विलोमाभवदात्मजः ॥ २,७१.११७ ॥

तस्यासीत्तुंबुरुसखा विद्वान्पुत्रोंऽधकः किल ।
ख्यायते यस्य नामान्यच्चन्दनोदकदुन्दुभिः।२,७१.११८॥

तस्याभिजित्ततः पुत्र उत्पन्नस्तु पुनर्वसुः ।
अश्वमेधं तु पुत्रार्थमाजहार नरोत्तमः ॥ २,७१.११९ ॥

तस्य मध्येऽतिरात्रस्य सदोमध्यात्ससुच्छ्रितः ।
ततस्तु विद्वान्धर्मज्ञो दाता यज्वा पुनर्वसुः ॥ २,७१.१२० ॥

तस्याथ पुत्रमिथुनं बभूवाभिजितः किल ।
आहुकश्चाहुकी चैव ख्यातौ मतिमतां वरौ ॥२,७१.१२१॥

इमांश्चोदा हरन्त्यत्र श्लोकान्प्रति तमाहुकम् ।
सोपासांगानुकर्षाणां सध्वजानां वरूथिनाम्॥२,७१.१२२।

रथानां मेघघोषाणां महस्राणि दशैव तु ।
नासत्यवादी चासीत्तु नायज्ञो नासहस्रदः॥२,७१.१२३॥

नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशोऽभवत् ।
आर्द्रकस्य धृतिः पुत्र इत्येवमनुशुश्रुम् ॥२,७१.१२४॥

स तेन परिवारेण किशोरप्रतिमान्हयान् ।
अशीतिमश्वनियुतान्याहुकोऽप्रतिमो व्रजन् ॥२,७१.१२५॥

पूर्वस्यां दिशि नागानां भोजस्य त्वतिभावयन् ।
रूप्यकाञ्चनकक्षाणां स्रहस्राण्येकविंशतिः॥२,७१.१२६।

तावन्त्येव सहस्राणि उत्तरस्यां तथादिशि।
भूमिपालस्य भोजस्य उत्तिष्टेत्किङ्कणी किल॥ २,७१.१२७॥

आहुकश्चाप्यवन्तीषु स्वसारं त्वाहुकीं ददौ ।
आहुकात्काश्यदुहितुर्द्वै पुत्रौ संबभूवतुः ॥२,७१.१२८॥

देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ २,७१.१२९ ॥

देववानुपदेवश्च सुदेवो देवरक्षितः ।
तेषां स्वसारः सप्तासन्वसुदेवाय ता ददौ ॥ २,७१.१३० ॥

धृतदेवोपदेवा च तथान्या देवरक्षिता ।
श्रीदेवा शान्तिदेवा च सहदेवा तथापरा ॥ २,७१.१३१ ॥

सप्तमी देवकी तासां सानुजा चारुदर्शना ।
नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वजः ॥ २,७१.१३२ ॥

न्यग्रो दश्च सुनामा च कङ्कशङ्कुसुभूमयः ।
सुतनू राष्ट्रपालश्च युद्धतुष्टश्च तुष्टिमान् ॥ २,७१.१३३ ॥

तेषां स्वसारः पञ्चैव कंसा कंसवती तथा ।
सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥ २,७१.१३४ ॥

उग्रसेनो महापत्यो व्याख्यातः कुकुरोद्भवः ।
कुकुराणामिमं वंशं धारयन्नमितौजसाम् ॥ २,७१.१३५ ॥

आत्मनोविपुलं वंशं प्रजावांश्च भवेन्नरः ।
भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः ॥ २,७१.१३६ ॥

राजाधिदेवः शूरश्च विदूरथसुतोऽभवत् ।
तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः ॥ २,७१.१३७ ॥

वातश्चैव निवातश्च शोणितः श्वेतवाहनः ।
शमी च गदवर्मा च निदान्तः खलु शत्रुजित्।२,७१.१३८ ॥

शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।
स्वयंभोजः स्वयंभोजाद्धृदिकः संबभूव ह॥२,७१.१३९ ॥

हृदिकस्य सुतास्त्वासन्दश भीमपराक्रमाः ।
कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥२,७१.१४० ॥

देवबाहुस्सुबाहुश्च भिषक्श्वेतरथश्च यः ।
सुदान्तश्चाधिदान्तश्च कनकः कनकोद्भवः ॥२,७१.१४१ ॥

देवबाहोस्सुतो विद्वाञ्जज्ञे कंबलबर्हिषः ।
असमौजाः सुतस्तस्य सुसमौजाश्च विश्रुतः॥२,७१.१४२ ॥

अजातपुत्राय ततः प्रददावसमौजसे।
सुचन्द्रं वसुरूपं च कृष्ण इत्यन्धकाः स्मृत: ।२,७१.१४३।

अन्धकानामिमं वंशं कीर्त्तयेद्यस्तु नित्यशः ।
आत्मनो विपुलं वंशं लभते नात्र संशयः ॥२,७१.१४४ ॥
_________________________________
अश्मक्यां जनयामास शूरं वै देवमीढुषम् ।
मारिष्यां जज्ञिरे शूराद्भोजायां पुरुषा दश ॥ २,७१.१४५ ॥

वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।
जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि ॥ २,७१.१४६ ॥

आनकानां च संह्नादः सुमहानभवद्दिवि ।
पपात पुष्पवर्षं च शरस्य भवने महत् ॥ २,७१.१४७ ॥

मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।
यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥२,७१.१४८।

देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः।
अनाधृष्टिवृकश्चैव नन्दनश्चैव सृंजयः ॥२,७१.१४९ ॥

श्यामः शमीको गण्डूषः स्वसारस्तु वरागनाः ।
पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुत श्रवाः ॥ २,७१.१५० ॥

राजाधिदेवी च तथा पञ्चैता वीरमातरः ।
पृथां दुहितरं शूरः कुन्तिभोजाय वै ददौ ॥२,७१.१५१ ॥

तस्मात्सा तु स्मृता कुन्ती कुन्तिभोजात्मजा पृथा ।
कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत ॥२,७१.१५२ ॥

पुथा जज्ञे ततः पुत्रांस्त्रीनग्निसमतेजसः ।
लोके प्रतिरथान्वीराञ्छक्रतुल्यपराक्रमान् ॥२,७१.१५३ ॥

धर्माद्युधिष्टिरं पुत्रं मारुताच्च वृकोदरम् ।
इन्द्राद्धनञ्जयं चैव पृथा पुत्रानजीचनत् ।२,७१.१५४।

माद्रवत्या तु जनितावश्विनाविति विश्रुतम् ।
नकुलः सहदेवश्च रुपसत्त्वगुणान्वितौ ॥ २,७१.१५५ ॥

जज्ञे तु श्रुतदेवायां तनयो वृद्धशर्मणः ।
करूषाधिपतेर्ंवीरो दन्तवक्रो महाबलः ॥ २,७१.१५६ ॥

कैकयाच्छ्रुतिकीर्त्यं तु जज्ञे संतर्दनो बली ।
चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ ॥ २,७१.१५७ ॥

विन्दानुविन्दावावन्त्यौ भ्रातरौ सुमहाबलौ ।
श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ॥ २,७१.१५८ ॥

दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः ।
यः पुरा सदशग्रीवः संबभूवारिमर्दनः ॥ २,७१.१५९ ॥

वैश्रवाणानुजस्तस्य कुंभकर्णोऽनुजस्तथा पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ॥ २,७१.१६० ॥

पौरवी रोहिणी चैव मदिरा चापरा तथा ।
तथैव भद्रवैशाखी सुनाम्नी पञ्चमी तथा ॥ २,७१.१६१ ॥

सहदेवा शान्तिदेवा श्रीदेवा देवरक्षिता ।
धृतदेवोपदेवा च देवकी सप्तमी तथा ॥ २,७१.१६२ ॥

सुगन्धा वनराजी च द्वेचान्ये परिचारिके ।
रोहिणी पौरवी चैव बाह्लीकस्यानुजाभवत् ॥ २,७१.१६३ ॥
________________________

ज्येष्ठा पत्नी महाभागदयिताऽनकदुन्दुभेः ।
ज्येष्ठे लेभे सुतं रामं सारणं हि शठं तथा ॥ २,७१.१६४ ॥
_________________________________
दुर्दमं दमनं शुभ्रं पिण्डारककुशीतकौ ।
चित्रां नाम कुमारीं च रोहिण्यष्टौ व्यजायत ॥ २,७१.१६५ ॥

पुत्रौ रामस्य जज्ञाते विज्ञातौ निशठोल्मुकौ ।
पार्श्वी च पार्श्वमर्दी च शिशुः सत्यधृतिस्तथा॥२,७१.१६६।

मन्दबाह्योऽथ रामणाङ्गिरिको गिरिरेव च ।
शुल्कगुल्मोऽतिगुल्मश्च दरिद्रान्तक एव च ॥२,७१.१६७॥

कुमार्यश्चापि पञ्जान्या नामतस्ता निबोधत ।
अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ॥२,७१.१६८ ॥

तथा शतबला चैव सारणस्य सुतास्त्विमाः ।
भद्राश्वो भद्रगुप्तिश्च भद्रविष्टस्तथैव च ॥२,७१.१६९ ॥

भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च ।
सुपार्श्वकःकीर्त्तिमांश्च रोहिताश्वःशठात्मजाः॥२,७१.१७०।

दुर्मदस्याभिभूतश्च रोहिण्याः कुलजाः स्मृताः ।
नन्दोपनन्दौ मित्रश्च कुक्षिमित्रस्तथा बलः ॥ २,७१.१७१ ॥

चित्रोपचित्रौ कृतकस्तुष्टिः पुष्टिरथापरः ।
मदिरायाः सुता एते वसुदेवाद्धिजज्ञिरे ॥ २,७१.१७२ ॥

उपबिंबोऽथ बिंबश्च सत्त्वदन्तमहौजसौ ।
चत्वार एते विख्याता भद्रापुत्रा महाबलाः ॥२,७१.१७३॥

वैशाल्यामदधाच्छौरिः पुत्रं कौशिकमुत्तमम् ।
देवक्यां जज्ञिरे सौरेः सुषेणः कीर्त्तिमानपि ॥२,७१.१७४॥

उदर्षिर्भद्रसेनश्च ऋजुदायश्च पञ्चमः ।
षष्ठो हि भद्रदेवश्च कंसः सर्वाञ्जघान तान्॥२,७१.१७५ ॥

अथ तस्या मवस्थाया आयुष्मान्संबभूव ह ।
लोकनाथः पुनर्विष्णुः पूर्वं कृष्णः प्रजापतिः॥२,७१.१७६।

अनुजाताभवकृष्णात्सुभद्रा भद्रभाषिणी ।
कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनन्दिनी  २,७१.१७७॥

सुभद्रायां रथी पार्थादभिमन्युरजायत ।
वसुदेवस्य भार्यासु महाभागासु सप्तसु ॥२,७१.१७८।

ये पुत्रा जज्ञिरे शूरा नामतस्तान्निबोधत ।
पूर्वाद्याः सहदेवायां शूराद्वै जज्ञिरे सुताः ॥ २,७१.१७९ ॥

शान्तिदेवा जनस्तम्बं शौरेर्जज्ञे कुलोद्वहम् ।
आगावहो महात्मा च वृकदेव्या मजायत ॥ २,७१.१८० ॥

श्रीदेवायां स्वयं जज्ञे मन्दको नाम नामतः ।
उपासंगं वसुं चापि तनयौ देवरक्षिता ॥ २,७१.१८१ ॥

एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ।
विजयं रोचनं चैव वर्द्धमानं च देवलम् ॥२,७१.१८२ ॥

एतान्महात्मनः पुत्रान्सुषाव शिशिरावती ।
सप्तमी देवकी पुत्रं सुनामानमसूयत ॥२,७१.१८३ ॥

गवेषणं महाभागं संग्रामे चित्रयोधिनम् ।
श्राद्धदेव्यां पुरोद्याने वने तु विचरन्द्विजाः ॥२,७१.१८४
_______________________________________

वैश्यायामदधाच्छौरिः पुत्रं कौशिकमव्ययम् ।
सुगन्धी वनराजी च शौरेरास्तां परिग्रहौ॥२,७१.१८५ ॥

पुण्डश्च कपिलश्चैव सुगन्ध्याश्चात्मजौ तु तौ ।
तयो राजाभवत्पुण्ड्रः कपिलस्तु वनं ययौ ॥ २,७१.१८६ ॥
_______
अन्यस्यामभवद्वीरो वसुदेवात्मजो बली ।
जरा नाम निषादोऽसौ प्रथमः स धनुर्द्धरः ॥ २,७१.१८७ ॥

विख्यातो देवभाग्यस्य महाभागः सुतोऽभवत् ।
पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम् ॥ २,७१.१८८ ॥

अश्मक्यां लभते पुत्रमनाधृष्टिर्यशास्विनम् ।
निवृत्तशत्रुं शत्रुघ्नं श्राद्धदेवं महाबलम् ॥२,७१.१८९ ॥

व्यजायत श्राद्धदेवो नैषादिर्यः पारिश्रुतः ।
एकलव्यो महाभागो निषादैः परिवर्द्धितः॥ २,७१.१९०॥

गण्डूषायानपत्याय कृष्णस्तुष्टोऽददात्सुतौ ।
चारुदेष्णं च सांबं च कृतास्त्रौ शस्तलक्षणौ ॥२,७१.१९१।

रन्तिश्च रन्तिपालश्च द्वौ पुत्रौ नन्दनस्य च ।
वृकाय वै त्वपुत्राय वसुदेवः प्रतापवान् ॥ २,७१.१९२ ॥

सौमिं ददौ सुत वीरं शौरिः कौशिकमेव च।
सृंजयस्य धनुश्चैव विरजाश्च सुताविमौ॥२,७१.१९३॥

अनपत्योऽभवच्छ्यामः शमीकस्तु वनं ययौ ।
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान् ॥२,७१.१९४।

य इदं जन्म कृष्णस्य पठते नियतव्रतः ।
श्रावयेद्ब्राह्मणंवापि स महात्सुखमवाप्नुयात्।२,७१.१९५॥

देवदेवो महातेजाः पूर्वं कृष्णः प्रजापतिः ।
विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः ॥२,७१.१९६ ॥

देवक्यां वसुदेवेन तपसा पुष्करेक्षणः ।
चतुर्बाहुस्तु संजज्ञे दिव्यरूपश्रियान्वितः ॥२,७१.१९७ ॥

प्रकाश्यो भगवान्योगी कृष्णो मानुषतां गतः ।
अव्यक्तो व्यक्तलिङ्गश्च स एव भगवान्प्रभुः ॥२,७१.१९८ ॥

नारायणो यतश्चक्रे व्ययं चैवाव्ययं हि यत् ।
देवो नारायणो भूत्वा हरिरासीत्सनातनः ॥२,७१.१९९ ॥

योऽबुञ्जाच्चादिपुरुषं पुरा चक्रे प्रजापतिम् ।
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ॥ २,७१.२०० ॥

देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत् ।
प्रासादयन्यं च विभुं ह्यदित्याः पुत्रकारणे ॥ २,७१.२०१ ॥

वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ।
ययातिवंशजस्याथ वसुदेवस्य धीमतः ॥ २,७१.२०२ ॥

कुलं पुण्यं यतो जन्म भेजे नारायमः प्रभुः ।
सागराः समकंपत चेलुश्च धरणीधराः ॥ २,७१.२०३ ॥

जज्वलुस्त्वग्निहोत्राणि जायमाने जनार्द्दने ।
शिवाश्च प्रववुर्वाताः प्रशान्तमभवद्रजः ॥ २,७१.२०४ ॥

ज्योतींष्यभ्यधिकं रेजुर्जायमाने जनार्द्दने ।
अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी ॥२,७१.२०५ ॥

मुहूर्त्तो विजयो नाम यत्र जातो जनार्द्दनः।
अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः॥२,७१.२०६ ॥

जज्ञे तथैव भगवान्मायया मोहयन्प्रजाः ।
आकाशात्पुष्पवृष्टिं च ववर्ष त्रिदशेश्वरः ॥२,७१.२०७ ॥

गीर्भिर्मङ्गलयुक्ताभिस्तुवन्तो मधुसूदनम् ।
महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः ॥२,७१.२०८॥

वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम् ।
श्रीवत्सलक्षणं दृष्ट्वा हृदि दिव्यैः स्वलक्षणैः॥२,७१.२०९ ॥

उवाच वसुदेवस्तं रूपं संहर वै प्रभो ।
भीतोऽहं कंसतस्तात तस्मादेवं ब्रवीम्यहम् ॥२,७१.२१० ॥

मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भुतदर्शनाः ।
वसुदेववचःश्रुत्वा रूपं संहृतवान्प्रभुः ॥२,७१.२११ ॥

अनुज्ञातः पिता त्वेनं नन्दगोपगृहं नयत् ।
उग्रसेनगृहेऽतिष्ठद्यशोदायै तदा ददौ ॥ २,७१.२१२ ॥

तुल्यकालं तु गर्भिण्यौ यशोदा देवकी तथा ।
यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ॥ २,७१.२१३ ॥
____________
यामेव रजनीं कृष्णो जज्ञे वृष्णिकुले प्रभुः ।
तामेव रजनीं कन्या यशोदायां व्यजायत ॥ २,७१.२१४

तं जात रक्षमाणस्तु वसुदेवो महायशाः ।
प्रादात्पुत्रं यशोदायै कन्यां तु जगृहे स्वयम् ॥ २,७१.२१५ ॥
______________________________________
दत्त्वेमं नन्दगोपस्य रक्षेममिति चाब्रवीत् ।
सुतस्ते सर्वकल्याणो यादवानां भविष्यति ॥ २,७१.२१६ ॥

अयं स गर्भा देवक्या मम क्लेशान्हरिष्यति ।
उग्रसेनात्मजायाथ कन्यामानकदुन्दुभिः ॥ २,७१.२१७ ॥

निवेदयामास तदा कन्येति शुभलक्षणा ।
स्वसुस्तु तनयं कंसो जातं नैवावधारयत् ॥ २,७१.२१८ ॥

अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः ।
तवैषा हि यथा कन्या तथा मम न संशयः ।
न हन्मीमां महाबाहो व्रजत्वेषा यथारुचि ॥ २,७१.२१९ ॥

कन्या सा ववृधे तत्र वृष्मिसद्मनि पूजिता ।
पुत्रवत्पालयामास देवी देवीं मुदा तदा ॥ २,७१.२२० ॥

तमेवं विधिनोत्पन्नमाहुः कृष्णं प्रजापतिम् ।
एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह ॥ २,७१.२२१ ॥

एतां चैकाग्रमनसः पूजयिष्यन्ति यादवाः ।
देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ॥ २,७१.२२२ ॥

                   ऋषय ऊचुः
किमर्थं वसुदेवस्य भोजः कंसो नराधिपः ।
जघान पुत्रान्बालान्वै तन्नो व्याख्यातुमर्हसि॥२,७१.२२३।

                  सूत उवाच
शृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः ।
जाताञ्जातास्तु तान्सर्वान्निष्पिपेष वृथामतिः॥ २,७१.२२४॥

भयाद्यथा महाबाहो जातः कृष्णो विवासितः ।
यथा च गोषु गोविन्दः संवृद्धः पुरुषोत्तमः ॥ २,७१.२२५ ॥

उद्वाहे किल देवक्या वसुदेवस्य धीमतः ।
सारथ्यं कृतवान्कंसो युवराजस्तदाभवत् ॥ २,७१.२२६ ॥

ततोंऽतरिक्षे वागासीद्दिव्याभूद्यस्य कस्यचित् ।
कंसस्य नाममात्रेण पुष्कला लोकसाक्षिणी॥२,७१.२२७।

यामेतं वहसे कंस रथेन प्रियकारणात् ।
तस्या यश्चाष्टमो गर्भः स ते मृत्युर्भबिष्यति॥२,७१.२२८॥

तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः ।
निष्कृष्य खड्गं तां कन्यां हन्तुकामोऽभवत्तदा। २,७१.२२९॥

तमुवाच महाबाहुर्वसुदेवः प्रतापवान् ।
उग्रसेनात्मजं कसं सौत्दृदात्प्रणयेन वा॥२,७१.२३०॥

न स्त्रियं क्षत्रियो जातु हन्तुमर्हसि कश्चन ।
उपायः परिदृष्टोऽत्र मया यादवनन्दन ॥२,७१.२३१॥

योऽस्याः संजायते गर्भो ह्यष्टमः पृथिवीपते ।
तमहं ते प्रयच्छामि तत्र कुर्या यथाक्रमम् ॥२,७१.२३२॥

न त्विदानीं यथेष्टं त्वं वर्त्तेथा भूरिदक्षिण ।
सर्वानप्यथ वा गर्भान्पृथङ्नेष्यामि ते वशम्॥२,७१.२३३।

एवं मिथ्या नरश्रेष्ठ वागेषा न भविष्यति ।
एवमुक्तोऽनुनीतः स जग्राह वचनं तदा ॥२,७१.२३४ ॥

वसुदेवश्च तां भार्यामवाप्य मुदितोऽभवत् ।
कंसस्तस्यावधीत्पुत्रान्पापकर्मा वृथामतिः ॥२,७१.२३५ ॥

                    ऋषय ऊचुः
क एष वसुदेवस्तु देवकी च यशस्विनी ।
नन्दगोपस्तु कस्त्वेष यशोदा य महायशाः ॥२,७१.२३६॥

यो विष्णुं जनयामास यं च तातेत्यभाषत ।
या गर्भं जनयामास या वैनं याभ्यवर्द्धयत् ॥ २,७१.२३७ ॥

                    सूत उवाच
पुरुषः कश्यपस्त्वासी ददितिस्तत्प्रिया तथा ।
कश्यपो ब्रह्मणोंऽशश्च पृथिव्या आदितिस्तथा ॥ २,७१.२३८ ॥

नन्दो द्रोणः समाख्यातो यशोदा च धराभवत् ।
अथ कामान्महाबाहुर्देवक्याः संप्रवर्द्धयन् ॥ २,७१.२३९ ॥

अचरत्स महीं देवः प्रविष्टो मानुषीं तनुम् ।
मोहयन्सर्वभूतानि योगात्मा योगमायया ॥२,७१.२४० ॥

नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम् ।
कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् ॥ २,७१.२४१ ॥

वैदर्भी रुक्मिणी कन्या सत्या नग्नजितस्तदा ।
सत्राजितः सत्यभामा जांबवत्यपि रोहिणी॥२,७१.२४२ ॥

शैब्या धन्यानि देवीनां सहस्राणि च षोडश ।
चतुर्दश तु ये प्रोक्ता गणास्त्वप्सरसां दिवि ॥२,७१.२४३ ॥

विचार्य देवैः शक्रेण विशिष्टास्त्विह प्रेषिताः ।
पत्न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु ॥२,७१.२४४ ॥

एताः पत्न्यो महाभागा विष्वक्सेनस्य विश्रुताः ।
प्रद्युम्नश्चारुदेष्णश्च सुदेवः शरभस्तथा ॥ २,७१.२४५

चारुश्च चारुभद्रश्च भद्रचारुस्तथापरः।
चारुविद्यश्च रुक्मिण्यां कन्या चारुमती तथा॥२,७१.२४६।

सानुर्भानुस्तथाक्षश्च रोहितो मन्त्रवित्तथा ।
जरोऽधकस्ताम्रचक्रौ सौभरिश्च जरेधरः ॥ २,७१.२४७ ॥

चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ।
भानुः सौभरिका चैव ताम्रपर्णी जरन्धरः ॥ २,७१.२४८ ॥

सत्यभामासुता एते जांबवत्याः प्रजाः श्रुणु ।
भद्रश्च भद्रगुप्तश्च भद्रचित्रस्तथैव च ॥ २,७१.२४९

बध्रबाहुश्च विख्यातःकन्याभद्रवती तथा ।
संबोधनी च विख्याता ज्ञेया जांबवतीसुताः॥२,७१.२५०॥

संग्रामजिच्च शतजित्तथैव च सहस्र जित् ।
एते पुत्राः सुदेव्यां च विष्वक्सेनस्य कीर्त्तिताः॥ २,७१.२५१॥

वृको वृकाश्वो वृकजिद्वृजिनी च वराङ्गना ।
मित्रबाहुः सुनीथश्च नाग्नजित्या प्रजास्त्विह॥२,७१.२५२ ॥

एवमादीनि पुत्राणां सहस्राणि निबोधत।
प्रयुतं तु समाख्यातं वासुदेवस्य ये सुताः॥२,७१.२५३॥

अयु तानि यथाष्टौ च शूरा रणविशारदाः ।
जनार्दनस्य वंशो वः कीर्तितोऽयं यथातथम् ।२,७१.२५४ ॥

बृहती पुरुभार्यासीत्सुमध्या सुगतिस्तथा ।
कन्या सा बृहदुक्थस्य शैनेयस्य महात्मनः ॥ २,७१.२५५ ॥

तस्याः पुत्रास्तु विख्यातास्त्रयः समितिशोभनाः ।
आनन्दः कनकः श्वेतः कन्या श्वेता तथैव च ॥२,७१.२५६ ॥

अगावहस्य चित्रश्च शूरश्चित्ररथश्च यः ।
चित्रसेनः स्मृतश्चास्य कन्या चित्रवती तथा ॥२,७१.२५७ ॥

तुम्बश्च तुम्बंवर्चाश्च जातौ तुम्बस्य तावुभौ ।
उपासंगसुतौ द्वौ तु वज्रारः क्षिप्र एव च ॥ २,७१.२५८ ॥

भूरीन्द्रसेनो भूरिश्च गवेषणसुतापुभौ ।
युधिष्टिरस्य कन्यायां सुधनुस्तस्य चात्मजः ॥ २,७१.२५९ ॥

काश्यां तु पञ्च तनयांल्लेभे सांबात्तरस्विनः ।
सत्यप्रकृतयो देवाः पञ्च वीराः प्रकीर्त्तिताः ॥ २,७१.२६० ॥

तिस्रः कोट्यस्तु पौत्राणां यादवानां महात्मनाम् ।
सर्वमेव कुलं यच्च वर्त्तन्ते चैव ये कुले ॥ २,७१.२६१ ॥

विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिभिस्तस्य बध्यन्ते सुरमानुषाः ॥ २,७१.२६२ ॥

देवासुराहवहता असुरा ये महाबलाः ।
इहोत्पन्ना मनुष्येषु बाधन्ते ते तु मानवान् ॥ २,७१.२६३ ॥

तेषामुत्सादनार्थाय उत्पन्ना यादवे कुले ।
समुत्पन्नं कुलशतं यादवानां महात्मनाम् ॥ २,७१.२६४

इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः ।
कीर्त्तिता कीर्त्तनीया स कीर्त्तिसिद्धिमभीप्सता ॥ २,७१.२६५ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपदे वृष्णिवंशानुकीर्त्तनं नामैकसप्ततितमोऽध्यायः ॥ ७१॥
_______________ 








                    सूत उवाच
यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः ।
विस्तरेणानुपूर्व्या च गदतो मे निबोधत ॥ २,६९.१ ॥

यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः ।
सहस्रजिदथ श्रेष्ठः क्रोष्टुर्नीलोञ्जिको लघुः ॥ २,६९.२ ॥

सहस्रजित्सुतः श्रीमाञ्छतजिन्नाम पार्थिवः ।
शतजित्तनयाः ख्यातस्त्रयः परमधार्मिकाः ॥ २,६९.३ ॥

हैहयश्च हयस्छैव राजा वेणुहयस्तथा ।
हैहयस्य तु दायादो धर्मनेत्र इति श्रुतः ॥ २,६९.४ ॥

धर्मनेत्रस्य कुन्तिस्तु संक्षेयस्तस्य चात्मजः ।
संज्ञेयस्य तु दायादो महिष्मान्नाम पार्थिवः ॥ २,६९.५ ॥

आसीन्महिष्मतः पुत्रो भद्रमेनः प्रतापवान् ।
वाराणस्यधिपो राजा कथितः पूर्व एव हि ॥ २,६९.६ ॥

भद्र सेनस्य दायादो दुर्मदो नाम पार्थिवः ।
दुर्मदस्यसुतो धीमान्कनको नाम विश्रुतः ॥ २,६९.७ ॥

कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ।
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च ॥ २,६९.८ ॥

कृतौजाश्च चतुर्थोऽभूत्कृतवीर्यात्मजोर्ऽजुनः ।
जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः ॥ २,६९.९ ॥

स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
दत्तमाराधयामास कार्त्तवीर्योऽत्रिसंभवम् ॥२,६९.१०॥

तस्मै दत्तो वरान्प्रादाच्च तुरो भूरितेजसः ।
पूर्वं बाहुसहस्रं तु स वव्रे प्रथमं वरम् ॥२,६९.११ ॥

अधर्मं ध्यायमानस्य सहसास्मान्निवारणम् ।
धर्मेण पृथिवीं जित्वा धर्मेणैवानुपालनम् ॥२,६९.१२॥

संग्रामांस्तु बहुञ्जित्वा हत्वा चारीन्सहस्रशः ।
संग्रामे युध्यमानस्य वधः स्यात्प्रधने मम ॥२,६९.१३॥

तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना ।
सप्तोदधिपरिक्षिप्ता क्षत्रेण विधिना जिता ॥२,६९.१४॥

तस्य बाहुसहस्रं तु युध्यतः किलयोगतः ।
योगो योगेश्वरस्येव प्रादुर्भवति मायया ॥२,६९.१५ ॥

तेन सप्तसु द्वीपेषु सप्तयज्ञशतानि वै ।
कृतानि विधिना राज्ञा श्रूयते मुनिसत्तमाः ॥ २,६९.१६ ॥

सर्वे यज्ञा महाबाहोस्तस्यामन्भूरितेजसः ।
सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ॥२,६९.१७॥

सर्वैर्देवैर्महाभागै र्विमानस्थैरलङ्कृताः ।
गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ २,६९.१८ ॥

तस्य राज्ञो जगौ गाथां गन्धर्वो नारदस्तदा ।
चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च ॥ २,६९.१९ ॥

न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति मानवाः ।
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥२,६९.२०॥

द्वीपेषु सप्तसु स वै धन्वी खड्गी शारासनी ।
रथी राजा सानुचरो योगाच्चैवानुदृश्यते ॥ २,६९.२१ ॥

अनष्टद्रव्यता चासीन्न क्लेशो न च विभ्रमः ।
प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षितः ॥ २,६९.२२ ॥
____________________
पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः ।
स सर्वरत्नभाक्स म्राट्चक्रवर्ती बभूव ह ॥ २,६९.२३ ॥

स एष पशुपालोऽभूत्क्षेत्रपालस्तथै व च ।
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोऽभवत् ॥ २,६९.२४ ॥

स वे बाहुसहस्रेण ज्याघातकठिनेन च ।
भाति रश्मिसहस्रेण शारदेनैव भास्करः ॥ २,६९.२५ ॥

स हि नागसहक्रेण माहिष्मत्यां नराधिपः ।
कर्कोटकसभां जित्वा पुरीं तत्र न्यवेशयत् ॥ २,६९.२६ ॥

स वै वेगं समुद्रस्य प्रावृट्कालेंबुजेक्षणः ।
क्रीडन्नेव सुखोद्विग्नः प्रावृट्कालं चकार ह ॥ २,६९.२७ ॥

लुलिता क्रीडता तेन हेमस्रग्दाममालिनी ।
ऊर्मिमुक्तार्त्तसन्नादा शङ्किताभ्येति नर्मदा ॥ २,६९.२८ ॥

पुरा भुज सहस्रेण स जगाहे महार्मवम् ।
चकारोद्वृत्तवेलं तमकाले मारुतोद्धतम् ॥ २,६९.२९ ॥

तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ ।
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ॥ २,६९.३० ॥

चूर्णीकृतमहावीचिलीनमीनमहाविषम् ।
पतिताविद्धफेनौघमावर्त्तक्षिप्तदुस्सहम् ॥ २,६९.३१ ॥

चकार क्षोभयन्राजा दोःसहस्रेण सागरम् ।
देवासुरपरिक्षिप्तं क्षीरोदमिव सागरम् ॥ २,६९.३२ ॥

मन्दरक्षोभणभ्रान्तममृतोत्पत्ति हेतवे ।
सहसा विद्रुता भीता भीमं दृष्ट्वा नृपोत्तमम् ॥ २,६९.३३ ॥

निश्चितं नतमूर्द्धानो बभूवुश्च महोरगाः ।
सायाह्ने कदलीखञ्च निवातेस्तमिता इव ॥ २,६९.३४ ॥

ज्यामारोप्य दृढे चापे सायकैः पञ्चभिः शतैः ।
लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ॥ २,६९.३५ ॥

निर्जित्य वशमानीय माहिष्मत्यां बबन्ध तम् ।
ततो गत्वा पुलस्त्यस्तमर्जुनं च प्रसाधयत् ॥ २,६९.३६ ॥

मुमोच राजा पौलस्त्यं पुलस्त्येना नुयाचितः ।
तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥ २,६९.३७ ॥

युगान्तेंबुदवृन्दस्य स्फुटितस्याशनेरिव ।
अहो मृधे महावीर्यो भार्गवस्तस्य योऽच्छिनत् ॥ २,६९.३८ ॥

मृधे सहस्रं बाहुनां हेमतालवनं यथा ।
तृषितेन कदाचित्स भिक्षितश्चित्रभानुना ॥ २,६९.३९ ॥

सप्तद्वीपांश्चित्रभानोः प्रादद्भिक्षां विशांपतिः ।
पुराणि घोषान्ग्रामांश्च पत्तनानि च सर्वशः ॥ २,६९.४० ॥

जज्वाल तस्य बाणेषु चित्राभानुर्दिधक्षया ।
स तस्य पुरुषेन्द्रस्य प्रतापेन महायशाः ॥ २,६९.४१ ॥

ददाह कार्त्तवीर्यस्य शैलांश्चापि वनानि च ।
स शून्यमाश्रमं सर्वं वरुणस्यात्मजस्य वै ॥ २,६९.४२ ॥

ददाह सवनाटोपं चित्रभानुः स हैहयः ।
यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ॥ २,६९.४३ ॥

वसिष्ठनामा स मुनिः ख्यात आपव इत्युत ।
तत्रापवस्तदा क्रोधादर्जुनं शप्तवान्विभुः ॥ २,६९.४४ ॥

यस्मान्नवर्जितमिदं वनं ते मम हैहय ।
तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति ॥ २,६९.४५ ॥

अर्जुनो नाम कैन्तेयः स च राजा भविष्यति ।
अर्जुनं च महावीर्यो रामः प्रहरतां वरः ॥ २,६९.४६ ॥

छित्त्वा बाहुसहस्रं वै प्रमथ्य तरसा बली ।
तपस्वी ब्राह्मणश्चैव वधिष्यति महाबलः ॥ २,६९.४७ ॥

तस्य रामस्तदा ह्यासीन्मृत्युः शापेन धीमतः ।
राज्ञा तेन वरश्चैव स्वयमेव वृतः पुरा ॥ २,६९.४८ ॥

तस्य पुत्रशतं त्वासीत्पञ्च तत्र महारथाः ।
कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः॥२,६९.४९॥

शूरश्च शूरसेनश्च वृषास्यो वृष एव च ।
जयध्वजो वंशकर्त्ता अवन्तिषु विशांपतिः ॥ २,६९.५० ॥

जयध्वजस्य पुत्रस्तु तालजङ्घः प्रतापवान् ।
तस्य पुत्रशतं त्वेवं तालजङ्घा इतिश्रुतम् ॥२,६९.५१ ॥

तेषां पञ्च गणाः ख्याता हैहयानां महात्मनाम् ।
वीतिहोत्राश्च संजाता भोजाश्चावन्तयस्तथा ॥२,६९.५२ ॥

तुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च ।
वीतिहोत्रसुतश्चापि अनन्तो नाम पार्थिवः ॥ २,६९.५३ ॥

दुर्जयस्तस्य पुत्रस्तु बभूवामित्रकर्शनः ।
अनष्ट द्रव्यता चैव तस्य राज्ञो बभूव ह ॥२,६९.५४ ॥

प्रभावेण महाराजः प्रजास्ताः पर्यपालयत् ।
न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः ॥२,६९.५५ ॥

कार्त्तवीर्यस्य यो जन्म कथयेदिह धीमतः ।
वर्द्धन्ते विभवाश्शश्वद्धर्मश्चास्य विवर्द्धते ॥ २,६९.५६ ॥

यथा यष्टा यथा दाता तथा स्वर्गे महीपते ॥ २,६९.५७ ॥

इति श्रीब्रह्माण्डे महोपुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते कार्त्तवीर्यसंभवो नाम एकोनसप्ततितमोऽध्यायः


                 ऋषय ऊचुः
मरुतेन कथं कन्या राज्ञे दत्ता महात्मना ।
किंवीर्याश्च महात्मानो जाता मरुतकन्यया ॥ २,६८.१ ॥

                  सूत उवाच
आहरत्स मरुत्सोममन्नकामः प्रजेश्वरः ।
मासिमासि महातेजाः षष्टिसंवत्सरान्नृप ॥ २,६८.२ ॥

तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः ।
अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम् ॥ २,६८.३ ॥

अन्नं तस्य सकृद्भुक्तमहोरात्रं न क्षीयते ।
कोटिशो दीय मानं च सूर्यस्योदयनादपि ॥ २,६८.४ ॥

मित्रज्योतेस्तु कन्याया मरितस्य च धीमतः ।
तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः ॥ २,६८.५ ॥

संन्यस्य गृहधर्माणि वैराग्यं समुपस्थिताः ।
यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः ॥ २,६८.६ ॥

अनेनसः सुतो जातः क्षत्रधर्मः प्रतापवान् ।
क्षत्रधर्मसुतो जातः प्रतिपक्षो महातपाः ॥ २,६८.७ ॥

प्रतिपक्षसुतश्चापि सृंजयो नाम विश्रुतः ।
सृंजयस्य जयः पुत्रो विजयस्तस्य जज्ञिवान् ॥ २,६८.८ ॥

विजयस्य जयः पुत्रस्तस्य हर्यश्वकः स्मृतः ।
हर्यश्वस्य सुतो राजा सहदेवः प्रतापवान् ॥ २,६८.९ ॥

सहदेवस्य धर्मात्मा अहीन इति विश्रुतः ।
अहीनस्य चयत्सेनस्तस्य पुत्रोऽथ संकृतिः ॥ २,६८.१० ॥

संकृतेरपि धर्मात्मा कृतधर्मा महायशाः ।
इत्येते क्षत्रधर्माणो नहुषस्य निबोधत ॥ २,६८.११ ॥

नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ।
यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः ॥ २,६८.१२ ॥

यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततोऽवरः ।
काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा॥२,६८.१३। 
स यतिर्मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ।
तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः॥२,६८.१४ ॥

देवयानीमुशनसः सुतां भार्यामवाप ह ।
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥ २,६८.१५ ॥

यदुं च तुर्वसुं चैव देवयानो व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ २,६८.१६

अजीजनन्महावीर्यान्सुतान्देवसुतोपमान् ।
रथं तस्मै ददौ शक्रः प्रीतः परमभास्वरम् ॥ २,६८.१७ ॥

असंगं काञ्चनं दिव्यमक्षयौ च महेषुधी ।
युक्तं मनोजवैरश्वैर्येन कन्यां समुद्वहत् ॥ २,६८.१८ ॥

स तेन रथमुख्येन जिगाय सततं महीम् ।
ययातिर्युधि दुर्द्धर्षो देवदानवमानवैः ॥ २,६८.१९ ॥

पौरवाणां नृपाणां च सर्वेषां सोऽभवद्रथी ।
यावत्सुदेशप्रभवः कौरवो जनमेजयः ॥ २,६८.२० ॥

कुरोः पौत्रस्य राज्ञरतु राज्ञः पारीक्षितस्य ह ।
जगाम सरथो नाशं शापाद्गार्ग्यस्य धीमतः॥२,६८.२१।

गार्ग्यस्य हि सुतं बालं स राजा जनमेजयः ।
दुर्बुद्धिर्हिंसया मास लोहगन्धी नराधिपः ॥२,६८.२२॥

स लोहगन्धी राजर्षिः परिधावन्नितस्ततः ।
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ २,६८.२३ ॥

ततः स दुःखसंतप्तो नालभत्संविदं क्वचित ।
स प्रायाच्छौनकमृषिं शरणं व्यथितस्तदा ॥ २,६८.२४ ॥

इन्द्रोतोनाम विख्यातो योऽसौ मुनि रुदारधीः ।
योजयामास चैन्द्रोतः शौनको जनमेजयम् ॥ २,६८.२५ ॥

अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ।
स लोहगन्धो व्यनशत्त स्यावभृथमेत्य ह ॥२,६८.२६ ॥

स वै दिव्यो रथस्तस्माद्वसोश्चेदिपतेस्तथा ।
दत्तः शक्रेन तुष्टेन लेभे तस्माद्बृहद्रथः ॥२,६८.२७॥

ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् ।
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ २,६८.२८ ॥

स जरां प्राप्य राजर्षिर्ययातिर्नहुषात्मजः ।
पुत्रं श्रेष्टं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥२,६८.२९ ॥

जरावली च मां तात पलितानि च पर्ययुः ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने॥२,६८.३० ॥

त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह ।
जरां मे प्रतिगृह्णीष्व तं यदुःप्रत्युवाच ह ॥ २,६८.३१ ॥

अनिर्दिष्टा हि मे भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
सा तु व्यायामसाध्या वै न ग्रहीष्यामि ते जराम्।२,६८.३२।

जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ॥२,६८.३३॥

सितश्मश्रुधरो दीनो जरया शिथिलीकृतः ।
वलीसंततगात्रश्च निराशो दुर्बलाकृतिः ॥ २,६८.३४ ॥

अशक्तः कार्यकरणे परिबूतस्तु यौवने ।
सहोपवीतिभिश्चैव तां जरां नाभिकामये ॥ २,६८.३५ ॥

संति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ २,६८.३६ ॥

स एवमुक्तो यदुना दीव्रकोपसमन्वितः ।
उवाच वदतां श्रेष्टो ज्येष्ठं तं गर्हयन्सुतम् ॥ २,६८.३७ ॥

आश्रमः कस्तवान्योऽस्ति को वा धर्मविधिस्तव ।
मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ॥२,६८.३८ ॥

एवमुक्त्वा यदुं राजा शशापैनं स मन्युमान् ।
यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि ॥२,६८.३९।

तस्मान्न राज्यभाङ्मूढ प्रजा ते वै भविष्यति ।
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ॥२,६८.४० ॥

                   तुर्वसुरुवाच
न कामये जरां तात कामभोगप्रणाशिनीम् ।
जरायां बहवो दोषाः पानभोजन कारिताः ॥२,६८.४१ ॥

तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ।
                   ययातिरुवाच
यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि॥२,६८.४२।

तस्मात्प्रजानु विच्छेदं तुर्वसो तव यास्यति ।
संकीर्णेषु च धर्मेण प्रतिलोमनरेषु च ॥ २,६८.४३ ॥

पिशिताशिषु चान्येषु मूढ राजा भविष्यसि ।
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु वा ।
वासस्ते पाप म्लेच्छेषु भविष्यति न संशयः ॥२,६८.४४ ॥

                  सूत उवाच
एवं तु तुर्वसुंशप्त्वा ययातिः सुतमात्मनः ॥ २,६८.४५ ॥

शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ।
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ॥२,६८.४६ ॥

जरा वर्षसहस्रंवै यौवनं स्वं ददस्व मे ।
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥२,६८.४७॥

स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ।
               द्रुह्युरुवाच
नारोहेत रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ।
न सुखं चास्य भवति न जरां तेन कामये ॥ २,६८.४८ ॥

              ययातिरुवाच
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥२,६८.४९।

तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् ।
नौप्लवोत्तरसंचारस्तव नित्यं भविष्यति ॥ २,६८.५० ॥

अराजा राजवंशस्त्वं तत्र नित्यं वसिष्यसि ।
अनो त्वं प्रतिपाद्यस्व पाप्मानं जरया सह ॥२,६८.५१ ॥

एवं वर्षसहस्रं तु चरेयं यौवनेन ते ।
                      अनुरुवाच
जीर्णः शिशुरिवाशक्तो जरया ह्यशुचिः सदा ।
न जुहोति स कालेऽग्निं तां जरां नाभिकामये ।२,६८.५२।

                  ।ययातिरूवाच ।
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि॥२,६८.५३॥

जरादोष स्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ।
प्रजा च यौवनं प्राप्ता विनशिष्यत्यनो तव ॥ २,६८.५४ ॥

अग्निप्रस्कन्दनपरास्त्वं वाप्येवं भविष्यसि ।
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ॥ २,६८.५५ ॥

जरावली च मां तात पलितानि च पर्ययुः ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मियौवने ॥२,६८.५६।

कञ्चित्कालं चरेयं वै विषयान्वयसा तव ।
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥२,६८.५७॥

स्वं चैव प्रतिपत्स्येऽहं पाप्मानं जरया सह ।
                  सूत उवाच
एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा ॥२,६८.५८॥

यथा तु मन्यसे तात करिष्यामि तथैव च ।
प्रतिपत्स्ये च ते राजन्पाप्मानं जरया सह ॥ २,६८.५९ ॥

गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ।
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव ॥२,६८.६० ॥

यौवनं भवते दत्त्वा चरिष्यामि यथार्थवत् ।
ययातिरुवाच
पूरो प्रीतोऽस्मि भद्रं ते प्रीतश्चेदं ददामि ते ॥ २,६८.६१ ॥

सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ।
सूत उवाच
पूरोरनुमतो राजा ययातिः स्वजरां ततः ॥ २,६८.६२ ॥

संक्रामयामास तदा प्रासादद्भार्गवस्य तु ।
गौरवेणाथ वयसा ययातिर्नहुषात्मजः ॥ २,६८.६३ ॥

प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान्स्वकान् ।
यथाकामं यथोत्साहं यथाकालं यथासुखम् ॥ २,६८.६४ ॥

धर्माविरोधी राजेन्द्रो यथाशक्ति स एव हि ।
देवानतर्पयद्यज्ञैः पितॄञ्श्राद्धैस्तथैव च ॥ २,६८.६५ ॥

दाराननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ।
अतिथीनन्नपानैश्च वैश्यंश्च परिपालनैः ॥ २,६८.६६ ॥

आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ।
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयत् ॥ २,६८.६७ ॥

ययातिः पालयामास साक्षादिन्द्र इवापरः ।
स राजा सिंहविक्रान्तो युवा विषयगोचरः ॥ २,६८.६८ ॥

अविरोधेन धर्मस्य चचार सुखमुत्तमम् ।
स मार्गमाणः कामानामतद्दोषनिदर्शनात् ॥ २,६८.६९ ॥

विश्वाच्या सहितो रेमे वैब्राजे नन्दने वने ।
अपश्यत्स यदा तान्वै वर्द्धमानान्नृपस्तदा ॥२,६८.७० ॥

गत्वा पूरोः सकाशं वै स्वां जरां प्रत्यपद्यत ।
संप्राप्य स तु तान्कामांस्तृप्तः खिन्नश्च पार्थिवः॥२,६८.७१।

कालं वर्षसहस्रं वै सस्मार मनुजाधिपः ।
परिसंख्याय काले च कलाः काष्ठास्तथैव च ॥२,६८.७२ ॥

पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ।
यथा सुखं यथोत्साहं यथाकालमरिन्दम ॥२,६८.७३॥

सेविता विषयः पुत्र यौवनेन मया तव ।
पूरो प्रीतोऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम्॥२,६८.७४ ॥

राज्यं च त्वं गृहाणेदं त्वं हि मे प्रियकृत्सुतः ।
प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः॥२,६८.७५ ॥

यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ।
अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसम् ॥ २,६८.७६ ॥

ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ।
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ॥ २,६८.७७ ॥

ज्येष्ठं यदुमतिक्रम्य राज्यं दास्यसि पूरवे ।
यदुर्ज्येष्ठस्तव सुतो जातस्तमनुदतुर्वसुः ॥ २,६८.७८ ॥

शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ।
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति ।
सुतः संबोधयामस्त्वां धर्मं समनुपालय ॥ २,६८.७९ ॥
______
ययातिरुवाच
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ॥ २,६८.८० ॥

ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ।
मातापित्रोर्वचनकृद्वीरः पुत्रः प्रशस्यते ॥ २,६८.८१ ॥

मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतांमतः ॥ २,६८.८२ ॥

स पुत्रः पुत्रवद्यश्च वर्त्तते पितृमातृषु ।
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च ॥ २,६८.८३ ॥

द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ।
पूरुणा तु कृतं वाक्यं मानितश्च विशेषतः ॥ २,६८.८४ ॥

कनीयान्मम दायादो जरा येन धृता मम ।
सर्वे कामा मम कृताः पूरुणा पुण्यकारिणा ॥ २,६८.८५

शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ।
पुत्रो यस्त्वानुवर्त्तेत स राजा तु महामते ॥ २,६८.८६ ॥

प्रजा ऊचुः
भवतोऽनुमतोऽप्येवं पूरू राज्येऽभिषिच्यताम् ।
यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा ॥ २,६८.८७ ॥
______
सर्वमर्हति कल्याणं कनीयानपि स प्रभुः ।
अर्हेऽस्य पूरू राज्यस्य यः प्रियः प्रियकृत्तव ॥ २,६८.८८ ॥

वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ।
पौरजान पदैस्तुष्टैरित्युक्ते नाहुषस्तदा ॥ २,६८.८९ ॥

अभिषिच्य ततः पूरुं स राज्ये सुतमात्मनः ।
दिशि दक्षिणपूर्वस्यां तुर्वसुं तु न्यवेशयत् ॥ २,६८.९० ॥

दक्षिणापरतो राजा यदुं ज्येष्ठं न्यवेशयत् ।
प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च तावुभौ ॥ २,६८.९१ ॥

सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् ।
व्यभजत्पञ्चधा राजा पुत्रेभ्यो नाहुषस्तदा ॥ २,६८.९२ ॥

तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशं धर्मज्ञैर्धर्मेण प्रतिपान्यते ॥ २,६८.९३ ॥

एवं विभज्य पृथिवीं पुत्रेभ्यो नाहुषस्तदा ।
पुत्रसंक्रामितश्रीस्तु प्रीतिमा नभवन्नृपः ॥ २,६८.९४ ॥

धनुर्न्यस्य पृषत्कांश्च राज्यं चैव सुतेषु तु ।
प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु ॥ २,६८.९५ ॥

अत्र गाथा महाराज्ञा पुरा गीता ययातिना ।
याभिः प्रत्याहरेत्कामात्कूर्मौंऽगानीव सर्वशः ॥ २,६८.९६ ॥

न जातु कामः कामानमुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥ २,६८.९७ ॥

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ २,६८.९८ ॥

यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ २,६८.९९ ॥

यदा परान्न बिभेति यदान्यस्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥ २,६८.१०० ॥

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
यैषा प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ २,६८.१०१ ॥

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति ॥ २,६८.१०२ ॥

यच्च कामसुखं लोके यच्छ दिव्यं महत्सुखम् ।
कृष्णाक्षयसुखस्यैतत्कलां नर्हन्ति षोडशीम् ॥ २,६८.१०३ ॥

एवमुक्त्वा स राजर्षिः सदारः प्रस्थितो वनम् ।
भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः ॥ २,६८.१०४ ॥

पालयित्वा व्रतं चार्षं तत्रैव स्वर्ग माप्तवान् ।
तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः ॥ २,६८.१०५ ॥

यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव गभस्तिभिः।
धन्यः प्रजावा नायुष्मान्कीर्त्तिमांश्च भवेन्नरः॥२,६८.१०६ ॥

ययातेश्चारितं सर्वं पठञ्छृण्वन्द्विजोत्तमाः॥२,६८.१०७ ॥

इति श्रीब्रह्माण्डे
अलं रामेण राजेन्द्र स्मरता निधनं पितुः ।
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥ २,४६.३५ ॥

त्रिःसप्तकृत्वस्तन्माता यदुरः स्वमताडयत् ।
तावद्रामेण तस्मात्तु क्षत्रमुत्सादितं भुवि ॥ २,४६.३६ ॥
________
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते षट्चत्वारिंशत्त मोऽध्यायः ॥ ४६॥

___________________________________________________

                 श्रीकृष्ण उवाच
अयि नगनं दिनि निन्दितचन्द्रमुखि त्वमिमं जमदग्निसुतम् ।
नय निजहस्तसरोजसमर्पितम्स्तकमङ्कमनन्तगुणे ॥ २,४२.२८ ॥

भवभयहारिणि शंभुविहारिणि कल्मषनाशिनि कुंभिगते ।
तव चरणे पतितं सततं कृतकिल्बिषमप्यव देहि वरम् ॥ २,४२.२९ ॥

श्रुणु देवि महाभागे वेदोक्तं वचनं मम ।
यच्छ्रुत्वा हर्षिता नूनं भविष्यसि न संशयः ।
विनायकस्ते तनयो महात्मा महतां महान् ॥ २,४२.३० ॥

यं कामः क्रोध उद्वेगो भयं नाविशते कदा ।
वेदस्मृतिपुराणेषु संहितासु च भामिनि ॥ २,४२.३१ ॥

नामान्यस्योपदिष्टानि सुपुण्यानि महात्मभिः ।
यानि तानि प्रवक्ष्यामि निखिलाघहराणि च ॥ २,४२.३२ ॥

प्रमथानां गणा ये च नानारूपा महाबलाः ।
तेषामीशस्त्वयं यस्माद्गणेशस्तेन कीर्त्तितः ॥ २,४२.३३ ॥

भूतानि च भविष्याणि वर्त्तमानानि यानि च ।
ब्रह्माण्डान्यखिलान्येव यस्मिंल्लंबोदरः स तु॥२,४२.३४॥

यः स्थिरो देवयोगेन च्छिन्नं संयोजितं पुनः ।
गजस्य शिरसा देवितेन प्रोक्तो गजाननः ॥२,४२.३५ ॥

चतुर्थ्यामुदितश्चन्द्रो दर्भिणा शप्त आतुरः ।
अनेन विधृतो भाले भालचन्द्रस्ततः स्मृतः॥२,४२.३६ ॥

शप्तः पुरा सप्तभिस्तु मुनिभिः संक्षयं गतः ।
जातवेदा दीपितोऽभूद्येनासौशूर्पकर्णकः॥२,४२.३७ ॥

पुरा देवासुरे युद्धे पूजितो दिविषद्गणैः ।
विघ्नं निवारयामास विघ्ननाशस्ततः स्मृतः ॥२,४२.३८ ॥

अद्यायं देवि रामेण कुठारेण निपात्य च ।
दशनं दैवतो भद्रे ह्येकदन्तः कृतोऽमुना ॥ २,४२.३९ ॥

भविष्यत्यथ पर्याये ब्रह्मणो हरवल्लभे ।
वक्रीभविष्यत्तुण्डत्वाद्वक्रतुण्डः स्मृतो बुधैः ॥ २,४२.४० ॥

एवं तवास्य पुत्रस्य संति नामानि पार्वति ।
स्मरणात्पापहारीणि त्रिकालानुगतान्यपि ॥ २,४२.४१ ॥

अस्मात्त्रयोदशीकल्पात्पूर्वस्मिन्दशमीभवे ।
मयास्मै तु वरो दत्तः सर्गदेवाग्रपूजने ॥ २,४२.४२ ॥

जातकर्मादिसंस्कारे गर्भाधानादिकेऽपि च ।
यात्रायां च वणिज्यादौ युद्धे देवार्चने शुभे ॥ २,४२.४३ ॥

संकष्टे काम्यसिद्ध्यर्थं पूजयेद्यो गजाननम् ।
तस्य सर्वाणि कार्याणि सिद्ध्यन्त्येव न संशयः॥२,४२.४४।

                         ।वसिष्ठ उवाच

इत्युक्तं तु समाकर्ण्य कृष्णेन सुमहात्मना ।
पार्वती जगतां नाथा विस्मितासीच्छुभानना ॥ २,४२.४५।

यदा नैवोत्तरं प्रादात्पार्वती शिवसन्निधौ ।
तदा राधाब्रवीद्देवीं शिवरूपा सनातनी ॥ २,४२.४६ ॥

                    ।श्रीराधोवाच ।
प्रकृतिः पुरुषश्चोभावन्योन्याश्रयविग्रहौ ।
द्विधाभिन्नौ प्रकाशेते प्रपञ्चेऽस्मिन् यथा तथा।२,४२.४७।

त्वं चाहमावयोर्देवि भेदो नैवास्ति कश्चन ।
विष्णुस्त्वमहमेवास्मि शिवो द्विगुणतां गतः ॥ २,४२.४८ ॥

शिवस्य हृदये विष्णुर्भवत्या रूपमास्थितः ।
मम रूपं समास्थाय विष्णोश्च हृदये शिवः ॥ २,४२.४९ ॥

एष रामो महाभागे वैष्णवः शैवतां गतः ।
गणेशोऽयं शिवः साक्षाद्वैष्णवत्वं समास्थितः॥२,४२.५०॥

एतयोरोवयोः प्रभवोश्चापि भेदो न दृश्यते ।
एवामुक्त्वा तु सा राधा क्रोडे कृत्वा गजाननम्॥२,४२.५१।

मूर्ध्न्युपाघ्राय पस्पर्श स्वहस्तेन कपोलके ।
स्पृष्टमात्रे कपोले तु क्षतं पूर्त्तिमुदागतम् ॥२,४२.५२॥

पार्वती मुप्रसन्नाभूदनुनीताथ राधया ।
पादयोः पतितं राममुत्थाप्य निजपाणिना ॥२,४२.५३॥

क्रोडीचकार सुप्रीता मूर्ध्न्यु पाघ्राय पार्वती ।
एवं तयोस्तु सत्कारं दृष्ट्वा रामगणेशयोः॥२,४२.५४ ॥

कृष्णः स्कन्दमुपाकृष्य स्वाङ्के प्रेम्णा न्यवेशयत् ।
अथ शंभुरपि प्रीतः श्रीदामानं पस्थितम्॥२,४२.५५॥

स्वोत्संगे स्थापयामास प्रेम्णा मत्कृत्य मानदः ॥ २,४२.५६ ॥

जज्ञिरे वृष्णिकुलेषु महात्मनो महौजस: ।
नन्दाद्या गोपवेशाढ्या: श्रीदामाश्च बालका:।।२,४२.५७।।

_____________________
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२॥
_______________________________
_____________________
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२॥



__________________________________________________________
                     ।वसिष्ठ उवाच।
एवं सुस्निग्धचित्तेषु तेषु तिष्ठत्सु भूपते ।
भवान्युत्संगतो रामः समुत्थाय कृताजलिः ॥ २,४३.१ ॥

तुष्टाव प्रयतो भूत्वा निर्विशेष विशेषवत् ।
अद्वयं द्वैतमापन्नं निर्गुणं सगुणात्मकम् ॥ २,४३.२ ॥

                     ।राम उवाच।
प्रकृतिविकृतिजातं विश्वमेतद्विधातुं मम कियदनुभातं वैभवं तत्प्रमातुम् ।
अविदिततनुनामाभीष्टवस्त्वेकधामाभवदथ भव भामा पातु मां पूर्णकामा ॥ २,४३.३ ॥

प्रकटितगुणाभानं कालसंख्याविधानं सकलभवनिदानं कीर्त्यते यत्प्रधानम्।
तदिह निखिलतातः संबभूवोक्षपातःकृतकृतकनिपातः पातु मामद्य मातः ॥ २,४३.४ ॥

दनुजकुलविनाशीलेखपाताविनाशी प्रथमकुलविकाशी सर्वविद्याप्रकाशी ।
प्रसभरचितकाशी भक्तदत्ताखिलाशीरवतु विजितपाशी मांसदा षण्मुखाशी ॥ २,४३.५ ॥

हरनिकट निवासी कृष्णसेवाविलासी प्रणतजनविभासी गोपकन्याप्रहासी ।
हरकृतबहुमानो गोपिकेशैकतानो विदितबहुविधानो जायतां कीर्तिहा नौ ॥ २,४३.६ ॥


प्रभुनियतमाना यो नुन्नभक्तान्तरायो त्दृतदुरितनिकायो ज्ञानदातापरायोः ।
सकलगुणगरिष्ठो राधिकाङ्केनिविष्टो मम कृतमपराधं क्षन्तुमर्हत्वगाधम् ॥२,४३.७ ॥

या राधा जगदुद्भवस्थितिलयेष्वाराध्यते वा जनैः शब्दं बोधयतीशवक्त्रंविगलत्प्रेमामृतास्वादनम् ।
रासेशी रसिकेश्वरी रमणत्दृन्निष्ठानिजानन्दिनी नेत्री सा परिपातु मामवनतं राधेति य कीर्त्यते ॥ २,४३.८ ॥

यस्या गर्भसमुद्भवो ह्यतिविराड्यस्यांशभूतो विराट्यन्नाभ्यंबुरुहोद्भवेन विधिनैकान्तोपदिष्टेन वै सृष्टं सर्वमिदं चराचरमयं विश्वं च यद्रोमसु ब्रह्माण्डानि विभान्ति तस्य जननी शश्वत्प्रसन्नास्तु सा ॥ २,४३.९ ॥

पायाद्यः स चराचरस्य जगतो व्यापी विभुःसच्चिदानन्द अब्धिः ।
प्रकटस्थितो विलसति प्रेमान्धया राधया ।
कृष्णः पूर्णतमो ममोपरि दयाक्लिन्नान्तरः स्तात्सदा येनाहं सुकृती भवामि च भवाम्यानन्दलीनान्तरः ॥ २,४३.१० ॥

_________

                     ।वसिष्ठ उवाच।
स्तुत्वैवं जामदग्न्यस्तु विरराम ह तत्परम् ।
विज्ञाताखिलतत्त्वार्थो हृष्टरोमा कृतार्थवत् ॥ २,४३.११ ॥

अथोवाच प्रसन्नात्मा कृष्णः कमललोचनः ।
भार्गवं प्रणतं भक्त्या कृपापात्रं पुरस्थितम् ॥२,४३.१२ ॥

                     ।कृष्ण उवाच।
सिद्धोऽसि भार्गवेन्द्र त्वं प्रसादान्मम संप्रतम् ।
अद्य प्रभृति वत्सास्मिंल्लोके श्रेष्ठतमो भव ॥२,४३.१३ ॥

तुभ्यं वरो मया दत्तः पुरा विष्णुपदाश्रमे।
तत्सर्वं क्रमतो भाव्यं समा बह्वीस्त्वया विभो॥२,४३.१४॥

दया विधेया दीनेषु श्रेय उत्तममिच्छता ।
योगश्च सादनीयो वै शत्रूणां निग्रहस्तथा॥२,४३.१५॥

त्वत्समो नास्ति लोकेऽस्मिंस्तेजसा च बलेन च ।
ज्ञानेन यशसा वापि सर्वश्रेष्ठतमो भवान् ॥२,४३.१६॥

अथ स्वगृहमासाद्य पित्रोः शुश्रूषणं कुरु ।
तपश्चर यथाकालं तेन सिद्धिः करस्थिता ॥२,४३.१७॥

राधोत्संगात्समुत्थाप्य गणेशं राधिकेश्वरः ।
आलिङ्ग्य गाढं रासेण मैत्रीं तस्य चकार ह ॥२,४३.१८॥

अथोभावपि संप्रीतौ तदा रामगणेश्वरौ।
कृष्णाज्ञया महाभागौ बभूवतुररिन्दम ॥२,४३.१९॥

एतस्मिन्नन्तरे देवी राधा कृष्णप्रिया सती ।
उभाभ्यां च वरं प्रादात्प्रसन्नास्या मुदान्विता ॥२,४३.२०॥

                      ।राधोवाच।
सर्वस्य जगतो वन्द्यौ दुराधर्षौं प्रियावहौ ।
मद्भक्तौ च विशेषेण भवन्तौ भवतां सुतौ ॥२,४३.२१॥

भवतोर्नाम चौच्चार्य यत्कार्यं यः समारभेत् ।
सिद्धिं प्रयातु ततसर्वं मत्प्रसादाद्धि तस्य तु ॥२,४३.२२॥

अथोवाच जगन्माता भवानी भववल्लभा ।
वत्स राम प्रसन्नाहं तुभ्यं कं प्रददे वरम् ।
तं प्रब्रूहि महाभाग भयं त्यक्त्वा सुदूरतः ।
राम उवाच
जन्मान्त रसहस्रेषु येषुयेषु व्रजाम्यहम् ॥ २,४३.२३॥

कृष्णयोर्भवयोर्भक्तो भविष्यामीति देहि मे ।
अभेदेन च पश्यामि कृष्णौ चापि भवौ तथा ॥२,४३.२४॥

                     ।पार्वत्युवाच।
एवमस्तु महाभाग भक्तोऽसि भवकृष्णयोः ।
चिरञ्जीवी भवाशु त्वं प्रसादान्मम सुव्रत ॥ २,४३.२५ ॥

अथोवाच धराधीशः प्रसन्नस्तमुमापतिः ।
प्रणतं भार्गवेन्द्रं तु वरार्हं जगदीश्वरः ॥ २,४३.२६ ॥

                    ।शिव उवाच।
रामभक्तोऽसि मे वत्स यस्ते दत्तो वरो मया ।
स भविष्यति कार्त्स्येन सत्यमुक्तं न चान्यथा॥२,४३.२७॥

अद्यप्रभृति लोकेऽस्मिन् भवतो बलवत्तरः ।
न कोऽपि भवताद्वत्स तेजस्वी च भवत्परः ॥ २,४३.२८ ॥

                  ।वसिष्ठ उवाच।
अथ कृष्णोऽप्यनुज्ञाप्य शिवं च नगनन्दिनीम् ।
गोलोकं प्रययौ युक्तःश्रीदाम्ना चापि राधया ॥२,४३.२९ ॥

अथ रामोऽपि धर्मात्मा भवानीं च भवं तथा ।
संपूज्य चाभिवाद्याथ प्रदक्षिणमुपा क्रमीत् ॥२,४३.३० ॥

गणेशं कार्त्तिकेयं च नत्वापृच्छ्य च भूपते ।
अकृतव्रणसंयुक्तो निश्चक्राम गृहान्तरात् ॥२,४३.३१ ॥

निष्क्रम्यमाणो रामस्तु नन्दीश्वरमुखैर्गणैः ।
नमस्कृतो ययौ राजन्स्वगृहं परया मुदा ॥२,४३.३२
_________________________
इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय
उपोद्धातपादे भार्गवचरिते त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३॥






कोई टिप्पणी नहीं:

एक टिप्पणी भेजें