शनिवार, 13 फ़रवरी 2021

इति श्रीमन्महाभारते विराटपर्वणिसमयपालनपर्वणि पञ्चदशोऽध्यायः ।। 15 ।।

अथ समयपलनपर्व ।। 2 ।।
पाण्डवैः स्वस्वव्यापारैर्विराटपरितोपणम् ।। 1 ।।
भीमेन शङ्करोत्सवे महामल्लमारणम् ।। 2 ।।




जनमेजय उवाच।

4-15-1x

एवं विराटनगरे वसन्तः सत्यविक्रमाः।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ।। 1 ।।

4-15-1a
4-15-1b

वैशंपायन उवाच।

4-15-2x

एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः ।
आराधयन्तो राजानां यदकुर्वत तच्छृणु ।। 2 ।।

4-15-2a
4-15-2b

युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः ।
तथैव च विराटस्य सपुत्रस्य विशांपते ।। 3 ।।

4-15-3a
4-15-3b

स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः।
अक्षबद्धान्यथाकामं सूत्रबद्धानिव द्विजान् ।। 4 ।।

4-15-4a
4-15-4b

अज्ञातं च विराटस्य विजित्य वसु धर्मराट्।
भ्रातृभ्यः पुरुषव्याघ्रो यथेष्टं संप्रयच्छति ।। 5 ।।

4-15-5a
4-15-5b

भीमसेनोपि मांसानि भक्ष्याणि विविधानि च ।
अतिसृष्टानि मत्स्येन विक्रीणन्निव भ्रातृषु ।। 6 ।।

4-15-6a
4-15-6b

वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः ।
विक्रीणन्निव सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ।। 7 ।।

4-15-7a
4-15-7b

नकुलोपि धनं लब्ध्वा कृते कर्मणि वाजिनाम्।
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ।। 8 ।।

4-15-8a
4-15-8b

सहदेवोपि गोपानां वेषमास्थाय पाण्डवः।
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ।। 9 ।।

4-15-9a
4-15-9b

कृष्णा तु सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी ।
यथा पुनरविज्ञाता तथा चरति भामिनी ।। 10 ।।

4-15-10a
4-15-10b

एवं संभावयन्तस्ते तदाऽन्योन्यं महारथाः।
विराटनगरे चेरुः पुनर्गर्भधृता इव ।। 11 ।।

4-15-11a
4-15-11b

साशङ्का धार्तराष्ट्रस्य भयात्पाण्डुसुतास्तदा ।
प्रेक्षमाणास्तदा कृष्णामूपुश्छन्ना नराधिप ।। 12 ।।

4-15-12a
4-15-12b

अथ मासे चतुर्थे तु शङ्करस्य महोत्सवः।
आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ।। 13 ।।

4-15-13a
4-15-13b

तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ।। 14 ।।

4-15-14a

महाकाया महावीर्याः कालकेया इवासुराः।
वीर्योन्मत्ता बलोदग्रा राज्ञा समभिपूजिताः ।। 15 ।।

4-15-15a
4-15-15b

सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः।
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ ।। 16 ।।

4-15-16a
4-15-16b

तेषामेको महानासीत्सर्वमल्लानथाह्वयत्।
व्यावल्गमानो ददृशे गर्जितोद्गतिभिः स्थितः ।। 17 ।।

4-15-17a
4-15-17b

वित्रस्तमनसः सर्वे मल्लास्ते हतचेतसः ।
अवाङ्भुखाश्च भीताश्च मल्लाश्चान्ये विचेतसः ।। 18 ।।

4-15-18a
4-15-18b

व्यसुत्वमपरे चैव वाञ्छन्ति प्रतिविह्वलाः।
गां प्रवेष्टुमथेच्छन्ति खं गन्तुमिव चोत्थिताः ।। 19 ।।

4-15-19a
4-15-19b

त्रस्ताः शान्ता विषणाङ्गा निःशब्दं विह्वलेक्षणाः ।
विराटराजमल्लास्ते भग्नदर्पा हतप्रभाः ।। 20 ।।

4-15-20a
4-15-20b

मल्लेन्द्रनिहताः सर्वे न किंचित्प्रवदन्ति ते।
मल्ल उद्वीक्ष्य तान्मल्लांस्रस्तान्वाक्यमुवाचह ।। 21 ।।

4-15-21a
4-15-21b

आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले ।
सिंहव्याघ्रगणैः सार्धं क्रीडन्तं विद्धि भूपते ।। 22 ।।

4-15-22a
4-15-22b

मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् ।
विराटो वीक्ष्य तान्मल्लांस्त्रस्तान्वाक्यमुवाच ह ।। 23 ।।

4-15-23a
4-15-23b

अनेन सह मल्लेन को योद्धुं शक्तिमान्नरः ।। 24 ।।

4-15-24a

इत्युक्तास्ते विराटेन सर्वे मल्ला विशांपते ।
तूष्णीमासंस्ततो राजा क्रोधाविष्ट उवाच ह ।। 25 ।।

4-15-25a
4-15-25b

ग्रामांश्च वेतनान्येपां मल्लानां हारयाम्यहम्।
ततो युधिष्ठिरोऽवादीच्छ्रुत्वा मात्स्यपतेर्वचः ।। 26 ।।

4-15-26a
4-15-26b

अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे।
अनेन सह मल्लेन योद्धुं शक्नोति भूपते ।। 27 ।।

4-15-27a
4-15-27b

योसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे।
सोयं मल्लो वसत्येप राजंस्तव महानसे ।। 28 ।।

4-15-28a
4-15-28b

वैशंपायन उवाच।

4-15-29x

युधिष्ठिरवचः श्रुत्वा व्यक्तमाहेति पार्थिवः।
सोप्यथाहूयतां क्षिप्रं योद्धुं मल्लेन संप्रति ।। 29 ।।

4-15-29a
4-15-29b

भीमसेनो विराटेन आहूतश्चोदितस्तथा।
योद्धुं ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते ।। 30 ।।

4-15-30a
4-15-30b

नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात्।
अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् ।। 31 ।।

4-15-31a
4-15-31b

युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशांपते।
महादेवस्य भक्त्या च तं मल्लं पातयाम्यहम् ।। 32 ।।

4-15-32a
4-15-32b

वैशंपायन उवाच।

4-15-33x

चोदितो भीमसेनस्तु मल्लमाहूय मण्डले।
योद्धुं व्यवस्थितो वीरो रेणुं संमृज्य हस्तयोः।
मत्तो गज इवान्यं तु योद्धुं समुपचक्रमे ।। 33 ।।

4-15-33a
4-15-33b
4-15-33c

अथ सूदेन तं मल्लं योधयामास मत्स्यराट्र ।। 34 ।।

4-15-34a

नोद्यमानस्तदा भीमो दुःखेनेवाकरोन्मतिम्।
न हि शक्नोम्यशक्तोपि प्रत्याख्यातुं नराधिपं ।। 35 ।।

4-15-35a
4-15-35b

ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन्।
प्रविवेश महारङ्गं विराटमभिहर्षयन् ।। 36 ।।

4-15-36a
4-15-36b

बवन्ध कक्षां कौन्तेयस्ततः संहर्षयञ्जनम् ।
ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ।। 37 ।।

4-15-37a
4-15-37b

जीमूतं नाम तं तत्र मल्लप्रख्यातविक्रमम् ।
कक्षे मल्लं गृहीत्वाऽथ ननाद बहु सिंहवत् ।। 38 ।।

4-15-38a
4-15-38b

तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ ।
मत्ताविव महाकायौ वारणौ षष्ठिहायनौ ।। 39 ।।

4-15-39a
4-15-39b

ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतु।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ।। 40 ।।

4-15-40a
4-15-40b

उभौ परमसंहृष्टौ बलेनातिबलावुभौ ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ।। 41 ।।

4-15-41a
4-15-41b

कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ।। 42 ।।

4-15-42a
4-15-42b

क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्स्वनैः।
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ।। 43 ।।

4-15-43a
4-15-43b

शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ।
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ।। 44 ।।

4-15-44a
4-15-44b

तद्युद्धमभवद्धोरमशस्त्रं बाहुतेजसा।
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ।। 45 ।।

4-15-45a
4-15-45b

अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ।। 46 ।।

4-15-46a
4-15-46b

प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः।
आकर्षतुरथान्योन्यं जानुभिश्चापि जन्घतुः ।। 47 ।।

4-15-47a
4-15-47b

ततः शब्देन महता भर्त्सयन्तौ परस्परम्।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ।
बाहुभिः समसज्जेतामायसैः परिघैरिव ।। 48 ।।

4-15-48a
4-15-48b
4-15-48c

उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान्।
पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् ।। 49 ।।

4-15-49a
4-15-49b

चकर्ष दोर्भ्यामुत्पात्य भीमो मल्लममित्रहा।
निनदं तमभिक्रोशञ्शार्दूल इव वारणम् ।। 50 ।।

4-15-50a
4-15-50b

समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् ।
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ।। 51 ।।

4-15-51a
4-15-51b

भ्रामयित्वा शतगुणं गतसत्वमचेतनम् ।
प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः।। 52 ।।

4-15-52a
4-15-52b

तस्मिन्विनिहते वीरे जीमूते लोकविश्रुते ।
विराटः परमं हर्षमगच्छद्वान्धवैः सह ।। 53 ।।

4-15-53a
4-15-53b

प्रहर्षात्प्रददौ वित्तं बहु राज महामनाः।
वललाय महारङ्गे यथा वैश्रवणस्तथा ।। 54 ।।

4-15-54a
4-15-54b

एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् ।
विनिघ्नन्मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् ।। 55 ।।

4-15-55a
4-15-55b

यदाऽस्य तुल्यः पुरुषो न कश्चितत्र विद्यते ।
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ।। 56 ।।

4-15-56a
4-15-56b

विराटेन प्रदत्तानि चित्राणि विविधानि च।
स्थितेभ्यः पुरुषेभ्यश्च दत्त्वा द्रव्याणि जग्मिवान् ।। 57 ।।

4-15-57a
4-15-57b

पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः।
योध्यते स विराटस्य गजैः सिंहैर्महाबलैः ।। 58 ।।

4-15-58a
4-15-58b

बीभत्सुरपि गीतेन नृत्तेनापि च पाण्डवः।
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ।। 59 ।।

4-15-59a
4-15-59b

अश्वैर्विनीतैर्जवनैस्तत्रतत्र समागतः।
तोपयामास राजानं नकुलो नृपसत्तमम्।
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु ।। 60 ।।

4-15-60a
4-15-60b
4-15-60c

विनीतान्वृपभान्दृष्ट्वा सहदेवस्य चाभितः।
धनं ददौ बहुविधं विराटः पुरुषर्षभः ।। 61 ।।

4-15-61a
4-15-61b

द्रौपदी प्रेक्ष्य तान्सर्वान्क्लिश्यमानान्महारथान् ।
नातिप्रीतमना राजन्निश्वासपरमाऽभवत् ।। 62 ।।

4-15-62a
4-15-62b

एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः ।
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ।। 63 ।।

4-15-63a
4-15-63b

।। इति श्रीमन्महाभारते विराटपर्वणि
समयपालनपर्वणि पञ्चदशोऽध्यायः ।। 15 ।।

।। समाप्तं चेदं समयपालनपर्व ।। 2 ।।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें