अक्रिय :-- अञ्चु गतौ रक् । स्थिरे ।
“उदु स्वरुर्नवजा नाक्रः” इतिवेदः ।
*ak-
Proto-Indo-European root meaning "be sharp, rise (out) to a point, pierce."
It forms all or part of: acacia; acanthus; accipiter; acer; acerbic; acerbity; acervate; acervulus; acescent; acetic; acid; acicular; acme; acne; acrid; acridity; acrimony; acro-; acrobat; acromegaly; acronym; acrophobia; acropolis; acrostic; acrylic; acuity; aculeate; acumen; acupressure; acupuncture; acute; aglet; ague; Akron; anoxic; awn; coelacanth; dioxin; deoxy-; eager; ear (n.2) "grain part of corn;" edge (n.); egg (v.) "to goad on, incite;" eglantine; epoxy; ester; exacerbation; hammer; hypoxia; mediocre; oxalic; oxide; oxy-; oxygen; oxymoron; paragon; pyracanth; paroxysm; selvage; vinegar.
It is the hypothetical source of Greek akros "at the end, at the top, outermost; consummate, excellent," akis "sharp point," akros "at the farthest point, highest, outermost," akantha "thorn," akme "summit, edge," oxys "sharp, bitter;" Sanskrit acri- "corner, edge," acani- "point of an arrow," asrih "edge;" Oscan akrid (ablative singular) "sharply;" Latin acer (fem. acris) "sharp to the senses, pungent, bitter, eager, fierce," acutus "sharp, pointed," acuere "to sharpen," acerbus "harsh, bitter," acere "be sharp, be bitter," acus "a needle, pin," ocris "jagged mountain;" Lithuanian ašmuo "sharpness," akstis "sharp stick;" Old Lithuanian aštras, Lithuanian aštrus "sharp;" Old Church Slavonic ostru, Russian óstryj "sharp;" Old Irish er "high;" Welsh ochr "edge, corner, border;" Old Norse eggja "goad;" Old English ecg "sword;" German Eck "corner."
परन्तु मेरा विचार है कि असु : शब्द से ही ऑक्सीजन का विकास सार्थक है । क्योंकि यह प्राण का वाचक भी है ।
'असुर' शब्द का प्रयोग ऋग्वेद में लगभग १०५ बार हुआ है। उसमें ९० स्थानों पर इसका प्रयोग 'शोभन' अर्थ में किया गया है और केवल १५ स्थलों पर यह 'देवताओं के शत्रु' का वाचक है। 'असुर' का व्युत्पत्तिलभ्य अर्थ है- प्राणवंत, प्राणशक्ति संपन्न ('असुरिति प्राणनामास्त: शरीरे भवति, निरुक्ति ३.८) और इस प्रकार यह वैदिक देवों के एक सामान्य विशेषण के रूप में व्यवहृत किया गया है। विशेषत: यह शब्द इंद्र, मित्र तथा वरुण के साथ प्रयुक्त होकर उनकी एक विशिष्ट शक्ति का द्योतक है। इंद्र के तो यह वैयक्तिक बल का सूचक है, परंतु वरुण के साथ प्रयुक्त होकर यह उनके नैतिक बल अथवा शासनबल का स्पष्टत: संकेत करता है। असुर शब्द इसी उदात्त अर्थ में पारसियों के प्रधान देवता 'अहुरमज़्द' ('असुर: मेधावी') के नाम से विद्यमान है। यह शब्द उस युग की स्मृति दिलाता है जब वैदिक आर्यों तथा ईरानियों (पारसीकों) के पूर्वज एक ही स्थान पर निवास कर एक ही देवता की उपासना में निरत थे। अनंतर आर्यों की इन दोनों शाखाओं में किसी अज्ञात विरोध के कारण फूट पड़ी गई। फलत: वैदिक आर्यों ने 'न सुर: असुर:' यह नवीन व्युत्पत्ति मानकर असुर का प्रयोग दैत्यों के लिए करना आरंभ किया और उधर ईरानियों ने भी देव शब्द का ('द एव' के रूप में) अपने धर्म के दानवों के लिए प्रयोग करना शुरू किया। फलत: वैदिक 'वृत्रघ्न' (इंद्र) अवस्ता में 'वेर्थ्रोघ्न' के रूप में एक विशिष्ट दैत्य का वाचक बन गया तथा ईरानियों का 'असुर' शब्द पिप्रु आदि देवविरोधी दानवों के लिए ऋग्वेद में प्रयुक्त हुआ जिन्हें इंद्र ने अपने वज्र से मार डाला था। (ऋक्. १०।१३८।३-४)।
शतपथ ब्राह्मण की मान्यता है कि असुर देवदृष्टि से अपभ्रष्ट भाषा का प्रयोग करते हैं
(तेऽसुरा हेलयो हेलय इति कुर्वन्त: पराबभूवु:)। पतञ्जलि ने अपने 'महाभाष्य' के पस्पशाह्निक में शतपथ के इस वाक्य को उधृत किया है।
शबर स्वामी ने 'पिक', 'नेम', 'तामरस' आदि शब्दों को असूरी भाषा का शब्द माना है। आर्यों के आठ विवाहों में 'आसुर विवाह' का संबंध असुरों से माना जाता है। पुराणों तथा अवान्तर साहित्य में 'असुर' एक स्वर से दैत्यों का ही वाचक माना गया है।
अस्यति सेवनेन पापानि इन् वा ङीप् । वारणसी दक्षिणस्थे १ नदीभेदे वाराणसीशब्दे विवृतिः । अस्यते क्षिप्यते अस--इन् । २ खड़े पु० “असिर्विशसनः खड़्गस्तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्मपालो नमोऽस्तु ते । इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा” । खड़्गपूजा- मन्त्रः, “सर्व्वाः श्यामाः असिकरा मुण्डमाला विभूषिताः” श्यामाकवचम् खड़्गलक्षणन्तु वृह० उक्तम् “अङ्गुलशतार्ध- मुत्तम ऊनः स्यात्पञ्चविंशतिः खड्गः । अङ्गुल- मानाज्ज्ञेयो व्रणोऽशुभो विषमपर्वस्थः ॥ श्रीवृक्षवर्ध- मानातपत्रशिवलिङ्गकुण्डलाब्जानाम् । सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च ॥ कृकलासकाककङ्क- क्रव्यादकबन्धवृश्चिकाकृतयः । खड्गे व्रणा न शुभदा वंशानुगाः प्रभूताश्च ॥ स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृङ्मनोऽनुगतः । अस्वन इति चानिष्टः प्रोक्तविप- र्य्यस्त इष्टफलः ॥ क्वणितं मरणायोक्तं पराजयाय प्रवर्त्तनं कोशात् । खयमुद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे ॥ नाकारणं विवृणुयान्न विघट्टयेच्च पश्येन्न तत्र वदनम् न वदेच्च मूल्यम् । देशं न चास्य कथयेत् प्रति- मानयेच्च नैव स्पृशेन्नृपतिरप्रयतोऽसियष्टिम् ॥ गोजिह्वा संस्थानो नीलोत्पलवंशपत्रसदृशश्च । करवीरपत्रशूलाग्र- मण्डलाग्राः प्रशस्ताः स्युः ॥ निष्पन्नो न च्छेद्यो निकषैः कार्य्यः प्रमाणयुक्तः सः । मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्ने ॥ यस्मिन् त्सरुप्रदेशे व्रणो भवेत्तद्वदेव खड्गस्य । वनितानामिव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा ॥ अथ वा स्पृशति यदङ्गं प्रष्टा निस्त्रिंशभृत्तदव- धार्य । कोशस्थस्यादेश्यो व्रणो ऽस्ति शास्त्रं विदित्वेदम् । शिरसि स्पृष्टे प्रथमे ऽङ्गुले द्वितीये ललाटसंस्पर्शे । भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चतुर्थे च ॥ नासोष्ठकपोल- हनुश्रवणग्रीवांसकेषु पञ्चाद्याः । उरसि द्वादशसंस्थस्त्रयो- दशे कक्षयोर्ज्ञेयः ॥ स्तनहृदयोदरकुक्षिनाभीषु चतुर्दशा- दयो ज्ञेयाः । नाभीमूले कट्यां गुह्ये चैकोनविंशतितः ॥ ऊर्वोर्द्वाविंशे स्याद् ऊर्वोर्मध्ये व्रणस्त्रयोविंशे । जानुनि च चतुर्विंशे जङ्घायां पञ्चविंशे च ॥ जङ्घामध्ये गुल्फे पार्ष्ण्यां पादे तदङ्गुलीष्वपि च । षद्धिंशतिकाद्याव- त्त्रिंशदिति मतेन गर्गस्य ॥ पुत्रमरणं धनाप्तिर्धनहानिः सम्पदश्च बन्धश्च । एकाद्यङ्गुलसंस्थैर्व्रणैः फलं निर्दिशेत्- क्रमशः ॥ सुतलाभः कलहो हस्तिलब्धयः पुत्रमरणधन- लाभौ । क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ॥ लब्धिर्हानिस्त्रीलब्धयो बधो वृद्धिमरणपरि- तोषाः । ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥ वित्ताप्तिरनिर्वाणं धनागमो मृत्युसम्पदोऽस्वत्वम् । ऐश्वर्य्य- मृत्युराज्यानि च क्रमात्त्रिंशदिति यावत् ॥ परतो न विशेषफलं विषमसमस्थास्तु पापशुभफलदाः । कैश्चिदफलाः प्रदिष्टास्त्रिंशत्परतोऽग्रमिति यावत् ॥ करवीरोत्पल- गजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः । शुभदोऽनिष्टो गोमूत्र- पङ्कमेदःसदृशगन्धः ॥ कूर्मवसासृक्क्षारोपमश्च भयदुःखदो भवति गन्धः । वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥ इदमौशनसं च शस्त्रपानं रुधिरेण श्रियमिच्छतः प्रदी- प्ताम् । हविषा गुणवत्सुताभिलिप्सोः सलिलेनाक्षय- मिच्छतश्च वित्तम् ॥ बड़वोष्ट्रकरेणुदुग्धपानं यदि पापेन समीहते ऽर्थसिद्धिम् । झषपित्तमृगाश्ववस्तदुग्धैः करिहस्तच्छिदये सतालगर्भैः ॥ आर्कं पयो हुडुविषाणमसी- समेतं पारावताखुशकृता च युतं प्रलेपः । शस्त्रस्य तैलमथितस्य ततोऽस्य पानं पश्चाच्छितस्य न शिलासु मवेद्विघातः ॥ क्षारे कदल्या मथितेन युक्ते दिनोषिते पायितमायसं यत् । सम्यक् शितं चाश्मनि नैति भङ्गं न चान्यलोहेष्वपि तस्य कौण्ठ्यम्” वृ० स० । हेमा० परि० ख० तु तज्जात्यादिभेदात् फलभेदादिकं दर्शितं यथा “वत्स! पुरा भूतपूर्वैराचार्यैरुपदिष्टञ्चैव यन्मयाश्रुतं तदुपदिशामि निबोध खड्गस्य लोहं षद्धिघं भवति । योनयः पञ्चविधाः संस्थानं चतुर्विधं करणमा, कृतिर्द्विधा द्वादश मुस्वानि गौरवं पञ्चदशधा विस्तारस्त्रिविधः वर्ण्णछायाव्रणपुङ्ख गन्धस्वरेण वा यत्र विशेषा भवन्ति तत्कीर्त्त्यमानं निबोध तीक्ष्णं मृदु स्निग्धं खरं मृदुतीक्ष्णं वज्रं चेति जातयः षट्भवन्ति वालुका मृत्पाषाणः पङ्कोधातुस्रावश्चेति योनयः पञ्चधा भवन्ति । पीतेभ्यस्रीक्ष्णं भवति । नीलेभ्योमृदु भवति । स्निग्धेभ्यःस्निग्धं खरेभ्यः खरं भवति । रक्तेभ्यो- द्रव्येभ्योमृदुतीक्ष्णं भवति । रक्तसैन्धवसन्निभैर्हरिद्भिः श्चित्रं यदन्तः उत्पद्यते लौहं तद्वज्रायुधन्नाम भवति । तच्च पाषाण एव पूजित इति । भवन्ति चात्रश्लोकाः । तापं चिरादेव विचूर्ण्णितञ्च भिन्नाञ्जनाभं बहुसूक्ष्महीरम् पीतं भवेत् निर्म्मलरुक्मवर्णं सर्वाणि लोहानि भिनत्ति तीक्ष्णम् । सन्नम्यते तापमुपैति चाशु श्वेतं भवत्येव मलावनद्धम् । यत्स्थूलहीरन्त्रपुवङ्गवर्ण्णं सर्वेषु कार्य्येष्वपि तन्मृदु स्यात् । श्वेतं भवत्यभ्यधिकं स्थिरञ्च संघट्टनामेति चिराच्च तापम् । संघा- तलोहेन चिराद्वियोगं स्निग्धञ्च लोहं प्रवदन्ति तृज्ज्ञाः । खरं विशीर्य्येत न चैति योगम् सर्वत्र योग्यं मृदुतीक्ष्ण- माहुः । यज्रातरूपं न च दह्यतेऽग्नौ तद्वज्रलोहं प्रसमीक्ष्य वाच्यम् । तीक्ष्णस्य मृदुनः खरस्य स्निग्धस्य मृदुतीक्ष्णस्य वज्रलोहस्यच विज्ञेयं कुट्टिमङ्कोशगर्भमेककोशगर्भं कुट्टि- मकोशगर्भम् । सुतीक्ष्णं करणप्रवरं भवति । मृदुतीक्ष्णं मध्यमगर्भं कुट्टिमञ्च कारयेन् मृदुतीक्ष्णकुट्टिमं कोशभर्भमेकगर्भा- लयं वेति तथा तीक्ष्णं मन्दं वेति विविधमायसं भवति । तीक्ष्णस्य कुलानि उपकुलानि पुनः सृष्टानि वीतर्कपु- ष्कलालावेतकं यावङ्काशिकमङ्कोल्लं मयूरं हमालं वीरंकां वरं पुष्कराकं पुष्कराङ्कक्रोड़िनं वर्वरंरौद्रं शालिकं किस्किन्धं विस्फुलिङ्गंवाह्लीकं सुराष्ट्रायसं वेति तीक्ष्णयोनयो भवेयुरेकविंशतिरथ मन्दायसो वक्ष्यन्ते । कास्वोजं काण्डवारं हम्बालं सूर्य्यारङ्काष्ठमलयं पुन्नागपर्वतं यावतन्द्रं तीक्ष्णं कलिपार्वतीय सिंहालकं वानवासीसिन्धुकं मूषकं नीलाण्डं मागधं देवान्तं मेनकं वाह्लीकं पारवं क्रथं शट्टाकं शाण्डिलं पालकं नुचुरतोलकं विन्तपालं नीलामुखं कूणीराष्ट्रं महेन्द्राष्ट्रं विचर्तुकं वेति लोहाः त्रिंशदेका भवन्ति । कुला- नां संग्रहाद्विविधा लीहा तन्निवोध सप्त भवन्ति । मार्द्द- वस्य खरस्य त्वष्टौ स्नेहान्वितस्प पुनः षड़्गवन्ति । मृदु- तीक्ष्णस्य दशैवस्वुर्वज्रायसस्यैकभेयेति कुलान्येतानि संग्रहा- दुक्तानि तत्र काम्बोजं काण्डवारं हंनुपालं नीलाण्डं खरस्यैतानि भवन्ति । पावनं वटतीक्ष्णं कालिङ्गं पार्व- तीयं सिंहालं लङ्कवालञ्च चेति स्नेहान्वितस्यैतानि कुलानि षड्भवन्ति । नीलामुखं कूणीराष्ट्रं महेन्द्राष्ट्रं विचर्त्तुकं सौर्परं काष्टमलयं पुन्नागपर्वतं सिन्धुकं मूषिकं दक्षिणामुखं चेति मृदुतीक्ष्णस्य दशैतानि कुलानि भवन्ति । षष्टन्तु लोहं वेद्यन्तरगुहासु जायते तच्च वज्रलोहमिति विद्यात् । परमेतानि वज्रायसविवर्जितानि त्रिंशदेकाधिकानि । मृदु तीक्ष्णं मृदुतीक्ष्णं स्निग्धं खरं चेति । वीतकादीन्येकविंशतिं क्ष्णानि वक्ष्यन्ते यत्र दृढत्वं बलवत्त्वं स्निग्धतां लाघवङ्गौरवं च विशेषात्तत्र तत्र विविधं भवति हुताशनकर्म्मणि तत्र- छिन्नपाटलानिभं भवति । यत्र वचर्स्या दृश्यन्ते त्रुटिते चूर्ण्णिते वा हुताशनेऽपि त्रुट्यमानं सकृदेव ग्रभज्यते मूलेऽग्रे च सर्वदक्षिणतो वैवर्ण्यं भजेन्मत्स्यकण्टकच्छाया- वा स्यात् लिक्षासीसविभा वा श्वेतकृतनिस्रावतोरहान्यैव तत् मृदुलोहमिति विद्यात् । त्रयाणां चीनकादीनां लक्षणं वक्ष्यते आकृत्या संस्थानेन वर्ण्णेन गन्धेन शब्देन क्रमशः स्यात् पृथक् वेतसवञ्जुलपत्राणामाकृतिः करवीरपत्राणां वा भवति । षड़श्रैर्युतं मिश्रकैरष्टाश्रैश्चतुरश्रेर्व्वा वृत्तं विपुलं वा नालमूलाकृतिर्वेति । संस्थानतःपरीक्षणीयम् निर्गुण्डीकुसु- मानामिव यत्र वर्णोऽञ्जनालक्तकयोर्वा मयूरकण्ठच्छविः शुकपिच्छनिभः । काककोकिलसदृशोमक्षिकाभो वेति । वर्णतः परीक्षिणीयं चानुलोहम् । तथा अङ्कोलस्योत्पलस्य मूषिकायाः पत्रस्य मधुकस्य वा गन्ध इति गन्धतः परोक्षणयीम् । तथा कांस्यघण्टाया वलाकानां शब्दैव शब्दो विस्फुलिङ्गायायस्येति शब्दतः परीक्षणीयावि ज्ञातव्याः” । उपकुलादि विस्तरभयान्नोक्तम् “युग्माङ्गुलाः प्रशस्ताः अयुग्माङ्गुला विगर्हिताः खड्गास्ते केऽपि ब्राह्मणस्य परिग्रहा धमनासं दिशन्ति क्षत्रियस्यार्थविनाशं कुलक्षयं कुर्व्वति वैश्यस्य तु सद्योबधमावहन्ति शूद्रस्य न कदाचिदपि वृत्तिकराः स्युस्तथा व्रणाः छायास्निग्धवर्ण्णाः पूजिताः छिन्ना रूक्षवर्ण्णाअरूपानुज्वलाश्च भर्त्तुरपजयाय स्मृतिगर्हिताः” । त्रिकोणाःपञ्चकोणाश्चतुरस्राव्रणाः प्रशस्ताः । अनुलोमाश्च प्रतिलोमाश्च प्रशस्तदीर्घतायै खड्गस्य भवन्ति । ते प्रतिलोमावेदितव्याः खड़्गस्यानुगता अनुलोमा व्रणापदेशो वक्ष्यते । पूजितोनिन्दितश्च यदि खड़्गस्याद्येऽङ्गुले दृश्येत तदा पुत्रमरणम् । द्व्यङ्गुले पुत्र- वृद्धिस्त्र्यङ्गुले पुत्रधननाशश्चतुर्थे पुत्रमङ्गल्यम् पञ्चाङ्गुले मरणंनरपशूनाम् । षड़ङ्गुले कर्म्मसिद्धिः पश्रुलाभश्च सप्ताङ्गुले कलहेन विनाशं भर्त्तुः करोति । व्रणोऽष्टाङ्गुले मित्रप्राप्तिं धनस्थितिं च कुर्यात् । नवाङ्गुले भ्रातृबधधान्य- विनाशम्भर्त्तुः करीति, दशाङ्गुले मित्रभृत्यानां लाभं सम्पद्विद्वृद्धिञ्च, एकादशाङ्गुले संग्रहणं मित्रविरोधञ्च । द्वादशाङ्गुले मित्रलाभम्भोगं सुखं च । त्रयोदशाङ्गुले प्रभु- विनाशं चतुर्द्दशाङ्गुले प्रियतां गौरबन्धनलाभं च, पञ्च- दशाङ्गुले शत्रुविवृद्धिम् । षोड़शाङ्गुले शत्रुविजयं सप्त दशाङ्गुले भयम्, स्त्रीलाभम् अष्टादशाङ्गुले, शत्रुवधम् ऊनविंशे, वृद्धिं विंशाङ्गुले, मरणम् एकविंशत्यङ्गुले, शत्रुज- नितं नाशम्भयं च । द्वाविंशत्यङ्गुले राष्ट्रपालनं परराष्ट्रविनाशं च त्रयोविंशत्यङ्गुले विंशतिवर्षादेव मरणम् । चतुर्विंशत्यङ्गुले भूषणागमम् । पञ्चविंशत्य- ङ्गुले, भार्याविरामम्, षड़्विंशत्यङ्गुले प्रियगुणलाभं, स्वभार्य्याविरागन्तु सप्रविंशत्यङ्गुले, विपुलश्रियोलाभमष्टा- विंशत्यङ्गुले, एकोनत्रिंशत्यङ्गुले वृद्वभावे भ्रातृभि र्ग्रहणं, त्रिंशदङ्गुले वृद्धिमजिरंचेति खड्गे व्रणः करोति । तथा एकत्रिंशदङ्गुले सभृत्यस्त्रीवाहनं भर्त्तारं विनाशयति । द्वात्रिंशदङ्गुले पराजयमरिभिः करोति । त्रयस्त्रिंशदङ्गुले भर्त्तारं पीड़यति नीचस्य च कर्मणो वशगङ्करोति । चतुस्त्रिंशदङ्गुले धन्यं दानधर्मभाजनं च पञ्चत्रिंशंदङ्गुले मरणं सद्यः करोति । षट्त्रिंशदङ्गुले विजयं भर्त्तुर्ददाति सप्तत्रिंशदङ्गुले पराभवमरिभिः करोति । अष्टत्रिंशदङ्गुले शत्रुप्रमर्दनं करोति नवत्रिंशदङ्गुले कुजनैरेव परिक्लेशं नयति । चत्वारिंशदङ्गुले कन्यालाभमरिजयं च प्राप्नोति व्रणेन खड्गस्थितेन । तथैकचत्वारिंशदङ्गुले शत्रुभ्यः पीड़नाद्भयं लभते द्विचत्वारिंशदङ्गुले स्वराष्ट्रवर्द्विमन्त्रिणं- त्रिचत्वारिंशदङ्गुले दुःखं प्राप्नोति सेनापतिरेव भर्त्ता भवति । चतुश्चत्वारिंशदङ्गुले श्रियं विपुलां लभते । पञ्च- चत्वारिंशदङ्गुले व्रणो भयङ्क षट्चत्वारिंशदङ्गुले व्रणाः सुखावाहा भवन्ति । सप्तचत्वारिंशदङ्गुले स्वपक्षं पीड़यति परपक्षं वर्द्धयति अष्टाचत्वारिंशदङ्गुले राजश्रियं भुङ्क्ते एकोनपञ्चाशदङ्गुले शत्रोर्विजयं लभते । पञ्चाशदङ्गुले कुलवृद्धिर्भवति” । एकत्रिंशदाद्यङ्गुलिषुव्रणे फलविशेषोऽभि- हितः । अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम् । प्रधान- देहसंभूतैरन्यास्थिभिररिन्दमः । लोहं प्रधानं खड्गार्थे प्रशस्तं तद्विशेषतः । खरीकदुरुकृषिकावङ्गसूर्य्यारकेषु च । विदेहेषु तथाङ्गेषु मध्यमग्रामचेदिषु । सहग्रामेषु वीरेषु तथा कालञ्जरेऽपि च । लोहं प्रधानं खड्गानां नवानां शृणु लक्षणम् । खरी कटुरुजा ये च दर्शनीयाश्च ते स्मृताः । कार्येदक्षाश्च कृषिकामृदवो गुरवस्तथा” तीक्ष्णाश्छेदसहा वङ्गा दृढ़ाः सूर्य्यारकोद्रवाः । सुदृढाश्चैव विज्ञेया प्रभवन्ति विदेहजाः । अङ्गदेशोद्भवास्तीक्ष्णाः सहजास्ते दृढास्तथा । वेगवन्तस्तथा तीक्ष्णामध्यमग्राम- सम्भवाः । असारलघवस्तीक्ष्णाश्चेदिदेशसमुद्रवाः । सहग्रामोद्भवाः खड्गाः सुतीक्ष्णालघवस्तथा । निर्वला निर्मला खड्गावीरदेशसमुद्रवाः । कालञ्जराभारसहास्तेषां वक्ष्यामि लक्षणम् । शतार्द्धमङ्गुलानां तु श्रेष्टः खड्गः प्रकीर्त्तितः । तदधोमध्यसंज्ञाभाक् ततोहीनं न धारयेत् । प्रमाणाभ्यधिकं देव! छिन्नवंशन्तथैव च । दीर्घः सुमधुरः- शब्दोयस्य खड्गस्य भार्गव! ॥ किङ्किणीसदृशस्तस्य धारणम् श्रेष्ठमुच्यते । खड्गः पत्नपलाशाग्रोमण्डलास्यश्च शस्यते । करवीरपलाशाग्रसदृशश्च विशेषतः । महीघृतसगन्धश्च प्रद्मोत्पलसुगन्धिकः । वर्ण्णतश्चीत्प्रलाकारः सवर्ण्णो गननस्य च । समाङ्गुलस्थाः शस्यन्ते व्रणाः खड्गेषु भार्गव! । श्रीवृक्षपर्वताकारवंशवस्तनिभाश्च ये । मङ्ग- ल्यानां तथान्येषां सदृशा ये च भार्गव! । काकोलूकार्कबन्ध्या भा विषमाङ्गुलिसंस्थिताः । वंशानुगाः प्रभूताश्च न प्रशस्ता कदाचन । खड्गे न पश्येद्वदनं वृथा न वृणुयादमुम् । न चास्य कथयेन्मूल्यं जातिं देशं कथञ्चन । उत्सृष्टो न स्पृशेत् खड्गं निशिकुर्याच्च शीर्षके । दिवा च पूजयदेनं गन्धमाल्यादि सम्पदा । खड्गं प्रशस्तं मणिहेमचित्रं कोशे सदा चन्दन- चर्च्चयाढ्यम् । संस्थायपेद्भूमिपतिः प्रयत्नान् यतेत चेह स्वश- रीरवच्च” विष्णुध० । देवीपु० । “खड्गस्य लक्षणं वक्ष्ये त्रिशि- खस्य तु सुन्दरि! । नान्यशस्त्रोद्भवं कार्यं मृदुलोहमयन्तथा । स्फुटितं खण्डितं ह्रस्वं सव्रणं साधितं तथा । मृदुलोहे- नचारभ्य सन्धितो मरणं भवेत् । सव्रणेनापि हृद्रोगी रेखायां पातकी भवेत् । भार्य्या माता तथा पुत्रो म्रियते खण्डितेन च । ह्रस्वेन लाघवं लोके दीर्घतापि ह्यसिद्विदा । अन्यशस्त्रोद्भवेनापि संभवेन्मरणम् ध्रुवम् । पञ्चाशदङ्गुलं खड्गं त्रिशिखञ्च सुरेश्वरि । ईदृशङ्कारयेत्खड्ग माशु सिद्विफलप्रदम्” । अस्यते क्षिप्यते अस--इन् । ३ श्वासे “तिस्रः पत्न्योऽसिपथान् कल्पयन्त्यश्वस्य सूचीभिः” कात्या० २० । ७ । १ । “असेः श्वासस्य पथः मार्गान्” कर्क० त्रि० । ४ क्षिप्ते असगण्डः ।
____________________________________
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें