बुधवार, 13 सितंबर 2023

ब्रह्मवैवर्तपुराण खण्डः४ (श्रीकृष्णजन्मखण्डः अध्यायः ७३ गोलोक वर्णन-

  • ब्रह्मवैवर्तपुराण खण्डः४ (श्रीकृष्णजन्मखण्डः अध्यायः ७३

_______________

  • अथ त्रिसप्ततितमोध्यायः                       नारायण उवाच.                                                          
  • अथ कृष्णश्च सानन्दं नन्दं तं पितरं बलः ।बोधयामास शोकार्तं दिव्यैराध्यात्मिकादिभिः ।।१।।
  • उच्चै रुदन्तं निश्चेष्टं पुत्रविच्चेदकातरम् ।दत्त्वा तस्मै मणिश्रेष्ठमित्युवाच जगत्पतिः ।।२।।
  • श्रीभगवानुवाच निबोध नन्द सानन्दं त्यज शोकं मुदं लभ । ज्ञानं गृहाण मद्दत्तं यद्दतं ब्रह्मणे पुरा ।। ३ ।।
  • यद्यद्दत्तं च शोषाय गणेशायेश्वराय च ।दिनेशाय मुनीशाय योगीशाय च पुष्करे।४।
  • कः कस्य पुत्रः कस्तातः का माता कस्यचित्कुतः। आयान्ति यान्ति संसारं परं स्वकृतकर्मणा ।।५।।
  • कर्मानुसाराज्जन्तुश्च जायते स्थानभेदतः ।कर्मणा कोऽपि जन्तुश्च योगीन्द्राणां नृपस्त्रियाम् ।। ६ ।।
  • द्विजापत्न्यां क्षत्रियाणां वैश्यायां शूद्रयोनिषु , तिर्यग्योनिषु कश्चिच्च कश्चित्पश्वादियोनिषु ।। ७ ।।
  • ममैव मायया सर्वे सानन्दा विषयेषु च ।देहत्यामे विषण्णाश्च विच्छेदे बान्धवस्य च ।।८।।
  • प्रजाभूमिधनादीनां विच्छेदो मरणाधिकः।नित्यं भवति मूढश्च न च विद्वाञ्छुचा युतः ।। ९ ।।
  • मद्भक्तो भक्तियुक्तश्च मद्याजी विजितेन्द्रियः । मन्मन्त्रोपासकश्चैव मत्सेवानिरतः शुचिः ।। १० ।।
  • मद्भयाद्वाति वातोऽयं रविर्भाति च नित्यशः । भाति चन्द्रो महेन्द्रश्च कालभेदे च वर्षति ।। ११ ।।
  • वह्निर्वहति मृत्युश्च चरत्येव हि जन्तुषु ।बिभर्ति वृक्षः कालेन पुष्पापि च फलानि च ।। १२ ।।
  • निराधारश्च वायुश्च वाय्वाधारश्च कच्चिपः ।शेषश्च कच्छपाधारः शेषाधारश्च पर्वतः ।। १३ ।।
  • तदाधाराश्च पातालाः सप्त एव हि पङ्क्तितः । निश्चलं च जलं तस्माज्जलस्था च वसुंधरा ।। १४ ।।
  • सप्तस्वर्ग धराधारं ज्योतिश्चकं ग्रहाश्रयम् ।निराधारश्च वैकुण्ठो ब्रह्माण्डेभ्य: परो वरः ।। १५ ।।
  • तत्परश्चापि गोलोकः पञ्चाशत्को टियोजनात् । ऊर्ध्व निराश्रयश्चापि रत्नसारविनिर्मितः ।। १६ ।।
  • सप्तद्वारः सप्तसारः परिखासप्तसंयुतः ।लक्षप्राकारयुक्तश्च नद्या विरजया युतः ।। १७ ।।
  • वेष्टितो रत्नशैलेन शतशृङ्गेण चारुणा ।योजनायुतमानं च यस्यैकं शृङ्गमुज्ज्वलम् ।। १८ ।।
  • शतकोटियोजनश्च शैल उच्छ्रित एव च । दैर्ध्यं तस्य शतगुणं प्रस्थं च लक्षयोजनम् ।।१९।।
  • योजनायुतविस्तीर्णस्तत्रैव रासमण्डलः ।अमूल्यरत्ननिर्माणो वर्तुलश्चन्द्रबिम्बवतु ।। २० ।।
  • पारिजातवनेनैव पुष्पितेन च वेष्टितः ।कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन च ।। २१।।
  • नानाविधैः पुष्पवृक्षैः पुष्पितेन च चारुणा ।त्रिकोटिरत्नभवनो गोपीलक्षैश्च रक्षितः ।। २२ ।।
  • रत्नप्रदीपयुक्तश्च रत्नतल्पसमन्वितः ।नानाभोगसमायुक्तो सधुवापीशतैर्वृतः ।। २३ ।।
  • पीयूषवापीयुक्तश्च कामभोगसमन्वितः ।गोलोकगृहसंख्यानवर्णने वा विशारदः ।। २४ ।।
  • न कोऽपि वेद विद्वान्वा वेदविद्वान्व्रजेश्वरः । अमूल्यरत्ननिर्माणभवनानां त्रिकोटिभिः ।। २५ ।।
  • शोभितं सुन्दरं रम्यं राधाशिविरमुत्तमम् ।अमूल्यरत्नकलशैरुज्ज्वलं रत्नदर्पणैः ।। २६ ।।
  • असूल्यरत्नस्तमभानां राजिभिश्च विराजितम् । नानाचित्रविचित्रैश्च चित्रितं श्वेतचामरैः ।। २७ ।।
  • माणिक्यमुक्तासंसक्तं हीरावारसमन्वितम् ।रत्नप्रदीपसंसक्तं रत्नसोपानसुन्दरम् ।। २८ ।।
  • अमूल्यरत्नपत्रैश्च तल्पराजिविराजितम् ।अमूल्यरत्नचित्रैश्च त्रिभिश्चित्रविचित्रितैः ।। २९।
  • तिसृभिः परिखाभिश्च त्रिभिर्द्वारैश्च दुर्गमैः ।युक्तं षोडशकक्षाभिः प्रतिद्वारेषु वाऽन्तरम् ।।३०।।
  • गोपीषोडशलक्षैश्च संनियुक्तैरितस्ततः ।वह्निशुद्धांशुकाधानै रत्नभूषणभूषितैः ।। ३१ ।।
  • तप्तकाञ्चनवर्णाभैः शतचन्द्रसमन्वितैः ।राधिकारिंकरीवर्गैर्युक्तमभ्यन्तरं वरम् ।। ३२ ।।
  • अमूल्यरत्ननिर्माणप्रङ्गणं सुमनोहरम् ।अमूल्यरत्नस्तम्भानां समूरैश्च सुशोभितम् ।। ३३ ।।
  • रत्नमङ्गलकुम्भैश्च फलपल्लवसंयुतैः । संयुतं रत्नवेदीभिर्मुक्ता युक्ताभिरीप्सितम् ।। ३४ ।।
  • अमूल्यरत्नमुकुरैः शोभितं सुन्दरैरहो ।अमूल्यरत्ननिर्माणं भवनानां वरं गृहम् ।। ३५ ।।
  • रत्नसिंहासनस्था च गोपीलक्षैश्च सेविता ।कोटिपूर्णेन्दुशोभाढ्या श्वेतचम्पकसंनिभा ।। ३६ ।।
  • अमूल्यरत्ननिर्माणभूषणैश्च विभूषिता ।अमूल्यरत्नवसना बिभ्रती रत्नदर्पणम् ।। ३७ ।।
  • रत्नपद्मं च रुचिरं सव्यदक्षिणहस्ततः ।दाडिम्बकुसुमाकारं सिन्दूरं सुमनोहरम् ।। ३८ ।।
  • सुशोभितं सृगमदैरिष्टैश्चन्दनबिन्दुभिः ।दधती कबरीभारं मालतीमल्यमण्डितम् ।। ३९ ।।
  • रचितं वामभगेन मुनीन्द्राणां मनोहरम् ।एवंभूतं (ता) तत्र राधा गोपीभिः परिसेविता ।। ४० ।।
  • श्वेतचामरहस्ताभिस्तत्तुल्याभिश्च सर्वतः ।अमूल्यरत्ननिर्माणैर्भूषिताभिश्च भूषणैः ।। ४१ ।।
  • मत्प्राणाधिष्ठातृदेवी देवीनां प्रवरा वरा ।सुदाम्नः सा च शापेन वृषभानसुताऽधुना ।। ४२ ।।
  • शताब्दिको हि विच्छेदो भविष्यति मया सह । तेन भारावतरणं करिष्यसि भुवः पितः ।। ४३ ।।
  • तदा यास्यामि गोलोकं तया सार्धं सुनिश्चतम् । त्वया यशोदया चाऽपि गोपैर्गोपीभिरेव च ।। ४४ ।।
  • वृषभानेन तत्पत्न्या कलावत्या च बान्धवैः । एवं च नन्दं सानन्दं यशोदां कथयिष्यसि ।। ४५ ।।
  • त्यज शोक्रं महाभाग व्रजैः सार्धं व्रजं व्रज ।अहमात्मा च साक्षी च निर्लिप्तः सर्वजीविषु ।। ४६ ।।
  • जीवो मत्प्रतिबिम्बश्च इत्येवं सर्वसंमतम् ।प्रकृतिर्मद्विकारा च साऽप्यहं प्रकृतिः स्वयम् ।। ४७ ।।
  • यथा दुग्धे च धावल्यं न तर्योर्भैद एव च ।यथा जले तथा शैत्यं यथा वह्नौ च दाहिका ।। ४८ ।।
  • यथाऽऽकाशे तथा शब्दो भूमौ गन्धो यथा नृप । यथा शोभा च चन्द्रे च यथा दिनकरे प्रभा ।। ४९ ।।
  • यथा दीवस्तथाऽऽत्माहं तथैव राधया सह ।त्यज त्वं गोपिकाबुद्धिं राधायां मयि पुत्रताम् ।।५०।।
  • अहं सर्वस्य प्रभावः सा च प्रकृतिनीश्वरी ।श्रूयतां नन्द सानन्दं मद्विभूतिं सुखावहाम् ।। ५१ ।।
  • पुरा या कथिता तात ब्रह्मणे व्यक्तजन्मने ।कृष्णोऽहं देवतानां च गोलोके द्विभुजः स्वयम् ।। ५२ ।।
  • चतुर्भुजोऽहं वैकुण्ठे शिवलोके शिवः स्वयम् ।ब्रह्मलोके च ब्रह्माऽहं सूयस्तेजस्विनामहम् ।। ५३ ।।
  • पवित्राणामहं वह्निर्जलमेव द्रवेषु च ।इन्द्रियाणां मनश्चास्मि समीरः शीघ्रगामिनाम् ।। ५४ ।।
  • यमोऽहं दण्डकर्त णां कालः कलयतामहम् ।अक्षराणामकारोऽस्मि साम्नां च साम एव च ।। ५५ ।।
  • इन्द्रश्चतुर्दशेन्द्रेषु कुबेरो धनिनामहम् ।ईशानोऽहं दिमीशानां व्यापकानां नभस्तथा ।। ५६ ।।
  • सर्वान्तरात्मा जीवेषु ब्राह्मणश्चाऽऽश्रमेषु च ।धनानां च रत्नमहममूल्यं सर्वदुर्लभम् ।। ५७ ।।
  • तैजसानां सुवर्णोऽहं मणीनां कौस्तुभः स्वयम् ।वैष्णवानां कुमारोऽहं योगीन्द्राणां गणेश्वरः ।। ५८ ।।
  • पुष्पाणां पारिजातोऽहं तीर्थानां पुष्करः स्वयम् । शालग्रामस्तथाऽर्च्यानां पत्राणां तुलसीति च ।। ५९ ।।
  • सेनापतीनां स्कन्दोऽहं लक्ष्मणोऽहं धनुष्मताम् । राजेन्द्राणां च रामोऽहं नक्षत्राणामहं शशी ।। ६० ।।
  • मासानां मर्गशीर्षोऽहमृतूनामस्मि माधवः ।वारेष्वादित्यवारोऽहं तिथिष्वेकादशीति च ।। ६१ ।।
  • सहिष्णूनां च पृथिवी माताऽहं बान्धवेषु च । अमृतं भक्ष्यवस्तूनां गव्येष्वाज्यमहं तथा ।। ६२ ।।
  • कल्पवृक्षश्च वृक्षाणां सुरभिः कामधेनुषु ।गङ्गाऽहं सरितां मध्ये कृतपापविनाशिनी ।। ६३ ।।
  • वाणीति पण्डितानां च मन्त्राणां प्रणवस्तथा । विद्यासु बीजरूपोऽहं सस्यानां धान्यमेव च ।। ६४ ।।
  • अश्वत्थः फलिनामेव गुरूणां मन्त्रदः स्वयम् । कश्यपश्च प्रजेशानां गरुडः पक्षिणां तथा ।। ६५ ।।
  • अनन्तोऽहं च नागानां नराणां च नराधिपः ।ब्रह्मर्षीणां भृगुरहं देवर्षीणां च नारदः ।। ६६ ।।
  • राजर्षीणां च जनको महर्षीणां शुकस्तथा ।गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनीः ।। ६७ ।।
  • बृहस्पतिर्बुद्धिमतां कवीनां शुक्र एव च ।ग्रहाणां च शनिरहं विश्वकर्मा च शिल्पिनाम् ।। ६८ ।।
  • मृगाणां च मृगेन्दोऽहं वृषाणां शिववाहनम् । ऐरावतो गजेन्द्राणां गायत्री छन्दसामहम् ।। ६९ ।।                                             ___________________     
  • वेदाश्च सर्वशास्त्राणां वरुणो यादसामहम् ।उर्वश्यप्सरसामेव समुद्राणां जलार्णवः ।। ७० ।।
  • सुमेरुः पर्वतानां च रत्नवत्सु हिमालयः ।दुर्गा च प्रकृतीनां च देवीनां कमलालया ।। ७१ ।।
  • शतरूपा च नारीणां मत्प्रियाणां च राधिका । साध्वीनामपि सावित्री वेदमाता च निश्चितम् ।। ७२ ।।
  • प्रह्लादश्चापि दैत्यानां बलिष्ठानां बलिः स्वयाम् ।नारायणर्षिर्भगवाञ्ज्ञानिनां मध्य एव च ।। ७३ ।।
  • हनुमान्वानराणां च पाण्डवानां धनंजयः ।मनसा नागकन्यानां वसूनां द्रोण एव च ।। ७४ ।।
  • द्रोणो जलधराणां च वर्षाणां भारतं तथा ।कामिनां कामदेवोऽहं रम्भा च कामुकीषु च ।। ७५ ।।
  • गोलोकश्चास्मि लोकानासुत्तमः सर्वतः परः ।मातृकासु शान्तिरहं रतिश्च सुन्दरीषु च ।। ७६ ।।
  • धर्मोऽहं साक्षिणां मध्ये संध्या च वासरेषु च ।देवेष्वहं च माहेन्दो राक्षसेषु विभीषणः ।। ७७ ।।
  • कालाग्निरुद्रो रुद्राणां संहारो भैरवेषु च ।शङ्खेषु पाञ्चजन्योऽहमङ्गेष्वपि च मस्तकः ।। ७८ ।।
  • परं पुराणसूत्रेषु चाहं भागवतं वरम् । भारतं चेतिहासेषु पञ्चरात्रेषु कापिलम् ।। ७९ ।।
  • स्वायंभुवो मनूनां च मुनीनां व्यासदेवकः ।स्वधाऽहं पितृपत्नीषु स्वाहा वङ्निप्रियासु च ।। ८० ।।
  • यज्ञानां नाजसूयोऽहं यज्ञपत्नीषु दक्षिणा ।शस्त्रास्त्रज्ञेषु रामोऽहं जमदग्निसुतो महान् ।। ८१ ।।
  • पौराणिकेषु सूतोऽहं नीतिमत्स्वङ्गिरा मुनिः ।विष्णुव्रतं व्रतानां च बलानां दैवमेव च ।। ८२ ।।
  • ओषधीनामहं दूर्वा तृणानां कुशमेव च ।धर्मकर्मसु सत्यं च स्नेहपात्रेषु पुत्रकः ।। ८३ ।।
  • अहं व्याधिश्च शत्रूणां ज्वरो व्याधिष्वहं तथा ।मद्भक्तिष्वपि मद्दास्यं वरेषु च वरः स्मृतः ।। ८४ ।।
  • आश्रमाणां गृहस्थोऽहं संन्यासी च विवेकिनाम् ।सुदर्शनं च शस्त्राणां कुशलं च शुभाशिषाम् ।। ८५ ।।
  • एश्वर्याणां महाज्ञानं वैराग्यं च सुखेष्वहम् ।मि (इ)ष्टवाक्यं प्रीतिदेषु दानेषु चाऽऽत्मदानकम् ।। ८६ ।।
  • संचयेषु धर्मकर्म कर्मणां च मदर्चनम् ।कठोरेषु तपश्चाहं फलेषु मोक्ष एव च। ८७।
  • अष्टसिद्धिषु प्राकाम्यमहं काशीपुरीषु च ।नगरेषु तथा काञ्ची स देशो यत्र वैष्णवः। ८८ ।
  • सर्वाधारेषु स्थूलेषु अहमेव महान्विराट् ।परमाणुरहं विश्वे महासूक्ष्मेषु नित्यशः ।। ८९ ।
  • वैद्यानामश्विनीपुत्रौ औषधीषु रसायनम् ।धन्वन्तरीर्मन्त्रविदां विषादः क्षयकारिणाम् ।। ९० ।।
  • रागाणां मेघमल्लारः कामोदस्तत्प्रियासु च । मत्पार्षदेषु श्रीदामा मद्वन्वुष्वहमुद्धवः ।। ९१ ।।
  • पशुजन्तुषु गौश्चहं चन्दनं काननेषु च ।तीर्थपूतश्च पूतेषु निःशङ्केषु च वैष्णवः । ९२ ।
  • न वैष्णवात्परः प्राणी मन्मन्त्रोपासकश्च यः । वृक्षेष्वङ्कुररूपोऽहमाकारः सर्ववस्तुषु ।। ९३ ।।
  • अहं च सर्वभूतेषु मयि सर्वे च संततम् ।यथा वृक्षे फलान्येव फलेषु चाङ्कुरस्तरोः ।। ९४ ।।
  • सर्वकारणरूपोऽहं न च मत्कारणं परम् ।सर्वेशीऽहं न मेऽपीशो ह्यहं कारणकारणम् ।। ९५ ।।
  • सर्वेषां सर्वबीजानां प्रवदन्ति मनीषिणः ।मन्मायामोहितजना मां न जानन्ति पापिनः ।। ९६ ।।
  • पापग्रस्तेन दुर्बुद्ध्या विधिना वञ्चितेन च ।स्वात्माऽहं सर्वजन्तूनां स्वाम्यहं नादृतः स्वयम् ।। ९७ ।।
  • यत्राहं शक्तयस्तत्र क्षुत्पिपासादयस्तथा ।गते मयि तथा यान्ति नरदेहे (वे) यथाऽनुगाः ।। ९८ ।।
  • हे व्रजेश नन्द तात ज्ञानं ज्ञात्वा व्रजं व्रज ।कथयस्व च तां राधां यशोदां ज्ञानमेव च ।। ९९ ।।
  • ज्ञात्वा ज्ञानं व्रजेशश्च जगाम स्वानुगैः सह ।गत्वा च कथयामास ते द्वे च योषितां वरे ।। १०० ।।
  • ते च सर्वे जहः शोकं महाज्ञानेन नारद ।कृष्णो यद्यपि निर्लिप्तो मायेशो मायया रतः ।। १०१ ।।
  • यशोदया प्रेरितश्च पुनरागत्य माधवम् ।तुष्टाव परमानन्दं नन्दश्च नन्दनन्दनम् ।। १०२ ।।
  • सामवेदोक्तस्तोत्रेण कृतेन ब्रह्मणा पुरा ।पुत्रस्य पुरतः स्थित्वा रुरोद च पुनः पुनः ।। १०३ ।।
  • _____________

इति श्रीब्रह्मवैवर्त महापुराण श्रीकृष्णजन्मखण्ड उत्तर नारदनाo नन्दादिणोकप्रमोचनं नाम त्रिसप्ततितमोऽध्यायः । ७३ ।

  • ब्रह्म वैवर्त पुराण श्रीकृष्ण जन्म खण्ड (उत्तरार्द्ध): अध्याय 73

श्रीकृष्ण का नन्द को अपना स्वरूप और प्रभाव बताना; गोलोक, रासमण्डल और राधा-सदन का वर्णन; श्रीराधा के महत्त्व प्रतिपादन तथा उनके साथ अपने नित्य संबंध का कथन और दिव्य विभूतियों का वर्णन-

  • श्रीनारायण कहते हैं- नारद! तदनन्तर शोक से आतुर और पुत्रवियोग से कातर हो फूट-फूटकर रोते हुए चेष्टाशून्य पिता नन्द को श्रीकृष्ण और बलराम ने आध्यात्मिक आदि दिव्य योगों द्वारा सानन्द समझाना आरंभ किया।
  • श्रीभगवान बोले- बाबा! प्रसन्नतापूर्वक मेरी बात सुनो। शोक छोड़ो और हर्ष को हृदय में स्थान दो। मैं जो ज्ञान देता हूँ, इसे ग्रहण करो। यह वही ज्ञान है, जिसे पूर्वकाल में मैंने पुष्कर में ब्रह्मा, शेष, गणेश, महेश (शिव), दिनश (सूर्य), मुनीश और योगीश को प्रदान किया था। यहाँ कौन किसका पुत्र, कौन किसका पिता और कौन किसकी माता है ? यह पुत्र आदि का संबंध किस कारण से है? जीव अपने पूर्वकृत कर्म से प्रेरित हो इस संसार में आते और परलोक में जाते हैं। कर्म के अनुसार ही उनका विभिन्न स्थानों में जन्म होता है। कोई जीव अपने शुभकर्म से प्रेरित हो योगीन्द्रों के कुल में जन्म लेता है और कोई राज रानियों के पेट से उत्पन्न होता है। कोई ब्रह्माणी, क्षत्रिया, वैश्या अथवा शूद्राओं के गर्भ से जन्म ग्रहण करता है; किसी-किसी की उत्पत्ति पशु, पक्षी आदि तिर्यक योनियों में होती है। सब लोग मेरी ही माया से विषयों में आनन्द लेते हैं और देहत्याग काल में विषाद करते हैं। बान्धवों के साथ बिछोह होने पर भी लोगों को बड़ा कष्ट होता है। संतान, भूमि और धन आदि का विच्छेद मरण से भी अधिक कष्टदायक प्रतीत होता है। मूढ़ मनुष्य ही सदा इस तरह के शोक से ग्रस्त होता है; विद्वान पुरुष नहीं। जो मेरा भक्त है, मेरे भजन में लगा है, मेरा यजन करता है, इंद्रियों को वश में रखता है, मेरे मंत्र का उपासक है और निरंतर मेरी सेवा में संलग्न रहता है; वह परम पवित्र माना गया है। मेरे भय से ही यह वायु चलती है, सूर्य और चंद्रमा प्रतिदिन प्रकाशित होते हैं, इंद्र भिन्न-भिन्न समयों में वर्षा करते हैं, आग जलाती है और मृत्यु सब जीवों में विचरती है।
  • मेरा भय मानकर ही वृक्ष समयानुसार पुष्प और फल धारण करता है। वायु बिना किसी आधार के चलती है। वायु के आधार पर कच्छप, कच्छप के आधार पर शेष और शेष के आधार पर पर्वत टिके हुए हैं। पंक्तिबद्ध विद्यमान सात पाताल पर्वतों के सहारे स्थित हैं।
  1. पातालों से जल सुस्थिर है और जल के
  2. ऊपर पृथ्वी टिकी हुई है।
  3. पृथ्वी सात स्वर्गों की आधारभूमि है।
  4. ज्योतिश्चक्र अथवा नक्षत्रमण्डल ग्रहों के आधार पर स्थित हैं; परंतु वैकुण्ठ बिना किसी आधार के ही प्रतिष्ठित है। वह समस्त ब्रह्माण्डों से परे तथा श्रेष्ठ है। उससे भी परे गोलोकधाम है।  
  5. वह वैकुण्ठधाम से पचास करोड़ योजन
  6. ऊपर बिना आधार के स्थित है।
  7. उसका निर्माण दिव्य चिन्मय रत्नों के सारतत्त्व से
  8. हुआ है। उसका सात दरवाजे हैं।
  9. सात सार हैं। वह सात खाइयों से घिरा हुआ है।
  10. उसका चारों ओर लाखो परकोटे हैं।
  11. वहाँ विरजा नदी बहती है।
  12. वह लोक मनोहरा रत्नमय पर्वत शतश्रृंग से आवेष्टित है।
  13.  

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें