मंगलवार, 26 सितंबर 2023

यमलार्जुन अर्थात अर्जुन के दो पेड़ों की कथा महाभारत तथा अन्य पुराणों में है। दामोदर'''- पु॰ दाम वन्धनसाधनं उदरे यस्य।

दामोदर'''- पु॰ दाम वन्धनसाधनं उदरे यस्य। यशोदा-नन्दने कृष्णे तत्कथा
“ततो यशोदा संक्रुद्धा कृष्णकमललोचनम्। आनाय्य शकटीमूले भर्त्सयन्ती पुनः-पुनः। दाम्ना चैवोदरे बद्ध्वा प्रत्यबध्नादुदूखले। यदिशक्नोषि गच्छेति तमुक्त्वा कर्म साऽकरोत्” इत्युपक्रमे
“स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात्। घोषेदामोदर इति गोपिभिः परिगीयते” हरिव॰

६४ अ॰
“विदारो रोहितोमार्गो हेतुर्दामोदरः सहः” विष्णु॰ स॰। शाङ्करभाष्ये तु अस्यान्यापि व्युत्पत्तिर्दर्शिता यथा[Page3544-a+ 38]
“दमादिसाधनेनोदरा उत्कृष्टा गतिर्या तया गम्यत इतिदामोदरः।
“दमाद्दामोदरं विदुरिति” महाभारते य-शोदया दाम्नोदरे बद्ध इति वा
“दामानि लोकनामानि-तानि यस्योदरान्तरे। तेन दामोदरस्त्वेषः श्रीधरस्त्विट्स-माश्रितः” इति व्यासवचनात् वा दामोदरः।
“दमो ब-हिरिन्द्रियनिग्रहः तज्जन्यो दामः तस्येदमित्यण् ऋ-गताविति धातोर्भावे
“ऋदोरप्” पा॰ अपि गुणे रपरत्वेच अरः अवगतिः गत्यर्थानां ज्ञानार्थकत्वात्तस्य विशेषण-मुदिति उत्कृष्ट इत्यर्थः तथा च दामो दमसाधकः उत्उत्कृष्टः अरः अवगतिः साक्षात्काररूपास्येति दामोदरः। उत्कृष्टा च गतिः धूमादिगतिमपेक्ष्यार्चिरादिः दमादिसा-धना अस्य सगुणस्येति दामोदरनामनिरुक्तिः।
“तर्वोर्म-ध्यगतं बद्ध दाम्ना गाढं तथोदरम्। ततश्च दामोदरतां सययौ दामबन्धनादिति” ब्रह्मपुराणम् इति आनन्दगिरिः।

२ अतीते अर्हद्भेदे हेमच॰। वर्द्धमानपुरसन्निकृष्टे

३ नदभेदेच।

४ शालग्राममूर्त्तिभेदे तल्लक्षणं पद्मपुराणे यथा
“स्थूलो दामोदरो ज्ञेयः सूक्ष्मचक्रो भवेत्तु सः। चक्रेतु मध्यदेशेऽस्य पूजितः सुखदः सदा”। ब्रह्माण्डपुराणे
“दामोदरस्तथा स्थूलो मध्यचक्रः प्रतिष्ठितः” प्रतिष्ठितइत्यत्र प्रकीर्तित इति क्वचित् पाठः।
“दूर्वाभंद्वारसङ्कीर्णं पीतरेखायुतं शुभम्”।
“पीतरेखा तथैवचेति” ब्रह्मपुराणे पाठः। ब्रह्मपुराणे
“उपर्य्यधश्च चक्रेद्वे नातिदीर्घं मुखे बिलम्। मध्ये च रेखा लम्बैकास च दामोदरः स्मृतः”। अन्यत्र
“स्थूलो दामोदरोज्ञेयः सूक्ष्मरन्ध्रो भवेत्तु यः। चक्रे तन्मध्यदेशस्थेपजितः शुभदः सदा”। ब्रह्मवै॰ प्रकृतिखण्डे
“द्विचक्रंस्फुटमत्यन्तं ज्ञेयं दामोदराभिधम्”। मत्स्यसूक्ते
“विश्वक्सेनमतिस्थूलं लघु दामोदरं स्मृतम्”

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें