बुधवार, 13 सितंबर 2023

ब्रह्म पुराण और विष्णु पुराण में कृष्ण की मृत्यु जरा व्याध द्वार और कृष्ण का स्वर्ग गमन-प्रक्षेप युक्त कथन-




< ब्रह्मपुराणम्
← अध्यायः २०९ ब्रह्मपुराणम्

भूमिभारावतरणकथनम्


एवं दैत्यवधं कृष्णो बलदेवसहायवान्।
चक्रे दुष्टक्षितिशानां तथैव जगतः कृते।२१०.१ ।।
क्षितेश्च भारं भगवान्फाल्गुनेन समं विभुः।
अवतारयामास हरिः समस्ताक्षौहिणीवधात्।। २१०.२ ।
कृत्वा भारावतरणं भुवो हत्वाऽखिलान्नृपान्।
शापव्यजेन विप्राणामुपसंहृतवान्कुलम्।२१०.३ ।।
उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मभूः।
स्वांशो विष्णुमयं स्थानं प्रविवेश पुनर्निजम्।। २१०.४ ।।
मुनय ऊचुः
स विप्रशापव्याजेन संजह्ने स्वकुलं कथम्।
कथं च मानुषं देहमुत्ससर्ज जनार्दनः।। २१०.५ ।।
व्यास उवाच
विश्वामित्रस्तथा कण्वो नारदश्च महामुनिः।
पिण्डारके महातीर्थे दृष्टा यदुकुमारकैः।२१०.६ ।।
ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः।
साम्बं जाम्बवतीपुत्रं भूषयित्वा स्त्रियं यथा।।
प्रसृतास्तान्मुनीनूचुः प्रणिपातपुरः सरम्।२१०.७।
कुमारा ऊचुः
इयं स्त्री पुत्रकामा तु प्रभो किं जनयिष्यति।। २१०.८ ।।
व्यास उवाच
दिव्यज्ञानोपपन्नास्ते विप्रलब्धा कुमारकैः।
शापं ददुस्तदा विप्रास्तेषां नाशाय सुव्रताः।। २१०.९ ।।
मुनयः कुपिताः प्रोचुर्मुशलं जनयिष्यति।
येनाखिलकुलोत्सादो यादवानां भविष्यति।। २१०.१० ।।
इत्युक्तास्तैः कुमारास्त आचचक्षुर्यथातथम्।
उग्रसेनाय मुशलं जज्ञे साम्बस्य चोदरात्।। २१०.११ ।।
तदुग्रसेनो मुशलमयश्चूर्णमकारयत्।
जज्ञे तच्चैरका चूर्णं प्रक्षिप्तं वै महोदधौ।। २१०.१२ ।।
मुसलस्याथ लौहस्य चूर्णितस्यान्धकैर्द्विजाः।
खण्डं चूर्णयितुं शेकुर्नैव ते तोमराकृति।। २१०.१३ 
तदप्यम्बुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः।
घातितस्योदरात्तस्य लुब्धो जग्राह तज्जरा।। २१०.१४ ।।
विज्ञातपरमार्थोऽपि भगवान्मधुसूदनः।
नैच्छत्तदन्यथा कर्तुं विधिना यत्समाहृतम्।। २१०.१५ ।।
देवैश्च प्रहितो दूतः प्रणिपत्याऽऽह केशवम्।
रहस्येवमहं दूतः प्रहितो भगवन्सुरैः।। २१०.१६ ।।
वस्वश्विमरूदादित्यरुद्रसाध्यादिभिः सह।
विज्ञापयति वः शक्रस्तदिदं श्रूयतां प्रभो।। २१०.१७ ।।
देवा ऊचुः
भारावतरणार्थाय वर्षाणामधिकं शतम्।
भगवानवतीर्णोऽत्र त्रिदशैः संप्रसादितः।२१०.१८ 
दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः।
त्वया सनाथास्त्रिदशा व्रजन्तु त्रिदिवेशताम्।। २१०.१९ ।।
तदतीतं जगन्नाथ वर्षाणामधिकं शतम्।
इदानीं गम्यतां स्वर्गो भवते यदि रोचते।। २१०.२०।
देवैर्विज्ञापितो देवोऽप्यथात्रैव रतिस्तव।
तत्स्थीयतां यथाकालमाख्येयमनुजीविभिः।। २१०.२१ ।।
श्रीभगवानुवाच
यत्त्वमात्थाखिलं दूत वेद्‌मि चैतदहं पुनः।
प्रारब्ध एव हि मया यादवानामपि क्षयः।। २१०.२२ ।।
भुवो नामातिभारोऽयं यादवैरबर्हितैः।
अवतारं करोम्यस्य सप्तरात्रेण सत्वरः।। २१०.२३।
यथागृहीतं चाम्भोधौ हृत्वाऽहं द्वारकां पुनः।
यादवानुपसंहृत्य यास्यामि त्रिदशालयम्।। २१०.२४ ।।
मनुष्यदेहमुत्सृज्य संकर्षणसहायवान्।
प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथा सुरैः।। २१०.२५ ।।
जरासंधादयो येऽन्ये निहता भारहेतवः।
क्षितेस्तेंभ्यः स भारो हि यदूनां समधीयत।। २१०.२६ ।।
तदेतत्सुमहाभारमवतार्य क्षितेरहम्।
यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान्।। २१०.२७ ।।
व्यास उवाच
इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम्।
द्विजाः स दिव्यया गत्या देवराजान्तिकं ययौ।। २१०.२८ ।।
भगवानप्यथोत्पातान्दिव्यान्भौमान्तरिक्षगान्।
ददर्श द्वारकापुर्यां विनाशाय दिवानिशम्।। २१०.२९ ।।
तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान्।
महोत्पाताञ्शमयैषां प्रभासं याम मा चिरम्।। २१०.३० ।।
व्यास उवाच
महाभागवतः प्राह प्रणिपत्योद्धवो हरिम्।। २१०.३१ ।।
उद्धव उवाच
भगवन्यन्मया कार्यं तदाज्ञापय सांप्रतम्।
मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति।।
नाशायास्य निमित्तनि कुलस्याच्युत लक्षये।। २१०.३२ ।।
_________________    
श्रीभगवानुवाच
गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया।
बदरीमाश्रमं पुण्यं गन्धमादनपर्वते।। २१०.३३ ।।
नरनारायणस्थाने पवित्रितमहीतले।
मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि।। २१०.३४ ।।
अहं स्वर्गं गमिष्यामि उपसंहृत्य वै कुलम्।
द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति।। २१०.३५ ।।
व्यास उवाच
इत्युक्तः प्रणिपत्यैनं जगाम स तदोद्धवः।
नरनारायणस्थानं केशवेनानुमोदितः।२१०.३६ ।
ततस्ते यादवाः सर्वे रथनारुह्य शीघ्रगान्।
प्रभासं प्रययुः सार्धं कृष्णरामादिभिर्द्विजाः।। २१०.३७ ।।
प्राप्य प्रभासं प्रयता प्रीतास्ते कुक्कुरान्धकाः।
चक्रुस्तत्र सुरापानं वासुदेवानुमोदिताः।२१०.३८।
पिबतां तत्र वै तेषां संघर्षेण परस्परम्।
यादवानां ततो जज्ञे कलहाग्निः क्षयावहः।। २१०.३९ ।।
जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात्कृताः।
क्षीणशस्त्रास्तु जगृहुः प्रत्यासन्नामथैरकाम्।। २१०.४० ।।
एरका तु गृहीता तैर्वज्रभूतेव लक्ष्यते।
तया परस्परं जघ्नुः संप्रहारैः सुदारुणैः।। २१०.४१ ।।
प्रद्युम्नसाम्बप्रमुखाः कृतवर्माऽथ सात्यकिः।
अनिरुद्धादयश्चन्ये पृथुर्विपृथुरेव च।। २१०.४२ ।।
चारुवर्मा सुचारुश्च तथाऽक्रूरादयो द्विजाः।
एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम्।। २१०.४३ ।।
निवारयामास हरिर्यादवास्ते च केशवम्।
सहायं मेनिरे प्राप्तं ते निजध्नुः परस्परम्।। २१०.४४ ।।
कृष्णोऽपि कुपितस्तेषामेरकामुष्टिमाददे।
वधाय तेषां मुशलं मुष्टिलोहमभूत्तदा।। २१०.४५ ।।
जघान तेन निःशेषानातततायी स यादवान्।
जघ्नुश्च सहसाऽभ्येत्य तथाऽन्ये तु परस्परम्।। २१०.४६ ।।
ततश्चार्णवमध्येन जैत्रोऽसौ चक्रिणो रथः।
पश्यतो दारुकस्याऽऽसु हृतोऽश्वैर्द्विजसत्तमाः।। २१०.४७ ।।
चक्रं गदा तथा शार्ङ्गं तूणौ शङ्खोऽसिरेव च।
पश्यतो दारुकस्याऽऽशु हृतोऽश्वैर्द्विजसत्तमाः।। २१०.४८ ।।
क्षणमात्रेण वै तत्र यादवानामभूत्क्षयः।
ऋते कृष्णं महाबाहुं दारुकं च द्विजोत्तमाः।। २१०.४९ ।।
चङ्क्रम्यमाणौ तौ रामं वृक्षमूलकृतासनम्।
ददृशाते मुखाच्चास्य निष्क्रामन्तं महोरगम्।। २१०.५० ।।
निष्क्रम्य स मुखात्तस्य महाभोगो भुजंगमः।
प्रयातश्चार्णवं सिद्धैः पूज्यमानस्तथोरगैः।। २१०.५१ ।।
तमर्घ्यमादाय तदा जलधिः संमुखं ययौ।
प्रविवेश च तत्तोयं पूजितः पन्नगोत्तमैः।।
दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः।। २१०.५२ ।।
श्रीभगवानुवाच
इदं सर्वं त्वमाचक्ष्व वसुदेवोग्रसेनयोः।
निर्याणं बलदेवस्य यादवानां तथा क्षयम्।। २१०.५३ ।।
योगे स्थित्वाऽहमप्येतत्परित्यज्य कलेवरम्।
वाच्यश्च द्वारकावासी जनः सर्वस्तथाऽऽहुकः।। २१०.५४ ।।
यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति।
तस्माद्रतैः सुसज्जैस्तु प्रतीक्ष्यो ह्यर्जुनागमः।। २१०.५५ ।।
न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे।
तेनैव सह गन्तव्यं यत्र याति स कौरवः।। २१०.५६ ।।
गत्वा च ब्रूहि कौन्तेयमर्जुनं वचनं मम।
पालनीयस्त्वया शक्त्या जनोऽयं मत्परिग्रहः।। २१०.५७ ।।
इत्यर्जुनेन सहितो द्वारवत्यां भवाञ्जनम्।
गृहीत्वा यातु वज्रश्च यदुराजो भविष्यति।। २१०.५८ ।।
इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णचरिते श्रीकृष्णनिजधामगमननिरूपणं नाम दशाधिकद्विशततमोऽध्यायः।। २१० ।।



विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३७


< विष्णुपुराणम्‎ | पञ्चमांशः
श्रीविष्णुपुराणम्-पञ्चमांशः

श्रीपराशर उवाच।
एवं दैत्यवधं कृष्णो बलदेव सहायवान् ।
चक्रे दुष्टक्षितीशानां तथैव जगतः कृते १ ।
क्षितेश्च भारं भगवान्फाल्गुनेन समन्वितः ।
आवतारयामास विभुस्समस्ताक्षोहिणी वधात् २ ।
कृत्वा भारावतरणं भुवो हत्वाऽखिलान्नृपान् ।
शापव्याजेन विप्राणामुपसंहृतवान्कुलम् ३ ।
उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मनः ।
सांशो विष्णुमयं स्थानं प्रविवेश मुने निजम् ४ ।
मैत्रेय उवाच।
स विप्रशापव्याजेन संजह्रे स्वकुलं कथम् ।
कथं च मानुषं देहमुत्ससर्ज जनार्दनः ५ ।
श्रीपराशर उवाच।
विश्वामित्रस्तथा कण्वो नारदश्च महामुनिः ।
पिंडारके महातीर्थे दृष्ट्वा यदुकुमारकैः ६ ।
ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः ।
सांबं जांबवतीपुत्रं भूषयित्वा स्त्रियं यथा ७ ।
प्रश्रितास्तान्मुनीनूचुः प्रणिपातपुरस्सरम् ।
इयं स्त्री पुत्रकामा वै ब्रूत किं जनयिष्यति ८ ।
श्रीपराशर उवाच।
दिव्यज्ञानोपपन्नास्ते विप्रलब्धाः कुमारकैः ।
मुनयः कुपिताः प्रोचुर्मुसलं जनयिष्यति ९ ।
सर्वयादवसंहारकारणं भुवनोत्तरम् ।
येनाखिलकुलोत्सादो यादवानां भविष्यति १० ।
इत्युक्तास्ते कुमारास्तु आचचक्षुर्यथातथम् ।
उग्रसेनाय मुसलं जज्ञे सांबस्य चोदरात् ११ ।
तदुग्रसेनो मुसलमयश्चूर्णमकारयत् ।
जज्ञे तदेरकाचूर्णं प्रक्षिप्तं तैर्महोदधौ १२ ।
मुसलस्याथ लोहस्य चूर्णितस्य तु यादवैः ।
खंडं चूर्णितशेषं तु ततो यत्तोमराकृति १३ ।
तदप्यंबुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः ।
घातितस्योदरात्तस्य लुब्धो जग्राह तज्जराः १४ ।
विज्ञातपरमार्थोपि भगवान्मधुसूदनः ।
नैच्छत्तदन्यथा कर्त्तुं विधिना यत्समीहितम् १५ ।
देवैश्च प्रहितो वायुः प्रणिपत्त्याह केशवम् ।
रहस्येवमहं दूतः प्रहितो भगवन्सुरैः १६ ।
वस्वश्विमरुदादित्यरुद्र साध्यादिभिस्सह ।
विज्ञापयति शक्रस्त्वां तदिदं श्रूयतां विभो १७ ।
भारावतरणार्थाय वर्षाणामधिकं शतम् ।
भगवानवतीर्णोत्र त्रिदशैस्सह चोदितः १८ ।
दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः ।
त्वया मनाथास्त्रिदशा भवंतु त्रिदिवे सदा १९ ।
तदतीतं जगन्नाथ वर्षाणामधिकं शतम् ।
इदानीं गम्यतां स्वर्गो भवता यदि रोचते २० ।
देवैर्विज्ञाप्यते देव तथात्रैव रतिस्तव ।
तत्स्थीयतां यथाकालमास्थेयमनुजीविभिः २१ ।
________________
श्रीभगवानुवाच।
यत्त्वमात्थाखिलं दूत वेद्म्येतदहमप्युत ।
प्रारब्ध एव हि मया यादवानां परिक्षयः २२ ।
भुवो नाद्यापि भारोऽयं यादवैरनिबर्हितैः ।
अवतार्य करोम्येतत्सप्तरात्रेण सत्वरः २३ ।
यथा गृहीतमंभोधेर्दत्त्वाहं द्वारकाभुवम् ।
यादवानुपसंहृत्य यास्यामि त्रिदशालयम् २४ ।
मनुष्यदेहमुत्सृज्य संकर्षणसहायवान् ।
प्राप्त एवास्मि मंतव्यो देवेंद्रे ण तथाऽमरैः २५ ।
जरासंधादयो येऽन्ये निहता भारहेतवः ।
क्षितेस्तेभ्यःकुमारोऽपि यदूनां नापचीयते २६ ।
तदेतं सुमहाभारमवतार्य क्षितेरहम् ।
यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् २७ ।
श्रीपराशर उवाच।
इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् ।
मैत्रेय दिव्यया गत्या देवराजांतिकं ययौ २८ ।
भगवानप्यथोत्पातान्दिव्यभौमांतरिक्षजान् ।
ददर्श द्वारकापुर्य्यां विनाशाय दिवानिशम् २९ ।
तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान् ।
महोत्पाताञ्छमायैषां प्रभासं याम मा चिरम् ३० ।
श्रीपराशर उवाच।
एवमुक्ते तु कृष्णेन यादवप्रवरस्ततः ।
महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ३१ ।
भगवन्यन्मया कार्यं तदाज्ञापय सांप्रतम् ।
मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति ३२ ।
नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ३३ ।

श्रीभगवानुवाच।
गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया ।
यद्बदर्याश्रमं पुण्यं गंधमादनपर्वते ।
नरनारायणस्थाने तत्पवित्रं महीतले ।३४ ।
मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि ।
____________    
अहं स्वर्गं गमिष्यामि ह्युपसंहृत्य वै कुलम् ३५ 
द्वारकां च मया त्यक्तांसमुद्र:! प्लावयिष्यति ।
मद्वेश्म चैकं मुक्त्वा तु भयान्मत्तो जलाशये ।
तत्र सन्निहितश्चाहं भक्तानां हितकाम्यया ३६ ।
श्रीपराशर उवाच।
इत्युक्तः प्रणिपत्यैनं जगामाशु तपोवनम् ।
नरनारायणस्थानं केशवेनानुमोदितः ३७ ।
ततस्ते यादवास्सर्वे रथानारुह्य शीघ्रगान् ।
प्रभासं प्रययुस्सार्द्धं कृष्णरामादिभिर्द्विज ३८ ।
प्रभासं समनुप्राप्ताः कुकुरांधकवृष्णयः ।
चक्रुस्तत्र महापानं वासुदेवेन चोदिताः ३९ ।
पिबतां तत्र चैतेषां संघर्षेण परस्परम् ।
अतिवादेंधनो जज्ञे कलहाग्निः क्षयावहः ४० ।
मैत्रेय उवाच।
स्वंस्वं वै भुंजतां तेषां कलहः किंनिमित्तकः ।
संघर्षो वा द्विजश्रेष्ठ तन्ममाख्यातुमर्हसि ४१ ।
श्रीपराशर उवाच।
मृष्टं मदीयमन्नं ते न मृष्टमिति जल्पताम् ।
मृष्टामृष्टकथा जज्ञे संघर्षकलहौ ततः ४२ ।
ततश्चान्योन्यमभ्येत्य क्रोधसंरक्तलोचनाः ।
जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात्कृताः ४३ ।
क्षीणशस्त्राश्च जगृहुः प्रत्यासन्नामथैरकाम् ४४ ।
एरका तु गृहीता वै वज्रभूतेव लक्ष्यते ।
तया परस्परं जघ्नुस्संप्रहारे सुदारुणे ४५ ।
प्रद्युम्नसांबप्रमुखाः कृतवर्माथ सात्यकिः ।
अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च ४६ ।
चारुवर्मा चारुकश्च तथाक्रूरादयो द्विज ।
एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम् ४७ ।
निवारयामास हरिर्यादवांस्ते च केशवम् ।
सहायं मेनिरेरीणां प्राप्तं जघ्नुः परस्परम् ४८ ।
कृष्णोऽपि कुपितस्तेषामेरकामुष्टिमाददे ।
वधाय सोपि मुसलं मुष्टर्लौहमभूत्तदा ४९ ।
जघान तेन निश्श्षोआ!न्यादवानाततायिनः ।
जघ्नुस्ते सहसाभ्येत्य तथाऽन्येपि परस्परम् ५० ।
ततश्चार्णवमध्येन जैत्रोऽसौ चक्रिणो रथः ।
पश्यतो दारुकस्याथ प्रायादश्वैर्धृतो द्विज ५१ ।
चक्रं गदा तथा शार्ङ्गं तूणीशंखोसिरेव च ।
प्रदक्षिणं हरिं कृत्वा जग्मुरादित्यवर्त्त्मना ५२ ।
क्षणेन नाभवत्कश्चिद्यादवानामघातितः ।
ऋते कृष्णं महात्मानं दारुकं च महामुने ५३ ।
चंक्रम्यमाणौ तौ रामं वृक्षमूले कृतासनम् ।
ददृशाते मुखाच्चास्य निष्क्रामंतं महोरगम् ५४ ।
निष्क्रम्य स मखात्तस्य महाभोगो भुजंगमः ।
प्रययावर्णवं सिद्धैः पूज्यमानस्तथोरगैः ५५ ।
ततोर्घ्यमादाय तदा जलधिस्संमुखं ययौ ।
प्रविवेश ततस्तोयं पूजितः पन्नगोत्तमैः ५६ ।
दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ।
इदं सर्वं समाचक्ष्व वसुदेवोग्रसेनयोः ५७ ।
निर्याणं बलभद्र स्य यादवानां तथा क्षयम् ।
योगे स्थित्वाहमप्येतत्परित्यक्ष्ये कलेवरम् ५८ ।
वाच्यश्च द्वारकावासी जनस्सर्वस्तथाहुकः ।
यथेमां नगरीं सर्वां समुद्र ः! प्लावयिष्यति ५९ ।
तस्माद्भवद्भिस्सर्वैस्तु प्रतीक्ष्यो ह्यर्जुनागमः ।
न स्थेयं द्वारकामध्ये निष्क्रांते तत्र पांडवे ६० ।
तेनैव सह गंतव्यं यत्र याति स कौरवः ६१ ।
गत्वा च ब्रूहि कौंतेयमर्जुनं वचनान्मम ।
पालनीयस्त्वया शक्त्या जनोऽयं मत्परिग्रहः ६२ ।
त्वमर्जुनेन सहितो द्वारवत्यां तथा जनम् ।
गृहीत्वा यादि वज्रश्च यदुराजो भविष्यति ६३ ।
श्रीपराशर उवाच।
इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनःपुनः ।
प्रदक्षिणं च बहुशः कृत्वा प्रायाद्यथोदितम् ६४ ।
स च गत्वा तदाचष्ट द्वारकायां तथाऽर्जुनम् ।
आनिनाय महाबुद्धिर्वज्रं चक्रे तथा नृपम् ६५ ।
भगवानपि गोविंदो वासुदेवात्मकं परम् ।
ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् ।
निष्प्रपंचे महाभाग संयोज्यात्मानमात्मनि ।
तुर्यावस्थसलीलं च श्तोए!स्म पुरुषोत्तमः ६६ ।
संमानयन्द्विजवचो दुर्वासा यदुवाच ह ।
योगयुक्तोऽभवत्पादं कृत्वा जानुनि सत्तम ६७ ।
आययौ स जरानाम तदा तत्र स लुब्धकः ।
मुसलावशेषलोहैकसायकन्यस्ततोमरः ६८ ।
स तत्पादं मृगाकारमवेक्ष्यारादवस्थितः ।
तले विव्याध तेनैव तोमरेण द्विजोत्तम ६९ ।
ततश्च ददृशो! तत्र चदुर्बाहुधरं नरम् ।
प्रणिपत्त्याह चैवैनं प्रसीदेति पुनःपुनः ७० ।
अजानता कृतमिदं मया हरिणशंकया ।
क्षम्यतां मम पापेन दग्धं मां त्रातुमर्हसि ७१ ।
श्रीपराशर उवाच।
ततस्तं भगवानाह न तेस्तु भयमण्वपि ।
गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गं सुरास्पदम् ७२ ।
श्रीपराशर उवाच।
विमानमागतं सद्यस्तद्वाक्यसमनंतरम् ।
आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ७३ ।
गते तस्मिन्सभगवान्संयोज्यात्मानमात्मनि ।
ब्रह्मभूतेऽव्ययेचिंत्ये वासुदेवमयेऽमले ७४ ।
अजन्मन्यमरे विष्णावप्रमेयेऽखिलात्मनि ।
तत्याज मानुषं देहमतीत्य त्रिविधां गतिम् ७५ ।
इति श्रीविष्णुमहापुराणे पंचमांशे सप्तत्रिंशोऽध्यायः। ३७।

____     
गर्ग संहिता
अश्‍वमेध खण्‍ड : अध्याय 60

राजन् ! इसी समय श्रीकृष्‍ण के शरीर से करोड़ों कामदेवों के समान सुन्‍दर चार भुजाधारी ‘श्रीविष्‍णु‘ प्रकट हुए, जिन्‍होंने शंख और चक्र धारण कर रखे थे। वे जगदीश्‍वर श्रीमान् लक्ष्‍मी के साथ एक सुन्‍दर रथ पर आरूढ़ हो शीघ्र ही क्षीरसागर को चल दिये। इसी प्रकार ‘नारायण’ रूपधारी भगवान श्रीकृष्‍ण हरि महालक्ष्‍मी के साथ गरुड़ पर बैठकर वैकुण्‍ठधाम को चले गये। नरेश्‍वर ! इसके बाद श्रीकृष्‍ण हरि ‘नर और नारायण’- दो ऋषियों के रूप में अभिव्‍यक्‍त हो मानवों के कल्‍याणार्थ बदरिकाश्रम को गये। तदनन्‍तर साक्षात् परिपूर्णतम जगत्‍पति भगवान श्रीकृष्‍ण श्रीराधा के साथ गोलोक से आये हुए रथ पर आरूढ़ हुए। नन्‍द आदि समस्‍त गोप तथा यशोदा आदि व्रजांगनाएं सब-के-सब वहाँ भौतिक शरीरों का त्‍याग करके दिव्‍य देहधारी हो गये। तब गोपाल भगवान श्रीहरि नन्‍द आदि को उस दिव्‍य रथ पर बिठाकर गोकुल के साथ शीघ्र ही गोलोकधाम को चले गये। ब्राह्मणों से बाहर जाकर उन सबने विरजा नदी को देखा। साथ ही शेषनाग की गोद में महालोक दृष्‍टिगोचर हुआ, जो दु:खो का नाशक तथा परम सुखदायक है। उसे देखकर गोकुलवासियों सहित श्रीकृष्‍ण उस रथ से उतर पड़े और श्रीराधा के साथ अक्षय वट का दर्शन करते हुए उस परमधाम में प्रविष्‍ट हुए। गिरिवर शतश्रृंग तथा श्रीरासमण्‍डल को देखते हुए वे कतिपय द्वारों से सुशोभित श्रीमद्वृन्‍दावन में गये, जो बारह वनों से संयुक्‍त तथा कामपूरक वृक्षों से भरा हुआ था।

यमुना नदी उसे छूकर बह रही थी। वसन्‍त–ऋतु और मलयानिल उस वन की शोभा बढ़ा रहे थे। वहाँ फूलों से भरे कितने ही कुंज और निकुंज थे। वह वन गोपियों और गोपों से भरा था। जो पहले सूना सा लगता था, उस श्रीगोलोकधाम में श्रीकृष्‍ण के पधारने पर जय-जयकार की ध्‍वनि गूंज उठी। तदनन्‍तर द्वारका में यदुकुल की पत्‍नियों-देवकी आदि सभी स्‍त्रियां दु:ख से व्‍याकुल हो चिता पर चढ़कर पतिलोक को चली गयीं। जिनके गोत्र नष्‍ट हो गये थे, उन यादव-बन्‍धुओं का पारलौकिक कृत्‍य अर्जुन ने किया। वे गीता के ज्ञान से अपने मन को शान्‍त करके बड़े दु:ख से सबका अन्‍त्‍येष्‍टि संस्‍कार कर सके। जब अर्जुन ने अपने निवास स्‍थान हस्‍तिनापुर में जाकर राजा युधिष्‍ठिर को यह सब समाचार बताया तब वे पत्‍नी और भाइयों के साथ स्‍वर्गलोक को चले गये। नृपश्रेष्‍ठ ! इधर समुद्र ने रैव तक पर्वत सहित श्रीरुक्‍मिणीवल्‍लभ श्रीकृष्‍ण के निवास गृह को छोड़ शेष सारी द्वारकापुरी को अपने जल में डुबोकर आत्‍मसात कर लिया। आज भी द्वारका के समुद्रों में श्रीहरि का यह घोष सुनायी पड़ता है कि ‘ब्राह्मण विद्यमान हो या विद्याहीन, वह मेरा ही शरीर है’ (अविद्यो वा सविद्यो वा ब्राह्मणो माम की तनु:)। कलियुग के प्रारम्‍भिक काल में ही श्रीहरि के अंशावातार विष्‍णुस्‍वामी महासागर में जाकर श्रीहरि की प्रतिमा को प्राप्‍त करेंगे और द्वारकापुरी में उसकी स्‍थापना कर देंगे। नृपेश्‍वर ! कलियुग में उन द्वारकानाथ का जो मनुष्‍य वहाँ जाकर दर्शन करते हैं, वे सब कृतार्थ हो जाते हैं। जो श्रीहरि के गोलोकधाम पधारने का चरित्र सुनते हैं तथा यादवों और गोपों की मुक्‍ति का वृत्तान्‍त पढ़ते हैं, वे सब पापों से मुक्‍त हो जाते हैं।

इस प्रकार श्रीगर्ग संहिता के अन्‍तर्गत अश्‍वमेध खण्‍ड में ‘श्रीराधा और श्रीकृष्‍ण का गोलोकाहरण’ नामक साठवां अध्‍याय पूरा हुआ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें