महिषीदानव्रतविधिवर्णनम्
।। श्रीकृष्ण उवाच ।। ।।
महिषीदानमाहात्म्यं कथयामि युधिष्ठिर ।।
पुण्यं पापविनाशं च आयुष्यं सर्वकामदम् ।। १ ।।
चन्द्रसूर्यग्रहे पुण्ये कार्त्तिक्यामयने तथा ।।
शुक्लपक्षे चतुर्दश्यां सूर्यसंक्रान्तिवासरे ।। २ ।।
यदा वा जायते चित्तं वित्तं च कुरुनन्दन ।।
तदैव देया महिषी संसारभयभीरुणा ।। ३ ।।
सुपयोधरशोभाढ्या सुशृंगी सुखुरा तथा ।।
प्रथमप्रसूता तरुणी सुशीला दोषवर्जिता ।। ४ ।।
सुवर्णशृङ्गतिलका घंटाभरणभूषिता ।।
रक्तवस्त्रावृता रम्या कांस्यदोहनकान्विता ।। ५ ।।
पिण्याकपिटिकोपेता सहिरण्या च शक्तितः ।।
सप्तधान्ययुता देया ब्राह्मणे वेदपारगे ।। ६ ।।
पुराणपाठके तद्वज्ज्योतिःशास्त्रविदे तथा ।।
देया न वेदरहिते न च कुव्रतिने क्वचित् ।। ७ ।।
द्रव्यैरेभिः समायुक्तां पुण्येऽह्नि विधिपूर्वकम् ।।
दद्यान्मंत्रेण राजेन्द्र पुराणपठितेन तु ।। ८ ।।
इन्द्रादिलोकपालानां या राजमहिषी शुभा ।।
महिषी दानमाहात्म्यात्सास्तु मे सर्वकामदा ।। ९ ।।
धर्मराजस्य साहाय्ये यस्याः पुत्रः प्रतिष्ठितः ।।
महिषासुरस्य जननी या सास्तु वरदा मम ।।4.162.१०।। (इति दानमंत्रः)
दद्यात्प्रदक्षिणीकृत्य ब्राह्मणे तां पयस्विनीम्।।
प्रतिग्रहः स्मृतस्तस्याः पृष्ठदेशे स्वयंभुवा।।११।।
एवं दत्त्वा विधानेन ब्राह्मणस्य गृहं नयेत् ।।
वस्त्रैराभरणैः पूज्य भक्त्या च कुरुनन्दन ।। १२ ।।
संपादिता मया तुभ्यं संतुष्टो मे भव द्विज ।। १३ ।।
अनेन विधिना दत्त्वा महिषीं द्विजपुङ्गवे ।।
सर्वान्कामानवाप्नोति इह लोके परत्र च ।। १४ ।।
या सा ददाति महिषीं सा राजमहिषी भवेत् ।।
महाराजः पुमान्राजन्व्यासस्य वचनं यथा ।। १५ ।।
यज्ञयाजी भवेद्विप्रः क्षत्रियो विजयी भवेत् ।।
भवेद्वैश्यस्तु धनवाञ्छूद्रः सर्वार्थसंयुतः ।। १६ ।।
तस्मान्नरेण दातव्या महिषी विभवे सति ।।
पुत्रपौत्रप्रपौत्रार्थमात्मनः शुभमिच्छता ।। १७ ।।
दशधेनुसमां राजन्महिषीं नारदोऽब्रवीत् ।।
विंशतिगोसमां व्यासः सर्वदानोत्तमं रविः ।। १८ ।।
सगरेण ककुत्स्थेन धुंधुमारेण गाधिना ।।
दत्ताः संपूज्य विप्रेभ्यो महिष्यः सर्वकामदाः ।। १९ ।।
महिषी दानमाहात्म्यं यः शृणोति सदा नरः ।।
स सर्वपापनिर्मुक्तः शिवलोके महीयते ।। 4.162.२० ।।
दुग्धाधिकां हि महिषीं जलमेघवर्णां सपुष्टपट्टकवतीं जघनाभिरामाम् ।।
दत्त्वा सुवर्णतिलकां द्विजपुंगवाय लोकद्वयं विजयते किमु तत्र चित्रम् ।। २१ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महिषीदानव्रतविधिवर्णनं नाम द्विषष्टयुत्तरशततमोऽध्यायः ।। १६२ ।।
भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/विषयानुक्रमणिका
( अथ चतुर्थः खण्डः । । ४ । ।)
१ ३३१ व्यासमहर्षिणा स्वमनः प्रत्युद्दिश्य भविष्यत्कथावर्णनम् अग्निवंश्यनृपचरित्रवर्ण- नम् तत्र विक्रमवंश्यभूयालचरित्रवर्णनम् बुंदेलखण्डस्वस्थराष्ट्रवृत्तान्तः, कल्पसिंहांतप्रमरवंशसमाप्तिवर्णनञ्च श्लो. ४६
२ ३३२ अजमेरपुरवृत्तान्तः, तोमरान्वयवृत्तान्तवर्णनम् म्लेच्छोपभुक्तचपहानिवंश्यक्ष त्रियपत्नीभ्यो जट्ट-जाटप-मेहन--प्रभृतिक्षुद्रजातिक्षत्रियवृत्तान्तवर्णनम् - श्लो. २८
३ ३३३ शुक्लनामकाग्निवंश्यभूपालवंश्यचरित्रवर्णनम्, शुक्लेन ब्राह्मणद्वारा बौद्धविजयकरणपूर्वकं द्वारकायां राज्यकरणम्, तद्वंश्यराजवृत्तान्तवर्णनम्. सिंधुदेशवृत्तान्तः, कच्छभुज-देशवृत्तान्तः, उदयपुरवृत्तातः,कान्यकुब्जवृत्तान्तः, लक्षणां- तशुक्लवंश्यसमाप्तिवर्णनम् शेषक्षुद्रभूपालस्थितिवर्णनम् श्लो. ७९
४ ३३४ परिहारभूपतिवंश्यनृपतिवृत्तान्तवर्णनम् श्लो. ४०
५ ३३५ ब्रह्मणो मध्याह्नकालप्राप्तौ भगवदवतारादिवृत्तान्तवर्णनम् श्लो. ३४
६ ३३६ देहलीस्थम्लेच्छभूपवृत्तान्तवर्णनारम्भः, सहोज्जीनेन देवतातीर्थखण्डकरणम्, व्यासेन मनसे कल्पजातिधर्मस्थितिवर्णनम्, मोङ्गलतैमुरलङ्गराज्यवर्णनम्. इंद्राण्या सहेंद्रस्य भूमावागमनम् तत्र बृहस्पतिनेंद्रादिभ्यः सूर्यमाहात्म्य- वर्णनम् श्लो ६५
७ ३३७ सूर्यमाहात्म्यवर्णनम्, तत्र धातृशर्मद्विजेश्वरपुरीचरित्रवर्णनम्, मित्रशर्माद्विजचरित्रवर्णनम्, रामानन्दोत्पत्तिवृत्तान्तः, निम्बादित्योत्पत्तिवृत्तान्तः श्लो. ६७
८ ३४० मध्वाचार्योत्पत्तिवृत्तान्तवर्णनम्, श्रीधराचार्योत्पत्तिवृत्तान्तवर्णनम्, विष्णुस्वाम्यु- त्पत्तिवृत्तान्तः. वाणीभूषणोत्पत्तिवृत्तान्तः, भट्टोजिदीक्षितोत्पत्तिवृत्तान्तः, वराहमिहिराचार्योत्पत्तिवृत्तान्तः श्लो. १२५
९ ३४१ धन्वन्तरिसमुत्पत्तिवृत्तान्तः, सुश्रुतोत्पत्तिवृत्तान्तः, जयदेवोत्पत्तिवृत्तान्तः श्लो ६६
१०. ३४३ कृष्णचौतन्योत्पत्तिवृत्तान्तवर्णनम्. शङ्कराचार्यसमुत्पत्तिवृत्तान्तवर्णनम् श्लो ८१
११ ३४५ आनन्दगिरिसमुत्पत्तिवृत्तान्तवर्णनम्, वनशर्मसमुत्पत्तिवृत्तान्तवर्णनम् पुरीशर्मसमु- त्पत्तिवृत्तान्तवर्णनम् श्लो.७१
१२ ३४६ भारतीशसमुत्पत्तिवृत्तान्तवर्णनम् गोरखनाथसमुत्पत्तिवृत्तान्तवर्णनम् क्षेत्रशर्मोत्पत्तिवृत्तान्तवर्णनम् ढुण्ढीराजसमुत्पत्तिवृत्तान्तवर्णनम् श्लो १०४
१३ ३४८ अघोरपंथिभैरवहनुमज्जन्म-रुद्रमाहात्म्यं-बालशर्मसमुत्पत्तिवर्णनम् श्लो, ५३
१४ ३४९ रुद्रमाहात्म्यवर्णनम्, रामानुजोत्पत्तिवर्णनम् श्लो. ११९
१५ ३५२ वस्ववतारवृत्तान्तवर्णने कुबेरावतारत्रिलोचनवैश्योत्पत्तिसविस्तरवृत्तान्तवर्ण नम् श्लो. ७३
१६ ३५३ नामदेवसमुत्पत्तिवर्णनम्, रंकणवैश्यसमुत्पत्तिवृत्तान्तवर्णनम् श्लो. ८१
१७ ३५५ कबीर नरश्री-पीपा नानक-नित्यानन्दसाधूनां समुत्पत्तिवृत्तान्तवणर्नम्. श्लो. ८८
१८ ३५७ अश्विनीकुमारावतारवर्णने सधन-रैदाससमुत्पत्तिवृत्तान्तवर्णनम् श्लो. ५६
१९ ३५८ कृष्णचैतन्ययज्ञांशशिष्य-बलभद्र-विष्णुस्वामि मध्वाचार्यादिचरित्रवृत्तान्तवर्णन- म् श्लो. ६६
२० ३५९ कृष्णचैतन्यचरित्रवर्णने जगन्नाथमाहात्म्यवर्णनम् श्लो. ९१
२१ ३६१ कण्व ब्राह्मणस्यार्यावत्यामुपाध्याय दीक्षित पाठक शुक्ल मिश्राग्निहोत्रि द्विवेदि त्रिवेदि पाण्ड चतुर्वेदीत्यन्वर्थदशपुत्र तद्वंश्योत्पत्तिवृत्तान्तवर्णनम् कृष्णचैतन्यादिकृत म्लेच्छमायानिरासवृत्तातवर्णनम् श्लो. ८१
२२ ३६३ तिमिरलिंगपुत्रसरुषादीनां देहल्यां राज्यवृत्तान्तवर्णनम् अकबरराज्यवृत्तान्तवर्णनम् अकबरवंश्यसलोमाखुर्दकावरंगराज्यवृत्तान्तवर्णनम् दाक्षिणात्यदेवपक्षवर्धकसेवाजीय ( शिवाजी) राज्यवृत्तान्तः, मुकुल ( मोंगल) वंशक्षयवर्ण नम् ,नादरादिराज्यवृत्तान्तः, रामदत्तवरवानरवंश्यगुरुण्डान्वयसंभूतानां वाणिज्यार्थमार्यदेशं प्रत्यागमनम् कलिकातानगरीवृत्तान्तः, अष्टकौशल्य ( पार्लमेन्ट) द्वाराऽत्र राज्यवृत्तान्तः, गुरुण्डराज्यसमाप्तिः, मौनराज्यवृत्तान्तवर्णनम् श्लो. ९७
२३ ३६५ वैक्रमीयद्वाविंशशताब्द्यां किल्किलायां भूतं नंदिशिशुनन्द्युत्पातितद्वंश्यो त्पत्तिवृत्तान्तवर्णनम्. वैक्रमीयसप्तविंशतिशताब्द्यां वैदिकधर्मप्रवर्तके तीर्यक्षेत्रोद्धारकपुष्यमित्रराजोत्पत्तिवृत्तान्तवर्णनम्, तदनंतरमेकत्रिंशच्छताब्द्यां भ्रष्टाचारवृत्तान्तवर्णनम्, गुर्जरदेशे संवहावर्त्तकसोमनाथराजोत्पत्ति- वृत्तान्तः, राहुराज्ये महमदीयमतप्रचारवृत्तान्तः, सर्वभूमौ म्लेल्छमयत्ववृत्तान्तवर्णनम् श्लो १३२
२४ ३६७ दैत्यानां हरिखण्डे गमनम्, विश्वकर्मणान्यखण्डमार्गावरोधनम्, बलिना वामनांतिके पृथ्वीभोगवृत्तान्तवर्णनम्, वर्णसंकरजीवोत्पत्तिवृत्तान्तवर्णनम्, द्विहस्तमनुष्यो- त्पत्तिवृत्तान्तवर्णनम्, वामनांशसमुद्भवभूपवृत्तान्तवर्णनम्, कलिद्वितीयतृतीयच- रणवर्तमानकालजातजीवजातवृत्तान्तवर्णनम् श्लो. ८५
२५ ३६९ कलिचतुर्थचरणारंभे नरकाजीर्णनिवारणार्थ ब्रह्मकृतभगवत्स्तुतिवर्णनम्, कल्क्यव- तारकथावर्णनम् अष्टादशकल्पवृत्तान्तवर्णनम्. कल्क्यर्चामाहात्म्यम् सत्ययु- गारंभदिनमाहात्म्यम् श्लो. २५३
२६ ३७३ कल्किविजयवृत्तान्तवर्णनम् ब्राह्मणादिवर्णव्यवस्थापूर्वकराज्यपदस्थापनवृत्तान्तवर्णनम् प्रतिसर्गपर्वोपसंहारफलवर्णनम् श्लो. ३८
( इति चतुर्थः खण्डः।४।)
इति प्रतिसर्गपर्वस्थविषयानुक्रमणिका ।। ३ ।।
भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०१
।। ऋषयः ऊचुः ।। ।।
भगवन्विक्रमाख्यानकालोऽयं भवतोदितः ।।
शतद्वादशमर्यादो द्वापरस्य समो भुवि ।। ।। १ ।।
अस्मिन्काले महाभाग लीला भगवता कृता ।।
तामेतां कथयास्मान्वै सर्वज्ञोऽस्ति भवान्सदा ।। २ ।।
।। सूत उवाच ।। ।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। ३ ।।
भविष्याख्ये महाकल्पे प्राप्ते वैवस्वतेन्तरे ।।
अष्टाविंशद्द्वापरान्ते कुरुक्षेत्रे रणोऽभवत् ।। ४ ।।
पांडवैर्निर्जिताः सर्वे कौरवाः युद्धदुर्मदाः ।।
अष्टादशे च दिवसे पांडवानां जयोऽभवत् ।। ५ ।।
दिनान्ते भग वान्कृष्णो ज्ञात्वा कालस्य दुर्गतिम् ।।
शिवं तुष्टाव मनसा योगरूपं सनातनम् ।। ६ ।।
।। कृष्ण उवाच ।। ।।
नमः शांताय रुद्राय भूते शाय कपर्दिने।।
कालकर्त्रे जगद्भर्त्रे पापहर्त्रे नमोनमः ।। ७ ।।
पांडवान्रक्ष भगवन्मद्भक्तान्भूतभीरुकान् ।।
इति श्रुत्वा स्तवं रुद्रो नंदियानोपरिस्थितः ।।
रक्षार्थं शिबिराणां च प्राप्तवाञ्छूलहस्तधृक् ।। ८ ।।
तदा नृपाज्ञया कृष्णः स गतो गजसाह्वयम् ।।
पांडवाः पंच निर्गत्य सरस्वत्या स्तटेऽवसन् ।। ९ ।।
निशीथे द्रौणिभोजौ च कृपस्तत्र समाययुः ।।
तुष्टुवुर्मनसा रुद्रं तेभ्यो मार्गं शिवोददात् ।। 3.3.1.१० ।।
अश्वत्थामा तु बलवाञ्छिवदत्तमसिं तदा ।।
गृहीत्वा स जघानाशु धृष्टद्युम्नपुरःसरान् ।। ११ ।।
हत्वा यथेष्टमगमद्द्रौणिस्ताभ्यां समन्वितः ।। १२ ।।
पार्षतस्यैव सूतश्च हतशेषो भयातुरः ।।
पांडवान्वर्णयामास यथा जातो जनक्षयः ।। १३ ।।
आगस्कृतं शिवं ज्ञात्वा भीमाद्याः क्रोधमूर्च्छिताः ।।
स्वायुधैस्ता डयामास देवदेवं पिनाकिनम् ।। १४ ।।
अस्त्रशस्त्राणि तेषां तु शिवदेहे समाविशन् ।।
दृष्ट्वा ते विस्मिताः सर्वे प्रजघ्नुस्तलमुष्टिभिः ।। १५।।
ताञ्छशाप तदा रुद्रो यूयं कृष्णप्रपूजकाः ।।
अतोऽस्माभी रक्षिणीया वधयोग्याश्च वै भुवि ।। १६ ।।
पुनर्जन्म कलौ प्राप्य भोक्ष्यते चापराधकम् ।।
इत्युक्त्वान्तर्दधे देवः पांडवा दुःखितास्तदा ।। १७ ।।
हरिं शरणमाजग्मुरपराधनिवृत्तये ।।
तदा कृष्णयुताः सर्वे पांडवाः शस्त्रवर्जिताः ।। १८ ।।
तुष्टुवुर्मनसा रुद्रं तदा प्रादुरभूच्छिवः ।।
वरं वरयत प्राह कृष्णः श्रुत्वाब्रवीदिदम् ।। १९ ।।
शस्त्राण्यस्त्राणि यान्येव त्वदंगे क्षपितानि वै।।
पांडवेभ्यश्च देहि त्वं शापस्यानुग्रहं कुरु ।। 3.3.1.२० ।।
इति श्रुत्वा शिवः प्राह कृष्णदेव नमोऽस्तु ते ।।
अपराधो न मे स्वामिन्मोहितोऽहं तवाज्ञया ।। २१ ।।
तद्वशेन मया स्वामिन्दत्तः शापो भयंकरः ।।
नान्यथा वचनं मे स्यादंशावतरणं भवेत् ।। २२ ।।
वत्सराजस्य पुत्रत्वं गमिष्यति युधिष्ठिरः ।।
बलखानिरिति ख्यातः शिरीषाख्यपुराधिपः ।। २३ ।।
भीमो दुर्वचनाद्दुष्टो म्लेच्छयोनौ भविष्यति ।।
वीरणो नाम विख्यातः स वै वनरसाधिपः ।। २४ ।।
अर्जुनांशश्च मद्भक्तो जनिष्यति महामतिः ।।
पुत्रः परिमलस्यैव ब्रह्मानन्द इति स्मृतः।।२५।।
कान्यकुब्जे हि नकुलो भविष्यति महाबलः।।
रत्नभानुसुतो सौ वै लक्ष्मणो नाम विश्रुतः।।२६।।
सहदेवस्तु वलवाञ्जनिष्यति महामतिः।।
भीष्मसिंह सुतो जातो देवसिंह इति स्मृतः ।।२७।।
धृतराष्ट्रांश एवासौ जनिष्यत्यजमेरके ।।
पृथिवीराज इति स द्रोपदी तत्सुता स्मृता ।।२८।।
वेला नाम्ना च विख्याता तारकः कर्ण एव हि ।।
रक्तबीजस्तथा रुद्रो भविष्यति महीतले ।।२९।।
कौरवाश्च भविष्यन्ति मायायुद्धविशारदाः।।
पांडुपक्षाश्च ते सर्वे धर्मिणो बलशालिनः ।।3.3.1.३०।।
।। सूत उवाच ।। ।।
इति श्रुत्वा हरिः प्राह विहस्य परमेश्वरम् ।।
मया शक्त्यवतारेण रक्षणीया हि पांडवाः ।।३१।।
महावती पुरी रम्या मायादेवीविनिर्मिता ।।
देशराजसुतस्तत्र ममांशो हि जनिष्यते ।। ३२ ।।
देवकीजठरे जन्मोदयसिंह इति स्मृतः ।।
आह्लादो मम धामांशो जनिष्यति गुरुर्मम ।। ३३ ।।
हत्वाग्निवंशजान्भूपान्स्थापयिष्यामि वै कलिम् ।।
इति श्रुत्वा शिवो देवस्तत्रैवांतरधीयत ।। ३४ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये विक्रमाख्यानकाले प्रथमोऽध्यायः ।। १ ।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें