कलिस्तु म्लेच्छया सार्धं परमा नंदमाप्तवान् ।। २१ ।।
एतस्मिन्नन्तरे विप्र यथा जातं शृणुष्व तत् ।।
आभीरी वाक्सरे ग्रामे व्रतपा नाम विश्रुता ।। २२ ।।
नवदुर्गाव्रतं श्रेष्ठं? नववर्षं चकार ह ।।
प्रसन्ना चंडिका प्राह वरं वरय शोभने ।। २३ ।।
साह तां यदि मे मातर्वरो देयस्त्वयेश्वरि ।।
रामकृष्णसमौ बालौ भवेयाः ममान्वये ।। २४ ।।
तथेत्युक्त्वा तु सा देवी तत्रैवान्तरधीयत ।।
वसुमान्नाम नृपतिस्तस्या रूपेण मोहितः ।। २५ ।।
उद्वाह्य धर्मतो भूपः स्वगेहे तामवासयत् ।।
तस्यां जातौ नृपात्पुत्रौ देशराजस्तु तद्वरः ।। २६ ।।
आवार्यो वत्सराजश्च शतहस्तिसमो बले ।।
जित्वा तौ मागधान्देशान्राज्य वंतौ बभूवतुः ।। २७ ।।
शतयत्तः स्मृतो म्लेच्छः शूरो वनरसाधिपः ।।
तत्पुत्रो भीमसेनांशो वीरणोभूच्छिवाज्ञया ।। २८ ।।
तालवृक्षप्रमाणेन .चोर्ध्ववेगो हि तस्य वै ।।
तालनो नाम विख्यातः शतयत्तेन वै कृतः ।। २९ ।।
ताभ्यां नृपाभ्यां तद्युद्धमभवल्लोमहर्षणम् ।।
युद्धेन हीनतां प्राप्तस्तालनो बलवत्तरः ।। 3.3.4.३० ।।
तदा मैत्री कृता ताभ्यां तालनेन समन्विता ।।
जयचंद्रपरीक्षार्थे त्रयः शूराः समाययुः ।। ३१ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहासमुच्चये चतुर्थोऽध्यायः ।। ४ ।।
भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०९
।। सूत उवाच ।। ।।
कालियं तौ पराजित्य भ्रातरौ नृपसेवकौ ।।
गतौ गोपालके राष्ट्रे भूपतिर्दलवाहनः ।। १ ।।
सहस्रचंडिकाहोमे नानाभूपसमागमे ।।
गृहीतौ महिषौ ताभ्यां भूपैरन्यैश्च दुर्जयौ ।। २ ।।
पूर्वं हि नृपकन्याभ्यां प्रत्यहं बंधनं गतौ ।।
तौ संपूज्य विधानेन ददौ ताभ्यां च कन्यके ।। ३ ।।
देवकीं देशराजाय ब्राह्मीं तस्यानुजाय वै ।।
ददौ दुर्गाज्ञया राजा रूपयौवनशालि नीम् ।। ४ ।।
लक्षावृत्तिं तथा वेश्यां गीतनृत्यविशारदाम् ।।
कन्ययोश्च सखीं रम्यां मेघमल्लाररागिणीम् ।। ५ ।।
शतं गजान्रथान्पंच हयांश्चैव सहस्रकान् ।।
चत्वारिंशच्च शिबिकाः प्रददौ दलवाहनः ।। ६ ।।
बहुद्रव्ययुतां कन्यां दासदासीसमन्विताम् ।।
उदूह्य वेदविधिना प्रापतुश्च महावतीम् ।। ७ ।।
मलना तां वधूं दृष्ट्वा तस्यै ग्रैवेयकं ददौ ।।
ब्राह्म्यै षोडशशृंगारं तथा द्वादशभूषणम् ।। ८ ।।
राजा च परमानन्दी देशराजाय शूरिणे ।।
ददौ दशपुरं रम्यं नानाजननिषेवितम् ।। ९ ।।
ऊषतुस्तत्र तौ वीरौ राजमान्यौ महाबलौ ।।
एतस्मिन्नन्तरे जातो देवसिंहो हराज्ञया ।। 3.3.9.१० ।।
जाते तस्मिन्कुमारे तु देवकी गर्भमादधौ ।।
दासश्रुता पतेर्देवी सुषुवे पुत्रमूर्जितम् ।। १ १।।
गौरांगं कमलाक्षं च दीप्यमानं स्वतेजसा ।।
तदानंदमयो देवः शक्रः सुरगणैः सह ।। १२ ।।
शंखशब्दं चकारोच्चैर्जयशब्दं पुनःपुनः ।।
दिशः प्रफुल्लिताश्चासन्ग्रहाः सर्वे तथा दिवि ।। १३ ।।
आयाता बहवो विप्रा वेदशास्त्रपरायणाः ।।
चक्रुस्ते जातकर्मास्य नामकर्म तथाविधम् ।। १४ ।।
रामांशं तं शिशुं ज्ञात्वा प्रसन्नवदनं शुभम् ।।
भाद्रकृष्णतिथौ षष्ठ्यां चन्द्रवारेऽरुणोदये ।। १५ ।।
संजातः कृत्तिकाभे च पितृवंशयशस्करः ।।
आह्लादनाम्ना ह्यभवत्प्रश्रितश्च महीतले ।। १६ ।।
मासान्ते च सुते जाते ब्राह्मी पुत्रमजीजनत् ।।
धर्मजांशं तथा गौरं महाबाहुं सुवक्षसम् ।। १७ ।।
तदा च ब्राह्मणाः सर्वे दृष्ट्वा बालं शुभाननम् ।।
प्रसन्नवदनं चारुं पद्मचिह्नपदस्थितम् ।। १८ ।।
तैर्द्विजैश्च कृतो नाम्ना बलखानिर्महाबलः ।।
वर्षान्ते वत्सजे जातं मूलगंडान्तसंभवः ।। १९ ।।
चामुण्डो देवकिसुतो निजवंशभयंकरः ।।
जनितारं ततस्त्याज्य इत्यूचुर्द्विजसत्तमाः ।।
न तत्याज सुतं राजा बालत्वेऽपि दयापरः ।। 3.3.9.२० ।।
त्रिवर्षांते गते तस्मिन्बलखानौ सुते शुभे ।।
शूद्र्यां जातः शिखंडयंशो रूपणो नाम विश्रुतः ।। २१ ।।
वत्सराजो ययौ देशे गुर्जरे च मदालसाम्।
स सुतां च समादाय दिने तस्मिन्समागतः ।। २२ ।।
प्राप्ते तस्मिन्वत्सराजे जम्बुकः स्वबलैर्वृतः ।।
सप्तलक्षैश्च संप्राप्तो बाहुशाली यतेंद्रियः ।। २३ ।।
रुरोध नगरीं सर्वां राज्ञः परिमलस्य वै ।।
त्रिलक्षैश्च माहावत्यै सार्द्धं तौ जग्मतुः पुरात् ।। २४ ।।
माहिष्मतैः सप्तलक्षैः सार्द्धं युद्धमभून्महत् ।।
त्रिरात्रं दारुणं घोरं यमराष्ट्रविवर्द्धनम् ।। २५ ।।
शिवस्य वरदानेन भ्रात्रोर्जातः पराजयः ।।
बद्ध्वा तौ जम्बुको राजा लुंठयित्वा महावतीम् ।। २६ ।।
वेश्यां लक्षारतिं तस्य तं हतं तद्गजं तथा ।।
ग्रैवेयकं तथा हारं मणिरत्नविभूषितम् ।। २७ ।।
गृहीत्वा नगरीं सर्वां भस्मयित्वा गृहं ययौ ।।
ये गुप्ता भूतले शूरास्ते शेषाश्च तदाऽभवन् ।।२८ ।।
दुर्गेषु यानि रत्नानि तानि प्राप्य मुदा ययौ ।।
लुंठिते नगरे तस्मिन्देवकी गर्भमुत्तमम् ।। २९ ।।
कृष्णांशं सप्तमास्यं हि चादधाद्दैवतप्रिया ।।
ज्ञात्वा कुलाधमं पुत्रं चामुंडं देवकी सती ।। 3.3.9.३० ।।
कल्पक्षेत्रं समागम्य कालिंद्यां तमपातयत्।।
योजनान्ते गते तस्मित्महीराजपुरोहितः ।।३१।।
सामन्तो नाम तं गृह्य श्वशुरालयमाययौ ।।
जातस्तु दशमासान्ते रात्रौ घोरतमोवृते ।। ३२ ।।
भाद्रकृष्णाष्टमीसौम्ये ब्राह्मनक्षत्रसंयुते ।।
प्रादुरासीज्जगन्नाथो देवक्यां च महोत्तमः ।। ३३ ।।
श्यामांगः स च पद्माक्ष इंद्रनीलमणिद्युतिः ।।
विमानानां सहस्राणां प्रकाशः समजायत ।। ३४ ।।
विस्मिता जननी तत्र दृष्ट्वा बालं तमद्भुतम् ।।
नगरे च महाश्चर्यं जातं सर्वे समाययुः ।। ३५ ।।
उदयः किमहो जातो देवानां सूर्यरूपकः ।।
इत्याश्चर्य्यजुजां तेषां वागुवाचाशरीरिणी ।। ३६ ।।
कृष्णांशो भूतले जातः सर्वानन्दप्रदायकः ।।
स नाम्नोदयसिंहो हि सर्वशत्रुप्रकाशहा ।। ३७ ।।
इत्याकाशवचः श्रुत्वा ते परं हर्ष माययुः ।।
यस्मिन्काले सुतो जातस्तदा च मलना सती ।। ३८ ।।
श्यामांगं सुन्दरं बालं सर्वलक्षणलक्षितम् ।।
सुषुवे परमोदारं फाल्गुनांशं शिवाज्ञया ।। ३९ ।।
तदा तु नगरी सर्वा हर्षभूता बभूव ह ।।
षष्ठाहनि सुते जाते ब्रह्मानन्दगुणाकरे ।। 3.3.9.४० ।।
ब्राह्मी तु सुषुवे पुत्रं पार्षदांशं महाबलम् ।।
श्यामांगं कमलाक्षं च दृढस्कन्धं महाभुजम् ।। ४१ ।।
ब्राह्मणाश्च तदागत्य जातकर्म ह्यकारयन् ।।
सुखखानिर्द्विजैर्नाम्ना कृतस्तु गणकोत्तमैः ।। ४२ ।।
क्रमेण वर्द्धिता बालाः सर्वलोकशिवंकराः ।।
तेषां काली महच्छ्रेष्ठा पितृमातृप्रियंकरी ।। ४३ ।।
तृतीयाब्दे वयः प्राप्ते कृष्णांशे बलवत्तरे ।।
शक्रस्तद्दर्शनकांक्षी हयारूढो जगाम ह ।। ४४ ।।
क्रीडन्स चन्दनारण्ये कृष्णांशो भ्रातृभिः सह ।।
नभस्थं पुरुषं दृष्ट्वा सहस्राक्षं जहास वै ।। ४५ ।।
अश्विनी हरिणी दिव्या उच्चैःश्रवसमन्तिके ।।
गत्वा गर्भमुपादाय स्वगेहं पुनराययौ ।। ४६ ।।
वर्षांतरे च सुषुवे कपोतं तनयं शुभम् ।।
पञ्चाब्दं च समायाते विद्याध्यनमास्थिताः ।। ४७ ।।
ब्राह्मणं शिवशर्माणं सर्वविद्याविशारदम् ।।
स्वभक्त्या सेवनं कृत्वा ते चक्रुर्वेदपाठिकाम् ।। ४८ ।।
अष्टाब्दे चैव कृष्णांशो नामपत्रादिकां क्रियाम् ।।
लिखतां बालकानां च कृष्णांशः श्रेष्ठतामगात् ।। ४९ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णांशावतारो नाम नवमोऽध्यायः ।। ९ ।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें