गुरुण्डमौनराज्यवर्णनम्
सूत उवाच
इति श्रुत्वा बलिर्दैत्यो देवानां विजयं महत्।
रोषणं नाम दैत्येन्द्रं समाहूय वचोऽब्रवीत् ।१।
सुतस्तिमिरलिङ्गस्य सरुषो नाम विश्रुतः ।
त्वं हि तत्र समागम्य दैत्यकार्यं महत्कुरु ।२।
इति श्रुत्वा स वै दैत्यो हृदि विप्राप्तरोषणः ।
ननाश वेदमार्गस्थान्देहलीदेशमास्थितः ।३।
पञ्चवर्षं कृतं राज्यं तत्सुतो बाबरोभवत् ।
विंशदब्दं कृत राज्यं होमायुस्तत्सुतोऽभवत् ।४।
होमायुषा मदान्धेन देवताश्च निराकृताः ।
ते सुराः कृष्णचैतन्यं नदीहोपवने स्थितम् ।५।
तुष्टुवुर्बहुधा तत्र श्रुत्वा क्रुद्धो हरिः स्वयम् ।
स्वतेजसा च तद्राज्यं विघ्नभूतं चकार ह ।६।
तत्सैन्यजनितैर्लोकैर्होमायुश्च निराकृतः ।
महाराष्ट्रैस्तदा तत्र शेषशाकः समास्थितः ।७।
देहलीनगरे रम्ये म्लेच्छो राज्यं चकार ह ।
धर्मकार्यं कृतं तेन तद्राज्यं पञ्चहायनम् ।८।
ब्रह्मचारी मुकुन्दश्च शङ्कराचार्यगोत्रजः ।
प्रयागे च तपः कुर्वन्विंशच्छिष्यैर्युतः स्थितः।९।
बाबरेण च धूर्तेन म्लेच्छराजेन देवताः ।
भ्रंशिता स तदा ज्ञात्वा वह्नौ देहं जुहाव वै। 3.4.22.१०।
तस्य शिष्या गता वह्नौ म्लेच्छनाशनहेतुना ।
गोदुग्धे च स्थितं रोमं पीत्वा स पयसा मुनिः।११।
मुकुन्दस्तस्य दोषेण म्लेच्छयोनौ बभूव ह ।
होमायुषश्च काश्मीरे संस्थितस्यैव पुत्रकः।१२।
जातमात्रे सुते तस्मिन्वागुवाचा शरीरिणी ।
अकस्माच्च वरो जातःपुत्रोऽयं सर्वभाग्यवान्।१३।
पैशाचे दारुणे मार्गे न भूतो न भविष्यति ।
अतः सोऽकबरो नाम होमायुस्तनयस्तव।१४।
श्रीधरः श्रीपतिः शम्भुर्वरेण्यश्च मधुव्रती।
विमलो देववान्सोमो वर्द्धनो वर्तको रुचिः।१५।
मान्धाता मानकारी च केशवो माधवो मधुः ।
देवापिः सोमपाः शूरो मदनो यस्य शिष्यकाः।१६।
स मुकुन्दो द्विजः श्रीमान्दैवात्त्वद्गेहमागतः ।
इत्याकाशवचः श्रुत्वा होमायुश्च प्रसन्नधीः।१७।
ददौ दानं क्षुधार्तेभ्यः प्रेम्णा पुत्रमपालयत् ।
दशाब्दे तनये जाते देहलीदेशमागतः।१८।
शेषशाङ्कं पराजित्य स च राजा बभूव ह ।
अब्दं तेन कृतं राज्यं तत्पुत्रश्च नृपोऽभवत्।१९।
सम्प्राप्तेऽकबरे राज्यं सप्तशिष्याश्च तत्प्रियाः।
पूर्वजन्मनि ये मुख्यास्ते प्राप्ता भूपतिं प्रति। 3.4.22.२०।
________
केशवो गानसेनश्च वैजवाक्स तु माधवः।
म्लेच्छास्ते च स्मृतास्तत्र हरिदासो मधुस्तथा। २१।
मध्वाचार्यकुले जातो वैष्णवः सर्वरागवित् ।
पूर्वजन्मनि देवापिः स च वीरबलोऽभवत्।२२।
ब्राह्मणः पाश्चिमात्यो वै वाग्देवीवरदर्पितः।
सोमपा मानसिंहश्च गौतमान्वयसम्भवः।२३।
सेनापतिश्च नृपतेरार्यभूपशिरोमणेः।
सूरश्चैव द्विजो जातो दक्षिणश्चैव पण्डितः।२४।
बिल्वमङ्गल एवापि नाम्ना तन्नृपतेः सखा ।
नायिकाभेदनिपुणो वेश्यानां स च पारगः।२५।
मदनो ब्राह्मणो जातः पौर्वात्यः स च नर्तकः ।
चन्दलो नाम विख्यातो रहः क्रीडाविशारदः।२६।
अन्यदेशे गताः शिष्यास्तेषां पूर्वास्त्रयोदश ।
अनपस्य सुतो जातः श्रीधरः शत्रुवेदितः।२७।
_______
विख्यातस्तुलसीशर्मा पुराणनिपुणः कविः।
नारीशिक्षां समादाय राघवानन्दमागतः।२८।
शिष्यो भूत्वा स्थितः काश्यां रामानन्दमते स्थितः।
श्रीपतिः स बभूवान्धो मध्वाचार्यमते स्थितः।२९।
सूरदास इति ज्ञेयः कृष्णलीलाकरः कविः।
शम्भुर्वै चन्द्रभट्टस्य कुले जातो हरिप्रियः। 3.4.22.३०।
रामानन्दमते संस्थो भक्तकीर्तिपरायणः।
वरेण्यः सोग्रभुङ्नामा रामानन्दमते स्थितः।३१।
ज्ञानध्यानपरो नित्यं भाषाछन्दकरः कविः ।
मधुव्रती स वै जातो कीलको नाम विश्रुतः।३२।
रामलीलाकरो धीमान्रामानन्दमते स्थितः ।
विमलश्च स वै जातः स नाम्नैव दिवाकरः।३३।
सीतालीलाकरो धीमान्रामानन्दमते स्थितः।
देववान्केशवो जातो विष्णुस्वामिमते स्थितः।३४।
कविप्रियादिरचनां कृत्वा प्रेतत्वमागतः ।
रामज्योत्स्नामयं ग्रन्थं कृत्वा स्वर्गमुपाययौ।३५।
सोमो जातः स वै व्यासो निम्बादित्यमते स्थितः ।
रहः क्रीडामयं ग्रन्थं कृत्वा स्वर्गमुपाययौ।३६।
वर्द्धनश्च स वै जातो नाम्ना चरणदासकः ।
ज्ञानमालामयं कृत्वा ग्रन्थं रैदासमार्गगः ।३७।
वर्तकः स च वै जातो रोपणस्य मते स्थितः ।
रत्नभानुरिति ज्ञेयो भाषाकर्ता च जैमिनेः।३८।
रुचिश्च रोचनो जातो मध्वाचार्यमते स्थितः ।
नानागानमयीं लीलां कृत्वा स्वर्गमुपाययौ।३९।
मान्धाता भूपतिर्नाम कायस्थः स बभूव ह ।
मध्वाचार्यो भागवतं चक्रे भाषामयं शुभम् । 3.4.22.४०।
मानकारो नारिभावान्नारीदेहमुपागतः।
मीरानामेति विख्याता भूपतेस्तनया शुभा। ४१।
मा शोभा च तनौ यस्या गतिर्गजसमा किल।
सा मीरा च बुधैः प्रोक्ता मध्वाचार्यमते स्थिता।४२।
एवं ते कथितं विप्र भाषाग्रन्थप्रकारणम्।
प्रबन्धं मङ्गलकरं कलिकाले भयङ्करे।४३।
स भूपोऽकबरो नाम कृत्वा राज्यमकण्टकम् ।
शतार्द्धेन च शिष्यैश्च वैकुण्ठभवनं ययौ।४४।
सलोमा तनयस्तस्य कृतं राज्यं पितुः समम् ।
खुर्दकस्तनयस्तस्य दशाब्दं च कृतं पदम्।४५।
चत्वारस्तनयास्तस्य नवरङ्गो हि मध्यमः।
पितरं च तथा भ्रातॄञ्जित्वा राज्यमचीकरत्।४६।
पूर्वजन्मनि दैत्योऽयमन्धको नाम विश्रुतः।
कर्मभूम्यां तदंशेन दैत्यराजाज्ञया ययौ।४७।
तेनैव बहुधा मूर्तीर्भ्रंशिताश्च समन्ततः।
दृष्ट्वा देवास्तदागत्य कृष्णचैतन्यमब्रुवन्।४८।
भगवन्दैत्यराजांशः स जातश्च महीपतिः।
भ्रंशयित्वा सुरान्वेदान्दैत्यपक्षं विवर्द्धते।४९।
इति श्रुत्वा स यज्ञांशो नदीहोपवने स्थितः।
शशाप तं दुराचारं यथा वंशक्षयो भवेत्। 3.4.22.५०।
राज्यमेकोनपञ्चाशत्कृतं तेन दुरात्मना।
सेवाजयो नाम नृपो देवपक्षविवर्द्धनः।५१।
महाराष्ट्रद्विजस्तस्य युद्धविद्याविशारदः ।
हत्वा तं च दुराचारं तत्पुत्राय च तत्पदम् ।५२।
दत्वा ययौ दाक्षिणात्ये देशे देवविवर्द्धनः ।
अलोमा नाम तनयः पञ्चाब्दं तत्पदं कृतम् ।५३।
तत्पश्चान्मरणं प्राप्तो विद्रधेन रुजा मुने ।
विक्रमस्य गते राज्ये सप्तत्युत्तरकं शतम् ।५४।
ज्ञेयं सप्त दशं विप्र यदालोमा मृतिं गतः ।
तालनस्य कुले जातो म्लेच्छः फलरुषो बली ।५५।
मुकुलस्य कुलं हत्वा स्वयं राज्यं चकार ह।
दशाब्दं च कृतं राज्यं तेन भूपेन भूतले।५६।
शत्रुभिर्मरणं प्राप्तो दैत्यलोकमुपागमत् ।
महामदस्तत्तनयो विंशत्यब्दं कृतं पदम्।५७।
तद्राष्ट्रे नादरो नाम दैत्यो देश उपागमत् ।
हत्वार्यांश्च सुराञ्जित्वा देशं खुरजमाययौ ।५८।
महामत्स्यो हि मदस्य तनयस्तत्पितुः पदम् ।
गृहीत्वा पञ्चवर्षान्तं स च राज्यं चकार ह ।५९।
महाराष्ट्रैर्हतो दुष्टस्तालनान्वयसम्भवः ।
देहलीनगरे राज्यं दशाब्दं माधवेन वै।3.4.22.६०।
कृतं तत्र तदा म्लेच्छ आलोमा राज्यमाप्तवान् ।
तद्राष्ट्रे बहवो जाता राजानो निजदेशजाः ।६१।
ग्रामपा बहवो भूपा देशे देशे बभूविरे ।
मण्डलीकपदं तत्राक्षयं जातं महीतले ।६२।
त्रिंशदब्दमतो जातं ग्रामे ग्रामे नृपे नृपे ।
तदा तु सकला देवाः कृष्णचैतन्यमाययुः ।६३।
यज्ञांशश्च हरिः साक्षाज्ज्ञात्वा दुःखं महीतले ।
मुहूर्तं ध्यानमागम्य देवान्वचनमब्रवीत् ।६४।
पुरा तु राघवो धीमाञ्जित्वा रावणराक्षसम् ।
कपीनुज्जीवयामास सुधावर्षैस्समन्ततः ।६५।
विकटो वृजिलो जालो वरलीनो हि सिंहलः ।
जवस्सुमात्रश्च तथा नाम्ना ते क्षुद्रवानराः ।६६।
रामचन्द्रं वचः प्राहुर्देहि नो वाच्छितं प्रभो ।
रामो दाशरथिः श्रीमाञ्ज्ञात्वा तेषां मनोरथम् ।६७।
देवाङ्गनोद्भवाः कन्या रावणाल्लोकरावणात् ।
दत्त्वा तेभ्यो हरिस्साक्षाद्वचनं प्राह हर्षितः ।६८।
भवन्नाम्ना च ये द्वीपा जालन्धरविनिर्मिताः।
तेषु राज्ञो भविष्यन्ति भवन्तो हितकारिणः ।६९।
नन्दिन्या गोश्च रुण्डाद्वै जाता म्लेच्छा भयानकाः।
गुरुण्डा जातयस्तेषां तास्तु तेषु सदा स्थिताः। 3.4.22.७०।
जित्वा तांश्च गुरुण्डान्वै कुरुध्वं राज्यमुत्तमम् ।
इति श्रुत्वा हरिं नत्वा द्वीपेषु प्रययुर्मुदा ।७१।
विकटान्वयसम्भूता गुरुण्डा वानराननाः।
वाणिज्यार्थमिहायाता गौरुण्डा बौद्धमार्गिणः।७२।
ईशपुत्रमते संस्थास्तेषां हृदयमुत्तमम् ।
सत्यव्रतं कामजितमक्रोधं सूर्यतत्परम् ।७३।
यूयं तत्रोष्य कार्यं च नृणां कुरुत मा चिरम् ।
इति श्रुत्वा तु ते देवाः कुर्युरार्चिकमादरात् ।७४।
नगर्य्या कलिकातायां स्थापयामासुरुद्यताः ।
विकटे पश्चिमे द्वीपे तत्पत्नी विकटावती ।७५।
अष्टकौशलमार्गेण राजमन्त्रं चकार ह।
तत्पतिस्तु पुलोमार्चिः कलिकातां पुरीं स्थितः।७६।
विक्रमस्य गते राज्ये शतमष्टादशं कलौ ।
चत्वारिंशं तथाब्दं च तदा राजा बभूव ह।७७।
तदन्वये सप्तनृपा गुरुण्डाश्च बभूविरे ।
चतुष्षष्टिमितं वर्षं राज्यं कृत्वा लयं गताः।७८।
गुरुण्डे चाष्टमे भूपे प्राप्ते न्यायेन शासति।
कलिपक्षो बलिर्दैत्यो मुरं नाम महासुरम्।७९।
आरुह्य प्रेषयामास देवदेशे महोत्तमे ।
स मुरो वार्डिलं भूपं वशीकृत्य हृदि स्थितः। 3.4.22.८०।
आर्यधर्मविनाशाय तस्य बुद्धिं चकार ह ।
मूर्तिसंस्थास्तदा देवा गत्वा यज्ञांशयोगिनम् ।८१।
नमस्कृत्याब्रुवन्सर्वे यथा प्राप्तो मुरोऽसुरः।
ज्ञात्वा शशाप कृष्णांशो गुरुण्डान्बौद्धमार्गिणः। ८२।
क्षयं यास्यन्ति ते सर्वे ये मुरस्य वशं गताः ।
इत्युक्ते वचने तस्मिन्गुरुण्डा कालनोदिताः ।८३।
स्वसैन्यैश्च क्षयं जग्मुर्वर्षमात्रान्तरे खलाः।
सर्वे त्रिंशत्सहस्राश्च प्रययुर्यममन्दिरे ।८४।
वाग्दण्डैस्स च भूपालो वार्डिलो नाशमाप्तवान्।
गुरुण्डो नवमः प्राप्तो भेकलो नाम वीर्यवान् ।८५।
न्यायेन कृतवान्राज्य द्वादशाब्दं प्रयत्नतः।
आर्यदेशे च तद्राज्यं बभूव न्यायशासति ।८६
लडिलो नाम विख्यातो गुरुण्डो दशमोहितः ।
द्वात्रिंशाब्दं च तद्राज्यं कृतं तेनैव धर्मिणा ।८७।
लडिले स्वर्गते प्राप्ते मकरन्दकुलोद्भवाः।
आर्याः प्राप्तास्तदा मौना हिमतुङ्गनिवासिनः।८८।
बभ्रुवर्णाः सूक्ष्मनसो वर्तुला दीर्घमस्तकाः।
एवं लक्षाश्च सम्प्राप्ता देहल्यां बौद्धमागिणः।८९।
आर्जिको नाम वै राजा तेषां तत्र बभूव ह।
तस्य पुत्रो देवकणो गङ्गोत्रगिरिमूर्द्धनि। 3.4.22.९०।
द्वादशाब्दं तपो घोरं तेपे राज्यविवृद्धये।
तदा भगवती गङ्गा तपसा तस्य धीमतः।९१।
स्वरूपं स्वेच्छया प्राप्य ब्रह्मलोकं जगाम ह।
कुबेरश्च तदागत्य दत्त्वा तस्मै महत्पदम् ।९२।
आर्याणां मण्डलीकं च तत्रैवान्तरधीयत ।
मण्डलीको देवकर्णो बभूव जनपालकः।९३।
षष्ट्यब्दं च कृतं राज्यं तेन राज्ञा महीतले ।
तदन्वयेऽष्टभूपाश्च बभूवुर्देवपूजकाः।९४।
द्विशताब्दं पदं कृत्वा स्वर्गलोकमुपाययुः ।
एकादशश्च यो मौनः पन्नगारिरिति श्रुतः।९५।
चत्वारिंशच्च वर्षाणि राज्यं कृत्वा प्रयत्नतः ।
स्वर्गलोकं गतो राजा पन्नगैर्मरणं गतः।९६।
एवं च मौर्यजातीयैः कृतं राज्यं महीतले।९७।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये गुरुण्डमौनराज्यवर्णनं नाम द्वाविंशोऽध्यायः। २२।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें