बुधवार, 5 अप्रैल 2023

नारद पुराण में होली-

सोऽश्वमेधफलं प्राप्यविष्णुलोके महीयते ॥
फाल्गुने पूर्णिमायां तु होलिकापूजनं मतम्॥ १२४-७६॥

संचयं सर्वकाष्ठानामुपलानां च कारयेत् ॥
तत्राग्निं विधिवद्ध्रुत्वा रक्षोघ्नैर्मंत्रविस्तरैः॥ १२४-७७॥

"असृक्पाभयसंत्रस्तैः कृता त्वं होलि बालिशैः
अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव"॥ १२४-७८॥
इति मंत्रेण सन्दीप्य काष्ठादिक्षेपणैस्ततः ॥
परिक्रम्योत्सवः कार्य्यो गीतवादित्रनिःस्वनैः ॥ १२४-७९॥
होलिका राक्षसी चेयं प्रह्लादभयदायिनी ॥
ततस्तां प्रदहंत्येवं काष्ठाद्यैर्गीतमंगलैः॥१२४-८०॥

संवत्सरस्य दाहोऽयं कामदाहो मतांतरे ॥
इति जानीहि विप्रेंद्र लोके स्थितिरनेकधा ॥ १२४-८१ ॥
पक्षांते द्वे पृथग्दैवे ततोऽमाव्रतमुच्यते ॥
पृथक्छृणुष्व मे विप्र पितॄणामतिवल्लभम् ॥ १२४-८२॥
चैत्रवैशाखयोस्तत्र दर्शे पितृसमर्चनम् ॥
पार्वणेन विधानेन श्राद्धं वित्तानुसारतः॥१२४-८३॥
द्विजानां भोजनं दानं गवादीनां विशेषतः॥
सर्वमासेष्वमायां वै बहुपुण्यप्रदं यतः॥१२४-८४॥

ज्येष्ठामायां व्रतं प्रोक्तं सावित्र्याः कस्य नारद ॥
विधानं ज्येष्ठपूर्णावदिहापि परिकीर्तितम् ॥ १२४-८५ ॥
शुचौ नभसि भाद्रे च मासे पूर्णांतिके द्विज ॥
पितृश्राद्धं दानहोमसुरार्चानंत्यमश्नुते ॥१२४-८६ ॥

भाद्रदर्शेऽपराह्णे तु तिलक्षेत्रसमुद्भवान् ॥
विरिंचिमनुनामंत्र्य हुंफट् छिन्नान्कुशान् द्विज ॥ १२४-८७ ॥
सर्वदा सर्वकार्येषु योजयेदेकदाऽपरान् ॥
इषामायां विशेषण पितॄणां श्राद्धतर्पणम् ॥ १२४-८८ ॥
विधेयं जाह्नवीतोये मुक्तिदं च गयास्थले ॥
ऊर्ज्जामायां दीपदानं देवागारगृहेषु च।१२४-८९ ॥
नद्यारामतडागेषु चैत्यगोष्ठापणेषु च ॥
समर्चनं तथा लक्ष्म्याः स्वर्णरौप्ये कृताकृते ॥ १२४-९० ॥
द्यूतं च वर्षफलदं जये चापि पराजये ॥
गवां पूजात्र विहिता शृंगाद्यंगानुरंजनैः॥१२४-९१॥

यवसान्नादिदानैश्च नमस्कारप्रदक्षिणैः॥
मार्गेऽपि पितृपूजा स्याच्छ्राद्धैर्ब्राह्मणभोजनैः॥ १२४-९२॥

ब्रह्मचर्यादि नियमैर्जपहोमार्चनादिभिः ॥
पौषे माघे च विप्रेन्द्र पितृश्राद्धं फलाधिकम् ॥ १२४-९३॥

अमायां कर्णपातार्कयुक्तायां तु गयाधिकम् ॥
फाल्गुने केवलं श्राद्धं द्विजानां भोजनं तथा ॥ १२४-९४॥

दानादि सर्वफलदं दर्शे सोमेऽधिकं फलम् ॥
इत्थं संक्षेपतः प्रोक्तं तिथिकृत्यं मुने तव ॥ १२४-९५ ॥

सर्वत्रापि विशेषोऽस्ति स पुराणांतरे स्थितः ॥ १२४-९६ ॥
_______________________________
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितपौर्णमास्य मावास्याव्रतकथनं नाम चतुर्विंशत्यधिकशतमोऽध्यायः ॥ १२४ ॥



ढुंढिव्रतं परैः प्रोक्तं कैश्चित्कुंडव्रतं स्मृतम् ॥
ललिताव्रतमित्यन्यैः शांतिव्रतमथापरैः।११३-८५॥
स्नानं दानं जपो होमः सर्वमस्यां कृतं मुने ॥
भवेत्सह स्रगुणितं प्रसादाद्दंतिनः सदा॥११३-८६॥
चतुर्थ्यां फाल्गुने मासि ढुंढिराजव्रतं शुभम् ॥
तिलषिष्टैर्द्विजान् भोज्य स्वयं चाश्नीत मानवः ॥ ११३-८७ ॥
गणेशाराधनपरो दानहोमप्रपूजनैः ॥
तिलैरेव कृतैः सिद्धिं प्राप्नुयात्तत्प्रसादतः ॥ ११३-८८ ॥
सौवर्णं गजवक्त्रं च कृत्वा संपूज्य यत्नतः ॥
द्विजाग्र्याय प्रदातव्यं सर्वसंपत्समृद्धये ॥११३-८९।
यस्मिन्कस्मिन्भवेन्मासि चतुर्थी रविवारयुक् ॥
सांगारका वा विप्रेंद्र सा विशेषफलप्रदा ॥ ११३-९० ॥
सर्वासु च चतुर्थीषु शुक्लास्वप्यसितासु च ॥
विघ्नेश एव देवेशः संपूज्यो भक्तितत्परैः ॥ ११३-९१ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वाद्शमास चतुर्थीव्रतनिरूपणं नाम त्रयोदशाधिकसततमोऽध्यायः ॥ ११३ ॥




समभ्यर्च्य विधानेन समृद्धो जायते भुवि ।।
अथ फाल्गुनशुक्लादौ देवदेवं दिगंबरम् ।। ११०-४२ ।।

धूलिधूसरसर्वांगं जलैरुक्षेत्समंततः ।।
कर्मणा लौकिकेनापि संतुष्टो हि महेश्वरः ।। ११०-४३ ।।

स्वसायुज्यं प्रदिशति भक्त्या सम्यक्समर्चितः ।।
वैशाखे तु सिताद्यायां विष्णुं विश्वविहारिणम् ।। ११०-४४ ।।



इति श्रीबृहन्ननारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासप्रतिपद्व्रतनिरूपणं नाम दशोत्तरशततमोऽध्यायः ।। ११० ।।


पितृवंशानुकथनं सृष्टवंशानुकीर्तनम् ।।
भृगुशापस्तथा विष्णोर्दशधा जन्मने क्षितौ ।। १०७-७ ।।

कीर्त्तनं पूरुवंशस्य वंशो हौताशनः परम् ।।
क्रियायोगस्ततः पश्चात्पुराणपरिकीर्तनम् ।। १०७-८ ।।
 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें