मंगलवार, 27 दिसंबर 2022

ऋग्वेद प्रथम एवम् अष्टम मण्डल में कृष्ण का वर्णन सायण भाष्य सहित



ऋग्वेद प्रथम एवम् अष्टम मण्डल में कृष्ण का वर्णन सायण भाष्य सहित

ऋग्वेदः सूक्तं १.१०१

कुत्स आङ्गिरसः

दे. इन्द्रः( १ गर्भस्राविण्युपनिषद्)। जगती, ८-११ त्रिष्टुप्

प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना।                                    अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥१॥

यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम्।                                         इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥२॥

यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः ।                                              यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥३॥

________

यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः।                        वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥४॥

___________

यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् ।                                    इन्द्रो यो दस्यूँरधराँ अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥५॥

यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः ।                                                इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥६॥

रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः ।                                                इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥७॥

यद्वा मरुत्वःपरमे सधस्थे यद्वावमे वृजने मादयासे।अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥८॥

त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः।                                                अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥९॥

मादयस्व हरिभिर्ये त इन्द्र विष्यस्व शिप्रे वि सृजस्व धेने ।                                              आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥१०॥

मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् ।                                                  तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥

{सायण-भास्यम्}

प्र मन्दिने' इति एकादशर्चमष्टमं सूक्तमाङ्गिरसस्य कुत्सस्यार्षम् । अष्टम्याद्याश्चतस्रस्त्रिष्टुभः शिष्टाः सप्त जगत्यः । इन्द्रो देवता । तथा चानुक्रान्तं - ' प्रमन्दिन एकादश कुत्स आद्या गर्भस्राविण्युपनिषच्चतुस्त्रिष्टुबन्तम्' इति । दशरात्रस्य नवमेऽहनि मरुत्वतीये एतत्सूक्तम् । विश्वजितः' इति खण्डे सूत्रितं- ‘प्र मन्दिन इमा उ त्वेति मरुत्वतीयम्' (आश्व. श्रौ. ८.७.) इति ॥

____________________

प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना।                                    अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥१॥

अर्थ-

अच्छी प्रकार से  इन्द्र और उसके सखा राजा   ऋजिश्वन् की  स्तुति करने वाले के लिए यह निर्देश है कि वे उनकी अन्न से पूरित हवि आदि से अर्चना करते हुए  ऐसे वचनों से कहें कि वे इन्द्र मरुतगण जिनके सखा है और जिन इन्द्र ने दाहिने हाथ में वज्र धारण करते हुए कृष्ण के द्वारा गर्भिताओं का वध कर दिया था ;रक्षा के इच्छुक हम सब उन शक्ति शाली इन्द्र का ही आह्वान करते हैं । 

विशेष-

असुर शब्द का प्रयोग तो कृष्ण के लिए सायण ने अपने भाष्य में ही किया है । अन्यथा मूल ऋचा में असुर पद नहीं  होकर अदेव पद है ।

पदपाठ-

प्र । मन्दिने । पितुऽमत् । अर्चत । वचः । यः । कृष्णऽगर्भाः । निःऽअहन् । ऋजिश्वना । अवस्यवः । वृषणम् । वज्रऽदक्षिणम् । मरुत्वन्तम् । सख्याय । हवामहे ॥१।

शब्दार्थ-

पितु = अन्न। पा--रक्षणे तुन् पृषो० । अन्ने निघण्टुः । पातेवां पिबतेः पायतेर्वा” निरु० ९ । २४

पितुमन्त्=. अन्न से भरपूर, पौष्टिक। अर्चता=अर्चना करता हुओं के द्वारा। वच:=वचन से।

ऋजिश्वन्=  राजभेदे “अपमृष्यमृजिश्वने दात्रं दाशुषे” ऋ० ६, २०, ७ । ऋजिश्वने एतन्नामकाय राज्ञे”= इस नाम ते राजा के लिए । भा० ।

अवस्यु का बहुवचन रूप अवस्यवः = अवोरक्षणम् इच्छति--क्यच्--उन् । रक्षणेच्छा युक्त। 

अवसं=अव + असिच् भावे।) रक्षणं । वैदिक शब्दोऽयं ( यह वैदिक शब्द है)

{सायण-भास्य}

हे ऋत्विजः "मन्दिने= स्तुतिमते =स्तुति करने वाले के लिए।स्तोतव्यायेन्द्राय “पितुमत् = अन्न से परिपूर्ण। हविर्लक्षणेनान्नेनोपेतं हवि लक्षण अन्न से युक्त के द्वारा । "वचः= स्तुतिलक्षणं वचनं “प्र “अर्चत= प्रकर्षेणोच्चारयत( अच्छी तरह से उच्चारण करता हुआ । "यः इन्द्रः “ऋजिश्वना एतत्संज्ञकेन राज्ञा सख्या =इस नाम का राजा जो सखा रूप में था उसके द्वारा सभी पदों में तृत्तीया विभक्ति एक वचन का प्रयोग है ।सहितः सन् "कृष्णगर्भाः ।{ कृष्णो नाम कश्चिदसुरः} । (तेन निषिक्तगर्भास्तदीयाः =भार्याः) कृष्ण नाम को किसी असुर के द्वारा निषिक्त( सिञ्चित गर्भ हैं   जिनके वे अर्थात् कृष्ण की भार्यायें बहुव्रीहि समास "निरहन्= अवधीत् (वध कर दिया ) । कृष्णमसुरं हत्वा पुत्राणाम् अपि अनुत्पत्त्यर्थं कृष्ण असुर और उनके पुत्रों को भी मारकर  । गर्भिणीस्तस्य भार्याः अप्यवधीदित्यर्थः } गर्भिणी जिसकी भार्याऐं थी इस अर्थ में। "अवस्यवः= रक्षणेच्छवो वयं “वृषणं =कामानां वर्षितारं ( कामनाओं की वर्षा करने वाले को "वज्रदक्षिणं वज्रयुक्तेन दक्षिणहस्तेनोपेतं तं "मरुत्वन्तम् इन्द्रं "सख्याय सख्युः कर्मणे "हवामहे= आह्वयामहे हम सब आह्वान करते हैं  ॥ मन्दिने =मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । औणादिकः इनिप्रत्ययः । तदुक्तं यास्केन-’ मन्दी मन्दतेः स्तुतिकर्मणः ' (निरु. ४. २४ ) इति । पितुमत् । ‘ ह्रस्वनुड्भ्यां मतुप् ' इति मतुप उदात्तत्वम् । {कृष्णगर्भाः =कृष्णेन निषिक्ताः गर्भाः यासु यद् सप्तमीबहुवचने ( कृष्ण के द्वारा गर्भ सिञ्चित किया गया जिन स्त्रियों में )। तास्तथोक्ताः} तत् सर्वनाम पद का  प्रथमा बहुवचन ता:(वे सब स्त्रीयाँ)। ‘ परादिश्छन्दसि बहुलम् ' इति पूर्वपदान्तोदात्तत्वम् । अवस्यवः । अवेरौणादिको भावेऽसुन्। अवः इच्छति=} अवस्यति । सुप आत्मनः क्यच् ' । ‘क्याच्छन्दसि ' इति उप्रत्ययः । वृषणम् । वा षपूर्वस्य निगमे ' इति विकल्पनादुपधादीर्घाभावः । सख्याय । सख्युः कर्म सख्यम् ।' सख्युर्यः' इति यप्रत्ययः । हवामहे । ह्वेञो लटि ‘ बहुलं छन्दसि ' इति संप्रसारणम् ॥

____________

यः । विऽअंसम् । जहृषाणेन । मन्युना । यः । शम्बरम् । यः । अहन् । पिप्रुम् । अव्रतम् ।

इन्द्रः । यः । शुष्णम् । अशुषम् । नि । अवृणक् । मरुत्वन्तम् । सख्याय । हवामहे ॥

{सायण-भास्य}

"यः इन्द्रः "जहृषाणेन =प्रवृद्धेन "मन्युना =क्रोधेन "व्यंसं =विगतभुजं वृत्रम् "अहन्= अवधीत् । अपि च "यः इन्द्रः शम्बरम् =एतत्संज्ञमसुरं चावधीत् । तथा “अव्रतं =व्रतस्य यागादेः कर्मणो विरोधिनं "पिप्रुम्= एतत्संज्ञमसुरं च "यः इन्द्रोऽवधीत् । किंच "यः “इन्द्रः "अशुषं =शोषकरहितं "शुष्णं सर्वस्य जगतः शोषकमेतत्संज्ञमसुरं नि "अवृणक् =न्यवर्जयत् । समूलं हतवानित्यर्थः । तं "मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ व्यंसम्=। विगतः अंसो यस्मात् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणः ‘ उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् । जहृषाणेन । 'हृष= तुष्टौ । अत्र ÷  वृद्ध्यर्थः । ‘छन्दसि लिट्, ‘ लिटः कानज्वा' इति तस्य कानजादेशः । अन्येषामपि दृश्यते ' इति संहितायामभ्यासस्य दीर्घत्वम् । चित्त्वादन्तोदात्तत्वम् । अशुषम् । शुष =शोषणे' । इगुपधलक्षणः कः । शुषाः =शोषका न सन्त्यस्येति अशुषः । परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । अवृणक् । ‘ वृजी =वर्जने '। रौधादिकः ॥

_______

यस्य । द्यावापृथिवी इति । पौंस्यम् । महत् । यस्य । व्रते । वरुणः । यस्य । सूर्यः ।

यस्य । इन्द्रस्य । सिन्धवः । सश्चति । व्रतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥३

____________

{सायण-भास्य}

"यस्य इन्द्रस्य “महत् विपुलं “पौंस्यं बलं "द्यावापृथिवी द्यावापृथिव्यावनुवर्तेते । “यस्य चेन्द्रस्य “व्रते नियमरूपे कर्मणि "वरुणः वर्तते । वरुणोऽपीन्द्रस्य नियमनं नातिक्रामतीत्यर्थः । अपि च “सूर्यः अपि "यस्य इन्द्रस्य व्रते वर्तते । तथा "यस्य "इन्द्रस्य “व्रतं कर्म “सिन्धवः नद्यः "सश्चति । वचनव्यत्ययः । गच्छन्ति । सश्चतिर्गतिकर्मा । इन्द्रेणानुशिष्टाः प्रवहन्तीत्यर्थः । तं “मरुत्वन्तम् इन्द्रं “सख्याय आह्वयामहे ॥ द्यावापृथिवी । द्यौश्च पृथिवी च द्यावापृथिव्यौ । ‘ दिवो द्यावा ' इति द्यावादेशः । स चाद्युदात्तो निपातितः । पृथिवीशब्दो ङीष्प्रत्ययान्तः अन्तोदात्तः । ‘ देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वम् । “ वा छन्दसि ' इति पूर्वसवर्णदीर्घः ॥



यः । अश्वानाम् । यः । गवाम् । गोऽपतिः । वशी । यः । आरितः । कर्मणिऽकर्मणि । स्थिरः ।  वीळोः । चित् । इन्द्रः । यः ।( (असुन्वतः) । वधः )। मरुत्वन्तम् । सख्याय । हवामहे ॥४

____

{सायण-भास्य}

"यः इन्द्रः "अश्वानां पतिरधिपतिः । तथा "यः इन्द्रः "गोपतिः । न केवलमेकस्या गोः किंतु सर्वासामित्याह "गवाम् इति । सर्वासां गवाम् अधिपतिर्भवति । "वशी =अपराधीनः । स्वतन्त्र इत्यर्थः । अपि च "यः इन्द्रः "कर्मणिकर्मणि सर्वेषु कर्मसु “स्थिरः नैश्चल्येनावतिष्ठमानः "आरितः स्तुतिभिः प्रत्यृतः प्राप्तो भवति । ‘आरितः प्रत्यृतः स्तोमान्' (निरु. ५. १५) इति निरुक्तम् । “यः च "इन्द्रः "असुन्वतः =सुन्वतां यागानुष्ठातॄणां विरोधिनः "वीळोश्चित् दृढस्यापि शत्रोः "वधः= हन्ता तं “मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ गवाम् । न गोश्वन्साववर्ण° ' इति विभक्त्युदात्तत्वस्य प्रतिषेधः । गोपतिः ।' पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरत्वम् । आरितः । ‘ऋ ‘ गतौ । अस्मात् ण्यन्तात् निष्ठा । आगमानुशासनस्यानित्यत्वात् पुगभावः । यद्वा । ‘ सूचिसूत्रिमूञ्यट्यर्त्यशूर्णोतीनाम् ' (पा. म. ३. १. २२. ३) इति विहितस्य यङः ‘यङोऽचि च' इत्यत्र चशब्देन बहुलग्रहणानुकर्षणादनैमित्तिके लुकि प्रत्ययलक्षणेन ‘ सन्यङोः ' इति ऋ इत्येतस्य द्विर्वचने उरदत्वहलादिशेषयोः सतोः ‘ रुग्रिकौ च लुकि ' इति रुक् । ततो निष्ठायां छान्दस इडागमः। ऋकारस्य यणादेशः । ‘रो रि' इति अभ्यासरेफलोपः । ‘ ढ्रलोपे पूर्वस्य दीर्घाऽणः' इति दीर्घत्वम् । वधः । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् ' हनश्च वधः' इति कर्तरि अप् वधादेशश्च । स. चादन्तः । अतो लोपे उदात्तनिवृत्तिस्वरेण प्रत्ययस्य उदात्तत्वम्॥

____

{सायण-भास्य}

यः । विश्वस्य । जगतः । प्राणतः । पतिः । यः । ब्रह्मणे । प्रथमः । गाः । अविन्दत् । इन्द्रः । यः । दस्यून् । अधरान् । अवऽअतिरत् । मरुत्वन्तम् । सख्याय । हवामहे ॥५।

________

“यः इन्द्रः “विश्वस्य "जगतः गच्छतः "प्राणतः प्रश्वसतः प्राणिजातस्य “पतिः =स्वामी "यः च “ब्रह्मणे= ब्राह्मणजातिभ्योऽङ्गिरोभ्यः "प्रथमः अन्येभ्यो देवेभ्यः पूर्वभावी सन् पणिभिरपहृताः “गा: “अविन्दत् अलभत । अन्येभ्यो देवेभ्यः पूर्वमेव तैरसुरैर्युद्ध्वा गाः स्वयमलभतेत्यर्थः । अपि च "यः "इन्द्रः “दस्यून् =उपक्षपयितॄनसुरान् "अधरान =निकृष्टान् कृत्वा "अवातिरत् =अवधीत् । अवतरतिर्वधकर्मा । तं "मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ जगतः । ‘ गम्लृ सप्लृ गतौ' । वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च' ( उ. सू. २. २४१ ) इति अतिप्रत्ययान्तो निपातितो जगच्छब्द आद्युदात्त: । प्राणतः =श्वस= प्राणने, अन च ' । अस्मात् लटः शतृ । अदादित्वात् शपो लुक् । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् ।


यः । शूरेभिः । हव्यः । यः । च । भीरुऽभिः । यः । धावत्ऽभिः । हूयते । यः । च । जिग्युभिः । इन्द्रम् । यम् । विश्वा । भुवना । अभि । सम्ऽदधुः । मरुत्वन्तम् । सख्याय । हवामहे ॥६

___________

{सायण-भास्य}

"यः इन्द्रः "शूरेभिः{ शौर्योपेतैः पुरुषैः "हव्यः =योद्धुमाह्वातव्यः । "यश्च “भीरुभिः =भयशीलैः कातरैः पुरुषैः) सहायार्थमाह्वातव्यः । अपि च "यः इन्द्रः “धावद्भिः= पराजयेन पलायमानैः “हूयते =रक्षार्थमाहूयते । "यश्च जिग्युभिः प्राप्तजयैराहूयते । "यं च “इन्द्रं "विश्वा "भुवना सर्वाणि भूतजातानि स्वेषु स्वेषु कार्येषु "अभि "संदधुः आभिमुख्येन स्थापयन्ति । तं "मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ शूरेभिः । ‘ बहुलं छन्दसि ' इति भिस ऐसभावः । हव्यः ।= ह्वयतेः ‘ अचो यत्' इति यत् । “ ह्वः' इत्यनुवृत्तौ ‘ बहुलं छन्दसि' इति संप्रसारणम् । गुणे ‘ धातोस्तन्निमित्तस्यैव' इति अवादेशः । भीरुभिः । ‘ भियः क्रुक्लुकनौ ' ( पा. सू. ३. २. १७४) इति क्रुप्रत्ययः । धावद्भिः । ‘ सृ गतौ । सर्तेः वेगितायां शपि : पाध्रा०' इत्यादिना धावादेशः। शपः पित्त्वात् अनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । जिग्युभिः ।' जि जये। लिटः क्वसुः । द्विर्वचने ‘ सन्लिटोर्जेः' इति अभ्यासादुत्तरस्य जकारस्य कुत्वम् । भिसि अयस्मयादित्वेन भत्वात् ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । छान्दसोऽन्त्यलोपः ॥ ॥ १२ ॥


रुद्राणाम् । एति । प्रऽदिशा । विऽचक्षणः । रुद्रेभिः । योषा । तनुते । पृथु । ज्रयः ।

इन्द्रम् । मनीषा । अभि । अर्चति । श्रुतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥७

___

{सायण-भास्य}

“विचक्षणः सूर्यात्मना प्रकाशमान इन्द्रः "रुद्राणां रुद्रपुत्राणाम् अध्यात्मं प्राणरूपेण वर्तमानानां मरुताम् । यद्वा । रोदयितॄणां प्राणानाम् । प्राणा हि शरीरात् निर्गताः सन्तो बन्धुजनान् रोदयन्ति । “प्रदिशा प्रदेशनेन मनुष्येभ्यः प्रदानेन सह “एति अन्तरिक्षे गच्छति। तथा चाम्नायते- योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति ' ( तै. आ. १. १४. १ ) इति । अपि च "रुद्रेभिः अधिभूतं वर्तमानैः रुद्रपुत्रैर्मरुद्भिः "योषा माध्यमिका वाक् "पृथु विस्तीर्णं “ज्रयः वेगं "तनुते विस्तारयति । प्रसंगादत्र मरुतां स्तुतिः । तैर्मरुद्भिः सह वर्तमानं “श्रुतं प्रख्यातं सूर्यात्मानम् "इन्द्रं मनीषा स्तुतिलक्षणा वाक् “अभ्यर्चति आभिमुख्येन स्तौति । तं मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ प्रदिशा । ‘ दिश अतिसर्जने' । संपदादिलक्षणो भावे क्विप्। ज्रयः । ‘ जि ज्रि अभिभवे । ज्रीयतेऽभिभूयतेऽजेनेति ज्रयो वेगः । करणे असुन् । मनीषा । ईषाअक्षादित्वात् प्रकृतिभावः ।।


यत् । वा । मरुत्वः । परमे । सधऽस्थे । यत् । वा । अवमे । वृजने । मादयासे ।

अतः । आ । याहि । अध्वरम् । नः । अच्छ । त्वाऽया । हविः । चकृम । सत्यऽराधः ॥८

_________

{सायण-भास्य}

हे “मरुत्वः मरुद्भिर्युक्तेन्द्र "परमे उत्कृष्टे "सधस्थे सहस्थाने गृहे "यद्वा यदि वा "मादयासे । तृप्तो वर्तसे । "यद्वा यदि वा "अवमे अर्वाचीने “वृजने । वृज्यते रिक्तीक्रियतेऽस्मिन् धनमिति वृजनं गृहम् । तस्मिन् मादयासे । "अतः अस्मादुभयविधात् स्थानात् "नः अस्माकं "अध्वरं यज्ञम् “अच्छ आभिमुख्येन “आ “याहि आगच्छ । हे "सत्यराधः सत्यधन" “त्वाया त्वत्कामनया वयं “हविश्चकृम कृतवन्तः ।। मरुत्वः । ‘ मतुवसो रुः० ' इति संबुद्धौ नकारस्य रुत्वम् । सधस्थे । ‘ सुपि स्थः' इति कप्रत्ययः । ‘ सध मादस्थयोश्छन्दलि' इति सहस्य सधादेशः । मादयासे । ‘ मद तृप्तियोगे'। चुरादिरात्मनेपदी । लेटि आडागमः । त्वाया । त्वामात्मन इच्छति । ‘ सुप आत्मनः क्यच् ' । ‘ प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । व्यत्ययेन दकारस्य आत्वम् । 'अ प्रत्ययात्' इति अकारप्रत्ययः । सुपां सुलुक्' इति तृतीयाया लुक्।

___

त्वाऽया । इन्द्र । सोमम् । सुसुम । सुऽदक्ष । त्वाऽया । हविः । चकृम । ब्रह्मऽवाहः । अध । नियुत्वः । सऽगणः । मरुत्ऽभिः । अस्मिन् । यज्ञे । बर्हिषि । मादयस्व ॥९

{सायण-भास्य}

हे "सुदक्ष शोभनबल “इन्द्र “त्वाया त्वत्कामनया "सोमं "सुषुम अभिषुतवन्तो वयम् । हे “ब्रह्मवाहः ब्रह्मणा मन्त्ररूपेण स्तोत्रेणोह्यमान प्राप्यमाणेन्द्र “त्वाया त्वत्कामनया आहवनीये पुरोडाशलक्षणं “हविश्चकृम कृतवन्तः। हे “नियुत्वः । नियुतोऽश्वाः । तद्वन्निन्द्र "अधा अनन्तरं "मरुद्भिः सप्तगणरूपैरेतत्संज्ञैर्देवैः "सगणः गणसहितः सन् 'अस्मिन् वर्तमाने "यज्ञे “बर्हिषि आस्तीर्णे दर्भे उपविश्य "मादयस्व तृप्तो भव ॥ सुषुम ।' षुञ् अभिषवे'। लिटि क्रादिनियमप्राप्तस्य इटः “ अनित्यमागमशासनम्' इति वचनादभावः ॥

________

मादयस्व । हरिऽभिः । ये । ते । इन्द्र । वि । स्यस्व । शिप्रे इति । वि । सृजस्व । धेने इति ।आ । त्वा । सुऽशिप्र । हरयः । वहन्तु । उशन् । हव्यानि । प्रति । नः । जुषस्व ॥१०

_______

{सायण-भास्य}

हे "इन्द्र "हरिभिः अश्वैः सह "मादयस्व तृप्तो भव । "ये "ते तव स्वभूतास्तदर्थं "शिप्रे हनू संहते “वि “ष्यस्व सोमपानार्थं विवृते कुरु । तथा “धेने पानसाधनभूते जिह्वोपजिह्विके "वि "सृजस्व सोमपानार्थं विश्लिष्टे कुरु । हे "सुशिप्र । शिप्रे हनू नासिके वा '। शोभनशिप्रेन्द्र “त्वा त्वां "हरयः अश्वाः "आ “वहन्तु अस्मदीयं यज्ञं प्रापयन्तु । त्वं च "उशन् अस्मान् कामयमानः "नः अस्माकं “हव्यानि हवींषि “प्रति "जुषस्व प्रत्येकं सेवस्व मा उदासिष्ठाः ॥ वि ष्यस्व । षो अन्तकर्मणि '। व्यत्ययेन आत्मनेपदम् । दिवादित्वात् श्यन् । ‘ओतः श्यनि ' ( पा. सू. ७. ३. ७१ ) इति ओकारलोपः ।' उपसर्गात्सुनोति° ' इति षत्वम् ॥

_____

मरुत्ऽस्तोत्रस्य ।( वृजनस्य । गोपाः) । वयम् । इन्द्रेण । सनुयाम । वाजम् ।तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥११।

{सायण-भास्य}

“मरुत्स्तोत्रस्य । मरुद्भिः सह स्तोत्रं यस्य स मरुत्स्तोत्रः। तस्य "वृजनस्य शत्रूणां क्षेप्तुरिन्द्रस्य संबन्धिनः “गोपाः गोपायनीयाः रक्षणीयाः “वयं तेन "इन्द्रेण “वाजम् अन्नं "सनुयाम लभेमहि । यदेतदस्माभिः प्रार्थितं "नः अस्मदीयं "तत् मित्रादयो द्यावापृथिव्यौ च "ममहन्तां पूजितं कुर्वन्तु ॥ वृजनस्य । ‘वृजी वर्जने'। ‘कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः' इति क्युप्रत्ययः ॥ ॥ १३ ॥


__________


अव  द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः।
आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त॥१३॥
द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः।
नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ॥१४॥
अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥१५॥
त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१६॥
त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ ।
त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥१७॥
त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ ।
त्वं सिन्धूँरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः॥१८॥
स सुक्रतू रणिता यःसुतेष्वनुत्तमन्युर्यो अहेव रेवान्। 
य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः॥१९॥
स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम ।
स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥२०॥
स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव ।
कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥२१॥

पृष्ठ्यषडहगतेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे ‘अव द्रप्सः' इति तृचः । सूत्रितं च -- ‘ अव द्रप्सो अंशुमतीमतिष्ठदिति तिस्रोऽच्छा म इन्द्रमिति नित्यमैकाहिकम्' (आश्वलायन श्रौतसूत्र ८.३ ) इति ॥

अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभि॑ः स॒हस्रै॑: । आव॒त्तमिन्द्र॒: शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त॥१३।

अव॑ । द्र॒प्सः । अं॒शु॒ऽमती॑म् । अ॒ति॒ष्ठ॒त् । इ॒या॒नः । कृ॒ष्णः । द॒शऽभिः॑ । स॒हस्रैः॑ ।

आव॑त् । तम् । इन्द्रः॑ । शच्या॑ । धम॑न्तम् । अप॑ । स्नेहि॑तीः । नृ॒ऽमनाः॑ । अ॒ध॒त्त॒ ॥१३

अव । द्रप्सः । अंशुऽमतीम् । अतिष्ठत् । इयानः । कृष्णः । दशऽभिः । सहस्रैः ।

आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नेहितीः । नृऽमनाः । अधत्त ॥१३।।

"अत्रेतिहासमाचक्षते किल । कृष्णो नामासुरो दशसहस्रसंख्यैरसुरैः परिवृतः सन्नंशुमतीनामधेयाया नद्यास्तीरेऽतिष्ठत् । तत्र तं कृष्णमुदकमध्ये स्थितमिन्द्रो बृहस्पतिना सहागच्छत् । आगत्य तं कृष्णं तस्यानुचरांश्च बृहस्पतिसहायो जघानेति

"यहाँ निश्चित ही इतिहास कहा गया है कृष्ण नाम का "असुर"  दशहजार संख्या में असुरों से घिरा हुआ अञ्शुमती नाम वाली नदी के किनारे स्थित है वहाँ उस कृष्ण को जल के बीच में स्थित इन्द्र बृहस्पति के साथ आये है आकर उस कृष्ण को उसके अनुचरो को बृहस्पति के साथ इन्द्र ने मारा इस प्रकार अर्थ है और कुछ दूसरे प्रकासे ही अर्थ कहते हैं उस तथा के लिए द्रप्स= जलबिन्दु  मूल अर्थ वह सोम का "जलबिन्दु"कहा जाता है। 

 । केचिदन्यथा वदन्ति । तेषां कथा हेतुः । द्रप्स इत्युदककणोऽभिधीयते स तु सोमो ‘द्रप्सश्चस्कन्द ' (ऋ. सं. १०. १७. ११ ) इत्यादिषु सोमपरत्वेनोक्तत्वात् । एतत्पदमाश्रित्याहुः- ‘ अपक्रय तु देवेभ्यः सोमो वृत्रभयार्दितः ॥ नदीमंशुमतीं नामाभ्यतिष्ठत् कुरून प्रति । तं बृहस्पतिनैकेन सोऽभ्ययाद्वृत्रहा सह ॥ योत्स्यमानः सुसंहृष्टैर्मरुद्भिर्विविधायुधैः। दृष्ट्वा तानायतः सोमः स्वबलेन व्यवस्थितः ॥ मन्वानो वृत्रमायान्तं जिघांसुमरिसेनया । व्यवस्थितं धनुष्मन्तं तमुवाच बृहस्पतिः ॥ मरुत्पतिरयं सोम प्रेहि देवान् पुनर्विभो । सोऽब्रवीन्नेति तं शक्रः स्वर्ग एव बलाद्बली । इयाय देवानादाय तं पपुर्विधिवत्सुराः ॥ जघ्नुः पीत्वा च दैत्यानां समरे नवतीर्नव । तदव द्रप्स इत्यस्मिन् तृचे सर्वं निगद्यते' (बृहद्दे. ६. १०९-११५ ) । एतदनार्षत्वेनानादरणीयं भवति । एषोऽर्थः क्रमेणर्क्षु वक्ष्यते । तथा चास्या ऋचोsयमर्थः । 1“द्रप्सः =। द्रुतं सरति गच्छतीति द्रप्सः । पृषोदरादिः । द्रुतं गच्छन् "दशभिः “सहसैः दशसहस्रसंख्यैरसुरैः “इयानः= “कृष्णः एतन्नामकोऽसुरः "अंशुमतीं नाम नदीम् “अव “अतिष्ठत् =अवतिष्ठते । ततः 2-“शच्या= कर्मणा प्रज्ञानेन वा 3-“धमन्तम्= उदकस्यान्तरुच्छ्वसन्तं यद्वा जगद्भीतिकरं शब्दं कुर्वन्तं “तं =कृष्णमसुरम् “इन्द्रः मरुद्भिः सह 5-“आवत् =प्राप्नोत् । पश्चात्तं कृष्णमसुरं तस्यानुचरांश्च हतवानिति वदति । “नृमणाः नृषु मनो यस्य सः । यद्वा । कर्मनेतृष्वृत्विक्ष्वेकविधं मनो यस्य स तथोक्तः । तादृशः सन् “स्नेहितीः । स्नेहतिर्वधकर्मसु पठितः । सर्वस्य हिंसित्रीस्तस्य सेनाः “अप “अधत्त ।6- अपधानं =हननम् । अवधीदित्यर्थः । ‘ अप स्नीहितिं नृमणा अधद्राः' (सा. सं. १. ४. १.४.१) इति छन्दोगाः पठन्ति । तस्यानुचरान् हत्वा तं द्रुतं गच्छन्तमसुरमपाधत्त । हतवान् ॥


द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशुमत्या:।

नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥१४

द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ ।

नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥१४

द्रप्सम् । अपश्यम् । विषुणे । चरन्तम् । उपऽह्वरे । नद्यः । अंशुऽमत्याः ।

नभः । न । कृष्णम् । अवतस्थिऽवांसम् । इष्यामि । वः । वृषणः । युध्यत । आजौ ॥१४

तुरीयपादो मारुतः । मरुतः प्रति यद्वाक्यमिन्द्र उवाच तदत्र कीर्त्यते । हे मरुतः “द्रप्सं द्रुतगामिनं कृष्णमहम् “अपश्यम् =अदर्शम् । कुत्र वर्तमानम् । “विषुणे= विष्वगञ्चने सर्वतो विस्तृते देशे । यद्वा । विषुणो विषमः । विषमे परैरदृश्ये गुहारूपे देशे। “चरन्तं =परितो गच्छन्तम् । किंच “अंशुमत्याः एतन्नामिकायाः “नद्यः =नद्याः “उपह्वरे= अत्यन्तं गूढे स्थाने “नभो “न नभसि यथादित्यो दीप्यते तद्वत्तत्र दीप्यमानम् “अवतस्थिवांसम् उदकस्यान्तरवस्थितं “कृष्णम् एतन्नामकमसुरमपश्यम् । तस्मिन् दृष्टे सति हे “वृषणः कामानामुदकानां वा सेक्तारो मरुतः “वः युष्मान् युद्धार्थम् “इष्यामि अहमिच्छामि । ततो यूयं तमिमं कृष्णम् "आजौ । अजन्ति गच्छन्त्यत्र योद्धार आयुधानि प्रक्षेपयन्तीति वाजिः संग्रामः । तस्मिन् "युध्यत संहरत । वाक्यभेदादनिघातः । केचित् इष्यामि वो मरुतः इति पठन्ति । तत्र हे मरुतः वो युष्मानिच्छामीत्यर्थो भवति ॥

अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः।विशो॒ अदे॑वीर॒भ्या॒३॒॑चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्र: ससाहे ॥१५।

अध॑ । द्र॒प्सः । अं॒शु॒ऽमत्याः॑ । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्व॑म् । ति॒त्वि॒षा॒णः ।

विशः॑ । अदे॑वीः । अ॒भि । आ॒ऽचर॑न्तीः । बृह॒स्पति॑ना । यु॒जा । इन्द्रः॑ । स॒स॒हे॒ ॥१५

अध । द्रप्सः । अंशुऽमत्याः । उपऽस्थे । अधारयत् । तन्वम् । तित्विषाणः ।

विशः। अदेवीः ।अभि। आऽचरन्तीः ।बृहस्पतिना । युजा । इन्द्रः । ससहे ॥१५।

1-“अध= अथ 2-“द्रप्सः =द्रुतगामी कृष्णः 3-“अंशुमत्याः= नद्याः 4-“उपस्थे =समीपे 5-“तित्विषाणः= दीप्यमानः सन् 6-“तन्वम् =आत्मीयं शरीरम् 7-“अधारयत् । =परैरहिंस्यत्वेन बिभर्ति । यद्वा । बलप्राप्त्यर्थं स्वशरीरमाहारादिभिरपोषयत् । तत्र “इन्द्रः गत्वा “बृहस्पतिना एतन्नामकेन देवेन 8-“युजा= सहायेन 9-“अदेवीः =अद्योतमानाः । कृष्णरूपा इत्यर्थः । यद्वा । पापयुक्तत्वादस्तुत्याः । 10-“आचरन्तीः= आगच्छन्तीः 11-“विशः= असुरसेनाः "अभि 12-"ससहे =जघान । तमवधीदित्यर्थः प्रसङ्गादवगम्यते ॥ ३४ ॥ 

त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभव॒ः शत्रु॑रिन्द्र ।

गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥१६

त्वम् । ह॒ । त्यत् । स॒प्तऽभ्यः॑ । जाय॑मानः । अ॒श॒त्रुऽभ्यः॑ । अ॒भ॒वः॒ । शत्रुः॑ । इ॒न्द्र॒ ।

गू॒ळ्हे इति॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । अ॒वि॒न्दः॒ । वि॒भु॒मत्ऽभ्यः॑ । भुव॑नेभ्यः । रण॑म् । धाः॒ ॥१६

त्वम् । ह । त्यत् । सप्तऽभ्यः । जायमानः । अशत्रुऽभ्यः । अभवः । शत्रुः । इन्द्र ।

गूळ्हे इति । द्यावापृथिवी इति । अनु । अविन्दः । विभुमत्ऽभ्यः । भुवनेभ्यः । रणम् । धाः ॥१६

हे “इन्द्र “त्वं खलु “त्यत् तत् कर्म कृतवानसि। किं तत् उच्यते । "जायमानः त्वं प्रादुर्भवन्नेव । “अशत्रुभ्यः स्तुरहितेभ्यः “सप्तभ्यः कृष्णवृत्रनमुचिशम्बरादिसप्तभ्यो बलवद्भ्यः शत्रुभ्यः तदर्थं “शत्रुः “अभवः । यद्वा । सप्तभ्यः । ससैवाङ्गिरसः । सप्तभ्योङ्गिरोभ्यो गवानयनार्थं प्रादुर्भवन्नेवाशत्रुभ्यो बलवद्भ्यः पणिभ्यः शत्रुरभवः । किंच हे इन्द्र त्वं “गूळ्हे तमसा गूढे संवृते “द्यावापृथिवी द्यावापृथिव्यौ सूर्यात्मना ते प्रकाश्यानुक्रमेण "अविन्दः अलभथाः । तथा “विभुमद्भ्यः महत्त्वयुक्तेभ्यः "भुवनेभ्यः लोकेभ्यः "रणं रमणं “धाः धारयसि । विदधासीत्यर्थः ॥


त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ ।

त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥१७

त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओजः॑ । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒तः । ज॒घ॒न्थ॒ ।

त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒रः॒ । वध॑त्रैः । त्वम् । गाः । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्दः॒ ॥१७

त्वम् । ह । त्यत् । अप्रतिऽमानम् । ओजः । वज्रेण । वज्रिन् । धृषितः । जघन्थ ।

त्वम् । शुष्णस्य । अव । अतिरः । वधत्रैः । त्वम् । गाः । इन्द्र । शच्या । इत् । अविन्दः ॥१७

हे इन्द्र त्वं “ह “त्वं खलु “त्यत् एतत् कर्माकार्षीः। किं तत् अभिधीयते । हे “वज्रिन् वज्रवन्निन्द्र “धृषितः धृष्टः संग्रामेषु शत्रुहनने कुशलः सन्। यद्वा। धृष्टो धीरः सन् "अप्रतिमानम् । प्रतिमानमुपमा। निरुपमम्। अस्य सदृशमन्यदीयं वीर्यं नास्तीत्यर्थः। तादृशं “शुष्णस्य “ओजः बलं “वज्रेण आयुधेन “जघन्थ हतवानसि। ‘अभ्यासाच्च' इति इन्तेर्घत्वम् । पूर्वं शुष्णस्य बलं विनाश्येदानीं शुष्णमपि हतवानित्याह । “त्वं “वधत्रैः हननसाधनैरायुधैः “शुष्णस्य । ‘क्रियाग्रहणं कर्तव्यम्' इति संप्रदानसंज्ञा। चतुर्थ्यर्थे बहुलम्' इति षष्ठी। शुष्णम् “अवातिरः । कुत्साय राजर्षयेऽवाङ्मुखं कृत्वावधीः । तथा च निगमः-- कुत्साय शुष्णमशुषं नि बर्हीः' (ऋ. सं. ४. १६. १२) इति । तथा हे “इन्द्र “त्वं “शच्या स्वकीयया प्रज्ञया कर्मणा वा “गाः शत्रून् हत्वा तेषां गाः “अविन्दः अलभथाः । यद्वा । अङ्गिरसां गाः पणीन् संप्रहृत्य लब्धवानसि ॥


drip (v.)

c. 1300, drippen, "to fall in drops; let fall in drops," from Old English drypan, also dryppan, from Proto-Germanic *drupjanan (source also of Old Norse dreypa, Middle Danish drippe, Dutch druipen, Old High German troufen, German triefen), perhaps from a PIE root *dhreu-. Related to droop and drop. Related: Drippeddripping.

drip (n.)

mid-15c., drippe, "a drop of liquid," from drip (v.). From 1660s as "a falling or letting fall in drops." Medical sense of "continuous slow introduction of fluid into the body" is by 1933. The slang meaning "stupid, feeble, or dull person" is by 1932, perhaps from earlier American English slang sense "nonsense" (by 1919).

विषुण-अनेक रूप का। बहुरूपी। २. सर्वग। सर्वगत। ३. विप्रकीर्ण। बिखरा हुआ। ४. पराङमुख [को०]।

अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥१३॥

द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥१४॥

अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥१५॥

_______________________________________

अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥१३॥

पदान्वय-अव । द्रप्सः । अंशुऽमतीम् । अतिष्ठत् । इयानः । कृष्णः । दशऽभिः । सहस्रैः ।आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नेहितीः । नृऽमनाः । अधत्त ॥१३।

शब्दार्थ व व्याकरणिक विश्लेषण-                १-अव= तुम रक्षा करो लोट्लकर  मध्यम पुरुष एकवचन।

२-द्रप्स:= जल से द्रप्स् का पञ्चमी एकवचन यहाँ करण कारक के रूप में  ।

३- अंशुमतीम् = यमुनाम्  –यमुना को अथवा यमुना के पास द्वितीया यहाँ करण कारक के रूप में ।

४-अवतिष्ठत् =  अव उपसर्ग पूर्वक (स्था धातु का तिष्ठ आदेश  लङ्लकार रूप)  स्थित हुए।

५- इन्द्र: शच्या -स्वपत्न्या= इन्द्र: पद में प्रथमा विभक्ति एकवचन कर्ता करक  तथा शच्या में शचि के तृत्तीया विभक्ति करणकारक का रूप शचि इन्द्र: की पत्नी का नाम है।।

 ६-धमन्तं= अग्निसंयोगम् कुर्वन्तं  कोलाहलकुर्वन्तंवा। चमकते हुए को अथवा हल्ला करते हुए को।  (ध्मा धातु का धम आदेश तथा +शतृ(अत्) प्रत्यय कर्मणि द्वित्तीया का रूप  एक वचन धमन्तं कृष्ण का विशेषण है  ।

७-अप स्नेहिती: = जल में भीगते हुए का।

८-नृमणां( धनानां) 

९-अधत्त= उपहार या धन दिया ।(डुधाञ् (धा)=दानधारणयोर्लङ्लकारे आत्मनेपदीय अन्यपुरुषएकवचने) 

विशेषटिप्पणी-

१०-अव्=१- रक्षण २-गति ३-कान्ति ४-प्रीति ५-तृप्ति ६-अवगम ७-प्रवेश ८-श्रवण ९- स्वाम्यर्थ १०-याचन ११-क्रिया। १२ -इच्छा १३- दीप्ति १४-अवाप्ति १५-आलिङ्गन १६-हिंसा १७-दान  १८-वृद्धिषु।                
११-अव् – एक परस्मैपदीय धातु है और धातुपाठ में इसके अनेक अर्थ हैं । प्रकरण के अनुरूप अर्थ ग्रहण करना चाहिए ।
प्रथम पुरुष एक वचन का लङ् लकार(अनद्यतन भूूूतकाल का रूप।
आवत् =प्राप्त किया । 

हिन्दी अर्थ- हे कृष्ण आप यमुना के तट पर स्थित इस जल के रक्षा करने वाले हैं आप इसकी रक्षा करो ! कृष्ण दश हजार गोपों से घिरे हुए हैं। इन्द्र ने अपनी पत्नी शचि के साथ अग्नि से संयोजित होते हुए अर्थात् दैदीप्यमान उस कृष्ण को प्राप्त किया अथवा उनके पास गमन किया  और जल में भीगे हुए कृष्ण को भेंट स्वरूप  धन दिया।

भाष्य-

कृष्णो दशसहस्रैर्गोपै:परिवृत: सन्  अँशुमतीनामधेयाया नद्या:  यमुनाया: तटेऽतिष्ठत् तत्र कृष्णस्य नाम्न: प्रसिद्धं  तं गोपं नद्यार्जलेमध्ये   स्थितं इन्द्रो ददर्श स इन्द्र: स्वपत्न्या शच्या सार्धं आगत्य  जले स्निग्धे तं गोपं कृष्णं तस्यानुचरानुपगोपाञ्च अतीवानि धनानि अदात्।

हिन्दी अनुवाद- कृष्ण दश हजार गोपों से घिरे हुए हैं अशुमती अथवा यमुना के तट पर स्थित कृष्ण नाम से प्रसिद्ध उस गोप कृष्ण को यमुना नदी के जल में स्थित देखा।

________________________________
द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥१४॥

पदान्वय-द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ ।

नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥१४।।

हिन्दी अर्थ-इन्द्र कहता है कि विभिन्न रूपों में मैंने यमुना के जल को देखा और वहीं अंशुमती नदी के निर्जन प्रदेश में चरते हुए बैल अथवा साँड़ को भी देखा  और यह साँड को युद्ध में लड़ते हुए मैं चाहूगा ।अर्थात यह साँड अपने स्थान पर अडिग खडे़  कृष्ण को संग्राम में युद्ध करे ऐसा होते हुए मैं चाहूँगा। जहाँ जल( नभ) बादल भी न हो 

(अर्थात कृष्ण की शक्ति मापन के लिए इन्द्र यह इच्छा करता है )

_______________    

शब्दार्थ व्याकरणिक विश्लेषण-

१-द्र॒प्सम्= जल को कर्मकारक द्वित्तीया।अपश्यम्=अदर्शम्  दृश् धातु का लङ्लकार  (सामान्य भूतकाल ) क्रिया पदरूप  - मैंने देखा ।__________________

२- वि + सवन(‌सुन) रूप विषुण -(विभिन्न रूप)।   षु (सु)= प्रसवऐश्वर्ययोः - परस्समैपदीय सवति सोता [ कर्मणि- ]                                   सुषुवे सुतः सवनः सवः अदादौ (234) सौति स्वादौ षुञ् अभिषवे (51) सुनोति (911) सूनुः, पुं, (सूयते इति । सू + “सुवः कित् ।” उणादिसूत्र्र ३।३५। इति (न:) स:च कित् )

पुत्त्रः । (यथा, रघुः । १ । ९५ ।
“सूनुः =सुनृतवाक् स्रष्टुः विससर्ज्जोदितश्रियम् ) अनुजः । सूर्य्यः । इति मेदिनी ॥ अर्कवृक्षः । इत्यमरः कोश ॥

षत्व विधान सन्धि :-"विसइक्कु हयण्सि षत्व" :- इक् स्वरमयी प्रत्याहार के बाद 'कु(कखगघड•)     'ह तथा यण्प्रत्याहार ( य'व'र'ल) के वर्ण हो और फिर उनके बाद 'स'आए तो वहाँ पर 'स'का'ष'हो जाता है:- यदि 'अ' 'आ' से भिन्न  कोई  स्वर जैैैसे इ उ आदि हो अथवा 'कवर्ग' ह् य् व् र् ल्'  के बाद तवर्गीय 'स' उष्म वर्ण आए तो 'स' का टवर्गीय मूर्धन्य 'ष' ऊष्म वर्ण हो जाता है ।

शर्त यह कि यह "स" आदेश या प्रत्यय का ही होना चाहिए जैसे :- दिक् +सु = दिक्षु । चतुर् + सु = चतुर्षु।हरि+ सु = हरिषु ।भानु+ सु = भानुषु । बालके + सु = बालकेषु । मातृ + सु = मातृषु ।परन्तु अ आ स्वरों के बाद स आने के कारण  ही गंगासु ,लतासु ,और अस्मासु आदि में परिवर्तन नहीं आता है 

परन्तु अ' आ 'स्वरों के बाद स आने के कारण ही गंगासु ,लतासु ,और अस्मासु आदि में परिवर्तन नहीं आता है 'हरि+ सु = हरिषु ।भानु+ सु = भानुषु । बालके + सु = बालकेषु ।मातृ + सु = मातृषु । वि+सम=विषम । वि+सुन =विषुण अथवा विष्+ उणप्रत्यय=विषुण।__________________________

विषुण-विभिन्न रूपी।

३-वृ॒ष॒णश्चर॑न्तम्=  चरते हुए साँड  को।

४-आजौ =  संग्रामे  युद्ध में।

५-अ॒व॒ = उपसर्ग

६- त॒स्थि॒ऽवांस॑म्= तस्थिवस् शब्द का द्वितीया विभक्ति एकवचन का रूप तस्थिवांसम् है । तस्थिवस्=  स्था--क्वसु  स्थितवति (स्थिर) अडिग अथवा जो एक ही स्थान पर खड़ा होते हुए में।

७-व:= युष्मान् - तुम सबको ।  युष्मभ्यम् ।  युष्माकम् । यष्मच्छब्दस्य द्बितीया चतुर्थी षष्ठी बहुवचनान्तरूपोऽयम् इति व्याकरणम् ॥

८-उपह्वरे= निर्जन देशे।

९-वृ॒ष॒णः॒ = साँड ने ।

१०-युध्य॑त= युद्ध करते हुए।

११-आजौ= युद्ध में ।

१२-इष्या॑मि= मैं इच्छा करुँगा।

___________________________________

अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना     युजेन्द्रः ससाहे ॥१५॥
______________
अर्थ-कृष्ण ने अंशुमती के जल के नीचे अपने दैदीप्यमान शरीर को अशुमती की गोद में धारण किया  जो इनके गोपों - विशों             (गोपालन आदि करने वाले 
वैश्यवृत्ति सम्पन्न) थे ।  चारो ओर चलती हुई गायों के साथ रहने वाले गोपों को इन्द्र ने बृहस्पति के साथ दमन किया ।
पदपाठ-विच्छेदन 

। द्रप्स:। अंशुऽमत्याः। उपऽस्थे ।अधारयत् । तन्वम् । तित्विषाणः। विशः। अदेवीः ।अभि । आऽचरन्तीः। बृहस्पतिना। युजा । इन्द्रः। ससहे॥१५।

“अध =अथ अधो वा “द्रप्सः= द्रव्य पूर्ण जल: “अंशुमत्याः= यमुनाया: नद्याः“(उपस्थे=समीपे “(    त्विष धातु =दीप्तौ अर्थे  तित्विषाणः= दीप्यमानः)( सन् =भवन् ) “(तन्वम् द्वितीया कर्मणि वैदिके रूपे = शरीरम्) “(अधारयत्  = धारण किया)। परैरहिंस्यत्वेन बिभर्ति । यद्वा । बलप्राप्त्यर्थं स्वशरीरमाहारादिभिरपोषयत् । तत्र “इन्द्रः गत्वा “बृहस्पतिना एतन्नामकेन देवेन “युजा =सहायेन “अदेवीः = देवानाम्  ये न पूजयन्ति । कृष्णरूपा इत्यर्थः । 

यद्वा । पापयुक्तत्वादस्तुत्याः । “आचरन्तीः =आगच्छन्तीः “विशः= गोपालका:"अभि "ससहे षह्(सह्) लिट्लकार ( अनद्यतन परोक्ष भूतकाल) ।।शक्यार्थे - चारो और से सख्ती की ।

 सह्- सह्यति विषह्यति ससाह सेहतुः सिसाहयिषति सुह्यति सुषोह अधेः प्रसहने (1333) इत्यत्र सह्यतेः सहतेर्वा निर्देश इति शक्तावुपेक्षायाञ्च उदाहृतं तमधिचक्रे इति (7) 22  तमवधीदित्यर्थः प्रसङ्गादवगम्यते ॥ ॥ ३४ ॥ 

ऋग्वेद २/१४/७ में भी सायण ने "उपस्थ' का अर्थ उत्संग( गोद) ही किया है ।जैसे 
अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान् ।
कुत्सस्यायोरतिथिग्वस्य वीरान्न्यावृणग्भरता सोममस्मै ॥७॥देखे 

हे अध्वर्यवो जघन्वान् पूर्वं शत्रून् हतवान् य इंद्रः शतं सहस्रमसुरान् भूम्या उपस्थ उत्संगेऽवपत् । एकैकेन प्रकारेणापातयत् । किंच यः कुत्सस्यैतन्नामकस्य राजर्षेः । आयोः पौरूरवसस्य राजर्षेः। अतिथिग्वस्य दिवोदासस्य । एतेषां त्रयाणां वीरानभिगंतॄन्प्रति द्वंद्विनः शुष्णादीनसुरान् न्यवृणक् । वृणक्तिर्हिंसाकर्मा । अवधीत् । तथा च मंत्रवर्णः । त्वं कुत्सं शुष्णहत्येष्वाविथारंधयोऽतिथिग्वाय शंबरं ।१. ५१. ६.। इति । तादृशायेंद्राय सोमं भरत ॥
 
तस्मिन्स रमते देवः स्त्रीभिः परिवृतस्तदा ।
हारनूपुरकेयूररशनाद्यैर्विभूषणैः।1.73.२०।

१-तस्मिन् -उसमें ।
 २-रमते लट्लकार अन्य पुरुष एक वचन - क्रीडा करते हैं रमण करते हैं । रम्=क्रीडायाम्
३-देव:(प्रथमा विभक्ति एक वचन कर्ताकारक।
स्त्रीभि:=  तृतीया विभक्ति करण कारक बहुवचन रूप स्त्रीयों के साथ।
परिवृत:= चारों ओर से घिरे हुए।

हारनूपुरकेयूररशना आद्यै: तृतीया विभक्ति वहुवचन = हार नूपुर(घँघुरू) केयूर(बाँह में पहनने का एक आभूषण  ,बिजायठ  बजुल्ला ,अंगद , बहुँठा अथवा भुजबंद भी जिसकी हिन्दी नाम हैं  आदि के द्वारा । 
तदा= तस्मिन् काले -उस समय में।
भूषितानां वरस्त्रीणां चार्वङ्गीनां विशेषतः ।
ताभिः सम्पीयते पानं शुभगन्धान्वितं शुभम् । २१।
भूषितानां= भूषण पहने हुओं का (षष्ठी वहुवचन रूप सम्बन्ध बोधक रूप)
वरस्त्रीणां=श्रेष्ठ स्त्रीयों का ।
चारु=सुन्दर । अङ्गीनाम्= अंगों वाली का षष्ठी विभक्ति वहुचन रूप ।
विशेषत:=विशेष से पञ्चमी एकवचन अपादान कारक।
शुभम्- जल जैसा राजनिघण्टु में शुभम् नपुँसक रूप में जल अर्थ उद्धृत किया है । अत: उपर्युक्त श्लोक में 'शुभम् शुभगन्धान्वितं' विशेषण का विशेष्य पद है ।
शुभगन्धान्वितं= शुभ (कल्याण कारी) गन्धों से युक्त को द्वितीया विभक्ति  कर्म कारक पद रूप ।

कृष्ण ने अपने जीवन काल में कभी भी मदिरा का पान भी नहीं किया ।
सुर संस्कृति से प्रभावित  कुछ तत्कालीन यादव सुरा पान अवश्य करते थे। परन्तु  सुरापान यादवों की सांस्कृतिक परम्परा या पृथा नहीं थी।
जैसा कि वाल्मीकि रामायण के बालकाण्ड में  

वाल्मीकि रामायण कार ने वाल्मीकि रामायण के बालकाण्ड सर्ग 45 के 38 वें छन्द में )
सुर-असुर की परिभाषा करते हुये लिखा है-
“सुरा पीने वाले सुर और सुरा नहीं पीने वाले असुर कहे गये l”
सुराप्रतिग्रहाद् देवा: सुरा इत्याभिविश्रुता:. अप्रतिग्रहणात्तस्या दैतेयाश्‍चासुरा: स्मृता:॥
(वाल्मीकि रामायण  बालकाण्ड सर्ग 45 के श्लोक 38)
उपर्युक्त श्‍लोक के अनुसार सुरा का अर्थ ‘मादक द्रव्य-शराब’ है.।
चूंकि देव लोग मादक तत्व सुरा का प्रारम्भ से पान (सेवन) करते थे।
इस कारण देवोपासक पुरोहितों  के कथित देव (देवता) सुर कहलाये और सुरा का पान नहीं करने वाले  असुर (जिन्हें इन्द्रोपासक देवपूजकों  द्वारा अदेव कहा गया) असुर कहलाये. ।

परन्तु वैदिक सन्दर्भ में असुर का प्रारम्भिक अर्थ प्रज्ञा तथा प्राणों से युक्त मानवेतर प्राणियों को कहा गया है ।
इसी कारण सायण आचार्य ने कृष्ण को अपने 
ऋग्वेद के अष्टम् मण्डल के सूक्त संख्या 96 की कुछ ऋचाओं के भाष्य में अदेवी: पद के आधार पर  (13,14,15,) में कृष्ण को असुर अथवा अदेव  कहकर कृष्ण का युद्ध इन्द्र से हुआ ऐसा वर्णित है ।
परन्तु वेदों की व्याख्या करने वाले देवोपासक पुरोहितों ने द्वेष वश कृष्ण को भी सुरापायी बनाने के लिए द्वि-अर्थक पदों से कृष्ण चरित्र का वर्णन करने की चेष्टा की है।
परन्तु फिर भी ये लोग पूर्ण त: कृष्ण की आध्यात्मिक छवि खराब करने में सफल नहीं हो पाये हैं ।
राजनिर्घण्टः।। शुभम्-(उदकम् । इति निघण्टुः । १।१२।
सम्पीङ् - सम्यक्पाने आत्मनेपदीय अन्य पुरुष एक वचन रूप सम्पीयते ( सम्यक् रूप से पीता है - पी जाती है ।

भविष्य पुराण के ब्रह्म खण्ड में कृष्ण के इस प्रकार के विलासी चरित्र दर्शाने के लिए काल्पनिक वर्णन किया गया है ।
स्त्रियों के साथ दिन में रमण ( संभोग) करना और मदिरापान करना कृष्ण सदृश श्रीमद्भगवद्गीता उपनिषद् के वक्ता के द्वारा असम्भव ही है ।
कृष्ण ने कभी भी देवसंस्कृति की मूढ़ मान्यताओं का अनुमोदन नहीं किया जैसे निर्दोष पशुओं की यज्ञ में बलि के रूप में हिंसा करना ।
और करोड़ो देवों की पूजा करना।
______
जैसा कि श्रीमद्भगवद्गीता के नवम अध्याय में कृष्ण ने अर्जुन से कहा -
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विता:।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्।9/23।
_______________
श्रीमद्भगवद्गीता अध्याय नवम का २३ वाँ श्लोक
अर्थ: –हे अर्जुन ! जो भक्त दूसरे देवताओं को श्रद्धापूर्वक पूजते हैं, वे भी मेरा ही पूजन करते हैं, लेकिन उनकी यह पूजा विना विधि पूर्वक ही होती है।
कृष्ण का तो एक ही उद्घोष( एलान) था कि सभी देवताओं से सम्बन्धित सम्प्रदाय ( धर्मों) को छोड़कर मेरी शरण आजा मैं तुम्हें समस्त पापों से मुक्त कर दूँगा, तुम शोक मत करो।।
श्रीमद्भगवद्गीता अध्याय अठारह का मूल श्लोकः देखें निम्न रूपों में
__________
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।18.66। 
सब धर्मों का परित्याग करके तुम एक मेरी ही शरण में आओ, मैं तुम्हें समस्त पापों से मुक्त कर दूँगा, तुम शोक मत करो।।




कोई टिप्पणी नहीं:

एक टिप्पणी भेजें