मत्स्यपुराणम्-अध्यायः(४३)
संहतस्य तु दायादो महिष्मान्नामपार्थिवः।
आसीन्महिष्मतः पुत्रो रुद्रश्रेण्यः प्रतापवान्।१० ।।
वाराणस्यामभूद्राजा कथितं पूर्वमेव तु।
रुद्रश्रेणस्य पुत्रोऽभूद् दुर्दमो नाम पार्थिवः।११।।
दुर्द्दमस्य सुतो धीमान् कनको नाम वीर्य्यवान्।
कनकस्य तु दायदा श्चत्वारो लोकविश्रुताः।१२ ।।
कृतवीर्य्यः कृताग्निश्च कृतवर्मा तथैव च।
कृतोजाश्च चतुर्थोऽभूत् कृतवीर्य्यात्तु सोर्जुनः।१३।
जातः करसहस्रेण सप्तद्वीपेश्वरो नृपः।
वर्षायुतं तपस्तेपे दुश्चरं पृथिवीपतिः।१४ ।।
दत्तमाराधयामास कार्तवीर्य्योऽत्रिसम्भवम्।
तस्मै दत्तावरास्तेन चत्वारः पुरुषोत्तम।१५ ।
पूर्वं बाहुसहस्रन्तु स वव्रे राजसत्तमः।
अधर्मं चरमाणस्य सद्भिश्चापि निवारणम्।१६।
युद्धेन पृथिवीं जित्वा धर्मेणैवानुपालनम्।
संग्रामे वर्तमानस्य वधश्चैवाधिकाद् भवेत्।१७ ।
तेनेयं पृथिवी सर्वा सप्तद्वीपा सपर्वता।
समोदधिपरिक्षिप्ता क्षात्रेण विधिना जिता।१८ ।
जज्ञे बाहुसहस्रं वै इच्छत स्तस्य धीमतः।
रथो ध्वजश्च संजज्ञे इत्येवमनुशुश्रुमः।१९ ।
दशयज्ञसहस्राणि राज्ञा द्वीपेषु वै तदा।
निरर्गला निवृत्तानि श्रूयन्ते तस्य धीमतः।२०।
सर्वे यज्ञा महाराज्ञस्तस्यासन् भूरिदक्षिणाः।
सर्वेकाञ्चनयूपास्ते सर्वाः काञ्चनवेदिकाः।२१।
सर्वे देवैः समं प्राप्तै र्विमानस्थैरलङ्कृताः।
गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः।२२।
तस्य यो जगौ गाथां गन्धर्वो नारदस्तथा।
कार्तवीर्य्यस्य राजर्षेर्महिमानं निरीक्ष्य सः।२३।
न नूनं कार्तवीर्य्यस्य गतिं यास्यन्ति क्षत्रियाः।
यज्ञैर्दानै स्तपोभिश्च विक्रमेण श्रुतेन च।२४।
स हि सप्तसु द्वीपेषु, खड्गी चक्री शरासनी।
रथीद्वीपान्यनुचरन् योगी पश्यति तस्करान्।२५ ।
पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः।
स सर्वरत्नसम्पूर्ण श्चक्रवर्त्ती बभूव ह।२६ ।
स एव पशुपालोऽभूत् क्षेत्रपालः स एव हि।
सएववृष्ट्यापर्जन्योयोगित्वादर्ज्जुनोऽभवत्।२७।
योऽसौ बाहु सहस्रेण ज्याघात कठिनत्वचा।
भाति रश्मिसहस्रेण शारदेनैव भास्करः।२८ ।
एष नागं मनुष्येषु माहिष्मत्यां महाद्युतिः।
कर्कोटकसुतंजित्वा पुर्य्यां तत्र न्यवेशयत्।२९ ।
एष वेगं समुद्रस्य प्रावृट्काले भजेत वै।
क्रीड़न्नेव सुखोद्भिन्नः प्रतिस्रोतो महीपतिः।३०।
ललता क्रीड़ता तेन प्रतिस्रग्दाममालिनी।
ऊर्मि भ्रुकुटिसन्त्रा सा चकिताभ्येति नर्म्मदा।३१।
एको बाहुसहस्रेण वगाहे स महार्णवः।
करोत्युह्यतवेगान्तु नर्मदां प्रावृडुह्यताम्।३२।
तस्य बाहुसहस्रेणा क्षोभ्यमाने महोदधौ।
भवन्त्यतीव निश्चेष्टाः पातालस्था महासुराः।३३।
चूर्णीकृतमहावीचि लीन मीन महातिमिम्।
मारुता विद्धफेनौघ्ज्ञ मावर्त्ताक्षिप्त दुःसहम्।३४।
करोत्यालोडयन्नेव दोःसहस्रेण सागरम्।
मन्दारक्षोभचकिता ह्यमृतोत्पादशङ्किताः।३५ ।
तदा निश्चलमूर्द्धानो भवन्ति च महोरगाः।
सायाह्ने कदलीखण्डा निर्वात स्तिमिता इव।३६ ।
एवं बध्वा धनुर्ज्यायामुत्सिक्तं पञ्चभिः शरैः।
लङ्कायां मोहयित्वा तु सबलं रावणं बलात्।३७।
निर्जित्य बध्वा चानीय माहिष्मत्यां बबन्ध च।
ततो गत्वा पुलस्त्यस्तु अर्जुनं संप्रसादयत्।३८।
मुमोच रक्षः पौलस्त्यं पुलस्त्येनेह सान्त्वितम्।
तस्य बाहुसहस्रेण बभूव ज्यातलस्वनः।३९ ।
युगान्ताभ्र सहस्रस्य आस्फोट स्वशनेरिव।
अहोबत विधे र्वीर्यं भार्गवोऽयं यदाच्छिनत्।४०।
तद्वै सहस्रं बाहूनां हेमतालवनं यथा।
यत्रापवस्तु संक्रुद्धो ह्यर्जुनं शप्तवान् प्रभुः।४१ ।
यस्माद्वनं प्रदग्धं वै विश्रुतं मम हैहय।
तस्मात्ते दुष्करं कर्म्म कृतमन्यो हरिष्यति।४२ ।
छित्वा बाहुसहस्रन्ते प्रथमन्तरसा बली।
तपस्वी ब्राह्मणश्च त्वां सवधिष्यति भार्गवः।४३।
।सूत उवाच।
तस्य रामस्तदा त्वासीन् मृत्युः शापेन धीमता।
वरश्चैवन्तु राजर्षेः स्वयमेव वृतः पुरा।। ४३.४४ ।।
तस्य पुत्रशतं त्वासीत् पञ्चपुत्र महारथाः।
कृतास्त्रा बलिनः शूरा धर्म्मात्मानो महाबलाः।४५।
शूरसेनश्च शूरश्च धृष्टः क्रोष्टुस्तथैव च।
जयध्वजश्च वैकर्ता अवन्तिश्च विशाम्पते।४६ ।
जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः।
तस्य पुत्रशतान्येव तालजङ्घा इति श्रुताः।४७।
तेषां पञ्च कुलाख्याताः हैहयानां माहत्मनाम्।
वीतिहोत्राश्च शार्याता भोजाश्च वन्तयस्तथा।४८।
कुण्डिकेराश्च विक्रान्तास्तालजङ्घा स्तथैव च।
वीतिहोत्रसुतश्चापि आनर्तो नाम वीर्य्यवान्।।
दुर्जेयस्तस्य पुत्रस्तु बभूवामित्रकर्शनः।४९ ।
सद्भावेन महाराज! प्रजा धर्मेण पालयन्।
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्।५०।
येन सागरपर्यन्ता धनुषा निर्जिता मही।
यस्तस्य कीर्तयेन्नाम कल्यमुत्थाय मानवः।५१।
न तस्य वित्तनाशः स्यान्नष्टञ्च लभते पुनः।
कार्त्तवीर्यस्य यो जन्म कथयेदिह धीमतः।।
यथावत् स्विष्टपूतात्मा स्वर्गलोके महीयते।५२।
यदुवंशवर्णने क्रोष्टुवंशवर्णनम्।
।ऋषय ऊचुः।
किमर्थं तद्वनं दग्धमापवस्य महात्मनः।
कार्तवीर्येण विक्रम्य सूत! प्रब्रूहि तत्वतः।१ ।।
रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम्।
सकथं रक्षिता भूत्वा अदहत्तत्तपोवनम्।२।
।सूत उवाच।
आदित्यो द्विजरूपेण कार्तवीर्यमुपस्थितः।
तृप्तिमेकां प्रयच्छस्व आदित्योऽहं नरेश्वर।३।
।राजोवाच।
भगवन्! केन तृप्तिस्ते भवत्येव दिवाकर।
कीद्रृशं भोजनं दद्मि श्रुत्वा तु विदधाम्यहम्।४ ।
।आदित्य उवाच।
स्थावरन्देहि मे सर्वमाहारं ददतां वर।
तेन तृप्तो भवेयं वै सा मे तृप्तिर्हि पार्थिव।५।
।कार्तवीर्य उवाच।
न शक्याः स्थावराः सर्वे तेजसा च बलेन च।
निर्दग्धुं तपतां श्रेष्ठ! तेन त्वां प्रणमाम्यहम्।६ ।।
।आदित्य उवाच।
तुष्टस्तेऽहं शरान् दद्मि अक्षयान् सर्वतो मुखान्।
ये प्रक्षिप्ता ज्वलिष्यन्ति मम तेजः समन्।७ ।
आविष्टा मम तेजोभिः शेषयिष्यन्ति स्थावरान्।
शुष्कान् भस्मीकरिष्यन्ति तेन तृप्तिर्नराधिप।८ ।
।सूत उवाच।
ततःशरांस्तदादित्य स्त्वर्जुनाय प्रयच्छत।
ततो ददाह संप्राप्तान् स्थावरान् सर्वमेव च।९ ।
ग्रामां स्तथाश्रमांश्चैव घोषाणि नगराणि च।
तथा वनानि रम्याणि वनान्युपवनानि च।१०।
एवं प्राचीं समदहत् ततः सर्वांश्च पक्षिणः।
निर्वृक्षा निस्तृणा भूमिर्हता घोरेण तेजसा।११।
एतस्मिन्नेव काले तु आपो वा जलमास्थितः।
दश वर्षसहस्राणि तत्रास्ते समहानृषिः।१२ ।
पूर्णे व्रते महातेजा उदतिष्ठं स्तपोधनः।
सोऽपश्यदाश्रमं दग्धमर्जुनेन महामुनिः।१३।
क्रोधाच्छशाप राजर्षि कीर्तितं वो यथा मया।
क्रोष्टोः श्रृणुतराजर्षे र्वंशमुत्तमपौरुषम्।१४ ।
यस्यान्ववाये सम्भूतो विष्णुर्वृष्णिकुलोद्वहः।
क्रोष्टोरेवाभवत् पुत्रो वृजिनीवान् महारथः।१५।
वृजनीवतश्च पुत्रोऽभूत् स्वाहो नाम महाबलः।
स्वाह पुत्रोऽभवद्राजन्!रुषङ्गर्वदतां वरः।१६ ।
स तु प्रसूतिमिच्छन् वैरुषङ्गुः सौम्यमात्मजम्।
चित्रश्चित्ररथश्चास्य पुत्रः कर्मभिरन्वितः।१७।
अथ चैत्ररथिर्वीरो जज्ञे विपुलदक्षिणः।
शशबिन्दुरिति ख्यातश्चक्रवर्त्ती बभूव ह।१८।
अत्रानुवंश श्लोकोऽयं गीतस्तस्मिन् पुराऽभवत्। शशबिन्दोस्तु पुत्राणां शत नामभवच्छतम्।१९।
धीमतां चाभिरूपाणां भूरि द्रविण तेजसाम्।
तोषां शतप्रधानानां पृथुसाह्वा महाबलाः।२०।
पृथुश्रवाः पृथुयशाः पृथुधर्मा पृथुञ्जयः।
पृथुकीर्त्तिः पृथुमना राजानः शशबिन्दवः।२१।
शंसन्ति च पुराणज्ञाः पृथुश्रवसमुत्तमम्।
अन्तरस्य सुयज्ञस्य सुयज्ञस्तनयोऽभवत्।२२ ।।
उशना तु सुयज्ञस्य यो रक्षन् पृथिवीमिमाम्।
आजहाराश्वमेधानां शतमुत्तमधार्मिकः।२३।
तितिक्षुरभवत् पुत्र औशनः शत्रुतापनः।
मरुत्तस्तस्य तनयो राजर्षीणामनुत्तमः।२४।
आसीन् मरुत्त तनयो वीरः कम्बलबर्हिषः।
पुत्रस्तु रुक्मकवचो विद्वान् कम्बलबर्हिषः।२५ ।
निहत्य रुक्मकवचः परान् कवचधारिणः।
धन्विनो विविधै र्बाणै रवाप्य पृथिवीमिमाम्।२६ ।
अश्वमेधे ददौ राजा ब्राह्मणेभ्यस्तु दक्षिणाम्।
यज्ञे तु रुक्मकवचः कदाचित् परवीरहा।२७ ।।
जज्ञिरे पञ्चपुत्रास्तु महावीर्या धनुर्भृतः।
रुक्मेषु पृथुरुक्मश्च ज्यामघः परिघो हरिः।२८।
परिधं च हरिं चैव विदेहेऽस्थापयत् पिता।
रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः।२९ ।
तेभ्यः प्रव्राजितो राज्यात् ज्यामघस्तु तदाश्रमे।
प्रशान्तश्चाश्रमस्थश्च ब्राह्मणेनावबोधितः।३० ।
जगाम धनुरादाय देशमन्यं ध्वजी रथी।
नर्म्मदां नृप एकाकी केवलं वृत्तिकामतः।३१ ।
ऋक्षवन्तं गिरिं गत्वा भुक्तमन्यैरुपाविशत्।
ज्यामघस्याभवद् भार्या चैत्रापरिणतासती।३२ ।।
अपुत्रो न्यवसद्राजा भार्यामन्यान्नविन्दत।
तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः।३३ ।।
भार्यामुवाच सन्त्रासात् स्नुषेयं ते शुचिस्मिते।
एव मुक्ताब्रवीदेन कस्य चेयं स्नुषेति च।३४ ।।
राजोवाच।
यस्तेजनिष्यते पुत्रस्तस्य भार्या भविष्यति।
तस्मात् सा तपसोग्रेण कन्यायाः सम्प्रसूयत।३५।।
पुत्रं विदर्भं सुभगा चैत्रा परिणता सती।
राजपुत्र्यां च विद्वान् स स्नुषायां क्रथ कैशिकौ।
लोमपादं तृतीयन्तु पुत्रं परमधार्मिकम्।३६।।
तस्यां विदर्भोऽजनयच्छूरान् रणविशारदान्।
लोमपादान्मनुः पुत्रो ज्ञातिस्तस्य तु चात्मजः।३७ ।
कैशिकस्य चिदिः पुत्रो तस्माच्चैद्या नृपाः स्मृताः। क्रथो विदर्भपुत्रस्तु कुन्ति स्तस्यात्मजोऽभवत्।३८।
कुन्ते र्धृतः सुतो जज्ञे रणधृष्टः प्रतापवान्।
धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा।३९ ।
तदेको निर्वृतेः पुत्रो नाम्ना स तु विदूरथः।
दशार्हिस्तस्य वै पुत्रो व्योमस्तस्य च वै स्मृतः।
दाशार्हाच्चैव व्योमात्तु पुत्रो जीमूत उच्यते।४०।
जीमूतपुत्रो विमलस्तस्य भीमरथः सुतः।
सुतो भीमरथस्यासीत् स्मृतो नवरथः किल।४१ ।
तस्य चासीद् दृढरथः शकुनिस्तस्य चात्मजः।
तस्मात् करम्भः कारम्भिर्देवरातो बभूव ह।४२ ।
देवक्षत्रोऽभवद्राजा दैवरातिर्महायशाः।
देवगर्भसमो जज्ञे देवनक्षत्रनन्दनः।४३।
मधुर्नाम महातेजा मधोः पुरवसस्तथा।
आसीत् पुरवसः पुत्रः पुरुद्वान् पुरुषोत्तमः।४४ ।
जन्तुर्जज्ञेऽथ वैदर्भ्यां भद्रसेन्यां पुरुद्वतः।
ऐक्ष्वाकी चाभवद् भार्या जन्तोस्तस्यामजायत।४५।
सात्वतः सत्वसंयुक्तः सात्वतां कीर्तिवर्द्धनः।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः।।
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः।४६।
सात्वतान् सत्वसम्पन्नान् कौसल्या सुषुवे सुतान्।
भजिनं भजमानन्तु दिव्यं देवावृधं नृप!।४७ ।
अन्धकञ्च महाभोजं वृष्णिं( प्रथम) च यदुनन्दनम्!
तेषां तु सर्गा श्चत्वारो विस्तरेणैव तच्छृणु।४८।
भजमानस्य सृञ्जय्यां बाह्यकायाञ्च बाह्यकाः।
सृञ्जयस्य सुते द्वे तु बाह्यकास्तु तदाभवन्।४९।
तस्य भार्ये भगिन्यौ द्वे सुषुवाते बहून् सुतान्।
निमिंश्च कृमिलं श्चैववृष्णिं ( द्वितीय)परं पुरञ्जयम्। ते बाह्यकायां सृञ्जय्यां भजमानाद् विजज्ञिरे।५०।
जज्ञे देवावृधो राजा बन्धूनां मित्रवर्द्धनः।
अपुत्रस्त्वभवद्राजा चचार परमन्तपः।
पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन्।५१।
संयोज्य मन्त्रमेवाथ पर्णाशा जलमस्पृशत्।
तदोपस्पशेनात्तस्य चकार प्रियमापगा।५२।
कल्याणत्वान्नरपते स्तस्मै सा निम्नगोत्तमा।
चिन्तयाथ परीतात्मा जगामाथ विनिश्चयम्।५३।
नाधिगच्छाम्यहं नारीं यस्यामेवं विधःसुतः।
जायेत तस्माद्दद्याहं भवाम्यथ सहस्रशः।५४।
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः।
ज्ञापयामास राजानं तामियेष महाव्रतः।५५ ।
अथ सा नवमे मासि सुषुवे सरितां वरा।
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात्।५६।
अनुवंशे पुराणज्ञा गायन्तीति परिश्रुतम्।
गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः।५७।
यथैवं श्रृणुमो दूरादपश्यामस्तथान्तिकात्।
बभ्रुः श्रेष्ठो मनुष्याणां देवै र्देवावृधः समः।५८ ।
षष्टिश्च पूर्वपुरुषाः सहस्राणि च सप्ततिः।
एतेऽमृतत्वं संप्राप्ता बभ्रो र्देवावृधान्नृप ।५९ ।
यज्वा दान पतिर्वीरो ब्रह्मण्यश्च दृढव्रतः।
रूपवान् सुमहातेजाः श्रुतवीर्य्य धरस्तथा।६०।
अथ कङ्कस्य दुहिता सुषुवे चतुरः सुतान्।
कुकुरं भजमानञ्च शशिं कम्बलबर्हिषम्।६१।
कुकुरस्य सुतो वृष्णि (तृतीय) वृष्णेस्तु तनयो धृतिः। कपोत रोमा तस्याथ तैत्तिरिस्तस्य चात्मजः।६२ ।
तस्यासीत्तनुजा पुत्रो सखा विद्वान्नलः किल।
ख्यायते तस्य नाम्ना च नन्दनोदरदुन्दुभिः।६३।
तस्मिन्प्रवितते यज्ञे अभिजातः पुनर्वसुः।
अश्वमेधं च पुत्रार्थमाजहार नरोत्तमः।६४।
तस्य मध्येति रात्रस्य सभा मध्यात् समुत्थितः।
अतस्तु विद्वान् कर्मज्ञो यज्वा दाता पुनर्वसु।६५ ।
तस्यासीत् पुत्रमिथुनं बभूवाविजितं किल।
आहुकश्चाहुकी चैव ख्यातं मतिमतां वर!।६६।
इमांश्चोदाहरन्त्यत्र श्लोकान् प्रतितमाहुकम्।
सोपासङ्गानुकर्षाणां सध्वजाना वरूथिनाम्।६७।
रथानां मेघघोषाणां सहस्राणि दशैव तु।
नासत्यवादी नातेजा नायज्वा नासहस्रदः।६८।
नाशुचिर्नाप्यविद्वान् हि यो भोजेष्वभ्यजायत।
आहुकस्य भृतिं प्राप्ता इत्येतद्वै तदुच्यते।६९।
आहुकश्चाप्यवन्तीषु स्वसारं चाहुकीं ददौ।
आहुकात् काश्यदुहिता द्वौ पुत्रौ समसूयत।७०।
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः।७१।
देवानुपदेवश्च सुदेवो देवरक्षितः।
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ।७२।
देवकी श्रुतदेवी च यशोदा च यशोधरा।
श्री देवी सत्यदेवी च सुतापी चेति सप्तमी।७३।
नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वज।
न्यग्रोधश्च सुनामा च कङ्कः शङ्कश्च भूयसः।७४।
सुतन्तू राष्ट्रपालश्च युद्धमुष्टिः सुमुष्टिदः।
तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा।७५।
सुतलन्तू राष्ट्रपाली च कङ्का चेति वराङ्गनाः।
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः।७६।
भजमानस्य पुत्रोऽथ रथिमुख्यो विदूरथः।
राजाधिदेवः शूरश्च विदूरथ सुतोऽभवत्।७७।
राजाधिदेवस्य सुतौ जज्ञाते देवसंमितौ।
नियमव्रतप्रधानौ शोणाश्वः श्वेतवाहनः।७८।
शोणाश्वस्य सुताः पञ्च शूरा रणविशारदाः।
शमीच वेदशर्मा च निकुन्तः शक्रशत्रुजित्।७९।
शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः।
प्रतिक्षेत्रः सुतो भोजो हृदीकस्तस्य चात्मजः।८०।
हृदीकस्याभवन् पुत्रा दश भीमपराक्रमाः।
कृतवर्माग्रजस्तेषां शतधन्वा च मध्यमः।८१।
देवार्हश्चैव नाभश्च भीषणश्च महाबलः।
अजातो वनजातश्च कनीयक करम्बकौ।८२।
देवार्हस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः।
असमञ्जाः सुतस्तस्य तमोजास्तस्य चात्मजः।८३।
अजातपुत्रा विक्रान्ता स्त्रयः परमकीर्त्तयः।
सुदंष्ट्रश्च सुनाभश्च कृष्ण इत्यन्धकामताः।८४।
अन्धकानामिमं वंशं यः कीर्त्तयति नित्यशः।
आत्मनो विपुलं वंशं प्रजावानाप्नुते नरः।८५ ।
मत्स्यपुराणम्/अध्यायः4
कृष्णोत्पत्तिवर्णनम्।
सूत उवाच।
ऐक्ष्वाकी सुषुवे शूरं ख्यातमद्भुत मीढुषम्।
पौरुषाज्जज्ञिरे शूरात् भोजायां पुत्रकादश।१।
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः।
देवमार्गस्ततो जज्ञे ततो देवश्रवाः पुनः।२।
अनाधृष्टिः शिनिश्चैव नन्दश्चैव ससृञ्जयः।
श्यामः शमीकः संयूपः पञ्च चास्य वराङ्गनाः।३।
श्रुतकीर्तिः पृथा चैव श्रुतदेवी श्रुतश्रवाः।
राजाधि देवी च तथा पञ्चैता वीरमातरः।४।
कृतस्य तु श्रुता देवी सुग्रहं सुषुवे सुतम्।
कैकेय्यां श्रुतकीर्त्यान्तु जज्ञे सोऽनुव्रतो नृपः।५ ।
श्रुत श्रवसि चैद्यस्य सुनीथः समपद्यत।
वार्षिको धर्म्मशारीरः स बभूवारिमर्दनः।६ ।
अथ सख्येन वृद्धेऽसौ कुन्तिभोजे सुतां ददौ।
एवं कुन्ती समाख्याता वसुदेवस्वसा पृथा।७।
वसुदेवेन सा दत्ता पाण्डोर्भार्या ह्यनिन्दिता।
पाण्डो रर्थेन सा जज्ञे देवपुत्रान् महारथान्।८।
धर्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकोदरः।
इन्द्राद्धनञ्जयश्चैव शक्रतुल्य पराक्रमः।९ ।
माद्रवत्यान्तु जनितावश्विभ्यामिति शुश्रुमः।
नकुलः सहेदवश्च रूपशीलगुणान्वितौ।१०।
रोहिणी पौरवी सा तु ख्यातमानकदुन्दुभेः।
लेभे ज्येष्ठसुंतं रामं सारणञ्च सुतं प्रियम्।। ४६.११ ।।
दुर्दमं दमनं सुभ्रु पिण्डारक महाहनू।
चित्राक्ष्यौ द्वे कुमार्य्यौ तु रोहिण्यां जज्ञिरे तदा।। ४६.१२ ।।
देवक्यां जज्ञिरे शौरेः सुषेणः कीर्तिमानपि।
उदासी बद्रसेनश्च ऋषिवासस्तथैव च।।
षष्ठो भद्र विदेहश्च कंसः सर्वानघातयत्।४६.१३ ।।
प्रथमाया अमावास्या वार्षिकी तु भविष्यति।
तस्यां जज्ञे महाबाहुः पूर्वकृष्णः प्रजापतिः।। ४६.१४ ।।
अनुजात्वभवत् कृष्णात् सुभद्रा भद्रभाषिणी।
देवक्यान्तु महातेजा जज्ञे शूरो महायशाः।। ४६.१५ ।।
सहदेवस्तु ताम्रायां जज्ञे शौरिकुलोद्वहः।
उपासङ्गधरं लेभे तनयं देवरक्षिता।।
एकां कन्याञ्च सुभगां कंसस्तामभ्यघातयत्।। ४६.१६ ।।
विजयं रोचमानञ्च वर्द्धमानन्तु देवलम्।
एते सर्वे महात्मानो ह्युपदेव्याः प्रजज्ञिरे।४६.१७ ।।
अवगाहो महात्मा च वृकदेव्यामजायत।
वृकदेव्यां स्वयं जज्ञे नन्दको नामनामतः।४६.१८।।
सप्तमं देवकी पुत्रं मदनं सुषुवे नृप।
गवेषमं महाभागं संग्रामेष्वपराजितम्।। ४६.१९।।
श्रद्धा देव्या विहारे तु वने हि विचरन् पुरा।
वैश्यायामदधात् शौरिः पुत्रं कौशिकमग्रजम्।। ४६.२० ।।
सुतनू रथराजी च शौरेरास्तां परिग्रहौ।
पुण्ङ्रश्च कपिलश्चैव वसुदेवात्मजौ बलौ।४६.२१ ।।
जरा नाम निषादोऽभूत् प्रथमः स धनुर्धरः।
सौभद्रश्च भवश्चैव महासत्वौ बभूवतुः।। ४६.२२ ।।
देवभाग सुतश्चापि नाम्नाऽसावुद्धवः स्मृतः।
पण्डितं प्रथमं प्राहु र्देवश्रवः समुद्भवम्।४६.२३ ।।
ऐक्ष्वाक्यलभतापत्य आनाधृष्टेर्यशस्विनी।
निर्धूतसत्वं शत्रुघ्नं श्राद्धस्तस्मादजायत।४६.२४।
करूषायानपत्याय कृष्णस्तुष्टः सुतन्ददौ।
सुचन्द्रन्तु महाभागं वीर्यवन्तं महाबलम्।४६.२५ ।
जाम्बवत्याः सुतावेतौ द्वौ च सत्कृतलक्षणौ।
चारुदेष्णश्च साम्बश्च वीर्यवन्तौ महाबलौ।.२६ ।।
तन्तिपालश्च तन्तिश्च नन्दनस्य सुतावुभौ।
शमीकपुत्राश्चत्वारो विक्रान्ताः सुमहाबलाः।।
विराजश्च धनुश्चैव श्याम्यश्च सृञ्जयस्तथा।। ४६.२७ ।।
अनपत्योऽभवच्छ्यामः शमीकस्तु वनं ययौ।
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान्।। ४६.२८ ।।
कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः।
श्रृणोति मानवो नित्यं सर्वपापैः प्रमुच्यते।४६.२९।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें