सोमवार, 30 अगस्त 2021

शङ्‌खचूडेन सह तुलसीसङ्‌गमवर्णनम्



देवीभागवतपुराणम् स्कन्धः (९)  अध्यायः (१९)

 देवीभागवतपुराणम्‎ | स्कन्धः (९)
शङ्‌खचूडेन सह तुलसीसङ्‌गमवर्णनम्
_________________

                  नारद उवाच
विचित्रमिदमाख्यानं भवता समुदाहृतम् ।
श्रुतेन येन मे तृप्तिर्न कदापि हि जायते ॥१॥

ततः परं तु यज्जातं तत्त्वं वद महामते ।
                 श्रीनारायण उवाच
इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः॥२॥

गान्धर्वेण विवाहेन जगृहे तां च दानवः ।
स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ॥३॥

स रेमे रामया सार्धं वासगेहे मनोरमे ।
मूर्च्छां सा प्राप तुलसी नवसङ्‌गमसङ्‌गता ॥४॥
____________

निमग्ना निर्जले साध्वी सम्भोगसुखसागरे।
चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ॥५॥

कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् ।
अङ्‌गप्रत्यङ्‌गसंश्लेषपूर्वकं स्त्रीमनोहरम् ॥६॥
__________________________
तत्सर्वं रसशृङ्‌गारं चकार रसिकेश्वरः ।
अतीव रम्यदेशे च सर्वजन्तुविवर्जिते ॥७॥

पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना ।
पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ॥८॥

गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् ।
भूषितो भूषणेनैव रत्‍नभूषणभूषिताम् ॥९॥

सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।
जहार मानसं भर्तुर्लोलया लीलया सती ॥१०॥

चेतनां रसिकायाश्च जहार रसभाववित् ।
वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा ॥११॥

स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् ।
तद्वक्षस्युरोजे च नखरेखां ददौ मुदा ॥१२॥
_____________________
सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् ।
राजा तदोष्ठपुटके ददौ रदनदंशनम् ॥१३॥
_______________________________
तद्‌गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् ।
आलिङ्‌गनं चुम्बनं च जङ्‌घादिमर्दनं तथा।१४॥
________________
एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ ।
सुरते विरते तौ च समुत्थाय परस्परम् ॥१५॥

सुवेषं चक्रतुस्तत्र यद्यन्मनसि वाञ्छितम् ।
चन्दनैः कुङ्‌कुमारक्तैः सा तस्य तिलकं ददौ ॥१६॥

सर्वाङ्‌गे सुन्दरे रम्ये चकार चानुलेपनम् ।
सुवासं चैव ताम्बूलं वह्निशुद्धे च वाससी ॥१७॥

पारिजातस्य कुसुमं जरारोगहरं परम् ।
अमूल्यरत्‍ननिर्माणमङ्‌गुलीयकमुत्तमम् ॥१८॥

सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् ।
दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ॥१९॥

ननाम परया भक्त्या स्वामिनं गुणशालिनम् ।
सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पुनः पुनः॥२०॥

निमेषरहिताभ्यां चाप्यपश्यत्कामसुन्दरम् ।
स च तां च समाकृष्य चकार वक्षसि प्रियाम् ॥२१॥

सस्मितं वाससाच्छन्नं ददर्श मुखपङ्‌कजम् ।
चुचुम्ब कठिने गण्डे बिम्बोष्ठौ पुनरेव च ॥२२॥
_________
ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् ।
तदाहृतां रत्‍नमालां त्रिषु लोकेषु दुर्लभाम् ॥२३॥

ददौ मञ्जीरयुग्मं च स्वाहाया आहृतं च यत् ।
केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ॥२४॥

अङ्‌गुलीयकरत्‍नानि रत्याश्च करभूषणम् ।
शङ्‌खं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा ॥२५॥

विचित्रपद्मकश्रेणीं शय्यां चापि सुदुर्लभाम् ।
भूषणानि च दत्त्वा स भूपो हासं चकार ह ॥२६॥

निर्ममे कबरीभारे तस्या माङ्‌गल्यभूषणम् ।
सुचित्रं पत्रकं गण्डमण्डलेऽस्याः समं तथा ॥२७॥

चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना ।
परीतं परितश्चित्रैः सार्धं कुङ्‌कुमबिन्दुभिः ॥२८॥

ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ ।
तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ॥ २९ ॥

चित्रालक्तकरागं च नखरेषु ददौ मुदा ।
स्ववक्षसि मुहुर्न्यस्य सरागं चरणाम्बुजम् ॥३०॥

हे देवि तव दासोऽहमित्युच्चार्य पुनः पुनः ।
रत्‍नभूषितहस्तेन तां च कृत्वा स्ववक्षसि ॥३१॥

तपोवनं परित्यज्य राजा स्थानान्तरं ययौ ।
मलये देवनिलये शैले शैले तपोवने ॥३२॥

स्थाने स्थानेऽतिरम्ये च पुष्पोद्याने च निर्जने ।
कन्दरे कन्दरे सिन्धुतीरे चैवातिसुन्दरे ॥३३॥

पुष्पभद्रानदीतीरे नीरवातमनोहरे ।
पुलिने पुलिने दिव्ये नद्यां नद्यां नदे नदे ॥३४॥

मधौ मधुकराणां च मधुरध्वनिनादिते ।
विस्पन्दने सुरसने नन्दने गन्धमादने ॥ ३५ ॥

देवोद्याने नन्दने च चित्रचन्दनकानने ।
चम्पकानां केतकीनां माधवीनां च माधवे ॥ ३६ ॥

कुन्दानां मालतीनां च कुमुदाम्भोजकानने ।
कल्पवृक्षे कल्पवृक्षे पारिजातवने वने ॥ ३७ ॥

निर्जने काञ्चने स्थाने धन्ये काञ्चनपर्वते ।
काञ्चीवने किञ्जलके कञ्चुके काञ्चनाकरे॥३८॥

पुष्पचन्दनतल्पेषु पुंस्कोकिलरुतश्रुते ।
पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना ॥ ३९ ॥

कामुक्या कामुकः कामात्स रेमे रामया सह ।
न हि तृप्तो दानवेन्द्रस्तृप्तिं नैव जगाम सा ॥४०॥

हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः ।
तया सह समागत्य स्वाश्रमं दानवस्ततः ॥ ४१ ॥

रम्यं क्रीडालयं गत्वा विजहार पुनः पुनः ।
एवं स बुभुजे राज्यं शङ्‌खचूडः प्रतापवान् ॥४२॥

एकमन्वन्तरं पूर्णं राजराजेश्वरो महान् ।
देवानामसुराणां च दानवानां च सन्ततम् ॥ ४३ ॥

गन्धर्वाणां किन्नराणां राक्षसानां च शान्तिदः ।
हृताधिकारा देवाश्च चरन्ति भिक्षुका यथा ॥ ४४ ॥

ते सर्वेऽतिविषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् ।
वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः ॥ ४५ ॥

तदा ब्रह्मा सुरैः सार्धं जगाम शङ्‌करालयम् ।
सर्वेशं कथयामास विधाता चन्द्रशेखरम् ॥ ४६ ॥

ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगाम ह ।
दुर्लभं परमं धाम जरामृत्युहरं परम् ॥ ४७॥

सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो ।
ददर्श द्वारपालांश्च रत्‍नसिंहासनस्थितान् ॥४८॥

शोभितान्पीतवस्त्रैश्च रत्‍नभूषणभूषितान् ।
वनमालान्वितान्सर्वान् श्यामसुन्दरविग्रहान् ॥४९॥

शङ्‌खचक्रगदापद्मधरांश्चैव चतुर्भुजान् ।
सस्मितान्स्मेरवक्त्रास्यान्पद्मनेत्रान्मनोहरान् ॥५०॥

ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् ।
तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ॥५१॥

एवं षोडश द्वाराणि निरीक्ष्य कमलोद्‍भवः ।
देवैः सार्धं तानतीत्य प्रविवेश हरेः सभाम् ॥ ५२ ॥

देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः ।
नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः ॥ ५३ ॥

नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् ।
मणीन्द्रहारनिर्माणां हीरासारसुशोभिताम् ॥ ५४ ॥

अमूल्यरत्‍नखचितां रचितां स्वेच्छया हरेः ।
माणिक्यमालाजालाभां मुक्तापङ्‌क्तिविभूषिताम्।५५॥

मण्डितां मण्डलाकारै रत्‍नदर्पणकोटिभिः ।
विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम् ॥ ५६ ॥

पद्मरागेन्द्ररचितां रुचिरां मणिपङ्‌कजैः ।
सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः ॥ ५७ ॥

पट्टसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ।
इन्द्रनीलस्तम्भवर्यैर्वेष्टितां सुमनोहराम् ॥ ५८ ॥

सद्‌रत्‍नपूर्णकुम्भानां समूहैश्च समन्विताम् ।
पारिजातप्रसूनानां मालाजालैर्विराजिताम् ॥ ५९ ॥

कस्तूरीकुङ्‌कुमारक्तैः सुगन्धिचन्दनद्रुमैः ।
सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना ॥ ६० ॥

विद्याधरीसमूहानां नृत्यजालैर्विराजिताम् ।
सहस्रयोजनायामां परिपूर्णां च किङ्‌करैः ॥ ६१ ॥

ददर्श श्रीहरिं ब्रह्मा शङ्‌करश्च सुरैः सह ।
वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम् ॥ ६२ ॥

अमूल्यरत्‍ननिर्माणचित्रसिंहासने स्थितम् ।
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥ ६३ ॥

चन्दनोक्षितसर्वाङ्‌गं बिभ्रतं केलिपङ्‌कजम् ।
पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा ॥ ६४ ॥

शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् ।
लक्ष्म्या प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥६५॥

गङ्‌गया परया भक्त्या सेवितं श्वेतचामरैः ।
सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः ॥ ६६ ॥

एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं प्रभुम् ।
ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा ॥ ६७ ॥

पुलकाञ्चितसर्वाङ्‌गाः साश्रुनेत्राश्च गद्‌गदाः ।
भक्ताश्च परया भक्त्या भीता नम्रात्मकन्धराः॥६८॥

कृताञ्जलिपुटो भूत्वा विधाता जगतामपि ।
वृत्तान्तं कथयामास विनयेन हरेः पुरः ॥ ६९ ॥

हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् ।
प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ॥ ७० ॥

                  श्रीभगवानुवाच
शङ्‌खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज ।
मद्‍भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥७१॥

शृणु तत्सर्ववृत्तान्तमितिहासं पुरातनम् ।
गोलोकस्यैव चरितं पापघ्नं पुण्यकारकम् ॥ ७२ ॥
________________________
सुदामा नाम गोपश्च पार्षदप्रवरो मम ।
स प्राप दानवीं योनिं राधाशापात्सुदारुणात् ॥७३॥

तत्रैकदाहमगमं स्वालयाद्‌रासमण्डलम् ।
विरजामपि नीत्वा च मम प्राणाधिका परा ॥ ७४ ॥

सा मां विरजया सार्धं विज्ञाय किङ्‌करीमुखात् ।
पश्चात्क्रुद्धा साजगाम न ददर्श च तत्र माम् ॥७५॥

विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् ।
पुनर्जगाम सा दृष्ट्वा स्वालयं सखिभिः सह ॥७६॥

मां दृष्ट्वा मन्दिरे देवी सुदाम्ना सहितं पुरा ।
भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम् ॥७७॥

तच्छ्रुत्वासहमानश्च सुदामा तां चुकोप ह ।
स च तां भर्त्सयामास कोपेन मम सनिधौ ॥७८॥

तच्छ्रुत्वा कोपयुक्ता सा रक्तपङ्‌कजलोचना ।
बहिष्कर्तुं चकाराज्ञां संत्रस्तं मम संसदि ॥ ७९॥

सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोल्बणम् ।
बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः ॥८०॥

सा च तत्ताडनं तासां श्रुत्वा रुष्टा शशाप ह ।
याहि रे दानवीं योनिमित्येवं दारुणं वचः ॥८१॥

तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च ।
वारयामास तुष्टा सा रुदती कृपया पुनः ॥८२॥

हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः।
समुच्चार्य च तत्पश्चाज्जगाम सा च विक्लवम्॥ ८३॥

गोप्यश्च रुरुदुः सर्वा गोपाश्चापि सुदुःखिताः ।
ते सर्वे राधिका चापि तत्पश्चाद्‌ बोधिता मया ॥ ८४ ॥

आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् ।
सुदामंस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता ॥ ८५ ॥

गोलोकस्य क्षणार्धेन चैकं मन्वन्तरं भवेत् ।
पृथिव्यां जगतां धातरित्येव वचनं ध्रुवम् ॥ ८६ ॥
____________________________
इत्येवं शङ्‌खचूडश्च पुनस्तत्रैव यास्यति ।
महाबलिष्ठो योगेशः सर्वमायाविशारदः ॥ ८७ ॥

मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् ।
शिवः करोतु संहारं मम शूलेन रक्षसः ॥ ८८ ॥

ममैव कवचं कण्ठे सर्वमङ्‌गलकारकम् ।
बिभर्ति दानवः शश्वत्संसारे विजयी ततः ॥ ८९ ॥

तस्मिन् ब्रह्मन् स्थिते चैव न कोऽपि हिंसितुं क्षमः ।
तद्याचनां करिष्यामि विप्ररूपोऽहमेव च ॥ ९० ॥
______________________
सतीत्वहानिस्तत्पत्‍न्या यत्र काले भविष्यति ।
तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया॥९१॥

तत्पत्‍न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् ।
तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः॥९२॥
____________
पश्चात्सा देहमुत्सज्य भविष्यति मम प्रिया ।
इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च ॥ ९३ ॥

शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरे मुदा ।
भारतं च ययुर्देवा ब्रह्यरुद्रपुरोगमाः ॥ ९४ ॥
_________________
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्‌खचूडेन सह तुलसीसङ्‌गमवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें