सोमवार, 30 अगस्त 2021

प्रकृतिचरित्रवर्णनम्

देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ०१

प्रकृतिचरित्रवर्णनम्

श्रीनारायण उवाच
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।
सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ १ ॥
नारद उवाच
आविर्बभूव सा केन का वा सा ज्ञानिनांवर ।
किं वा तल्लक्षणं साधो बभूव पञ्चधा कथम् ॥ २ ॥
सर्वासां चरितं पूजाविधानं गुण ईप्सितः ।
अवतारः कुत्र कस्यास्तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
श्रीनारायण उवाच
प्रकृतेर्लक्षणं वत्स को वा वक्तुं क्षमो भवेत् ।
किञ्चित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः ॥ ४ ॥
प्रकृष्टवाचकः प्रश्न कृतिश्च सृष्टिवाचकः ।
सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता ॥ ५ ॥
गुणे सत्त्वे प्रकृष्टे च प्रशब्दो वर्तते श्रुतः ।
मध्यमे रजसि कृश्च तिशब्दस्तमसि स्मृतः ॥ ६ ॥
त्रिगुणात्मस्वरूपा या सा च शक्तिसमन्विता ।
प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते ॥ ७ ॥
प्रथमे वर्तते प्रश्न कृतिश्च सृष्टिवाचकः ।
सृष्टेरादौ च या देवी प्रकृतिः सा प्रकीर्तिता ॥ ८ ॥
योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः ।
पुमांश्च दक्षिणार्धाङ्‌गो वामार्धा प्रकृतिः स्मृता ॥ ९ ॥
सा च ब्रह्मस्वरूपा च नित्या सा च सनातनी ।
यथाऽऽत्मा च तथा शक्तिर्यथाग्नौ दाहिका स्थिता ॥ १० ॥
अत एव हि योगीन्द्रैः स्त्रीपुम्भेदो न मन्यते ।
सर्वं ब्रह्ममयं ब्रह्मञ्छश्वत्सदपि नारद ॥ ११ ॥
स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया ।
साऽऽविर्बभूव सहसा मूलप्रकृतिरीश्वरी ॥ १२ ॥
तदाज्ञया पञ्चविधा सृष्टिकर्मविभेदिका ।
अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा ॥ १३ ॥
गणेशमाता दुर्गा या शिवरूपा शिवप्रिया ।
नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी ॥ १४ ॥
ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता स्तुता ।
सर्वाधिष्ठातृदेवी सा शर्वरूपा सनातनी ॥ १५ ॥
धर्मसत्यपुण्यकीर्तिर्यशोमङ्‌गलदायिनी ।
सुखमोक्षहर्षदात्री शोकार्तिदुःखनाशिनी ॥ १६ ॥
शरणागतदीनार्तपरित्राणपरायणा ।
तेजःस्वरूपा परमा तदधिष्ठातृदेवता ॥ १७ ॥
सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम् ।
सिद्धेश्वरी सिद्धिरूपा सिद्धिदा सिद्धिरीश्वरी ॥ १८ ॥
बुद्धिर्निद्रा क्षुत्पिपासा छाया तन्द्रा दया स्मृतिः ।
जातिः क्षान्तिश्च भ्रान्तिश्च शान्तिः कान्तिश्च चेतना ॥ १९ ॥
तुष्टिः पुष्टिस्तथा लक्ष्मीर्धृतिर्माया तथैव च ।
सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः ॥ २० ॥
उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् ।
गुणोऽस्त्यनन्तोऽनन्ताया अपरां च निशामय ॥ २१ ॥
शुद्धसत्त्वस्वरूपा या पद्मा सा परमात्मनः ।
सर्वसम्पत्स्वरूपा सा तदधिष्ठातृदेवता ॥ २२ ॥
कान्तातिदान्ता शान्ता च सुशीला सर्वमङ्‌गला ।
लोभमोहकामरोषमदाहङ्‌कारवर्जिता ॥ २३ ॥
भक्तानुरक्ता पत्युश्च सर्वाभ्यश्च पतिव्रता ।
प्राणतुल्या भगवतः प्रेमपात्रं प्रियंवदा ॥ २४ ॥
सर्वसस्यात्मिका देवी जीवनोपायरूपिणी ।
महालक्ष्मीश्च वैकुण्ठे पतिसेवारता सती ॥ २५ ॥
स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।
गृहेषु गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा ॥ २६ ॥
सर्वप्राणिषु द्रव्येषु शोभारूपा मनोहरा ।
कीर्तिरूपा पुण्यवतां प्रभारूपा नृपेषु च ॥ २७ ॥
वाणिज्यरूपा वणिजां पापिनां कलहाङ्‌कुरा ।
दयारूपा च कथिता वेदोक्ता सर्वसम्मता ॥ २८ ॥
सर्वपूज्या सर्ववन्द्या चान्यां मत्तो निशामय ।
वाग्बुद्धिविद्याज्ञानाधिष्ठात्री च परमात्मनः ॥ २९ ॥
सर्वविद्यास्वरूपा या सा च देवी सरस्वती ।
सा बुद्धिः कविता मेधा प्रतिभा स्मृतिदा नृणाम् ॥ ३० ॥
नानाप्रकारसिद्धान्तभेदार्थकलना मता ।
व्याख्याबोधस्वरूपा च सर्वसन्देहभञ्जिनी ॥ ३१ ॥
विचारकारिणी ग्रन्थकारिणी शक्तिरूपिणी ।
स्वरसङ्‌गीतसन्धानतालकारणरूपिणी ॥ ३२ ॥
विषयज्ञानवाग्‍रूपा प्रतिविश्वोपजीविनी ।
व्याख्यावादकरी शान्ता वीणापुस्तकधारिणी ॥ ३३ ॥
शुद्धसत्त्वस्वरूपा च सुशीला श्रीहरिप्रिया ।
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा ॥ ३४ ॥
यजन्ती परमात्मानं श्रीकृष्णं रत्‍नमालया ।
तपःस्वरूपा तपसां फलदात्री तपस्विनाम् ॥ ३५ ॥
सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा ।
यया विना तु विप्रौघो मूको मृतसमः सदा ॥ ३६ ॥
देवी तृतीया गदिता श्रुत्युक्ता जगदम्बिका ।
यथागमं यथाकिञ्चिदपरां त्वं निबोध मे ॥ ३७ ॥
माता चतुर्णां वर्णानां वेदाङ्‌गानां च छन्दसाम् ।
सन्ध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा ॥ ३८ ॥
द्विजातिजातिरूपा च जपरूपा तपस्विनी ।
ब्रह्मण्यतेजोरूपा च सर्वसंस्काररूपिणी ॥ ३९ ॥
पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया ।
तीर्थानि यस्याः संस्पर्शं वाञ्छन्ति ह्यात्मशुद्धये ॥ ४० ॥
शुद्धस्फटिकसंकाशा शुद्धसत्त्वस्वरूपिणी ।
परमानन्दरूपा च परमा च सनातनी ॥ ४१ ॥
परब्रह्मस्वरूपा च निर्वाणपददायिनी ।
ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता ॥ ४२ ॥
यत्पादरजसा पूतं जगत्सर्वं च नारद ।
देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते ॥ ४३ ॥
पञ्चप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी ।
प्राणाधिकप्रियतमा सर्वाभ्यः सुन्दरी परा ॥ ४४ ॥
सर्वयुक्ता च सौभाग्यमानिनी गौरवान्विता ।
वामाङ्‌गार्धस्वरूपा च गुणेन तेजसा समा ॥ ४५ ॥
परावरा सारभूता परमाद्या सनातनी ।
परमानन्दरूपा च धन्या मान्या च पूजिता ॥ ४६ ॥
रासक्रीडाधिदेवी श्रीकृष्णस्य परमात्मनः ।
रासमण्डलसम्भूता रासमण्डलमण्डिता ॥ ४७ ॥
रासेश्वरी सुरसिका रासावासनिवासिनी ।
गोलोकवासिनी देवी गोपीवेषविधायिका ॥ ४८ ॥
परमाह्लादरूपा च सन्तोषहर्षरूपिणी ।
निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी ॥ ४९ ॥
निरीहा निरहङ्‌कारा भक्तानुग्रहविग्रहा ।
वेदानुसारिध्यानेन विज्ञाता मा विचक्षणैः ॥ ५० ॥
दृष्टिदृष्टा न सा चेशैः सुरेन्द्रैर्मुनिपुङ्‌गवैः ।
वह्निशुद्धांशुकधरा नानालङ्‌कारभूषिता ॥ ५१ ॥
कोटिचन्द्रप्रभा पुष्टसर्वश्रीयुक्तविग्रहा ।
श्रीकृष्णभक्तिदास्यैककरा च सर्वसम्पदाम् ॥ ५२ ॥
अवतारे च वाराहे वृषभानुसुता च या ।
यत्पादपद्मसंस्पर्शात्पवित्रा च वसुन्धरा ॥ ५३ ॥
ब्रह्मादिभिरदृष्टा या सर्वैर्दृष्टा च भारते ।
स्त्रीरत्‍नसारसम्भूता कृष्णवक्षःस्थले स्थिता ॥ ५४ ॥
यथाम्बरे नवघने लोला सौदामनी मुने ।
षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ॥ ५५ ॥
यत्पादपद्मनखरदृष्टये चात्मशुद्धये ।
न च दृष्टं च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा ॥ ५६ ॥
तेनैव तपसा दृष्टा भुवि वृन्दावने वने ।
कथिता पञ्चमी देवी सा राधा च प्रकीर्तिता ॥ ५७ ॥
अंशरूपाः कलारूपाः कलांशांशांशसम्भवाः ।
प्रकृतेः प्रतिविश्वेषु देव्यश्च सर्वयोषितः ॥ ५८ ॥
परिपूर्णतमाः पञ्च विद्यादेव्यः प्रकीर्तिताः ।
या याः प्रधानांशरूपा वर्णयामि निशामय ॥ ५९ ॥
प्रधानांशस्वरूपा सा गङ्‌गा भुवनपावनी ।
विष्णुविग्रहसम्भूता द्रवरूपा सनातनी ॥ ६० ॥
पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ।
सुखस्पर्शा स्नानपानैर्निर्वाणपददायिनी ॥ ६१ ॥
गोलोकस्थानप्रस्थानसुखसोपानरूपिणी ।
पवित्ररूपा तीर्थानां सरितां च परावरा ॥ ६२ ॥
शम्भुमौलिजटामेरुमुक्तापंक्तिस्वरूपिणी ।
तपःसम्पादिनी सद्यो भारतेषु तपस्विनाम् ॥ ६३ ॥
चन्द्रपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी ।
निर्मला निरहङ्‌कारा साध्वी नारायणप्रिया ॥ ६४ ॥
प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी ।
विष्णुभूषणरूपा च विष्णुपादस्थिता सती ॥ ६५ ॥
तपःसंकल्पपूजादिसङ्‌घसम्पादिनी मुने ।
सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा ॥ ६६ ॥
दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी ।
कलौ कलुषशुष्केध्मदहनायाग्निरूपिणी ॥ ६७ ॥
यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा ।
यत्स्पर्शदर्शने चैवेच्छन्ति तीर्थानि शुद्धये ॥ ६८ ॥
यया विना च विश्वेषु सर्वकर्म च निष्फलम् ।
मोक्षदा या मुमुक्षूणां कामिनी सर्वकामदा ॥ ६९ ॥
कल्पवृक्षस्वरूपा या भारते वृक्षरूपिणी ।
भारतीनां प्रीणनाय जाता या परदेवता ॥ ७० ॥
प्रधानांशस्वरूपा या मनसा कश्यपात्मजा ।
शङ्‌करप्रियशिष्या च महाज्ञानविशारदा ॥ ७१ ॥
नागेश्वरस्यानन्तस्य भगिनी नागपूजिता ।
नागेश्वरी नागमाता सुन्दरी नागवाहिनी ॥ ७२ ॥
नागेन्द्रगणसंयुक्ता नागभूषणभूषिता ।
नागेन्द्रवन्दिता सिद्धा योगिनी नगशायिनी ॥ ७३ ॥
विष्णुरूपा विष्णुभक्ता विष्णुपूजापरायणा ।
तपःस्वरूपा तपसां फलदात्री तपस्विनी ॥ ७४ ॥
दिव्यं त्रिलक्षवर्षं च तपस्तप्त्वा च या हरेः ।
तपस्विनीषु पूज्या च तपस्विषु च भारते ॥ ७५ ॥
सर्वमन्त्राधिदेवी च ज्वलन्ती ब्रह्मतेजसा ।
ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा ॥ ७६ ॥
जरत्कारुमुनेः पत्‍नी कृष्णांशस्य पतिव्रता ।
आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम् ॥ ७७ ॥
प्रधानांशस्वरूपा या देवसेना च नारद ।
मातृकासु पूज्यतमा सा षष्ठी च प्रकीर्तिता ॥ ७८ ॥
पुत्रपौत्रादिदात्री च धात्री त्रिजगतां सती ।
षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता ॥ ७९ ॥
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी ।
पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम् ॥ ८० ॥
पूजा च सूतिकागारे पुरा षष्ठदिने शिशोः ।
एकविंशतिमे चैव पूजा कल्याणहेतुकी ॥ ८१ ॥
मुनिभिर्नमिता चैषा नित्यकामाप्यतः परा ।
मातृका च दयारूपा शश्वद्‌रक्षणकारिणी ॥ ८२ ॥
जले स्थले चान्तरिक्षे शिशूनां सद्मगोचरे ।
प्रधानांशस्वरूपा च देवीमङ्‌गलचण्डिका ॥ ८३ ॥
प्रकृतेर्मुखसम्भूता सर्वमङ्‌गलदा सदा ।
सृष्टौ मङ्‌गलरूपा च संहारे कोपरूपिणी ॥ ८४ ॥
तेन मङ्‌गलचण्डी सा पण्डितैः परिकीर्तिता ।
प्रतिमङ्‌गलवारेषु प्रतिविश्वेषु पूजिता ॥ ८५ ॥
पुत्रपौत्रधनैश्वर्ययशोमङ्‌गलदायिनी ।
परितुष्टा सर्ववाञ्छाप्रदात्री सर्वयोषिताम् ॥ ८६ ॥
रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी ।
प्रधानांशस्वरूपा सा काली कमललोचना ॥ ८७ ॥
दुर्गाललाटसम्भूता रणे शुम्भनिशुम्भयोः ।
दुर्गार्धांशस्वरूपा सा गुणेन तेजसा समा ॥ ८८ ॥
कोटिसूर्यसमाजुष्टपुष्टजाज्वलविग्रहा ।
प्रधाना सर्वशक्तीनां बला बलवती परा ॥ ८९ ॥
सर्वसिद्धिप्रदा देवी परमा योगरूपिणी ।
कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः ॥ ९० ॥
कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी ।
संहर्तुं सर्वब्रह्माण्डं शक्ता निःश्वासमात्रतः ॥ ९१ ॥
रणं दैत्यैः समं तस्याः क्रीडया लोकशिक्षया ।
धर्मार्थकाममोक्षांश्च दातुं शक्ता च पूजिता ॥ ९२ ॥
ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः ।
प्रधानांशस्वरूपा सा प्रकृतेश्च वसुन्धरा ॥ ९३ ॥
आधाररूपा सर्वेषां सर्वसस्या प्रकीर्तिता ।
रत्‍नाकरा रत्‍नगर्भा सर्वरत्‍नाकराश्रया ॥ ९४ ॥
प्रजाभिश्च प्रजेशैश्च पूजिता वन्दिता सदा ।
सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी ॥ ९५ ॥
यया विना जगत्सर्वं निराधारं चराचरम् ।
प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर ॥ ९६ ॥
यस्य यस्य च या पत्‍नी तत्सर्वं वर्णयामि ते ।
स्वाहादेवी वह्निपत्‍नी प्रतिविश्वेषु पूजिता ॥ ९७ ॥
यया विना हविर्दानं न ग्रहीतुं सुराः क्षमाः ।
दक्षिणा यज्ञपत्‍नी च दीक्षा सर्वत्र पूजिता ॥ ९८ ॥
यया विना हि विश्वेषु सर्वकर्म हि निष्फलम् ।
स्वधा पितॄणां पत्‍नी च मुनिभिर्मनुभिर्नरैः ॥ ९९ ॥
पूजिता पितृदानं हि निष्कलं च यया विना ।
स्वस्तिदेवी वायुपत्‍नी प्रतिविश्वेषु पूजिता ॥ १०० ॥
आदानं च प्रदानं च निष्फलं च यया विना ।
पुष्टिर्गणपतेः पत्‍नी पूजिता जगतीतले ॥ १०१ ॥
यया विना परिक्षीणाः पुमांसो योषितोऽपि च ।
अनन्तपत्‍नी तुष्टिश्च पूजिता वन्दिता भवेत् ॥ १०२ ॥
यया विना न सन्तुष्टाः सर्वलोकाश्च सर्वतः ।
ईशानपत्‍नी सम्पत्तिः पूजिता च सुरैर्नरैः ॥ १०३ ॥
सर्वे लोका दरिद्राश्च विश्वेषु च यया विना ।
धृतिः कपिलपत्‍नी च सर्वैः सर्वत्र पूजिता ॥ १०४ ॥
सर्वे लोका अधैर्याश्च जगत्सु च यया विना ।
सत्यपत्‍नी सती मुक्तैः पूजिता च जगत्प्रिया ॥ १०५ ॥
यया विना भवेल्लोको बन्धुतारहितः सदा ।
मोहपत्‍नी दया साध्वी पूजिता च जगत्प्रिया ॥ १०६ ॥
सर्वे लोकाश्च सर्वत्र निष्फलाश्च यया विना ।
पुण्यपत्‍नी प्रतिष्ठा सा पूजिता पुण्यदा सदा ॥ १०७ ॥
यया विना जगत्सर्वं जीवन्मृतसमं मुने ।
सुकर्मपत्‍नी संसिद्धा कीर्तिर्धन्यैश्च पूजिता ॥ १०८ ॥
यया विना जगत्सर्वं यशोहीनं मृतं यथा ।
क्रिया तूद्योगपत्‍नी च पूजिता सर्वसम्मता ॥ १०९ ॥
यया विना जगत्सर्वं विधिहीनं च नारद ।
अधर्मपत्‍नी मिथ्या सा सर्वधूर्तैश्च पूजिता ॥ ११० ॥
यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम् ।
सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी ॥ १११ ॥
अर्धावयवरूपा च द्वापरे चैव संवृता ।
कलौ महाप्रगल्भा च सर्वत्र व्यापिका बलात् ॥ ११२ ॥
कपटेन समं भ्रात्रा भ्रमते च गृहे गृहे ।
शान्तिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते ॥ ११३ ॥
याभ्यां विना जगत्सर्वमुन्मत्तमिव नारद ।
ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधाधृतिस्तथा ॥ ११४ ॥
याभिर्विना जगत्सर्वं मूढं मत्तसमं सदा ।
मूर्तिश्च धर्मपत्‍नी सा कान्तिरूपा मनोहरा ॥ ११५ ॥
परमात्मा च विश्वौघो निराधारो यया विना ।
सर्वत्र शोभारूपा च लक्ष्मीर्मूर्तिमती सती ॥ ११६ ॥
श्रीरूपा मूर्तिरूपा च मान्या धन्यातिपूजिता ।
कालाग्नी रुद्रपत्‍नी च निद्रा सा सिद्धयोगिनी ॥ ११७ ॥
सर्वे लोकाः समाच्छन्ना यया योगेन रात्रिषु ।
कालस्य तिस्रो भार्याश्च संध्या रात्रिर्दिनानि च ॥ ११८ ॥
याभिर्विना विधाता च संख्यां कर्तुं न शक्यते ।
क्षुत्पिपासे लोभभार्ये धन्ये मान्ये च पूजिते ॥ ११९ ॥
याभ्यां व्याप्तं जगत्सर्वं नित्यं चिन्तातुरं भवेत् ।
प्रभा च दाहिका चैव द्वे भार्ये तेजसस्तथा ॥ १२० ॥
याभ्यां विना जगत्स्रष्टा विधातुं च न हीश्वरः ।
कालकन्ये मृत्युजरे प्रज्वारस्य प्रियाप्रिये ॥ १२१ ॥
याभ्यां जगत्समुच्छिन्नं विधात्रा निर्मितं विधौ ।
निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये ॥ १२२ ॥
याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ ।
वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते ॥ १२३ ॥
याभ्यां शश्वज्जगत्सर्वं यज्जीवन्मुक्तिमन्मुने ।
अदितिर्देवमाता च सुरभी च गवां प्रसूः ॥ १२४ ॥
दितिश्च दैत्यजननी कद्रूश्च विनता दनुः ।
उपयुक्ताः सृष्टिविधावेतास्तु कीर्तिताः कलाः ॥ १२५ ॥
कला अन्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे ।
रोहिणी चन्द्रपत्‍नी च संज्ञा सूर्यस्य कामिनी ॥ १२६ ॥
शतरूपा मनोर्भार्या शचीन्द्रस्य च गेहिनी ।
तारा बृहस्पतेर्भार्या वसिष्ठस्याप्यरुन्धती ॥ १२७ ॥
अहल्या गौतमस्त्री साप्यनसूयात्रिकामिनी ।
देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी ॥ १२८ ॥
पितॄणां मानसी कन्या मेनका साम्बिकाप्रसूः ।
लोपामुद्रा तथा कुन्ती कुबेरकामिनी तथा ॥ १२९ ॥
वरुणानी प्रसिद्धा च बलेर्विन्ध्यावलिस्तथा ।
कान्ता च दमयन्ती च यशोदा देवकी तथा ॥ १३० ॥
गान्धारी द्रौपदी शैव्या सा च सत्यवती प्रिया ।
वृषभानुप्रिया साध्वी राधामाता कुलोद्वहा ॥ १३१ ॥
मन्दोदरी च कौसल्या सुभद्रा कौरवी तथा ।
रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा ॥ १३२ ॥
जाम्बवती नाग्नजितिर्मित्रविन्दा तथापरा ।
लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता ॥ १३३ ॥
काली योजनगन्धा च व्यासमाता महासती ।
बाणपुत्री तथोषा च चित्रलेखा च तत्सखी ॥ १३४ ॥
प्रभावती भानुमती तथा मायावती सती ।
रेणुका च भृगोर्माता राममाता च रोहिणी ॥ १३५ ॥
एकनन्दा च दुर्गा सा श्रीकृष्णभगिनी सती ।
बह्व्यः सत्यः कलाश्चैव प्रकृतेरेव भारते ॥ १३६ ॥
या याश्च ग्रामदेव्यः स्युस्ताः सर्वाः प्रकृतेः कलाः ।
कलांशांशसमुद्‌भूताः प्रतिविश्वेषु योषितः ॥ १३७ ॥
योषितामवमानेन प्रकृतेश्च पराभवः ।
ब्राह्मणी पूजिता येन पतिपुत्रवती सती ॥ १३८ ॥
प्रकृतिः पूजिता तेन वस्त्रालङ्‌कारचन्दनैः ।
कुमारी चाष्टवर्षीया वस्त्रालङ्‌कारचन्दनैः ॥ १३९ ॥
पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता ।
सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः ॥ १४० ॥
सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः ।
मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्तिताः ॥ १४१ ॥
सुखसम्भोगवश्याश्च स्वकार्ये तत्पराः सदा ।
अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः ॥ १४२ ॥
दुर्मुखाः कुलहा धूर्ताः स्वतन्त्राः कलहप्रियाः ।
पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः ॥ १४३ ॥
प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्तिताः ।
एवं निगदितं सर्वं प्रकृते रूपवर्णनम् ॥ १४४ ॥
ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे च भारते ।
पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी ॥ १४५ ॥
ततः श्रीरामचन्द्रेण रावणस्य वधार्थिना ।
तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता ॥ १४६ ॥
जाताऽऽदौ दक्षकन्या या निहत्य दैत्यदानवान् ।
ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया ॥ १४७ ॥
जज्ञे हिमवतः पत्‍न्यां लेभे पशुपतिं पतिम् ।
गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्‍भवः ॥ १४८ ॥
बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद ।
लक्ष्मीर्मङ्‌गलभूपेन प्रथमं परिपूजिता ॥ १४९ ॥
त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः ।
सावित्री चाश्वपतिना प्रथमं परिपूजिता ॥ १५० ॥
तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्‌गवैः ।
आदौ सरस्वती देवी ब्रह्मणा परिपूजिता ॥ १५१ ॥
तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्‌गवैः ।
प्रथमं पूजिता राधा गोलोके रासमण्डले ॥ १५२ ॥
पौर्णमास्यां कार्तिकस्य कृष्णेन परमात्मना ।
गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः ॥ १५३ ॥
गवां गणैः सुरभ्या च तत्पश्चादाज्ञया हरेः ।
तदा ब्रह्मादिभिर्देवैर्मुनिभिः परया मुदा ॥ १५४ ॥
पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा ।
पृथिव्यां प्रथमं देवी सुयज्ञेनैव पूजिता ॥ १५५ ॥
शङ्‌करेणोपदिष्टेन पुण्यक्षेत्रे च भारते ।
त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः ॥ १५६ ॥
पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सदा ।
कला या याः समुद्‌भूता पूजितास्ताश्च भारते ॥ १५७ ॥
पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने ।
एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम् ॥ १५८ ॥
यथागमं लक्षणं च किं भूयः श्रोतुमिच्छसि ॥ १५९ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे प्रकृतिचरित्रवर्णनं नाम प्रथमोध्यायः ॥ १ ॥


देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ०२

पञ्चप्रकृतितद्‍भर्तृगणोत्पत्तिवर्णनम्

नारद उवाच
समासेन श्रुतं सर्वं देवीनां चरितं प्रभो ।
विबोधनाय बोधस्य व्यासेन वक्तुमर्हसि ॥ १ ॥
सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह ।
कथं वा पञ्चधा भूता वद वेदविदांवर ॥ २ ॥
भूता ययांशकलया तया त्रिगुणया भवे ।
व्यासेन तासां चरितं श्रोतुमिच्छामि साम्प्रतम् ॥ ३ ॥
तासां जन्मानुकथनं पूजाध्यानविधिं बुध ।
स्तोत्रं कवचमैश्वर्यं शौर्यं वर्णय मङ्‌गलम् ॥ ४ ॥
श्रीनारायण उवाच
नित्य आत्मा नभो नित्यं कालो नित्यो दिशो यथा ।
विश्वानां गोलकं नित्यं नित्यो गोलोक एव च ॥ ५ ॥
तदेकदेशो वैकुण्ठो नम्रभागानुसारकः ।
तथैव प्रकृतिर्नित्या ब्रह्मलीला सनातनी ॥ ६ ॥
यथाग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ ।
शश्वद्युक्ता न भिन्ना सा तथा प्रकृतिरात्मनि ॥ ७ ॥
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः ।
विना मृदा घटं कर्तुं कुलालो हि नहीश्वरः ॥ ८ ॥
न हि क्षमस्तथात्मा च सृष्टिं स्रष्टुं तया विना ।
सर्वशक्तिस्वरूपा सा यया च शक्तिमान्सदा ॥ ९ ॥
ऐश्वर्यवचनः शश्च क्तिः पराक्रम एव च ।
तत्स्वरूपा तयोर्दात्री सा शक्तिः परिकीर्तिता ॥ १० ॥
ज्ञानं समृद्धिः सम्पत्तिर्यशश्चैव बलं भगः ।
तेन शक्तिर्भगवती भगरूपा च सा सदा ॥ ११ ॥
तया युक्तः सदात्मा च भगवांस्तेन कथ्यते ।
स च स्वेच्छामयो देवः साकारश्च निराकृतिः ॥ १२ ॥
तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा ।
वदन्ति च परं ब्रह्म परमानन्दमीश्वरम् ॥ १३ ॥
अदृश्यं सर्वद्रष्टारं सर्वज्ञं सर्वकारणम् ।
सर्वदं सर्वरूपं तं वैष्णवास्तन्न मन्वते ॥ १४ ॥
वदन्ति चैव ते कस्य तेजस्तेजस्विना विना ।
तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम् ॥ १५ ॥
स्वेच्छामयं सर्वरूपं सर्वकारणकारणम् ।
अतीव सुन्दरं रूपं बिभ्रतं सुमनोहरम् ॥ १६ ॥
किशोरवयसं शान्तं सर्वकान्तं परात्परम् ।
नवीननीरदाभासधामैकं श्यामविग्रहम् ॥ १७ ॥
शरन्मध्याह्नपद्मौघशोभामोचनलोचनम् ।
मुक्ताच्छविविनिन्द्यैकदन्तपंक्तिमनोरमम् ॥ १८ ॥
मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् ।
सुनसं सस्मितं कान्तं भक्तानुग्रहकारणम् ॥ १९ ॥
ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् ।
द्विभुजं मुरलीहस्तं रत्‍नभूषणभूषितम् ॥ २० ॥
सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम् ।
सर्वैश्वर्यप्रदं सर्वस्वतन्त्रं सर्वमङ्‌गलम् ॥ २१ ॥
परिपूर्णतमं सिद्धं सिद्धेशं सिद्धिकारकम् ।
ध्यायन्ते वैष्णवाः शश्वद्देवदेवं सनातनम् ॥ २२ ॥
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ।
ब्रह्मणो वयसा यस्य निमेष उपचर्यते ॥ २३ ॥
स चात्मा स परं ब्रह्म कृष्ण इत्यभिधीयते ।
कृषिस्तद्‍भक्तिवचनो नश्च तद्दास्यवाचकः ॥ २४ ॥
भक्तिदास्यप्रदाता यः स च कृष्णः प्रकीर्तितः ।
कृषिश्च सर्ववचनो नकारो बीजमेव च ॥ २५ ॥
स कृष्णः सर्वस्रष्टाऽऽदौ सिसृक्षन्नेक एव च ।
सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥ २६ ॥
स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह ।
स्त्रीरूपो वामभागांशो दक्षिणांशः पुमान्स्मृतः ॥ २७ ॥
तां ददर्श महाकामी कामाधारां सनातनः ।
अतीव कमनीया च चारुपङ्‌कजसन्निभाम् ॥ २८ ॥
चन्द्रबिम्बविनिन्द्यैकनितम्बयुगलां पराम् ।
सुचारुकदलीस्तम्भनिन्दितश्रोणिसुन्दरीम् ॥ २९ ॥
श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम् ।
पुष्पजुष्टां सुवलितां मध्यक्षीणां मनोहराम् ॥ ३० ॥
अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम् ।
वह्निशुद्धांशुकाधारां रत्‍नभूषणभूषिताम् ॥ ३१ ॥
शश्वच्चक्षुश्चकोराभ्यां पिबन्तीं सततं मुदा ।
कृष्णस्य मुखचन्द्रं च चन्द्रकोटिविनिन्दितम् ॥ ३२ ॥
कस्तूरीबिन्दुना सार्धमधश्चन्दनबिन्दुना ।
समं सिन्दूरबिन्दुं च भालमध्ये च बिभ्रतीम् ॥ ३३ ॥
वक्रिमं कबरीभारं मालतीमाल्यभूषितम् ।
रत्‍नेन्द्रसारहारं च दधतीं कान्तकामुकीम् ॥ ३४ ॥
कोटिचन्द्रप्रभामृष्टपुष्टशोभासमन्विताम् ।
गमनेन राजहंसगजगर्वविनाशिनीम् ॥ ३५ ॥
दृष्ट्वा तां तु तया सार्धं रासेशो रासमण्डले ।
रासोल्लासे सुरसिको रासक्रीडाञ्चकार ह ॥ ३६ ॥
नानाप्रकारशृङ्‌गारं शृङ्‌गारो मूर्तिमानिव ।
चकार सुखसम्भोगं यावद्वै ब्रह्मणो दिनम् ॥ ३७ ॥
ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता ।
चकार वीर्याधानं च नित्यानन्दे शुभक्षणे ॥ ३८ ॥
गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत ।
निःससार श्रमजलं श्रान्तायास्तेजसा हरेः ॥ ३९ ॥
महाक्रमणक्लिष्टाया निःश्वासश्च बभूव ह ।
तदा वव्रे श्रमजलं तत्सर्वं विश्वगोलकम् ॥ ४० ॥
स च निःश्वासवायुश्च सर्वाधारो बभूव ह ।
निःश्वासवायुः सर्वेषां जीविनां च भवेषु च ॥ ४१ ॥
बभूव मूर्तिमद्वायोर्वामाङ्‌गात्प्राणवल्लभा ।
तत्पत्‍नी सा च तत्पुत्राः प्राणाः पञ्च च जीविनाम् ॥ ४२ ॥
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।
बभूवुरेव तत्पुत्रा अधः प्राणाश्च पञ्च च ॥ ४३ ॥
घर्मतोयाधिदेवश्च बभूव वरुणो महान् ।
तद्वामाङ्‌गाच्च तत्पत्‍नी वरुणानी बभूव सा ॥ ४४ ॥
अथ सा कृष्णचिच्छक्तिः कृष्णगर्भं दधार ह ।
शतमन्वन्तरं यावज्ज्वलन्ती ब्रह्मतेजसा ॥ ४५ ॥
कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया ।
कृष्णस्य सङ्‌गिनी शश्वत्कृष्णवक्षःस्थलस्थिता ॥ ४६ ॥
शतमन्वन्तरान्ते च कालेऽतीते तु सुन्दरी ।
सुषाव डिम्भं स्वर्णाभं विश्वाधारालयं परम् ॥ ४७ ॥
दृष्ट्वा डिम्भं च सा देवी हृदयेन व्यदूयत ।
उत्ससर्ज च कोपेन ब्रह्माण्डगोलके जले ॥ ४८ ॥
दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार ह ।
शशाप देवीं देवेशस्तत्क्षणं च यथोचितम् ॥ ४९ ॥
यतोऽपत्यं त्वया त्यक्तं कोपशीले च निष्ठुरे ।
भव त्वमनपत्यापि चाद्यप्रभृति निश्चितम् ॥ ५० ॥
या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः ।
अनपत्याश्च ताः सर्वास्त्वत्समा नित्ययौवनाः ॥ ५१ ॥
एतस्मिन्नन्तरे देवी जिह्वाग्रात्सहसा ततः ।
आविर्बभूव कन्यैका शुक्लवर्णा मनोहरा ॥ ५२ ॥
श्वेतवस्त्रपरीधाना वीणापुस्तकधारिणी ।
रत्‍नभूषणभूषाढ्या सर्वशास्त्राधिदेवता ॥ ५३ ॥
अथ कालान्तरे सा च द्विधारूपो बभूव ह ।
वामार्धाङ्‌गाच्च कमला दक्षिणार्धाच्च राधिका ॥ ५४ ॥
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।
दक्षिणार्धश्च द्विभुजो वामार्धश्च चतुर्भुजः ॥ ५५ ॥
उवाच वाणीं कृष्णस्तां त्वमस्य कामिनी भव ।
अत्रैव मानिनी राधा तव भद्रं भविष्यति ॥ ५६ ॥
एवं लक्ष्मीं च प्रददौ तुष्टो नारायणाय च ।
स जगाम च वैकुण्ठं ताभ्यां सार्धं जगत्पतिः ॥ ५७ ॥
अनपत्ये च ते द्वे च जाते राधांशसम्भवे ।
भूता नारायणाङ्‌गाच्च पार्षदाश्च चतुर्भुजाः ॥ ५८ ॥
तेजसा वयसा रूपगुणाभ्यां च समा हरेः ।
बभूवुः कमलाङ्‌गाच्च दासीकोट्यश्च तत्समाः ॥ ५९ ॥
अथ गोलोकनाथस्य लोम्नां विवरतो मुने ।
भूताश्चासंख्यगोपाश्च वयसा तेजसा समाः ॥ ६० ॥
रूपेण च गुणेनैव बलेन विक्रमेण च ।
प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः ॥ ६१ ॥
राधाङ्‌गलोमकूपेभ्यो बभूवुर्गोपकन्यकाः ।
राधातुल्याश्च ताः सर्वा राधादास्यः प्रियंवदाः ॥ ६२ ॥
रत्‍नभूषणभूषाढ्याः शश्वत्सुस्थिरयौवनाः ।
अनपत्याश्च ताः सर्वाः पुंसः शापेन सन्ततम् ॥ ६३ ॥
एतस्मिन्नन्तरे विप्र सहसा कृष्णदेवता ।
आविर्बभूव दुर्गा सा विष्णुमाया सनातनी ॥ ६४ ॥
देवी नारायणीशाना सर्वशक्तिस्वरूपिणी ।
बुद्ध्यधिष्ठात्री देवी सा कृष्णस्य परमात्मनः ॥ ६५ ॥
देवीनां बीजरूपा च मूलप्रकृतिरीश्वरी ।
परिपूर्णतमा तेजःस्वरूपा त्रिगुणात्मिका ॥ ६६ ॥
तप्तकाञ्चनवर्णाभा कोटिसूर्यसमप्रभा ।
ईषद्धास्यप्रसन्नास्या सहस्रभुजसंयुता ॥ ६७ ॥
नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना ।
वह्निशुद्धांशुकाधाना रत्‍नभूषणभूषिता ॥ ६८ ॥
यस्याश्चांशांशकलया बभूवुः सर्वयोषितः ।
सर्वे विश्वस्थिता लोका मोहिताः स्युश्च मायया ॥ ६९ ॥
सर्वैश्वर्यप्रदात्री च कामिनां गृहवासिनाम् ।
कृष्णभक्तिप्रदा या च वैष्णवानां च वैष्णवी ॥ ७० ॥
मुमुक्षूणां मोक्षदात्री सुखिनां सुखदायिनी ।
स्वर्गेषु स्वर्गलक्ष्मीश्च गृहलक्ष्यीर्गृहेषु च ॥ ७१ ॥
तपस्विषु तपस्या च श्रीरूपा तु नृपेषु च ।
या वह्नौ दाहिकारूपा प्रभारूपा च भास्करे ॥ ७२ ॥
शोभारूपा च चन्द्रे च सा पद्मेषु च शोभना ।
सर्वशक्तिस्वरूपा या श्रीकृष्णे परमात्मनि ॥ ७३ ॥
यया च शक्तिमानात्मा यया च शक्तिमज्जगत् ।
यया विना जगत्सर्वं जीवन्मृतमिव स्थितम् ॥ ७४ ॥
या च संसारवृक्षस्य बीजरूपा सनातनी ।
स्थितिरूपा वृद्धिरूपा फलरूपा च नारद ॥ ७५ ॥
क्षुत्पिपासादयारूपा निद्रा तन्द्रा क्षमा मतिः ।
शान्तिलज्जातुष्टिपुष्टिभ्रान्तिकान्त्यादिरूपिणी ॥ ७६ ॥
सा च संस्तूय सर्वेशं तत्पुरः समुवास ह ।
रत्‍नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ॥ ७७ ॥
एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः ।
पद्मनाभेर्नाभिपद्मान्निःससार महामुने ॥ ७८ ॥
कमण्डलुधरः श्रीमांस्तपस्वी ज्ञानिनां वरः ।
चतुर्मुखैस्तं तुष्टाव प्रज्वलन्ब्रह्मतेजसा ॥ ७९ ॥
सा तदा सुन्दरी सृष्टा शतचन्द्रसमप्रभा ।
वह्निशुद्धांशुकाधाना रत्‍नभूषणभूषणा ॥ ८० ॥
रत्‍नसिंहासने रम्ये संस्तूय सर्वकारणम् ।
उवास स्वामिना सार्धं कृष्णस्य पुरतो मुदा ॥ ८१ ॥
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।
वामार्धाङ्‌गो महादेवो दक्षिणे गोपिकापतिः ॥ ८२ ॥
शुद्धस्फटिकसंकाशः शतकोटिरविप्रभः ।
त्रिशूलपट्टिशधरो व्याघ्रचर्माम्बरो हरः ॥ ८३ ॥
तप्तकाञ्चनवर्णाभो जटाभारधरः परः ।
भस्मभूषितगात्रश्च सस्मितश्चन्द्रशेखरः ॥ ८४ ॥
दिगम्बरो नीलकण्ठः सर्पभूषणभूषितः ।
बिभ्रद्दक्षिणहस्तेन रत्‍नमालां सुसंस्कृताम् ॥ ८५ ॥
प्रजपन्पञ्चवक्त्रेण ब्रह्मज्योतिः सनातनम् ।
सत्यस्वरूपं श्रीकृष्णं परमात्मानमीश्वरम् ॥ ८६ ॥
कारणं कारणानां च सर्वमङ्‌गलमङ्‌गलम् ।
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ॥ ८७ ॥
संस्तूय मृत्योर्मृत्युं तं यतो मृत्युञ्जयाभिधः ।
रत्‍नसिंहासने रम्ये समुवास हरेः पुरः ॥ ८८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे पञ्चप्रकृतितद्‍भर्तृगणोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें