विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ००९
← अध्यायः ००८ | विष्णुधर्मोत्तरपुराणम् अध्यायः ००९ वेदव्यासः | अध्यायः ०१० → |
।। वज्र उवाच ।।
श्रोतुं जनानिहेच्छामि सागरद्वीपवासिनः ।।
प्राधान्येन भृगुश्रेष्ठ विस्तराद्विस्तरो यतः ।। १ ।।
मार्कण्डेय उवाच ।।
पाञ्चालाः कुरवो मत्स्या यौधेयाः सवटश्चराः ।।
कुन्तयः शूरसेनाश्च मध्यदेशजनाः स्मृताः ।। २ ।।
वृषध्वजांजनाः पन्नाः सुह्मा मागधचेदयः ।।
काशयश्च विदेहाश्च पूर्वस्यां कोशलास्तथा ।। ३ ।।
कलिङ्गवङ्गपुण्ड्राङ्गवैदर्भा मूलकास्तथा।।
विन्ध्यान्तनिलयाः प्रोक्ताः पूर्वदक्षिणतः स्मृताः ।। ४ ।।
पुलिन्दाश्मकजीमूतनरराष्ट्र निवासिनः ।।
कर्णाटका भोजकटा दक्षिणापथवासिनः ।। ५ ।।
अम्बष्ठा द्रविडा नागाः काम्बोजाः स्त्रीमुखाः शकाः ।।
आनन्तवासिनश्चैव ज्ञेया दक्षिणपश्चिमे ।। ६ ।।
स्त्रीराज्यं सैन्धवा म्लेच्छा नास्तिक्या यवनास्तथा ।।
पश्चिमेन च विज्ञेयाः पटुमानौषधैः सह ।। ७।।
माण्डव्याश्च तुषाराश्च मूलिकाश्च मुखाः खशाः ।।
महाकेशा महानासा देशास्तूरत्तरपश्चिमे ।। ८ ।।
लम्पगास्तालनागाश्च मरुगान्धारजाहुताः ।।
हिमवन्निलया म्लेच्छा ह्युदीचीं दिशमाश्रिताः ।। ९ ।।
त्रिगर्तमीनकौलूता ब्रह्मपुत्रास्सतीगणाः ।।
अभिसाराश्च काश्मीराश्चोदक्पूर्वेण कीर्तिताः ।। 1.9.१० ।।
राजेन्द्रसागरद्वीपा प्रधाना वसुधाधिपाः ।।
भवतेऽहं प्रवक्ष्यामि दिग्देशेन निबोध तत्।। ११।।
पञ्चालनाथो मगधाधिपश्च कलिङ्गराड् भोजकटेश्वरश्च ।।
अनन्तकः सैन्धवकस्तुषारो मद्रेश्वरश्चाथ कुलूतनाथः ।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जनपदवर्णनो नाम नवमोऽध्यायः ।। ९ ।।
विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०१७
किसी अन्य भाषा में पढ़ें
डाउनलोड करें
निरीक्षताम्
संपादित करें
< विष्णुधर्मोत्तरपुराणम् | खण्डः १
← अध्यायः ०१६ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०१७
वेदव्यासः अध्यायः ०१८ →
।। मार्कण्डेय उवाच ।।
धुंधुमाराद्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः ।।
निकुंभस्तस्य तनयः सुहितश्च तदात्मजः।।।।।।
भृशाश्वस्तनयस्तस्य मान्धाता तस्य चात्मजः।।
दैवेन विधिना राजा जातस्तस्यैव चोदरात् ।। २ ।।
पुरुकुत्सः सुतस्तस्य त्रसद्दस्युस्तदात्मजः ।।
शम्भुस्तस्यात्मजः श्रीमाननरण्येति विश्रुतः ।।३।।
रावणेन हतो योऽसौ त्रिलोकविजयी पुरा ।।
दृशदश्वः सुतस्तस्य तस्माद्वसुमना नृपः ।। ४ ।।
तस्य पुत्रस्त्रिधन्वाख्यः तस्मात्त्र्य्यारणिः स्मृतः ।।
तस्य सत्यव्रतः पुत्रः त्रिशङ्कुं यं प्रचक्षते ।। ५ ।।
हरिश्चन्द्रः सुतस्तस्य रोहिताश्वस्तदात्मजः ।।
हरितस्तत्सुतो राजा चञ्चुर्हारित उच्यते ।। ६ ।।
विजयस्तस्य तनयश्चालर्कस्तस्य चात्मजः ।।
अलर्कस्य वृकः पुत्रस्तस्माद्बाहुस्तु जज्ञिवान् ।।७।।
पानस्त्रीमृगयाक्षेषु स बहुव्यसनान्वितः ।।
व्यसने तस्य सक्तस्य नरेन्द्रस्यारिभिस्तदा ।। ८ ।।
हैहयैस्तालजङ्घैश्च सर्वम्लेच्छगणावृतैः ।।
छलेनापहृतं राज्यं हृतराज्यो वनं गतः ।। ९ ।।
पद्भ्यामनुययौ तस्य वनं भार्या गुणान्विता ।।
गुर्विणी प्राग्ददौ यस्याः सपत्नी तु गरं किल ।।1.17.१ ०।।
ततस्सा सगरं पुत्रं सुषाव वनगा शुभा ।।
जातपुत्रो नरपतिः संयुक्तः कालकर्मणा ।।११।।
अन्वारुरोह तं राज्ञी यादवी धर्मवत्सला।।
संस्कृतः सर्वसंस्कारैः सगरश्च्यवनेन च ।।१२।।
शास्त्रग्रामे धनुर्वेदे नीतः पारं तथा परम्।।
स यौवनमनुप्राप्य एक एव नराधिपः।।१३।।
पदातिर्बद्धनिस्त्रिंशश्च्यवनस्य प्रसादतः ।।
हैहयांस्तालजङ्घांश्च निजघान परन्तपः।।१४।।
ततस्त्वयोध्यां संप्राप्य लेभे राज्यमकंटकम्।।
सगरो राज्यमासाद्य बलेन चतुरङ्गिणा ।।१५।।
विजित्य सकलान्म्लेच्छान्वशं चक्रे च पार्थिवान् ।।
विजित्य पृथिवीं कृत्स्नां प्राप्य राज्यमकण्टकम् ।। १६ ।।
च्यवनं पूजयामास सत्कारेण पुनःपुनः ।।
च्यवनेनाभ्यनुज्ञातः स चक्रे दारसंग्रहम् ।। १७ ।।
आसीद्भार्याद्वयं तस्य सगरस्य महात्मनः ।।
स ताभ्यां सहितो राजा पुत्रार्थं तप्तवांस्तपः ।।१८।।
तपसोन्ते हरः प्राह राजानं तपसा कृशम् ।।
एकं वंशकरं पुत्रमेका ते जनयिष्यति ।।१९।।
षष्टिः पुत्रसहस्राणि द्वितीया जनयिष्यति ।।
एवं लब्धवरो राजा सभार्यः स्वपुरं गतः ।। 1.17.२० ।।
पुत्रं पुत्रांश्च धर्माप्मा जनयामास वीर्यवान् ।।
कर्मणा चैव नाम्ना च राजपुत्रोऽसमञ्जसः।।२१।।
पित्रा विवासितो राज्यात्पौराणामहिते रतः।।
तस्य पुत्रोंशुमान्नाम सर्वैः समुदितो गुणैः ।।
तोषयामास पितरं पितुः पृथ्वीपतिं च सः ।। २२ ।।
पौत्रेण तेनानघः सेव्यमानः पुत्रैर्महावीर्यपराक्रमैश्च ।।
स रञ्जयन्राजवरो जितारिः शशास पृथ्वीं सकलां महात्मा ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सगरोपाख्यानं नाम सप्तदशोऽध्यायः ।। १७ ।।
विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०२३
← अध्यायः ०२२ | विष्णुधर्मोत्तरपुराणम् अध्यायः ०२३ वेदव्यासः | अध्यायः ०२४ → |
वज्र उवाच ।।
भगीरथस्य राजर्षेर्वंशमुत्तमपूरुषं ।।
त्वत्तोऽहं श्रोतुमिच्छामि गङ्गा येनावतारिता ।। १ ।।
मार्कण्डेय उवाच ।।
भगीरथसुतः श्रीमान्विश्रुतो नाम धार्मिकः ।।
विश्रुतस्यात्मजः श्रीमान्नाभाग इति विश्रुतः ।। २ ।।
अम्बरीषस्तु नाभागिरयुतारिस्तदात्मजः ।।
तत्सुतो ऋतुपर्णश्च राजा नलसखो बली ।। ३ ।।
शर्वकामः सुतस्तस्य सुदासस्तस्य चात्मजः ।।
तस्य मित्रसहः पुत्रः तस्य पुत्रोश्मको नृप ।। ४ ।।
मूलकस्तत्सुतो राजा महाबुद्धिर्नरेश्वरः ।।
क्षत्रियाणां वधे घोरे रामेण विनिपातितः ।। ५ ।।
पुरा पितृवधामर्षाद्रामो भार्गवनन्दनः ।।
त्रिःसप्तकृत्वः पृथिवीं चक्रे निःक्षत्रियामिमाम् ।।६।।
भगीरथकुलोत्पन्नं मूलकं नाम जघ्निवान् ।।
वज्र उवाच ।।
कथं रामेण वसुधा पुरा निःक्षत्त्रिया कृता ।।
किमर्थं च महाभाग तन्ममाचक्ष्व पृच्छतः ।। ७।।
मार्कण्डेय उवाच।।
सोमवंशसमुत्पन्नो ययातिर्नाम पार्थिवः ।।
तस्यापि संहतः पुत्रो बभूव पृथिवीपतिः ।। ६ ।।
सहस्रजित्सुतस्तस्य नभजित्तस्य चात्मजः ।।
तस्यापि हैहयः पुत्रः कुन्तिस्तस्यापि चात्मजः ।। ९ ।।
तस्यापि संहतः पुत्रो महिष्मांऽस्तस्य चात्मजः ।।
माहिष्मती कृता येन नगरी सुमनोहरा ।। 1.23.१० ।।
भद्रश्रेण्यः सुतस्तस्य दुर्मदस्तस्य चात्मजः ।।
कनकस्तत्सुतो राजा कृतवीर्यस्तदात्मजः ।।१ १।।
अर्जुनस्तनयस्तस्य सप्तद्वीपेश्वरोऽभवत्।।
दत्तात्रेयोऽथ भगवान्विष्णुरूपानुरूपधृक्।।१२।।
आराध्य तपसा येन प्राप्तं राज्यं सुदुर्लभम् ।।
तथा बाहुसहस्रं च मतिं धर्मे तथोत्तमाम् ।। १३ ।।
अधर्मे वर्त्तमानस्य मरणं च जनार्दनात् ।।
युद्धेन पृथिवीं जित्वा धर्मेणैवानुरंजयन् ।। १४ ।।
तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।।
सप्तोदधिपरिक्षिप्ता क्षात्रेण विधिना जिता ।। १५ ।।
पातालनगरे शैले वसुधायां रसातले ।।
तस्य पार्थिवसिंहस्य चक्रं न प्रतिहन्यते ।।१६।।
द्वीपेषु स हि सर्वेषु खातं खातमथाऽकरोत् ।।
यूपचिह्नानि च तथा खड्गी शतशनी रथी ।। १७ ।।
देशाननुचरन्योगात्सदा पश्यति तस्करान्।।
स एव पशुपालोभूत्क्षेत्रपालः स एव च ।। १८ ।।
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोऽभवत् ।।
स तु बाहुसहस्रेण ज्याघातकठिनत्वचा ।। १९ ।।
भाति रश्मिसहस्रेण शारदेनेव भास्करः ।।
राक्षसा निर्जितास्तेन तेन बद्धश्च रावणः ।। 1.23.२० ।।
जित्वा भोगवती तेन कर्कोटकसुता हृता ।।
तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ ।।
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ।। २१ ।।
मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः ।।
नतनिश्चलमूर्धानो भवन्ति च महोरगाः ।। २२ ।।
दशयज्ञसहस्राणि तेनेष्टानि महीक्षिता ।।
द्वीपे द्वीपे महाराज धर्मज्ञेन महात्मना ।। २३ ।।
सर्वे यज्ञा महाराज तस्यासन्भूरिदक्षिणाः ।।
सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ।।२४ ।।
द्विजानां परिवेष्टारस्तस्य यज्ञेषु देवताः ।।
स्वयमासन्महाराज स्वयं भागहरास्तथा ।। २५ ।।
तस्य यज्ञे जगौ गाथा नारदस्सुमहत्तपाः ।।
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।। २६ ।।
यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन वा ।। २७ ।।
पञ्चाशीतिसहस्राणि वर्षाणां स महीपतिः ।।
सप्तद्वीपेश्वरः सम्राट् चक्रवर्त्ती बभूव ह ।।२८।।
तस्य राज्ञस्तु वसुधा बहुपार्थिवसङ्कुला ।।
भाराक्रान्ता विलुलिता बभूव पृथिवीपते।।२९।।
तस्य राज्ञो गतातङ्कैर्बहुपुत्रैर्नरोत्तम ।।
तेजोयुक्तैः समाकीर्णा वसुधा वसुधाधिप ।। 1.23.३० ।।
बहुनागाश्वसंकीर्णा बहुगोकुलसङ्कुला ।।
न शक्ता नृपते सोढुं तेजस्तदतिमानुषम् ।। ३१ ।।
ज्वालावलिवपुः श्रान्ता खिन्ना नाकमुपागता ।। ३२ ।।
एवं प्रभावे नरदेवनाथे पृथ्वीं समग्रां परिपाल्यमाने ।।
भारेण सन्ना पृथिवी जगाम महेन्द्रलोकं मुनिदेवजुष्टम् ।। ३३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽर्जुनोपाख्यानं नाम त्रयोविंशोऽध्यायः ।। २३ ।।
विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०५६
किसी अन्य भाषा में पढ़ें
डाउनलोड करें
निरीक्षताम्
संपादित करें
< विष्णुधर्मोत्तरपुराणम् | खण्डः १
← अध्यायः ०५५ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०५६
वेदव्यासः अध्यायः ०५७ →
राम उवाच ।।
तस्य देवातिदेवस्य विष्णोरमिततेजसः ।।
त्वत्तोऽहं श्रोतुमिच्छामि दिव्या आत्मविभूतयः ।। १ ।।
शङ्कर उवाच ।।
न शक्या विस्तराद्वक्तुं देवदेवस्य भूतयः ।।
प्राधान्यतस्ते वक्ष्यामि शृणुष्वैकमना द्विज ।।२ ।।
सर्गे ब्रह्मा स्थितौ विष्णुः संहारे च तथा हरः ।।
वरुणो वायुराकाशो ज्योतिश्च पृथिवी तथा ।। ३ ।।
दिशश्च विदिशश्चाऽपि तथा ये च दिगीश्वराः ।।
आदित्या वसवो रुद्रा भृगवोंऽगिरसस्तथा ।। ४ ।।
साध्याश्च मरुतो देवा विश्वेदेवास्तथैव च ।।
अश्विनौ पुरुहूतश्च गन्धर्वाप्सरसां गणाः ।। ५ ।।
पर्वतोदधिपाताला लोका द्वीपाश्च भार्गव ।।
तिर्यगूर्ध्वमधश्चैव त्विङ्गितं यश्च नेङ्गते ।। ६ ।।
सच्चाऽसच्च महाभाग प्रकृतिर्विकृतिश्च यः ।।
कृमिकीटपतङ्गानां वयसां योनयस्तथा ।। ७ ।।
विद्याधरास्तथा यक्षा नागाः सर्पाः सकिन्नराः ।।
राक्षसाश्च पिशाचाश्च पितरः कालसंधयः । ।८ ।।
धर्मार्थकाममोक्षाश्च धर्मद्वाराणि यानि च ।।
यज्ञाङ्गानि च सर्वाणि भूतग्रामं चतुर्विधम्।।९।।
जरायुजाण्डजाश्चैव संस्वेदजमथोद्भिजम् ।।
एकज्योतिः स मरुतां वसूनां स च पावकः।।1.56.१ ०।।
अहिर्बुध्न्यश्च रुद्राणां नादैवाश्विनयोस्तथा ।।
नारायणश्च साध्यानां भृगूणाञ्च तथा क्रतुः ।।११।।
आदित्यानां तथा विष्णुरायुरङ्गिरसां तथा ।।
विश्वेषाञ्चैव देवानां रोचमानः स कीर्तितः ।।१२।।
वासवः सर्वदेवानां ज्योतिषां च हुताशनः ।।
यमः संयमशीलानां विरूपाक्षः क्षमाभृताम् ।। १३ ।।
यादसां वरुणश्चैव पवनः प्लवतां तथा ।।
धनाध्यक्षश्च यक्षाणां रुद्रो रौद्रस्तथान्तरः ।। १४ ।।
अनन्तः सर्वनागानां सूर्यस्तेजस्विनां तथा ।।
ग्रहाणाञ्च तथा चन्द्रो नक्षत्राणाञ्च कृत्तिका ।। १५ ।।
कालः कलयतां श्रेष्ठो युगानां च कृतं युगम् ।।
कल्पं मन्वन्तरेशाश्च मनवश्च चतुर्दश ।। १६ ।।
स एव देवः सर्वात्मा ये च देवेश्वरास्तथा ।।
संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः ।। १७ ।।
मार्गशीर्षस्तु मासानां ऋतूनां कुसुमाकरः ।।
शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ।।।१८।।
कारणानां वधः प्रोक्तो मुहूर्त्तानां तथाऽभिजित् ।।
पातालानां सुतलश्च समुद्राणां पयोदधिः ।। १९ ।।
जम्बूद्वीपश्च द्वीपानां लोकानां सत्य उच्यते ।।
मेरुः शिलोच्चयानां च वर्षेष्वपि च भारतम् ।। 1.56.२० ।।।
हिमालयः स्थावराणां जाह्नवी सरितां तथा ।।
पुष्करः सर्वतीर्थानां गरुडः पक्षिणां तथा ।। २१ ।।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः।।
ऋषीणाञ्च भृगुर्देवो देवर्षीणां च नारदः ।।२२।।
तथा ब्रह्मऋषीणाञ्च अंगिराः परिकीर्तितः ।।
विद्याधराणां सर्वेषां देवश्चित्रांगदस्तथा ।।२३।।
कंबरः किन्नराणां च सर्पाणामथ वासुकिः ।।
प्रह्रादः सर्वदैत्यानां रम्भा चाप्सरसां तथा ।। २४ ।।
उच्चैःश्रवसमश्वानां धेनूनां चैव कामधुक् ।।
ऐरावतो गजेन्द्राणां मृगाणां च मृगाधिपः ।। २५ ।।
आयुधानां तथा वज्रो नराणाञ्च नराधिपः ।।
क्षमा क्षमावतां देवो बुद्धिर्बुद्धिमतामपि ।। २६ ।।
धर्माविरुद्धः कामश्च तथा धर्मभृतां नृणाम् ।।
धर्म्मो धर्मभृतां देवस्तपश्चैव तपस्विनाम्।।२७।।
यज्ञानां जपयज्ञश्च सत्यः सत्यवतां तथा ।।
वेदानां सामा वेदश्च अंशूनां ज्योतिषां पतिः ।। २८।।
गायत्री सर्वमंत्राणां वाचः प्रवदतां तथा ।।
अक्षराणामकारश्च यन्त्राणाञ्च तथा धनुः।।२९।।
अध्यात्मविद्या विद्यानां कवीनामुशना कविः ।।
चेतना सर्वभूतानामिन्द्रियाणां मनस्तथा ।। 1.56.३० ।।
ब्रह्मा ब्रह्मविदां देवो ज्ञानं ज्ञानवतां तथा ।।
कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा तथा क्षमा ।। ३१ ।।
आश्रमाणां चतुर्थश्च वर्णानां ब्राह्मणस्तथा ।।
स्कन्दः सेनाप्रणेतॄणां सदयश्च दया वताम् ।। ३२ ।।
जयश्च व्यवसायश्च तथोत्साहवतां प्रभुः ।।
अश्वत्थः सर्ववृक्षाणामोषधीनां तथा यवः ।। ३३ ।।
मृत्युः स एव म्रियतामुद्भवश्च भविष्यताम् ।।
झषाणां मकरश्चैव द्यूतं छलयतां तथा ।। ३४ ।।
मानश्च सर्वगुह्यानां रत्नानां कनकं तथा ।।
धृतिर्भूमौ रसस्तेजस्तेजश्चैव हुताशने ।। ३५ ।।
वायुः स्पर्शगुणानां च खञ्च शब्दगुणस्तथा ।।
एवं विभूतिभिः सर्वं व्याप्य तिष्ठति भार्गव ।। ३६ ।।
एकांशेन भृगुश्रेष्ठ तस्यांशत्रितयं दिवि ।।
देवाश्च ऋषयश्चैव ब्रह्मा चाऽहं च भार्गव ।। ३७ ।।
चक्षुषा यन्न पश्यंति विना ज्ञानगतिं द्विज ।।
ज्ञाता ज्ञेयस्तथा ध्याता ध्येयश्चोक्तो जनार्दनः ।। ३८ ।।
यज्ञो यष्टा च गोविन्दः क्षेत्रं क्षेत्रज्ञ एव च ।।
अन्नमन्नाद एवोक्तः स एव च गुणत्रयम् ।। ३९ ।।
गामाविश्य च भूतानि धारयत्योजसा विभुः ।।
पुष्णाति चौषधीः सर्वा सोमो भूत्वा रसात्मकः ।। 1.56.४० ।।
प्राणिनां जठरस्थोऽग्निर्भुक्तपाची स भार्गव ।।
चेष्टाकृत्प्राणिनां ब्रह्मन्स च वायुः शरीरगः ।। ४१ ।।
यथादित्यगतं तेजो जगद्भासयतेऽखिलम् ।।
यच्चन्द्रमसि यच्चाऽग्नौ तत्तेजस्तत्र कीर्तितम् ।। ४२ ।।
सर्वस्य चाऽसौ हृदि सन्निविष्टस्तस्मात्स्मृतिर्ज्ञानमपोहनञ्च ।।
सर्वैश्च देवैश्च स एव वन्द्यो वेदान्तकृद्वेदकृदेव चाऽसौ ।। ४३ ।।
इति श्रीविप्णुधर्मोऽत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु विभूतिवर्णनं नाम षट्पञ्चाशत्तमो ऽध्यायः ।। ५६ ।।
मार्कण्डेय उवाच ।।
ध्रुवस्थाननिविष्टानां देवतानां पृथक्पृथक् ।।
पानाय दापयेत्क्षीरं प्रीतये वान्तरात्मनः।।
गन्धोदकं तथार्काय पयः सोमाय कीर्तितम् ।। १ ।।
भूमिपुत्राय खर्जूरं मार्द्वीकं शशिजाय च।।
जीवाय च तथा तक्रं शुक्रायेक्षुरसं तथा ।। २ ।।
मांसपानं तु सौराय राहोर्मीनरसं तथा ।।
छागं पयः प्रदातव्यं केतवे मनुजेश्वर ।। ३ ।।
गन्धोदकं च कृत्तिकानां रोहिणीनां सुवीरकम् ।।
इल्वलानां पयः प्रोक्तं रौद्रेः खार्जूरमासवम् ।। ४
आदित्याय तथा गौडं क्षीरं तिष्याय दापयेत्।।
क्षीरमेव च सार्पाय तथा पित्र्याय यादव ।।५।।
गन्धोदकं च भाग्याय तथार्यम्णाय कीर्तितम्।।
सावित्राय तथायस्तु त्वाष्ट्राय च तथा पयः ।।६।।
वायव्याय च मार्द्वीकमैन्द्राग्न्याय च काञ्जिकम् ।।
मित्राय तक्रं देयं च शाक्राय दधि दापयेत् ।। ७ ।।
नारिकेलाम्बु मूलाय तथाप्याय मधूदकम् ।।
खार्जूरं वैश्वदेवाय ब्राह्माय सलिलं हितम् ।। ८ ।।
आम्रैः पानं वैष्णवाय जम्बुभिर्वासवाय च ।।
वारुणाय मधूकैश्च रसमाजस्य पार्थिव ।। ९ ।।
आहिर्बुध्न्यस्य च तथा रसमेव भवेन्नृप ।।
पौष्णाय च भवेच्छागं चाश्विनाय च माहिषम् ।।
याम्याय च तथा देयं स्वच्छं मांसरसं तथा ।। 1.100.१० ।।
समानदेवनक्षत्रं कथितं च तथा दिशाम् ।।
उत्तरायै प्रदातव्यं तथा क्षीरं नराधिप ।। ११ ।।
सागराणां च सर्वेषां सततं भूतिमिच्छता ।। १२ ।।
यद्यद्ग्रहस्याभिहितं मयात्र ऋक्षस्य वा भूमिपतिप्रधान ।।
तद्देवतायाश्च तथैव देयं दिशस्तथा नात्र विचारणास्ति ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रतिग्रहर्क्षदेयादेयपानो नाम शततमोऽध्यायः ।। १०० ।।
विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १०३
किसी अन्य भाषा में पढ़ें
डाउनलोड करें
निरीक्षताम्
संपादित करें
< विष्णुधर्मोत्तरपुराणम् | खण्डः १
← अध्यायः १०२ विष्णुधर्मोत्तरपुराणम्
अध्यायः १०३
वेदव्यासः अध्यायः १०४ →
मार्कण्डेय उवाच ।।
ध्रुवस्थाननिविष्टानां देवतानां पृथक्पृथक् ।।
दक्षिणार्थे प्रदातव्यं सर्वेषामेव काञ्चनम् ।। १ ।।
रक्तां वत्सयुतां धेनुं दद्यादर्काय पार्थिव ।।
शङ्खं दद्यान्नरेन्द्रेण दक्षिणार्थं निशाभृतः ।। २ ।।
रक्तवर्णोह्यनड्वाँश्च दातव्यः क्षितिजस्य तु ।।
काञ्चनीं स्वां प्रतिकृतिं बालक्रीडनकानि च ।। ३ ।।
बुधाय राजन्देयानि दक्षिणार्थे विशेषतः ।।
क्षौमं दुकूलं कार्पासवासांसि गुरवे तथा ।। ४ ।।
सितवर्णं च तुरगं भार्गवाय प्रदापयेत् ।।
कृष्णां धेनुं सवत्सां च दद्यात्सूर्यसुताय वै ।। ५ ।।
उष्णीषं लोहदण्डश्च दातव्यो नृप राहवे ।।
छागश्च केतवे देयं कुतपं च नराधिप ।। ६ ।।
कृत्तिकानां तु कनकं दातव्यं भूतिमिच्छता ।।
सर्वबीजानि देयानि रोहिणीनां तथैव च ।। ७ ।।
दोग्ध्रीं धेनुञ्चेल्वलानामनड्वाहं च राहवे ।।
आदित्याय शुभं वस्त्रं पुण्याय कनकं घृतम् ।।८।।
सार्पाय वृषभं दद्याद्रुक्मशृङ्गं महीपते ।।
पित्र्यस्य च तिलान्दद्याद्वायव्यस्य च चामरम् ।।९।।
भाग्यस्य देया गन्धाश्च आर्यम्णस्य च काञ्चनम् ।।
हस्तस्य कुञ्जरं दद्यात्कनकं वा महीपते ।।1.103.१०।।
त्वाष्ट्रस्य वृषभं दद्यादैन्द्राग्नस्य नराधिप।।
वस्त्राणि चैव मैत्रस्य शाक्रस्य कनकं तथा।।११।।
दद्यान्मूलस्य मूलानि फलानि विविधानि च ।।
आप्यस्य दधिपात्राणि शकटं वासवस्य च।।१२।।
तथा चन्दनकाष्ठञ्च वारुणस्य प्रदापयेत् ।।
अजमाजस्य दातव्यमाहिर्बुध्न्यस्य चौदनम् ।। १३ ।।
धेनुं पौष्णस्य तुरगमाश्विनस्य तथैव च ।।
तिलधेनुञ्च याम्यस्य दद्यात्पापापनुत्तये ।। १४ ।।
कुञ्जरं च तथैवोष्ट्रं रथं शकटमेव च ।।
हयमश्वतरं चैव नरयानं च पार्थिव ।। १५ ।।
प्राच्यादीनां क्रमाद्दद्याद्दक्षिणाश्च नराधिप ।।
सागराणां च दातव्यं कनकं भूरिदक्षिणम् ।। १६ ।।
नक्षत्राणां ग्रहाणाञ्च दिशाश्च मनुजेश्वर ।।
यदुक्तमत्र तद्देयं देवतानां पृथक्पृथक् ।। १७ ।।
उक्ताभावे च दातव्या धेनुः पार्थिवसत्तम ।।
प्रत्येकस्य महाभाग शुभा कांस्योपदोहना ।। १८ ।।
दोग्ध्री सवत्सा शीलाढ्या वस्त्ररत्नोपशोभिता ।।
रुक्मशृङ्गैः खुरै रौप्यैर्मुक्तालांगूलभूषिता ।। १९ ।।
ततो विसर्जनं कार्यं पूर्वोक्तविधिना नृप ।।
दधिक्षीरघृतप्रायं तथा त्रिमधुरान्वितम् ।। 1.103.२० ।।
भोजयेद्ब्राह्मणान्भक्त्या प्रत्येकस्य नराधिप ।।
यथाशक्त्या महाराज तेषां दद्याच्च दक्षिणाम् ।।
प्रयतस्ताँश्च याचेत पूजितान्प्रीणनं बुधः ।। २१ ।।
एतावदुक्तं तव शान्तिकर्म समस्तपापप्रशमाय राजन् ।।
कर्त्तव्यमेतत्प्रयतेन शक्त्या न वित्तशाठ्येन न मायया च ।। २२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दक्षिणाध्यायो नाम त्र्यधिकशततमोऽध्यायः ।। १०३ ।।
मुख्य मेनू खोलें
विकिस्रोतः
अन्विष्यताम्
विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १०७
किसी अन्य भाषा में पढ़ें
डाउनलोड करें
निरीक्षताम्
संपादित करें
< विष्णुधर्मोत्तरपुराणम् | खण्डः १
← अध्यायः १०६ विष्णुधर्मोत्तरपुराणम्
अध्यायः १०७
वेदव्यासः अध्यायः १०८ →
मार्कण्डेय उवाच ।।
पूर्वं ब्रह्मा महीपाल सिसृक्षुर्विविधाः प्रजाः ।।
अभ्ययुङ्क्त तदात्मानं तस्य युक्तस्य पार्थिव ।। १ ।।
ततोऽस्य जघनात्पूर्वमसुराञ्जज्ञिरे सुतान् ।।
असुः प्राणः स्मृतो विप्रैस्तजन्मानस्ततोऽसुराः ।।२।।
यथा सृष्टाः सुरास्तन्वा तां तनुं सोव्यपोहत ।।
अव्यक्तं तत्त्वबहुलं ततस्तान्सोभ्ययुञ्जत ।।३।।
ततस्तान्युञ्जमानस्य प्रियमासीत्प्रभोः किल ।।
ततो मुखात्समुत्पन्ना दिव्यतस्तस्य देवताः ।। ४ ।।
उत्पन्ना दिव्यतस्तस्माद्देवास्तेन ततः स्मृताः ।।
धातुर्देवीति यत्प्रोक्तं क्रीडार्थं संविभाव्यते ।।५।।
तस्माद्देव्यान्तु तन्वायां जज्ञिरे तस्य देवताः ।।
देवान्दृष्ट्वा ततः सो वै तनुमन्यां प्रपद्यत ।।६ ।।
सत्त्वमात्रात्मिकामेव तनुं तां सोऽभ्ययुञ्जत ।।
पितेव मन्यमानस्तान्सुतान्प्रव्याध स प्रभुः ।। ७ ।।
पितरो ह्युपपक्षाभ्यां मध्ये रात्र्यह्नयोः पुरा ।।
तस्मात्ते पितरो देवाः पितृत्वं तेषु तत्स्मृतम् ।। ८ ।।
यया सृष्टास्तु पितरस्तनुं तां स व्यपोहत ।।
सापविद्धा तनुस्तेन सद्यः संध्या व्यजायत।।।।
तस्मादहर्देवतानां रात्रिः स्यादासुरी मता ।।
तयोर्मध्ये तु पितरः सा तनुस्तु गरीयसी ।। 1.107.१० ।।
तस्माद्देवासुराश्चैव ऋषयो मानवास्तथा ।।
युक्तास्ते तामुपासन्ते तथा विष्णोर्यदन्तरम् ।। ११ ।।
तस्माद्रात्र्यह्नयोः सन्धावुपासन्ते द्विजास्तु ताम् ।।
ततोऽन्यस्यां पुनर्ब्रह्मा स तन्वामुपपद्यत ।। १२ ।।
राजसत्त्वात्मिकायां तु मनसा सोऽसृजत्प्रभुः ।।
मनसा तु ततस्तस्य प्रजानाञ्जज्ञिरे प्रजाः ।। १३ ।।
मनसा च मनुष्यास्ते जननात्प्रथिताः प्रजाः ।।
सृष्ट्वा पुनः प्रजाः सौम्यस्यां तनुं सोऽव्यपोहत ।। १४ ।।
सापविद्धा तनुस्तेन ज्योत्स्ना सद्यः प्रजायत ।।
तस्माद्भवन्ति संहृष्टा ज्योत्स्नाया उद्भवे प्रजाः ।। १५ ।।
तामुत्सृज्य ततो ज्योत्स्नां ततोऽन्या प्राविशत्पुनः ।।
मूर्तिं रजस्तमासक्तां ततस्तां सोभ्ययुञ्जत ।। १६ ।।
ततोऽन्यास्सान्धकारे तु क्षुधाविष्टाः प्रजाः सृजन् ।।
ताः सृष्ट्वा तु क्षुधाविष्टा अंगुल्या दातुमुद्यताः ।। १७ ।।
अंभांस्येतानि रक्षाम उक्तवन्तस्तु तेषु ये ।।
राक्षसास्ते स्मृतास्तस्मात्क्षुधात्मानो निशाचराः ।। १८ ।।
ध्रुवं क्षणोमि येम्भांसि तेषु दृष्ट्वा परस्परम् ।।
तेन ते कर्मणा यक्षा गुह्यकाः क्रूरकर्मिणः ।। १९ ।।
रक्षणे पालने चापि धातुरेव विभाव्यते ।।
यक्ष इत्येष धातुर्वै क्षेपणे सन्निरुध्यते ।। 1.107.२० ।।
रक्षणाद्रक्ष इत्युक्ताः क्षपणाद्यक्ष उच्यते ।।
तान्दृष्ट्वा तत्क्षणेनास्य केशाः शीर्यन्त धीमतः ।। २१ ।।
ते शीर्णा व्युत्थिता ह्यूर्ध्वमारोहन्त ततः पुनः ।।
सर्पणात्तु स्मृताः सर्पाः पन्नत्वात्पन्नगाः स्मृताः ।। २२ ।।
बालात्मानः स्मृता व्याला हीनत्वाच्चाहयः स्मृताः ।।
पन्नत्वात्पन्नगाश्चापि सर्पास्तेऽपायसर्पणात् ।। २३ ।।
तेषां लयाः पृथिव्यापः सूर्याचन्द्रमसौ घनाः ।।
तस्य क्रोधोऽभवद्धूममग्निगर्भः सुदारुणः ।। २४ ।।
स तान्सर्पान्समुत्पन्नानाविवेश विषात्मकान् ।।
सर्पान्दृष्ट्वा ततः क्रोधत्क्रोधात्मानो विनिर्ममे ।। २५ ।।
गां धयन्तस्ततो दृष्ट्वा गन्धर्वा अग्निरेतसः ।।
धय इत्येष धातुर्वै पाने ह्येष निरुध्यते ।। २६ ।।
पिबन्तो जज्ञिरे वाचा गन्धर्वास्तेन ते स्मृताः ।।
कर्णेन कपिला भूत्वा पिशाचाः कपिशा ह्यलम् ।। २७ ।।
भूतत्वात्ते स्मृता भूताः पिशाचाः पिशिताशिनः ।।
अष्टासु तासु सृष्टासु देवयोनिषु स प्रभुः ।। २८ ।।
ततः स्वच्छन्दतोऽन्यानि वयांसि वयसा सृजन् ।।
पक्षिणः स तु दृष्ट्वा वै ततः पशुगणान्सृजन् ।। २९ ।।
___________
मुखतोऽजाः सृजन्सो वै वक्षसश्चा वयोऽसृजत् गावश्चैवोदराद्ब्रह्मा पुनरन्याँश्च निर्ममे ।1.107.३० ।
पादतोऽश्वांस्तुरङ्गांश्च रासभान्गवयान्मृगान् ।उष्ट्रांश्चैव वराहांश्च श्वानानन्यांश्च जातयः।३१ ।।
ओषध्यः फलमूलिन्यो रोमभिस्तस्य जज्ञिरे ।।एवंविधौषधीः सृष्ट्वा न्ययुजत्सोऽध्वरेषु ताः ।। ३२ ।।
अस्य त्वादौ तु कल्पस्य त्रेतायुगमुखे पुरा ।।गौरजः पुरुषोथाविरथाश्वतरगर्दभाः ।। ३३ ।।
एते ग्राम्याः स्मृताः सप्त आरण्याः सप्त चापरे।महिषो गवयोष्ट्रास्तु द्विखुरः शरभो द्विपः ।। ३४ ।।
मर्कटः सप्तमस्तेषामारण्याः पशवस्तु ते ।।गायत्रीं च ऋचं चैव त्रिवृत्स्तोमं रथन्तरम् ।। ३५ ।।
(विष्णु धर्मोत्तर पुराण खण्ड प्रथम अध्याय १०७)
____________________________________
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ।।यज्ञोऽपि त्रैष्टुभं छन्दः स्तोमं पञ्चदशस्तथा।३६।
बृहत्साम तथोक्तं च दक्षिणात्सोऽसृजन्मुखात् ।।सामानि जगती चैव स्तोमं सप्तदशं तथा ।। ३७ ।।
वैरूप्यमतिरात्रं च पश्चिमात्सोऽसृजन्मुखात् ।।अथर्वमेकविंशं च त्रिष्टुब्वैराजमेव च अप्तुर्यामं च यज्ञानां चोत्तरात्सोऽसृजन्मुखात् ।।३८।।
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ।। ३९ ।।सृष्ट्वा चतुष्टयं पूर्वं देवर्षिपितृमानवान् ।।ततोऽसृजत्स भूतानि स्थावराणि चराणि च ।। 1.107.४० ।।
सृष्ट्वा यक्षपिशाचांश्च गन्धर्वाप्सरसस्तथा ।।नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।। ४१ ।।
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् । जरायुजं चाण्डजं च सस्वेदजमथोद्भिजम् ।४२।
भूतग्रामं संकृतवान्देवदेवश्चतुर्विधम्। पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः ।। ४३ ।।
रक्षांसि च पिशाचांश्च मनुष्यांश्च जरायुजाः ।।अण्डजाः पक्षिणः सर्पानक्रान्मत्स्यांश्च कच्छपान् ।। ४२ ।।
यानि चैवं प्रकाराणि स्थावराणि चराणि च ।।स्वेदजं दंशमशकयूकामक्षिकमत्कुणम्।। ४५ ।।
ऊष्मणश्चोपजायन्ते यच्चान्यत्किञ्चिदीदृशम् ।।उद्भिजास्तरवः सर्वे बीजकाण्डप्ररोहिणः ।। ४६ ।।
ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ।।
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृता ।।४७।।
पुष्पिणः फलिनश्चैव वृक्षाश्चोभयतः शुभाः ।।
प्रतानाश्चैव वल्ल्यश्च वीरुधः परिकीर्तिताः।।४८।।
गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।।
बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ।। ४९ ।।
तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।।
अनुसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ।। 1.107.५० ।।
एकदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः ।।
घोरेऽस्मिन्भूतसंसारे नित्ये सततयायिनि ।। ५१ ।।
यं तु कर्मणि यस्मिन्स न्ययुङ्क्त प्रथमं प्रभुः ।।
तत्तदेव स्वयं तेजो युज्यमानः पुनःपुनः ।। ५२ ।।
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते ।।
तद्भाविता प्रपद्यन्ते तस्मात्तत्तस्य रोचते ।। ५३ ।।
यद्यस्य सोददात्सर्गे स तत्तत्स्वयमाविशत् ।।
यथर्तुलिङ्गान्यृतवः स्वयमेव तु पर्यये ।। ५४ ।।
स्वानिस्वान्यभिपद्यन्ते तथा कर्माणि देहिनाम् ।।
लोकानां तु विशुद्ध्यर्थं मुखबाहूरुपादतः ।। ५५।।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत्।।
आस्याद्वै ब्राह्मणा जाता बाहुभ्यां क्षत्रियाः शुभाः ।। ५६ ।।
ऊरुभ्यां च विशः सृष्टाः शूद्रः पद्भ्यामजायत ।।
वर्णानामाश्रमाणां च धर्मं चक्रे पृथक्पृथक्।।५७।।
स्वधर्मे च निविष्टानां स्थानानि व्यदधात्प्रभुः ।।
ब्रह्मलोकं ब्राह्मणानां शाक्रं क्षत्त्रियजन्मनाम् ।।५८।।
मारुतं च विशां स्थानं गान्धर्वं शूद्रजन्मनाम् ।।
ब्रह्मचारिव्रतस्थानां ब्रह्मलोकं प्रजापतिः ।। ५९।।
प्राजापत्यं गृहस्थानां यथाविहितकारिणाम् ।।
स्थानं सप्त ऋषीणां च तथैव वनवासिनाम् ।। 1.107.६० ।।
यतीनामकृतं स्थानं यत्रेच्छागामिनां सदा ।।
कृत्वा स सूत्रसंस्थानं प्रजागर्भं तु मानसम् ।। ६१ ।।
अथासृजत्प्रजाकर्तॄन्मानसाँस्तनयान्प्रभुः ।।
धर्मं रुद्रं मनुं चैव सनकं च सनन्दनम् ।। ६२ ।।
भृगुं सनत्कुमारं च रुचिं श्रद्धां तथैव च ।।
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।। ६३ ।।
वसिष्ठं च महाभागं नारदं च महामुनिम् ।।
स्वभास्करान्बर्हिषदः अग्निष्वात्तांस्तथैव च ।। ६४ ।।
क्रव्यादांश्चोपहूतांश्च आज्यपांश्च सुकालिनः ।।
आद्या मूर्तिविहीनाश्च त्रयस्तेषां गणाः स्मृताः ।। ६५ ।।
चरमास्ते गणास्तेषां कथितास्तु समूर्तयः ।।
महाभूतशरीराणि सृष्टवान्स तथैव च ।। ६६ ।।
एवं कृत्वा प्रजासर्गं चांगुष्ठाद्दक्षिणात्ततः ।।
ससर्ज दक्षं भगवान्वामांगुष्ठात्तथैव च ।। ६७ ।।
ससर्ज भार्यां तस्यैव देवदेवः पितामहः ।।
तस्यां तु जनयामास दक्षो दुहितरः शुभाः ।।६८।।
ददौ ताश्च स धर्मात्मा ब्रह्मपुत्रेभ्य एव च ।।
सतीं ददौ स रुद्राय रुद्रा यस्याः सुताः स्मृताः ।। ६९ ।।
असंख्येया महावीर्या हरतुल्यपराक्रमाः ।।
यैर्व्याप्तं भुवनं सर्वं सूर्यस्येव गभस्तिभिः ।।1.107.७०।।
भृगवे च ददौ ख्यातिं रूपे णाप्रतिमां शुभाम् ।।
भृगुर्धाताविधातारौ जनयामास सायुधौ ।। ७१ ।।
श्रियं च जनयामास खचराँश्च तुरङ्गमान् ।।
भृगुः प्रादाच्छ्रियं देवीं राजन्नारायणस्य च।।७२।।
तस्यां संजनयामास बलोन्मादौ मदोत्कटौ ।।
मेरोः पर्वतराजस्य द्वे कन्ये भुवि विश्रुते।।७३।।
धातुर्विधातुस्ते दत्ते आयतिर्नियतिस्तथा।।
आयतिर्जनयामास प्राणं यदुकुलोद्वह।।७४।।
नियतिर्जनयामास मृकण्डुं तपसां निधिम्।।
व्यतीते सप्तमे कल्पे मृकण्डोः सुमहात्मनः।।। ।।७५।।
अहं पुत्रः समुत्पन्नो मनस्विन्यां नराधिप ।।
पत्नी मरीचेस्संभूतिर्दक्षस्य तनया शुभा ।।७६।।
प्रजापतिं पूर्णमासं जनयामास भामिनी ।।
पूर्णमासस्य विरजाः सुदामा तु तदात्मजः ।। ७७ ।।
लोकालोकनिविष्टस्तु लोकपालो मयेरितः ।।
पुत्रश्च पौर्णमासस्य सर्वेशो नाम चापरः ।। ७८ ।।
जनयामास पुत्रौ द्वौ स्तम्बः कश्यप एव च ।।
तयोर्गोत्रकरौ पुत्रौ ज्ञेयौ संन्यासनिश्चयौ ।। ७९ ।।
स्मृतिमङ्गिरसं प्रादाद्दक्षः पूर्वं प्रजापतिः ।।
सिनीवाली कुहू राका तथैवानुमतिः शुभा ।। 1.107.८० ।।
तस्यां संजनयामास अग्निं च भरतं तथा ।।
भरतस्य तथा पुत्रः पर्जन्य इति विश्रुतः ।। ८१ ।।
हिरण्यरोमा पर्जन्य उदीचीं दिशमाश्रितः ।।
लोकालोकेऽवतिष्ठँस्ते लोकपालो मयेरितः ।। ८२ ।।
अनुसूयां ददौ दक्षः तथात्रेः सुमहात्मनः ।।
तस्यां स जनयामास तपोराशिकरं परम् ।। ८३ ।।
प्रीतिं दक्षः पुलस्त्याय दत्तोर्णां जननीं ददौ ।।
पुलस्त्या क्षमांम् प्रादात्कर्दमस्य तु मातरम् ।। ८४ ।।
कार्दमिः शङ्खपादश्च दक्षिणामाश्रितो दिशम् ।।
लोकालोकनिविष्टस्ते लोकपालो मयेरितः ।। ८५ ।।
दक्षश्च सन्नतिं प्रादात्क्रतवे भूरितेजसे ।।
षष्टिः पुत्रसहस्राणि वालखिल्या इति स्मृताः ।। ८६ ।।
जनयामास धर्मज्ञान्सर्वां स्तानूर्ध्वरेतसः ।।
दक्षः प्रादादर्थेवोर्णां वसिष्ठाय महात्मने ।। ८७ ।।
तस्यामस्य सुता जाताः सप्त सप्ताश्ववर्चसः ।।
रजोबाहुरूर्ध्वबाहुः पवनश्चानघश्च यः ।। ८८ ।।
सुतपाः शक्तिरित्येते वासिष्ठाः सप्त कीर्तिताः ।।
केतुमान्सुमहातेजा राजसश्च तथा सुतः ।। ८९ ।।
लोकालोकनिवासी ते प्रतीच्यां स मयेरितः ।।
स्वाहां प्रादात्स दक्षोऽपि सशरीराय वह्नये ।। ९० ।।
दिव्यान्तरिक्षभौमानामग्नीनां जननीं प्रभुः ।।
स्वधां प्रादात्पितृभ्यस्तु मेनाया जननीं शुभाम् ।। ९१ ।।
हिमाचलाय मेनापि पितृभिः प्रतिपादिता ।।
चतुर्दशेमाः कन्याश्च दक्षो धर्माय वै ददौ ।। 1.107.९० ।।
कीतिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ।।
बुद्धिर्लज्जा वपुः शान्तिः तुष्टिः सिद्धिश्चतुर्दश ।। ९३ ।।
कीर्तिपुत्रो यशोदेवो दर्पो लक्ष्मीसुतः स्मृतः ।।
निश्चयश्च धृतेः पुत्रो मेधापुत्रस्तथा श्रुतः ।। ९४ ।।
पुष्टिर्लाभः सुतश्चैव कामः श्रद्धासुतः स्मृतः ।।
क्रियायास्तनयो देवो मतिपुत्रस्तथा दमः ।। ९५ ।।
बुद्धेर्बोधः सुतः प्रोक्तो लज्जाया विनयः स्मृतः ।।
वपुषो व्यवसायस्तु क्षेमः शान्तिसुतस्तथा ।। ९५ ।।
तुष्टेः पुत्रस्तु सन्तोषः सुखः सिद्धेश्च भास्वरः ।।
कामस्य च रतिर्भार्या तत्पुत्रो हर्ष उच्यते ।। ९७ ।।
एवं प्रजाविवृद्ध्यर्थं दक्षो दत्त्वाऽथ कन्यकाः ।।
ईजे कदाचिद्यज्ञेन हयमेधेन पार्थिव ।। ९८ ।।
तस्य जामातरः सर्वे गता यज्ञनिमन्त्रिताः ।।
भार्याभिः सहिताः सर्वे रुद्रं देवं सतीं विना ।। ९९ ।।
रुद्रो नतिं न कुरुते भाव्यर्थविनिचोदितः ।।
कदाचिदपि दक्षश्च तेनासौ न निमन्त्रितः ।। 1.107.१०० ।।
अनाहूतापि च गता पश्चात्तत्र सती शुभा ।।
दक्षान्न लेभे पूजां सा ततः क्रुद्धा शुभानना ।। १०१ ।।
तत्याज दक्षसम्भूतां तां तनुं हिमकन्दरे ।।
विनष्टां तु सतीं श्रुत्वा देवदेवः पिनाकधृक् ।। १०२ ।।
शशाप दक्षं धर्मज्ञं मनुष्यस्त्वं भविष्यसि ।।
ध्रुवस्यान्वयसंभूतो राजा त्रैलोक्यविश्रुतः ।। १०३ ।।
तत्रापि विघ्नं कर्तास्मि यज्ञकर्मण्युपस्थिते ।।
भृगुं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।। १०४ ।।
शशाप चैवाङ्गिरसं वसिष्ठं च महामुनिम् ।।
सतीमनुप्रवृत्तस्य दक्षस्यास्य प्रजापतेः ।। १०५ ।।
अनुवृत्तिः कृता यस्माद्भवद्भिर्धर्मकोविदैः।।
तस्माद्वैवस्वते प्राप्ते शुभे मन्वन्तरे द्विजाः ।। १०६ ।।
ब्रह्मणो यजमानस्य जन्म क्रूरमवाप्स्यथ ।।
देहत्यागे कृते राजन्सती देवी महाबला ।। १०७ ।।
उमेति विश्रुता लोके मेनायाः समपद्यत ।।
हिमाचलोऽपि तां देवीं ददौ शर्वाय पार्थिव ।। ।। १०८ ।।
तया वियुज्यते नासौ कदाचिदपि विश्रुता ।।
तस्यां तु जनयामास देवदेवोऽपि शङ्करः ।। १०९ ।।
विनायकं कुमारं च भृङ्गेशं सुमहाबलम् ।।
विघ्नानां च गणानां च पुत्रं राज्येऽभ्यषेचयत् ।। 1.107.११० ।।
विनायकं महादेवो गजवक्त्रं मनस्विनम् ।।
देवसेनापतिं शक्रः कुमारं कृतवाँस्तदा ।। १११ ।।
न तत्याज समीपाच्च भृंगेशं शङ्करस्तदा ।।
वैवस्वतेन्तरे प्राप्ते राजा दक्षो व्यजायत ।। ११२ ।।
ध्रुवस्यान्वयसम्भूतो महाबलपराक्रमः ।।
तत्राश्वमेधे वितते अनाहूतेन शूलिना ।। ११३ ।।
यज्ञो विध्वंसितस्तस्य वीरभद्रेण पार्थिव ।।
स दक्षो जनयामास कन्याः पार्थिवसत्तम ।। ११४ ।।
तासां च मध्यात्प्रददावष्टाविंशतिमिन्दवे ।।
देवतास्त्वभिमानिन्यो नक्षत्राणां पृथक्पृथक् ।। ११५ ।।
उक्तं हि ते ऋक्ष गणस्य जन्म शुभावहं पापभयापहं च ।।
अतः परं किं कथयामि तुभ्यं तत्त्वं वदस्वायतलोहिताक्ष ।।११६।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहर्क्षादिसंभवाध्यायो नाम सप्तोत्तरशततमोऽध्यायः ।।१०७ ।। ।।
विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १४२
← अध्यायः १४१ | विष्णुधर्मोत्तरपुराणम् अध्यायः १४२ वेदव्यासः | अध्यायः १४३ → |
।। वज्र उवाच ।। ।।
श्राद्धकालं समाचक्ष्व सर्वधर्मभृतां वर ।।
कस्मिन्काले कृते श्राद्धे प्रीयन्ते पितरो नृणाम् ।। १ ।।
मार्कण्डेय उवाच ।।
श्राद्धकालस्त्वमावस्यां नित्यं पार्थिवसत्तम ।।
पौर्णमासी तथा माघी श्रावणी च नरोत्तम ।।२।।
प्रोष्ठपद्यामतीतायां तथा कृष्णत्रयोदशी ।।
आग्रहायण्यतीतायां कृष्णास्तिस्रोऽष्टकास्तथा ।।३।।
शाकैश्च प्रथमं कार्या मांसैश्च तदनन्तरा ।।
तृतीया च तथाऽपूपैर्नित्यमेव विजानता ।। ४ ।।
अन्वष्टकासु च स्त्रीणां श्राद्धं कार्यं तथैव च ।।
अष्टकाविधिना हुत्वा क्रमेणैतास्तु पञ्चकाः ।। ५।।
मात्रे राजन्पितामह्यै श्राद्धं कार्यं यथाविधि ।।
तथैव प्रपितामह्यै विश्वेदेवपुरस्सरम् ।।६।।
पिण्डनिर्वपणं कार्यं तासां च पितृवन्नृप।।
भुक्तवत्सु च विप्रेषु तत्र कर्म निबोध मे ।। ७ ।।
प्रादेशमात्रा राजेन्द्र चतुरंगुलमायताः ।।
तावदेव समुत्सेधाः षट्कर्षूस्तत्र कारयेत् ।। ८ ।।
प्रत्येककर्षुमूले तु परिस्तीर्य हुताशनम् ।।
अग्निसोमयमानां च यागं कृत्वा यथा पुरा ।। ९ ।।
कर्षुत्रितयमूले तु पुरुषाणां तु कारयेत् ।।
पिण्ड निर्वपणं प्राग्वदेकैकस्मिन्यथाविधि ।। 1.142.१० ।।
कर्षूभिस्त्रितयं तच्च क्षीरान्नाद्भिः प्रपूरयेत् ।।
कर्षुत्रितयमूले तु स्त्रीणां निर्वपणं भवेत् ।। ११ ।।।
दध्ना मांसेन पयसा कर्षूणां चैव पूरणम् ।।
अन्नोदकविमिश्रेण कार्यं मनुजपुङ्गव ।। १२ ।।
भवन्तीभ्यो भवत्वेतदक्षयं परिकीर्तितम् ।।
एतानि श्राद्धकालानि नित्यान्याह प्रजापतिः ।। १३ ।।
श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते ।।
वृद्धौ श्राद्धं नरः कुर्वन्नित्यं वृद्धिमुपाश्नुते ।। १४ ।।
वृद्धौ समर्चयेद्विद्वान्नित्यं नान्दीमुखान्पितॄन् ।।
वृदिश्राद्धेषु कर्तव्यास्तिलस्थाने यवास्तथा ।। १५ ।।
कर्कन्धुदधिसंमिश्राँस्तथा पिण्डाँश्च निर्वपेत् ।।।
अच्छिन्ननाभ्यां कर्तव्यं श्राद्धं वै पुत्रजन्मनि ।। १६ ।।
आशौचोपरमे कार्यमथवाऽपि नराधिप ।।
विवाहदिवसे श्राद्धं तथा कार्यं विचक्षणैः ।।१७ ।।
वृद्धिश्राद्धं विधानेन चन्द्रे जन्मर्क्षमाश्रिते ।।
श्राद्धं प्रयत्नात्कर्तव्यं भूतिकामेन पार्थिव ।। १८ ।।
उत्तरादयनाच्छ्राद्धं श्रेष्ठं स्याद्दक्षिणायने ।।
चातुर्मास्यं च तत्रापि प्रसुप्ते केशवे हितम् ।।१९ ।।
प्रोष्ठपद्यपरं पक्षं तथापि च विशेषवत् ।।
पञ्चम्यूर्ध्वं च तत्रापि दशम्यूर्ध्वं ततोऽप्यति।।1.142.२०।।
मघायुता च तत्रापि शस्ता राजंस्त्रयोदशी ।।
तत्राक्षय्यं भवेच्छ्राद्धं मधुना पायसेन च ।। २१ ।।
सर्वस्वेनापि कर्तव्यं श्राद्धमत्र नराधिप ।।
परान्नभोजी त्वपचः श्राद्धमत्र तु कारयेत् ।। २२ ।।
यस्तु श्राद्धं सदा कुर्यात्सोऽश्वमेधफलो भवेत् ।।
निद्रां त्यजति सर्वात्मा यस्मिन्काले जनार्दनः ।। २३।।
तत्र श्राद्धमथानन्त्यं नात्र कार्या विचारणा ।।
श्राद्धं संक्रमणे भानोः कर्तव्यं पृथिवीपते ।। २४ ।।
विषुवद्द्वितयं तत्र अयने द्वे विशेषतः ।।
व्यतीपाते तथा श्राद्धं ज्ञेयं बहुफलं नृप ।। २५ ।।
अक्षय्यं च तथा श्राद्धं विज्ञेयं राहुदर्शने ।।
व्रीहिपाके च कर्तव्यं यवपाके तथैव च ।। २६ ।।
न तानद्युर्महाराज विना श्राद्धं कथंचन ।।
आश्विनस्यापरे पक्षे प्रथमे कार्तिकस्य च ।। २७ ।।
पूर्वाह्ने शुक्लपक्षस्य श्राद्धं कुर्याद्विचक्षणः ।।
अपराह्णे तथा कार्यं कृष्णपक्षे नराधिप ।। २८ ।।
संध्ययोर्वर्जस्तेछ्राद्धं तत्र रात्रौ नरेश्वर ।।
रात्रावपि च कर्तव्यं यदा स्याद्राहुदर्शनम् ।। २९ ।।
अक्षय्यं तत्समुद्दिष्टं यद्दत्तं राहुदर्शने ।।
अतः काम्यानि वक्ष्यामि श्राद्धानि तव पार्थिव।। 1.142.३० ।।
अरोग्यमथ सौभाग्यं समरे विजयं तथा ।।
सर्वान्कामाँस्तथा विद्यां धनं जीवितमेव च ।। ३१ ।।
आदित्यादिदिनेष्वेव श्राद्धं कुर्वन्सदा नरः ।।
क्रमेणैतदवाप्नोति नात्र कार्या विचारणा ।। ।। ३२ ।।
स्वर्गं ह्यपत्यानि तथा ब्रह्मवर्चसमेव च ।।
रौद्रेण कर्मणा सिद्धिं भुवं पुष्टिं तथा श्रियम् ।। ३३ ।।
सर्वान्कामाँश्च सौभाग्यं धनं ज्ञाति प्रधानताम् ।।
रूपयुक्ताँश्च तनयान्वाणिज्याद्धनसंपदम् ।। ३४ ।।
कनकं सुहृदो राज्यं सफलां च तथा कृषिम् ।।
समुद्रयानाल्लाभं च सर्वान्कामाँन्तथैव च ।। ३५ ।।
श्रैष्ठ्यकामांस्तथा सर्वान्बलमारोग्यमेव च ।।
रूप्यं द्रव्यं गृहं गाश्च तुरगाँश्चैव जीवितम् ।। ३६ ।।
कृत्तिकादिभरण्यन्तं क्रमात्तु भगणे नरः ।।
एकैकस्मिन्क्रमात्कुर्वञ्छ्राद्धं प्राप्नोत्यसंशयम् ।। ३७ ।।
स्त्रियः सुरूपाः स्वगृहे कन्यानां च तथा वरान्।।
सर्वान्कामान्यशश्चैव श्रियं द्यूतजयं कृषिम् ।। ३८ ।।
वाणिज्यं पशवश्चैव वाजिनश्च तथा सुतान् ।।
सुवर्णरौप्यसौभाग्यं प्राप्नोति श्राद्धदः क्रमात् ।। ३९।।
प्रतिपत्प्रभृति ह्येतद्यावद्राजँस्त्रयोदथी ।।
चतुर्दश्यां तु कर्तव्यं ये नराः शस्त्रघातिताः ।। 1.142.४० ।।
श्राद्धं सदा पञ्चदशीषु कार्यं कामान्समग्राँल्लभते मनुष्यः ।।
तस्मात्प्रयत्नेन नरेन्द्र कार्यं श्राद्धं सदा पञ्चदशीषु तज्ज्ञैः ।। ४१ ।। ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे श्राद्धकालवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४२ ।।
मुख्य मेनू खोलें
विकिस्रोतः
अन्विष्यताम्
विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १४३
किसी अन्य भाषा में पढ़ें
डाउनलोड करें
निरीक्षताम्
संपादित करें
< विष्णुधर्मोत्तरपुराणम् | खण्डः १
← अध्यायः १४२ विष्णुधर्मोत्तरपुराणम्
अध्यायः १४३
वेदव्यासः अध्यायः १४४ →
।। वज्र उवाच ।। ।।
कस्मै श्राद्धं न दातव्यं केन भुक्तं महाफलम् ।।
भवतीह द्विजश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ।। १ ।।
मार्कण्डेय उवाच ।। ।।
अनूढातनयो राजन्यश्च पौनर्भवः सुतः ।।
शूद्रापतिर्दुराचारो वाणिज्यायुधजीवकः ।। २ ।।
तथा वार्धुषिको यश्च शूद्रस्य च पुरोहितः ।।
पर्वकारस्तथा सूची यस्य चोपपतिर्गृहे ।। ३ ।।
कृत्वा नक्षत्रनिर्देशं यश्च जीवति पार्थिव ।।
चिकित्सितेन च तथा यस्य वृत्तिर्नरेश्वर ।।४।।
वेदविक्रयको यश्च वेदनिन्दक एव च ।।
तर्कशास्त्रेण दग्धश्च नास्तिको धर्मवर्जितः ।। ५ ।।
पित्रा विवदमानश्च यश्चैवोपनयेद्बहून् ।।
अयाज्ययाजी स्तेनश्च यक्ष्मी कितव एव च ।। ६ ।।
श्वित्री च यस्तथा काणो बधिरोऽन्धः कुणिस्तथा ।।
परपूर्वापतिश्चैव ग्रामप्रेष्यो निराकृतिः ।। ७ ।।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ।।
कन्यादूष्यभिशप्तश्च मित्रधुक्पिशुनस्तथा ।। ८ ।।
परिवित्तिः परिवेत्ता तस्य कन्याप्रदश्च यः ।।
याजकश्च तथा तस्य सोमविक्रयकस्तथा।।९।।
कूटसाक्षी च वाग्दुष्टः परदारो विकर्मकः ।।
तथा दैवापविद्धाग्निः विरुद्धजनकस्तथा ।। 1.143.१० ।।
यश्च हीनातिरिक्ताङ्गो दुश्चर्मा दमकस्तथा ।।
यश्च युक्तस्तथा राजन्पातकैश्चोपपातकैः ।। ११ ।।
द्विषन्मित्रे उभे चैव प्रयत्नेन विवर्जयेत् ।।
अतः परं प्रवक्ष्यामि ब्राह्मणान्पङ्क्तिपावनान् ।। १२ ।।
ब्रह्मदेयानुसन्तानः तपस्वी विजितेन्द्रियः ।।
पारगो यजुषां यश्च सामवेदस्य पारगः ।। १३।।
ऋग्वेदपारगो यश्च भृग्वङ्गिरसपारगः ।।
अथर्वशिरसोऽध्येता त्रिसुपर्णस्य पारगः ।। १४ ।।
त्रिणाचिकेतः पञ्चाग्निधर्मशास्त्रविशारदः ।।
पुराणपारगो यश्च इतिहासविशारदः ।। १५ ।।
अधीते सोत्तरं यश्च विष्णुधर्ममिदं शुभम् ।।
विजानाति यथावच्च यश्च व्याकरणं नृप ।। १६ ।।
ज्योतिषश्च तथा वेत्ता आयुर्वेदस्य च द्विजः ।।
ताभ्यां वृत्तिं न चेत्कुर्याद्वृत्तिस्ताभ्यां विगर्हिता ।। १७ ।।
आहिताग्निश्च यो विद्वान्सोमपश्च द्विजोत्तमः ।।
गुरुशुश्रूषणपरस्तीर्थपूतश्च यादव ।।
गायत्रीजापनिरतो योगी ध्यानपरायणः ।। १८ ।।
यस्याप्यनन्ते जगतामधीशे भक्तिः परा यादव देवदेवे ।।
तस्मात्परं नापरमस्ति किञ्चित्पात्रं त्रिलोके पुरुषप्रवीर ।। १९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पात्रापात्रपरीक्षाविधिर्नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४३ ।।
गोमयेनोपलिप्तेषु श्राद्धं कार्यं गृहेषु च।।
मनोज्ञेषु विचित्रेषु रुचिरेषूत्तमेषु च।।२१।।
देवायतनगोष्ठेषु श्राद्धं बहुफलं भवेत् ।।२२।।
तीर्थानि यानीह नरेन्द्रचन्द्र लोके पुराणैः परिकीर्तितानि ।।
तीरेषु तेषां विधिवत्प्रदाय श्राद्धं न शोचेन्मरणं जितात्मा ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे मार्कण्डेवज्रसंवादे श्राद्धदेशानुकीर्तनो नाम चतुश्चत्वारिंशदुत्तरशततमोऽध्यायः ।। १४४ ।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें