शिवपुराणम् संहिता- (५ )(उमासंहिता)अध्यायः (३६)
← | शिवपुराणम्/संहिता ५ (उमासंहिता) |
।।सूत उवाच ।।
मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः ।।
पश्चान्महोन्नता धीराः क्षत्रधर्मपरायणाः।।१।।
__________
इक्ष्वाकुः शिविनाभागौ धृष्टः शर्यातिरेव च ।।
नरिष्यन्तोऽथ नाभागः करूषश्च प्रियव्रतः।२।
विशेष-अन्य पुराणों के अनुसार उत्तरा पद भी मनु और सत रूपा के पुत्र थे ।
अकरोत्पुत्त्रकामस्तु मनुरिष्टिं प्रजापति।।
अनुत्पन्नेषु पुत्रेषु तत्रेष्ट्यां मुनिपुंगवः।।३।।
सा हि दिव्यांबरधरा दिव्याभरणभूषिता।
दिव्यसंहनना चैवमिला जज्ञे हि विश्रुता।।४।।
तामिडेत्येव होवाच मनुर्दण्डधरस्तथा ।।
अनुगच्छत्व मामेति तमिडा प्रत्युवाच ह ।।५।।
।।इडोवाच।।
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ।।
मित्रावरुणयोरंशैर्जातास्मि वदतां वर ।। ६ ।।
तयोस्सकाशं यास्यामि न मे धर्मे रुचिर्भवेत् ।।
एवमुक्त्वा सती सा तु मित्रावरुणयोस्ततः ।।७।।
गत्वांतिकं वरारोहा प्रांजलिर्वाक्यमब्रवीत् ।।
अंशैस्तु युवयोर्जाता मनुयज्ञे महामुनी ।।८।।
आगता भवतोरंति ब्रूतं किं करवाणि वाम् ।।
अन्यान्पुत्रान्सृज विभो तैर्वंशस्ते भविष्यति।९।
।।सूत उवाच।।
तां तथावादिनीं साध्वीमिडां मन्वध्वरोद्भवाम्।।
मित्रावरुणानामानौ मुनी ऊचतुरादरात् ।। 5.36.१० ।।
।।मित्रावरुणावूचतुः ।।
अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ।।
सत्येन चैव सुश्रोणि प्रीतौ द्वौ वरवर्णिनि ।। ११ ।।
आवयोस्त्वं महाभागे ख्यातिं चैव गमिष्यसि ।।
मनोर्वशकरः पुत्रस्त्वमेव च भविष्यसि ।।१२।।
सुद्युम्न इति विख्यातस्त्रिषु लोकेषु विश्रुतः ।।
जगत्प्रियो धर्मशीलौ मनुवंशविवर्द्धनः ।।१३।।
________
सुद्युम्न-
वैवस्वत मनु का पुत्र जो इड़ नाम से प्रसिद्ध हैं विशेषत:—अग्निपुराण में इसकी कथा इस प्रकार दी है—एक बार हिमालय में महादेव जी पार्वती जी के साथ क्रीड़ा कर रहे थे। उस समय वैवस्वत मनु का पुत्र इड़ शिकार के लिये वहाँ जा पहुँचा। महादेव जी ने उसे शाप दिया, जिससे वह स्त्री हो गया। एक बार सोम का पुत्र बुध उसे देख कामासक्त हो गया और उसके सहवास से उसके गर्भ से पूरुरवा का जन्म हुआ। अन्त में बुध की आराधना करने पर महादेव जी ने उसे शाप- मुक्त कर दिया और वह फिर पुरुष हो गया
______
।।सूत उवाच ।।
निवृत्ता सा तु तच्छ्रुत्वा गच्छंती पितुरंतिके ।।
बुधेनांतरमासाद्य मैथुनायोपमंत्रिता ।।१४।।
सोमपुत्रात्ततो जज्ञे तस्यां राजा पुरूरवाः ।।
पुत्रोऽतिसुन्दरः प्राज्ञ उर्वशी पतिरुन्नतः ।।१५।।
जनयित्वा च सा तत्र पुरूरवसमादरात्।।
पुत्रं शिवप्रसादात्तु पुनस्सुद्युम्नतां गतः ।।१६।।
______________________________
सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ।।
उत्कलश्च गयश्चापि विनताश्वश्च वीर्यवान् ।।१७।।
____________
उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः।
दिक्पूर्वा मुनि शार्दूल गयस्य तु गया स्मृताः।१८।
प्रविष्टे तु मनौ तात दिवाकरतनुं तदा ।।
दशधा तत्र तत्क्षेत्रमकरोत्पृथिवीं मनुः ।।१९।।
_____________________________________
इक्ष्वाकुः श्रेष्ठदायादो मध्यदेशमवाप्तवान्।।
वसिष्ठवचनादासीत्प्रतिष्ठानं महात्मनः।।5.36.२०।।
प्रतिष्ठां धर्मराज्यस्य सुद्युम्नोथ ततो ददौ।।
तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः।।२१।।
_______________________________
शक सूर्यवंशी राजा नरिष्यन्त के पुत्र शक हैं
परन्तु महाभारत में शकों की नन्दिनी गाय द्वारा हुई इतना ही नहीं रूढ़ि वादी अन्ध-विश्वासी ब्राह्मणों ने यूनान वासीयों की उत्पत्ति नन्दनी गाय की यौनि से बता डाली है।👇
मानवो यो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणः प्रभुः ।।
नरिष्यंताच्छकाः (शका:)पुत्रा नभगस्य सुतो ऽभवत्।२२।
_________________________________
अंबरीषस्तु बाह्लेयो बाह्लकं क्षेत्रामाप्तवान् ।।
शर्यातिर्मिथुनं त्वासीदानर्तो नाम विश्रुतः।।२३।।
पुत्रस्सुकन्या कन्या च या पत्नी च्यवनस्य हि ।।
आनर्तस्य हि दायादो रैभ्यो नाम स रैवतः ।२४ ।।
आनर्तविषये यस्य पुरी नाम कुशस्थली।।
महादिव्या सप्तपुरीमध्ये या सप्तमी मता।।२५।।
तस्य पुत्रशतं त्वासीत्ककुद्मी ज्येष्ठ उत्तमः ।।
तेजस्वी सुबलः पारो धर्मिष्ठो ब्रह्मपालकः।।२६।।
ककुद्मिनस्तु संजाता रेवती नाम कन्यका।।
महालावण्यसंयुक्ता दिव्यलक्ष्मीरिवापरा ।।२७।।
प्रष्टुं कन्यावरं राजा ककुद्मी कन्यया सह ।।
ब्रह्मलोके विधेस्सम्यक्सर्वाधीशो जगाम ह ।।२८।।
आवर्तमाने गांधर्वे स्थितो लब्धक्षणः क्षणम् ।।
शुश्राव तत्र गांधर्वं नर्तने ब्रह्मणोंऽतिके ।। २९ ।।
मुहूर्तभूतं तत्काले गतं बहुयुगं तदा ।।
न किंचिद्बुबुधे राजा ककुद्मी मुनयस्स तु ।। 5.36.३० ।।
तदासौ विधिमा नम्य स्वाभिप्रायं कृतांजलिः ।।
न्यवेदयद्विनीतात्मा ब्रह्मणे परमात्मने।।३१।।
तदभिप्रायमाकर्ण्य स प्रहस्य प्रजापतिः ।।
ककुद्मिनं महाराजं समाभाष्य समब्रवीत् ।।३२।।
।।ब्रह्मोवाच ।।
शृणु राजन्रैभ्यसुत ककुद्मिन्पृथिवपिते।।
मद्वचः प्रीतितस्सत्यं प्रवक्ष्यामि विशेषतः ।। ३३ ।।
कालेन संहृतास्ते वै वरा ये ते कृता हृदि ।।
न तद्गोत्रं हि तत्रास्ति कालस्सर्वस्य भक्षकः।३४।
त्वत्पुर्य्यपि हता पुण्यजनैस्सा राक्षसैर्नृप ।।
अष्टाविंशद्द्वापरेऽद्य कृष्णेन निर्मिता पुनः ।।३५।।
कृता द्वारावती नाम्ना बहुद्वारा मनोरमा ।।
भोजवृष्ण्यंधकैर्गुप्ता वासुदेवपुरोगमैः।।३६।।
तद्गच्छ तत्र प्रीतात्मा वासुदेवाय कन्यकाम् ।।
बलदेवाय देहि त्वमिमां स्वतनयां नृप।।३७।।
।।सूत उवाच ।।
इत्यादिष्टो नृपोऽयं तं नत्वा तां च पुरीं गतः ।।
गतान्बहून्युगाञ्ज्ञात्वा विस्मितः कन्यया युत:।३८।
ततस्तु युवतीं कन्यां तां च स्वां सुविधानतः ।।
कृष्णभ्रात्रे बलायाशु प्रादात्तत्र स रेवतीम् ।।३९।।
ततो जगाम शिखरं मेरोर्दिव्यं महाप्रभुः ।।
शिवमाराधयामास स नृपस्तपसि स्थितः 5.36.४०।
।।ऋषय ऊचुः ।।
तत्र स्थितो बहुयुगं ब्रह्मलोके स रेवतः ।।
युवैवागान्मर्त्यलोकमेतन्नः संशयो महान् ।।४१।।
।।सूत उवाच ।।
न जरा क्षुत्पिपासा वा विकारास्तत्र संति वै ।।
अपमृत्युर्न केषांचिन्मुनयो ब्रह्मणोंऽतिके ।। ४२ ।।
अतो न राजा संप्राप जरां मृत्युं च सा सुता ।।
स युवैवागतस्तत्र संमंत्र्य तनयावरम् ।।४३।।
गत्वा द्वारावतीं दिव्यां पुरीं कृष्णविनिर्मिताम् ।।
विवाहं कारयामास कन्यायाः स बलेन हि ।।४४।।
तस्य पुत्रशतं त्वासीद्धार्मिकस्य महाप्रभो ।।
कृष्णस्यापि सुता जाता बहुस्त्रीभ्योऽमितास्ततः।४५।।
अन्ववायो महांस्तत्र द्वयोरपि महात्मनोः ।।
क्षत्रिया दिक्षु सर्वासु गता हृष्टास्सुधार्मिकाः।४६ ।।
___________________________
इति प्रोक्तो हि शर्यातेर्वंशोऽन्येषां वदाम्यहम् ।।
मानवानां हि संक्षेपाच्छृणुतादरतो द्विजाः।४७।
नाभागो दिष्टपुत्रोऽभूत्स तु ब्राह्मणतां गतः ।।
स्वक्षत्रवंशं संस्थाप्य ब्रह्मकर्मभिरावृतः।।४८।।
धृष्टाद्धार्ष्टमभूत्क्षत्रं ब्रह्मभूयं गतं क्षितौ ।।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ।।४९।।
नृगो यो मनुपुत्रस्तु महादाता विशेषतः ।।
नानावसूनां सुप्रीत्या विप्रेभ्यश्च गवां तथा ।।5.36.५०।।
गोदातव्यत्ययाद्यस्तु स्वकुबुद्ध्या स्वपापतः ।।
कृकलासत्वमापन्नः श्रीकृष्णेन समुद्धृतः ।।५१।।
तस्येकोभूत्सुतः श्रेष्ठः प्रयातिर्धर्मवित्तथा ।।
इति श्रुतं मया व्यासात्तत्प्रोक्तं हि समासतः ।।५२।
___________________
वृषघ्नस्तु मनोः पुत्रो गोपालो गुरुणा कृतः ।।
पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ।५३।
स एकदाऽऽगतं गोष्ठे व्याघ्रं गा हिंसितुं बली ।।
श्रुत्वा गोकदनं बुद्धो हंतुं तं खड्गधृग्ययौ ।।५४।।
अजानन्नहनद्बभ्रोश्शिरश्शार्दूलशंकया ।।
निश्चक्राम सभीर्व्याघ्रो दृष्ट्वा तं खड्गिनं प्रभुम् ।५५।
मन्यमानो हतं व्याघ्रं स्वस्थानं स जगाम ह ।।
रात्र्यां तस्यां भ्रमापन्नो वर्षवातविनष्टधीः ।।५६।।
व्युष्टायां निशि चोत्थाय प्रगे तत्र गतो हि सः ।।
अद्राक्षीत्स हतां बभ्रुं न व्याघ्रं दुःखितोऽभवत् ।५७।
श्रुत्वा तद्वृत्तमाज्ञाय तं शशाप कृतागसम् ।।
अकामतोविचार्य्येति शूद्रो भव न क्षत्रियः ।।५८।।
एवं शप्तस्तु गुरुणा कुलाचार्य्येण कोपतः ।।
निस्सृतश्च पृषध्रस्तु जगाम विपिनं महत् ।। ५९ ।।
निर्विण्णः स तु कष्टेन विरक्तोऽभूत्स योगवान्।।
वनाग्नौ दग्धदेहश्च जगाम परमां गतिम्।।5.36.६०।।
कविः पुत्रो मनोः प्राज्ञश्शिवानुग्रहतोऽभवत् ।।
भुक्त्वा सुखं दिव्यं मुक्तिं प्राप सुदुर्लभाम्।।६१।।
___________________________________
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुनवपुत्रवंशवर्णनंनाम षट्त्रिंशो ऽध्यायः।।३६।।
शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३७
← | शिवपुराणम्/संहिता ५ (उमासंहिता) | → |
पूर्वतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतस्सुतः।।
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम्।।१।।
तेषां पुरस्तादभवन्नार्य्यावर्ते नृपा द्विजाः।।
तेषां विकुक्षिर्ज्येष्ठस्तु सोऽयोध्यायां नृपोऽभवत्।२।।
तत्कर्म शृणु तत्प्रीत्या यज्जातं वंशतो विधेः।
श्राद्धकर्म्मणि चोद्दिष्टो ह्यकृते श्राद्धकर्मणि ।।३।।
भक्षयित्वा शशं शीघ्रं शशादत्वमतो गतः।।
इक्ष्वाकुणा परित्यक्तश्शशादो वनमाविशत ।। ४ ।।
इक्ष्वाकौ संस्थिते राजा वसिष्ठवचनादभूत्।।
शकुनिप्रमुखास्तस्य पुत्राः पञ्चदश स्मृताः।।५।।
उत्तरापथदेशस्य रक्षितारो महीक्षितः ।।
अयोधस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान् ।६।।
अरिनाभः ककुत्स्थस्य पृथुरेतस्य वै सुतः ।।
विष्टराश्वः पृथोः पुत्रस्तस्मादिंद्रः प्रजापतिः ।।७।।
इंद्रस्य युवनाश्वस्तु श्रावस्तस्य प्रजापतिः।।
जज्ञे श्रावस्तकः प्राज्ञः श्रावस्ती येन निर्मिता।।
श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ।। ८ ।।
युवनाश्वस्सुतस्तस्य कुवलाश्वश्च तत्सुतः ।।
स हि धुंधुवधाद्भूतो धुंधुमारो नृपोत्तमः।।९।।
कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् ।।
बभूवात्र पिता राज्ये कुवलाश्वं न्ययोजयत् ।। 5.37.१० ।।
पुत्रसंक्रामितश्रीको वनं राजा समाविशत् ।।
तमुत्तंकोऽथ राजर्षि प्रयांतं प्रत्यवारयत् ।। ११ ।।
।।उत्तंक उवाच।।
भवता रक्षणं कार्यं पृथिव्या धर्मतः शृणु।।
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ।१२ ।।
भविष्यति निरुद्विग्ना नारण्यं गंतुमर्हसि ।।
ममाश्रमसमीपे तु हिमेषु मरुधन्वसु ।। १३ ।।
समुद्रवालुकापूर्णो दानवो बलदर्पितः ।।
देवतानामवध्यो हि महाकायो महाबलः ।।१४।।
अंतर्भूभिगतस्तत्र वालुकांतर्हितः स्थितः ।।
राक्षसस्य मधोः पुत्रो धुंधुनामा सुदारुणः ।। १५ ।।
शेते लोकविनाशाय तप आस्थाय दारुणम् ।।
संवत्सरस्य पर्यन्ते स निश्वासं विमुंचति।।१६।।
यदा तदा भूश्चलति सशैलवनकानना।।
सविस्फुलिंगं सांगारं सधूममपि वारुणम्।।१७।।
तेन रायन्न शक्नोमि तस्मिंस्स्थातुं स्व आश्रमे ।।
तं वारय महाबाहो लोकानां हितकाम्यया ।१८ ।
लोकास्स्वस्था भवंत्वद्य तस्मिन्विनिहते त्वया ।।
त्वं हि तस्य वधायैव समर्थः पृथवीपते ।।१९।।
विष्णुना च वरो दत्तो महान्पूर्व युगेऽनघ ।।
तेजसा स्वेन ते विष्णुस्तेज आप्याययिष्यति । 5.37.२०
पालने हि महाधर्मः प्रजानामिह दृश्यते ।।
न तथा दृश्यतेऽरण्ये मा तेऽभूद्बुद्धिरीदृशी ।।२१।।
ईदृशो नहि राजेन्द्र क्वचिद्धर्मः प्रविद्यते ।।
प्रजानां पालने यादृक् पुरा राजर्षिभिः कृतः।२२।
स एवमुक्तो राजर्षिरुत्तंकेन महात्मना ।।
कुवलाश्वः सुतं प्रादात्तस्मै धुन्धुनिवारणे ।२३।
भगवन्न्यस्तशस्त्रोहमयं तु तनयो मम ।।
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ।२४।
इत्युक्त्वा पुत्रमादिश्य ययौ स तपसे नृपः ।।
कुवलाश्वश्च सोत्तङ्को ययौ धुन्धुविनिग्रहे ।२५।
तमाविशत्तदा विष्णुर्भगवांस्तेजसा प्रभुः ।।
उत्तंकस्य नियोगाद्वै लोकानां हितकाम्यया ।२६।
तस्मिन्प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् ।।
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ।२७।
दिव्यैर्माल्यैश्च तं देवास्समंतात्समवारयन् ।।
प्रशंसां चक्रिरे तस्य जय जीवेति वादिनः ।२८।
स गत्वा जयतां श्रेष्ठस्तनयैस्सह पार्थिवः ।।
समुद्रं खनयामास वालुकार्णवमध्यतः ।२९।
नारायणस्य विप्रर्षेस्तेजसाप्यायितस्तु सः।।
बभूव सुमहातेजा भूयो बलसमन्वितः।5.37.३०।
तस्य पुत्रैः खनद्भिस्तु वालुकांतर्गतस्तु सः।।
धुन्धुरासादितो ब्रह्मन्दिशमाश्रित्य पश्चि माम् ।३१।
मुखजेनाग्निना क्रोधाल्लोकान्संवर्तयन्निव ।।
वारि सुस्राव वेगेन विधोः कधिरिवोदये।।३२।।
ततोऽनलैरभिहतं दग्धं पुत्रशतं हि तत् ।।
त्रय एवावशिष्टाश्च तेषु मध्ये मुनीश्वर ।।३३।।
ततस्स राजा विप्रेन्द्र राक्षसं तं महाबलम् ।।
आससाद महातेजा धुन्धुं विप्रविनाशनम् ।।३४।।
तस्य वारिमयं वेगमापीय स नराधिपः ।।
वह्निबाणेन वह्निं तु शमयामास वारिणा ।।३५।।
तं निहत्य महाकायं बलेनोदकराक्षसम्।।
उत्तंकस्येक्षयामास कृतं कर्म नराधिपः ।।३६।।
उत्तंकस्तु वरं प्रादात्तस्मै राज्ञे महामुने।।
अददच्चाक्षयं वित्तं शत्रुभिश्चापराजयम् ।।३७।।
धर्मे मतिं च सततं स्वर्गे वासं तथाक्षयम् ।।
पुत्राणां चाक्षयं लोकं रक्षसा ये तु संहताः।।३८।।
तस्य पुत्रास्त्रयश्शिष्टाः दृढाश्वः श्रेष्ठ उच्यते ।।
हंसाश्वकपिलाश्वौ च कुमारौ तत्कनीयसौ।।३९।।
धौंधुमारिर्दृढाश्वो यो हर्य्यश्वस्तस्य चात्मजः ।।
हर्यश्वस्य निकुंभोभूत्पुत्रो धर्मरतस्सदा ।।5.37.४०।।
संहताश्वो निकुंभस्य पुत्रो रणविशारदः।।
अक्षाश्वश्च कृताश्वश्च संहताश्वसुतोऽभवत।।४१।।
तस्य हैमवती कन्या सतां मान्या वृषद्वती।।
विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ।४२।
लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् ।।
अभिशप्ता तु सा भर्त्रा नदी सा बाहुदा कृता। ४३।
तस्य पुत्रो महानासीद्युवनाश्वो महीपतिः ।।
मांधाता युवनाश्वस्य त्रिषु लोकेषु विश्रुतः ।४४।
तस्य चैत्ररथी भार्या शशबिंदुसुताऽभवत् ।।
पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतं च सः ।४५।
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ तदा ।।
पुरुकुत्सं च धर्मज्ञं मुचुकुंदं च धार्मिकम् ।४६।
पुरुकुत्ससुतस्त्वासीद्विद्वांस्त्रय्यारुणिः कविः ।।
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबली ।४७ ।
पाणिग्रहणमंत्राणां विघ्रं चक्रे महात्मभिः ।।
येन भार्य्या हृता पूर्वं कृतोद्वाहः परस्य वै ।। ४८ ।
बलात्कामाच्च मोहाच्च संहर्षाच्च यदोत्कटात् ।।
जहार कन्यां कामाच्च कस्यचित्पुरवासिनः।४९।
अधर्मसंगिनं तं तु राजा त्रय्यारुणिस्त्यजन् ।।
अपध्वंसेति बहुशोऽवदत्क्रोधसमन्वितः ।। 5.37.५० ।।
पितरं सोऽब्रवीन्मुक्तः क्व गच्छामीति वै तदा ।।
वस श्वपाकनिकटे राजा प्राहेति तं तदा ।। ५१ ।।
स हि सत्यव्रतस्तेन श्वपाकवसथांतिके।
पित्रा त्यक्तोऽवसद्वीरो धर्मपालेन भूभुजा ।५२ ।।
ततस्त्रय्यारुणी राजा विरक्तः पुत्रकर्मणा ।।
स शंकरतपः कर्त्तुं सर्वं त्यक्त्वा वनं ययौ ।।५३।।
ततस्तस्य स्व विषये नावर्षत्पाकशासनः ।।
समा द्वादश विप्रर्षे तेनाधर्मेण वै तदा ।।५४।।
दारां तस्य तु विषये विश्वामित्रो महातपाः ।।
संत्यज्य सागरानूपे चचार विपुलं तपः ।।५५।।
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम्।।
शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन च।।५६।।
तां तु दृष्ट्वा गले बद्धं विक्रीणंती स्वमात्मजम् ।।
महर्षिपुत्रं धर्म्मात्मा मोचयामास तं तदा ।५७।।
सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ।।
विश्वामित्रस्य तुष्ट्यर्थमनुक्रोशार्थमेव च ।।५८।।
तदारभ्य स पुत्रस्तु विश्वामित्रस्य वै मुनेः ।।
अभवद्गालवो नाम गलबंधान्महातपाः ।।५९।।
____________________________________
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुवंशवर्णनंनाम सप्तत्रिंशोऽध्यायः ।।३७।।
________________________
हरिवंश पुराण हरिवंश पर्व १४ वें अध्याय में सगर की उत्पत्ति-
← | हरिवंशपुराणम | → |
सगरस्य उत्पत्तिः चरित्रं च, सगरपुत्राणां उद्योगेन समुद्रस्य 'सागर' संज्ञा |
चतुर्दशोऽध्यायः
जनमेजय उवाच
कथं स सगरो जातो गरेणैव सहाच्युतः ।
किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ।१।।
धर्मं कुलोचितं क्रुद्धो राजा निरसदच्युतः ।
एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन ।। २ ।।
।वैशम्पायन उवाच
बाहोर्व्यसनिनस्तात हृतं राज्यमभूत् किल ।
हैहयैस्तालजङ्घैश्च शकैः सार्द्धं विशाम्पते ।। ३ ।।
यवनाः पारदाश्चैव काम्बोजाः पह्लवाः खसाः।
एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमन् ।४ ।
हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ ।
पत्न्या चानुगतो दुःखी वने प्राणानवासृजत्।। ५ ।।
_________________________________
पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात्।
सपत्न्या च गरस्तस्यै दत्तः पूर्वमभूत् किल ।। ६ ।।
सा तु भर्तुश्चितां कृत्वा वने तामध्यरोहत ।
और्वस्तां भार्गवस्तात कारुण्यात् समवारयत् ।७।
तस्याश्रमे च तं गर्भं गरेणैव सहाच्युतम् ।
व्यजायत महाबाहुं सगरं नाम पार्थिवम् ।। ८ ।।
और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः ।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ।९।
आग्नेयं तु महाघोरममरैरपि दुःसहम्।
स तेनास्त्रबलेनाजौ बलेन च समन्वितः ।। 1.14.१० ।। (हरिवंश पुराण)
___________________________
हैहयान्निजघानाशु क्रुद्धो रुद्रः पशूनिव ।
आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ।।११ ।।
ततः शकान्सयवनान्काम्बोजान्पारदांस्तथा ।
पह्लवांश्चैव निःशेषान् कर्तुं व्यवसितस्तदा।१२।
ते वध्यमाना वीरेण सगरेण महात्मना ।
वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम् ।। १३ ।।
वसिष्ठस्त्वथ तान् दृष्ट्वा समयेन महाद्युतिः ।
सगरं वारयामास तेषां दत्त्वाभयं तदा ।। १४ ।।
सगरः स्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्य च ।
धर्मं जघान तेषां वै वेषान्यत्वं चकार ह ।। १५ ।।
अर्द्धं शकानां शिरसो मुण्डं कृत्वा व्यसर्जयत्।
यवनानां शिरः सर्वं काम्बोजानां तथैव च।१६।
पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ।१७।।
शका यवनकाम्बोजाः पारदाश्च विशाम्पते ।
कोलिसर्पाः समहिषा दार्द्याश्चोलाः सकेरलाः।१८।
सर्वे ते क्षत्रियास्तात धर्मस्तेषां निराकृतः ।
वसिष्ठवचनाद् राजन् सगरेण महात्मना ।। १९ ।।
खसांस्तुषारांश्चोलांश्च मद्रान्किष्किन्धकांस्तथा।
कौन्तलांश्च तथा वङ्गान्साल्वान् कौङ्कणकांस्तथा।।1.14.२०।।
_________________
स धर्मविजयी राजा विजित्येमां वसुंधराम् ।
अश्वं वै प्रेरयामास वाजिमेधाय दीक्षितः ।। २१ ।।
तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे ।
वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ।। २२ ।।
स तं देशं तदा पुत्रैः खानयामास पार्थिवः ।
आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे ।। २३ ।।
तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् ।
विष्णुं कपिलरूपेण स्वपन्तं पुरुषोत्तमम् ।। २४ ।।
तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः ।
दग्धास्ते वै महाराज चत्वारस्त्ववशेषिताः।२५।
बर्हकेतुः सुकेतुश्च तथा धर्मरथो नृपः ।
शूरः पञ्चजनश्चैव तस्य वंशकरो नृपः ।। २६ ।।
प्रादाच्च तस्मै भगवान् हरिर्नारायणो वरान् ।
अक्षयं वंशमिक्ष्वाकोः कीर्तिं चाप्यनिवर्तनीम्।२७।।
पुत्रं समुद्रं च विभुः स्वर्गवासं तथाक्षयम् ।
पुत्राणां चाक्षयाँल्लोकांस्तस्य ये चक्षुषा हताः।२८।
समुद्रश्चार्घ्यमादाय ववन्दे तं महीपतिम् ।
सागरत्वं च लेभे स कर्मणा तेन तस्य वै ।। २९ ।।
तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् ।
आजहाराश्वमेधानां शतं स सुमहायशाः ।
पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम् ।। 1.14.३० ।।
______________________________
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि सगरोत्पत्तिर्नाम चतुर्दशोऽध्यायः ।। १४ ।।
शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३८
← | शिवपुराणम्/संहिता ५ (उमासंहिता ) | → |
।।सूत उवाच ।।
सत्यव्रतस्तु तद्भक्त्या कृपया च प्रतिज्ञया ।।
विश्वामित्रकलत्रं च पोषयामास वै तदा ।।१।।
हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् ।।
विश्वामित्राश्रमाभ्याशे तन्मांसं चाक्षिपन्मुने ।। २ ।।
तीर्थं गां चैव रात्रं च तथैवांतःपुरं मुनिः ।।
याज्योपाध्यायसंयोगाद्वसिष्ठः पर्य्यरक्षत ।।३।।
सत्यव्रतस्य वाक्याद्वा भाविनोर्थस्य वै बलात्।।
वसिष्ठोऽभ्यधिकं मन्युं धारयामास नित्यशः।।४।।
पित्रा तु तं तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् ।।
न वारयामास मुनिर्वसिष्ठः कारणेन च ।।५।।
पाणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे।।
न च सत्यव्रतस्थस्य तमुपांशुमबुद्ध्यत।।६।।
तस्मिन्स परितोषाय पितुरासीन्महात्मनः।।
कुलस्य निष्कृतिं विप्र कृतवान्वै भवेदिति।।७।।
न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् ।।
अभिषेक्ष्याम्यहं पुत्रमस्यां नैवाब्रवीन्मुनिः ।।८।।
स तु द्वादश वर्षाणि दीक्षां तामुद्वहद्बली ।।
अविद्यामाने मांसे तु वसिष्ठस्य महात्मनः ।। ९ ।।
सर्वकामदुहां दोग्ध्रीं ददर्श स नृपात्मजः ।।
तां वै क्रोधाच्च लोभाच्च श्रमाद्वै च क्षुधान्वितः।5.38.१०।।
दाशधर्मगतो राजा तां जघान स वै मुने ।।
स तं मांसं स्वयं चैव विश्वामित्रस्य चात्मजम् ।११।
भोजयामास तच्छ्रुत्वा वसिष्ठो ह्यस्य चुक्रुधे ।।
उवाच च मुनिश्रेष्ठस्तं तदा क्रोधसंयुतः ।।१२।।
।।वसिष्ठ उवाच ।।
पातयेयमहं क्रूरं तव शंकुमयोमयम् ।।
यदि ते द्वाविमौ शंकू नश्येतां वै कृतौ पुरा ।।१३।।
पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ।।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ।।१४।।
त्रिशंकुरिति होवाच त्रिशंकुरिति स स्मृतः ।।
विश्वामित्रस्तु दाराणामागतो भरणे कृते ।। १५ ।।
तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशंकवे।।
छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः।।१६।।
अनावृष्टिभये चास्मिञ्जाते द्वादशवार्षिके ।।
अभिषिच्य पितृ राज्ये याजयामास तं मुनिः।१७।
मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।।
सशरीरं तदा तं तु दिवमारोह यत्प्रभुः।१८।
__________________________
तस्य सत्यरथा नाम भार्या केकयवंशजा ।।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ।।१९।।
स वै राजा हरिश्चन्द्रो त्रैशंकव इति स्मृतः ।
आहर्ता राजसूयस्य सम्राडिति ह विश्रुतः। 5.38.२०।
हरिश्चन्द्रस्य हि सुतो रोहितो नाम विश्रुतः ।।
रोहितस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान्।।२१।।
हैहयास्तालजंघाश्च निरस्यंति स्म तं नृपम्।।
नात्मार्थे धार्मिको विप्रः स हि धर्मपरोऽभवत ।।२२।।
सगरं ससुतं बाहुर्जज्ञे सह गरेण वै ।।
और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः ।।२३।।
आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः।।
जिगाय पृथिवीं हत्वा तालजंघान्सहैहयान।।२४।।
शकान्बहूदकांश्चैव पारदांतगणान्खशान्।।
सुधर्मं स्थापयामास शशास वृषतः क्षितिम् ।।२५।।
।।शौनक उवाच ।।
स वै गरेण सहितः कथं जातस्तु क्षत्रियात् ।।
जितवानेतदाचक्ष्व विस्तरेण हि सूतज ।। २६ ।।
।।सूत उवाच।।
पारीक्षितेन संपृष्टो वैशंपायन एव च ।।
यदाचष्ट स्म तद्वक्ष्ये शृणुष्वैकमना मुने ।। २७ ।।
।। पारीक्षितो उवाच ।।
कथं स सगरो राजा गरेण सहितो मुने ।।
जातस्स जघ्निवान्भूयानेतदाख्यातुमर्हसि।२८।।
।।वैशम्पायन उवाच ।।
बाहोर्व्यसनिनस्तात हृतं राज्यमभूत्किल ।।
हैहयैस्तालजंघैश्च शकैस्सार्द्धं विशांपते ।२९।
यवनाः पारदाश्चैव काम्बोजाः पाह्नवास्तथा ।।
बहूदकाश्च पंचैव गणाः प्रोक्ताश्च रक्षसाम्।5.38.३०।
एते पंच गणा राजन्हैहयार्थेषु रक्षसाम्।।
कृत्वा पराक्रमान् बाहो राज्यं तेभ्यो ददुर्बलात्।३१।
_________________________________
हृतराज्यस्ततो विप्राः स वै बाहुर्वनं ययौ ।।
पत्न्या चानुगतो दुःखी स वै प्राणानवासृजत् ।३२।
____
पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात्।सपत्न्या च गरस्तस्यै दत्तः पूर्वमभूत् किल ।६।
(इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि सगरोत्पत्तिर्नाम चतुर्दशोऽध्यायः ।। १४ ।।
_________________________________
पत्नी या यादवी तस्य सगर्भा पृष्ठतो गता ।
सपत्न्या च गरस्तस्यै दत्तः पूर्वं सुतेर्ष्यया ।३३।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सत्यव्रतादिसगरपर्यंत वंशवर्णनं नामाष्टत्रिंशोऽध्यायः ।। ३८ ।।
_______________________________
सा तु भर्तुश्चितां कृत्वा ज्वलनं चावरोहत ।।
और्वस्तां भार्गवो राजन्कारुण्यात्समवारयत् ।३४।
तस्याश्रमे स्थिता राज्ञी गर्भरक्षणहेतवे ।।
सिषेवे मुनिवर्यं तं स्मरन्ती शंकरं हृदा ।। ३५ ।।
एकदा खलु तद्गर्भो गरेणैव सह च्युतः ।।
सुमुहूर्त्ते सुलग्ने च पंचोच्चग्रहसंयुते ।। ३६ ।।
तस्मिँल्लग्ने च बलिनि सर्वथा मुनिसत्तम ।।
व्यजायत महाबाहुस्सगरो नाम पार्थिवः ।।३७।।
और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः ।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ।३८।
आग्नेयं तं महाभागो ह्यमरैरपि दुस्सहम् ।।
जग्राह विधिना प्रीत्या सगरोसौ नृपोत्तमः।३९।
स तेनास्त्रबलेनैव बलेन च समन्वितः ।।
हैहयान्विजघानाशु संकुद्धोऽस्त्रबलेन च ।। 5.38.४० -शिवपुराण।।
आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ।।
धर्मं संस्थापयामास सगरोऽसौ महीतले ।।४१।।
ततश्शकास्सयवनाः काम्बोजाः पाह्नवास्तथा ।।
हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः।।४२।।
वसिष्ठो वंचनां कृत्वा समयेन महाद्युतिः।।
सगरं वारयामास तेषां दत्त्वाभयं नृपम्।।४३।।
सगरस्स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च।।
धर्मं जघान तेषां वै केशान्यत्वं चकार ह ।। ४४ ।।
अर्द्धं शकानां शिरसो मुंडं कृत्वा व्यसर्जयत् ।।
यवनानां शिरस्सर्वं कांबोजानां तथैव च ।। ४५ ।।
पारदा मुंडकेशाश्च पाह्नवाश्श्मश्रुधारिणः ।।
निस्स्वाध्यायवषट्काराः कृतास्तेन महात्मना।४६।
जिता च सकला पृथ्वी धर्मतस्तेन भूभुजा ।।
सर्वे ते क्षत्रियास्तात धर्महीनाः कृताः पुराः ।।४७।।
स धर्मविजयी राजा विजित्वेमां वसुंधराम्।।
अश्वं संस्कारयामास वाजिमेधाय पार्थिवः।।४८।।
तस्य चास्यतेस्सोऽश्वस्समुद्रे पूर्वदक्षिणे ।।
गतः षष्टिसहस्रैस्तु तत्पुत्रैरन्वितो मुने ।। ४९ ।।
देवराजेन शक्रेण सोऽश्वो हि स्वार्थसाधिना ।।
वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ।।5.38.५०।।
महाराजोऽथ सगरस्तद्धयान्वेषणाय च।।
स तं देशं तदा पुत्रैः खानयामास सर्वतः ।।५१।।
आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे ।।
तमादिपुरुषं देवं कपिलं विश्वरूपिणम्।।५२।।
तस्य चक्षुस्समुत्थेन वह्निना प्रतिबुध्यतः ।।
दग्धाः षष्टिसहस्राणि चत्वारस्त्ववशेषिताः।।५३।।
हर्षकेतुस्सुकेतुश्च तथा धर्मरथोपरः।।
शूरः पंचजनश्चैव तस्य वंशकरा नृपाः।।५४।।
प्रादाच्च तस्मै भगवान् हरिः पंचवरान्स्वयम्।।
वंशं मेधां च कीर्तिञ्च समुद्रं तनयं धनम् ।।५५।।
सागरत्वं च लेभे स कर्मणा तस्य तेन वै।।
तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्।।५६।।
आजहाराश्वमेधानां शतं स तु महायशाः ।।
ईजे शंभुविभूतीश्च देवतास्तत्र सुव्रताः ।। ५७ ।।
______________________________________
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सत्यव्रतादिसगरपर्यंत वंशवर्णनं नामाष्टत्रिंशोऽध्यायः ।। ३८ ।।
__________________
शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३९।
← | शिवपुराणम्/संहिता पर्व-5/अध्याय- 39/ उमासंहिता) | → |
।।शौनक उवाच ।।
सगरस्यात्मजा वीराः कथं जाता महाबलाः ।।
विक्रांताः षष्टिसाहस्रा विधना केन वा वद ।।१।।
।सूत उवाच।।
द्वे पत्न्यो सगरस्यास्तां तपसा दग्धकिल्विषे।।
और्वस्तयोर्वरं प्रादात्तोषितो मुनिसत्तमः ।। २ ।।
षष्टिपुत्रसहस्राणि एका वव्रे तरस्विनाम्।।
एकं वंशकरं त्वेका यथेष्टं वरशालिनी।।३।।
तत्रैवागत्य तां लब्ध्वा पुत्राञ्शूरान्बहूंस्तदा ।।
सा चैव सुषुवे तुम्बं बीजपूर्वं पृथक्कृतम् । ४।
ते सर्वे हि स्वधात्रीभिर्ववृधुश्च यथाक्रमम् ।।
घृतपूर्णेषु कुम्भेषु कुमाराः प्रीतिवर्द्धनाः ।५ ।
कपिलाग्निप्रदग्धानां तेषां तत्र महात्मनाम् ।।
एकः पंचजनो नाम पुत्रो राजा बभूव ह ।। ६ ।।
ततः पंचजनस्यासीदंशुमान्नाम वीर्यवान् ।।
दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ।। ७ ।।
यस्तु गंगा सरिच्छ्रेष्ठामवातारयतः प्रभु ।।
समुद्रमानयच्चेमां दुहितृत्वमकल्पयत्।।८।।
भगीरथसुतो राजा श्रुतसेनः इति श्रुतः।।
नाभागस्तु सुतस्तस्य पुत्रः परमधार्मिकः।।९।।
अंबरीषस्तु नाभागिस्सिंधुद्वीपस्ततोऽभवत्।।
अयुताजित्तु दायादस्सिंधुद्वीपस्य वीर्यवान्।।5.39.१०।।
आयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः ।।
दिव्याक्षहृदयज्ञोऽसौ राजा नलसखोऽभवत् ।११।।
ऋतुपर्णसुतस्त्वासीदनुपर्णो महाद्युतिः ।।
तस्य कल्माषपादो वै नाम्ना मित्रसहस्तथा ।१२ ।।
कल्माषपादस्य सुतस्सर्वकर्मेति विश्रुतः ।।
अनरण्यस्तु पुत्रोऽभूद्विश्रुतस्सर्वशर्मणः ।।१३।।
अनरण्यसुतो राजा विद्वान्मुंडिद्रुहोऽभवत्।।
निषधस्तस्य तनयो रतिः खट्वाङ्ग इत्यपि।।१४।।
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ।।
त्रयोऽपि संचिता लोका बुद्ध्या सत्येन चानघ।१५।
दीर्घबाहुस्सुतस्तस्य रघुस्तस्याभवत्सुतः ।।
अजस्तस्य तु पुत्रोऽभूत्तस्माद्दशरथोऽभवत् ।१६।।
___________________________________
रामो दशरथाज्जज्ञे धर्मात्मा यो महायशाः ।।
स विष्ण्वंशो महाशैवः पौलस्त्यो येन घातितः।१७।
________________________________
तच्चरितं च बहुधा पुराणेषु प्रवर्णितम् ।।
रामायणे प्रसिद्धं हि नातः प्रोक्तं तु विस्तरात् १८।
रामस्य तनयो जज्ञे कुश इत्यपि विश्रुतः ।।
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः।१९।
निषधस्य नलः पुत्रो नभाः पुत्रो नलस्य तु ।।
नभसः पुंडरीकश्च क्षेमधन्वा ततस्मृतः ।। 5.39.२० ।।
क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् ।।
आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ।।२१।।
अहीनगोस्तु दायादस्सहस्वान्नाम वीर्यवान् ।।
वीरसेनात्मजस्तस्य यश्चैक्ष्वाकुकुलोद्भवः।।२२।।
वीरसेनस्य दायादः पारियात्रो बभूव ह।।
ततो बलाख्यस्तनयस्स्थलस्तस्मादभूत्सुतः।२३।।
अर्कांशसंभवस्तस्मात्पुत्रो यक्षः प्रतापवान्।।
तत्सुतस्त्वगुणस्त्वासीत्तस्माद्विधृतिरात्मजः ।२४।।
हिरण्यनाभस्तत्पुत्रो योगाचार्य्यो बभूव ह।।
स शिष्यो जैमिनिमुनेर्ह्यात्मविद्याविशारदः।।२५।।
कौशिल्यो याज्ञवल्क्योथ योगमध्यात्म्यसंज्ञकम्।।
यतोऽध्यगान्नृपवराद्धृदयग्रंथिभेदनम्।।२६।।
तत्सुतो पुष्पनामा हि ध्रुवसंज्ञस्तदात्मजः।।
अग्निवर्णस्सुतस्तस्य शीघ्रनामा सुतस्ततः ।।२७।
मरुन्नामा सुतस्तस्य योगसिद्धो बभूव ह।।
असावास्तेऽद्यापि प्रभुः कलापग्रामसंज्ञके ।२८ ।।
तद्वासिभिश्च मुनिभिः कलेरंते स एव हि ।।
पुनर्भावयिता नष्टं सूर्यवंशं विशेषतः ।२९ ।
पृथुश्रुतश्च तत्पुत्रस्संधिस्तस्य सुतः स्मृतः ।।
अमर्षणस्सुतस्तस्य मरुत्वांस्तत्सुतोऽभवत् ।।5.39.३०।।
विश्वसाह्वस्सुतस्तस्य तत्सुतोऽ भूत्प्रसेनजित् ।।
तक्षकस्तस्य तनयस्तत्सुतो हि बृहद्बलः ।। ३१ ।।
एत इक्ष्वाकुवंशीया अतीताः संप्रकीर्तिताः ।।
शृणु तानागतान्भूतांस्तद्वंश्यान्धर्मवित्तमान् ।।३२।।
बृहद्बलस्य तनयो भविता हि बृहद्रणः ।।
बृहद्रणसुतस्तस्योरुक्रियो हि भविष्यति ।। ३३ ।
वत्सवृद्धस्सुतस्तस्य प्रतिव्योमसुतस्ततः ।।
भानुस्तत्तनयो भावी दिवाको वाहिनीपतिः ।३४।।
सहदेवस्सुतस्तस्य महावीरो भविष्यति ।।
तत्सुतो बृहदश्वो हि भानुमांस्तत्सुतो बली ।३५ ।
सुतो भानुमतो भावी प्रतीकाश्वश्च वीर्यवान् ।।
सुप्रतीकस्सुतस्तस्य भविष्यति नृपोत्तमः ।। ३६ ।।
मरुदेवस्सुतस्तस्य सुनक्षत्रो भविष्यति ।।
तत्सुतः पुष्करस्तस्यांतरिक्षस्तत्सुतो द्विजाः ।३७।
सुतपास्तत्सुतो वीरो मित्रचित्तस्य चात्मजः ।
बृहद्भाजस्सुतस्तस्य बर्हिनामा तदात्मजः ।३८।
कृतंजयस्सुतस्तस्य तत्सुतो हि रणंजयः ।
संजयस्तु मयस्तस्य तस्य शाक्यो हि चात्मजः।३९।
_____________________________
शुद्धोदस्तनयस्तस्य लांगलस्तु तदात्मजः ।।
तस्य प्रसेनजित्पुत्रस्तत्सुतः शूद्रकाह्वयः ।।5.39.४०।।
रुणको भविता तस्य सुरथस्तत्सुतः स्मृतः ।।
सुमित्रस्तत्सुतो भावी वंशनिष्ठांत एव हि ।।४१।।
सुमित्रांतोन्वयोऽयं वै इक्ष्वाकूणां भविष्यति ।।
राज्ञां वैचित्रवीर्य्याणां धर्म्मिष्ठानां सुकर्म्मणाम्।४२।
सुमित्रं प्राप्य राजानं तद्वंशश्शुभः कलौ ।।
संस्थां प्राप्स्यति तद्ब्राह्मे वर्द्धिष्यति पुनः कृते।४३।
एतद्वैवस्वते वंशे राजानो भूरिदक्षिणाः ।।
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ।।४४।।
पुण्येयं परमा सृष्टिरादित्यस्य विवस्वतः।।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ।।४५।।
पठञ्छृण्वन्निमां सृष्टिमादित्यस्य च मानवः ।।
प्रजावानेति सायुज्यमिह भुक्त्वा सुखं परम् ।४६।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां वैवस्वतवंशोद्भवराजवर्णनं नामैकोनचत्वारिंशोऽध्यायः ।।३९।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें