मंगलवार, 24 अगस्त 2021

छान्दोग्योपनिषद्भाष्यम्पञ्चमोऽध्यायःदशमः खण्डः

छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ७ ॥
तत् तत्र तेष्वनुशयिनां ये इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीयचरणेनोपलक्षितः शोभनोऽनुशयः पुण्यं कर्म येषां ते — रमणीयचरणाः उच्यन्ते ; क्रौर्यानृतमायावर्जितानां हि शक्य उपलक्षयितुं शुभानुशयसद्भावः ; तेनानुशयेन पुण्येन कर्मणा चन्द्रमण्डले भुक्तशेषेण अभ्याशो ह क्षिप्रमेव, यदिति क्रियाविशेषणम् , ते रमणीयां क्रौर्यादिवर्जितां योनिमापद्येरन् प्राप्नुयुः ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा स्वकर्मानुरूपेण । अथ पुनर्येतद्विपरीताः कपूयचरणोपलक्षितकर्माणः अशुभानुशया अभ्याशो ह यत्ते कपूयां यथाकर्म योनिमापद्येरन् कपूयामेव धर्मसम्बन्धवर्जितां जुगुप्सितां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा स्वकर्मानुरूपेणैव ॥

तद्भूय एव भवतीत्येतत्प्रसङ्गागतं परिसमाप्य प्रकृतश्रुतिव्याख्यानमनुवर्तयति – 

तत्तत्रेति । 

अन्याधिष्ठिते पूर्ववदभिलापादिति न्यायेन तेषु व्रीह्यादिषु संष्टिला येऽनुशयिनस्तेषां मध्ये ये केचिदस्मिन्ल्लोके चन्द्रमण्दलप्राप्तेः प्रागवस्थायामनुष्ठिताभुक्तरमणीयचरणास्ते रमणीयां योनिमापद्येरन्निति सम्बन्धः । 

उक्तमेव स्पष्टयति – 

शोभन इति । 

कथं रमणीयचरणानुरोधेन शोभनोऽनुशयो लक्ष्यते तत्राऽऽह – 

क्रौर्येति । 

ते खल्वनुशयिनो रेतःसिग्योगानन्तरं तेन कर्मणा रमणीयां योनिमापद्येरन्निति यत्तत् क्षिप्रमेवेति योजना । 

तत्रापि हेतुमाह – 

स्वकर्मेति । 

अथेति प्रतीकं गृहीत्वा व्याचष्टे – 

पुनरिति । 

तद्विपरीतास्तेभ्यो विलक्षणा इति यावत् । ते कपूयां योनिमशुभानुशयवशाद्रेतःसिग्योगानन्तरमापद्येरन्निति यत्तदपि क्षिप्रमेवेति योजना । 

तत्रापि विकल्पे कारणमाह – 

स्वकर्मेति । 

योनिविकल्पे तृतीयं पन्थानमवतारयितुं पूर्वोक्तौ पन्थानौ संक्षिप्यानुवदति – 

ये त्विति । 

शुभानुशयवशाद्ये केचित् ब्राह्मणादियोनिमापन्नास्ते स्ववर्णाश्रमविहितकर्मनिष्ठास्सन्तो यदीष्टादिकर्म कृतवन्तस्तदा दक्षिणेन पथा चन्द्र गच्छन्ति । तत्र च भोक्तव्ये भोगेन क्षीणे पुनरवशिष्टेन कर्मणा पृथिवीमागच्छन्ति । एवं घटीयन्त्रवत्पुनः पुनरारोहन्तोऽवरोहन्तश्च केवलकर्मिणो दुश्यन्ते चेद्द्विजातयः स्वकर्मस्थाः सन्तो ध्यानं लभेरन्नुत्तरेण यानेनेतो ब्रह्मलोकं गच्छन्तीत्यर्थः ॥७॥


अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ।


तैत्तिरीय संहिता 

प्रजापतिर् वाव ज्येष्ठः स ह्य् एतेनाग्रेऽयजत प्रजापतिर् अकामयत प्र जायेयेति स मुखतस् त्रिवृतं निर् अमिमीत तम् अग्निर् देवतान्व् असृज्यत गायत्री छन्दो रथंतरꣳ साम ब्राह्मणो मनुष्याणाम् अजः पशूनाम् । 
तस्मात् ते मुख्याः । मुखतो ह्य् असृज्यन्त । 
_________
उरसो बाहुभ्याम् पञ्चदशं निर् अमिमीत तम् इन्द्रो देवतान्व् असृज्यत त्रिष्टुप् छन्दो बृहत्

अनुवाक्(5)- साम राजन्यो मनुष्याणाम् अविः पशूनाम् । 
तस्मात् ते वीर्यावन्तः । वीर्याद् ध्य् असृज्यन्त मध्यतः सप्तदशं निर् अमिमीत तं विश्वे देवा देवता अन्व् असृज्यन्त जगती छन्दो वैरूपꣳ साम वैश्यो मनुष्याणां गावः पशूनाम् ।
 तस्मात् त आद्याः । अन्नधानाद् ध्य् असृज्यन्त तस्माद् भूयाꣳसो ऽन्येभ्यः । भूयिष्ठा हि देवता अन्व् असृज्यन्त पत्त एकविꣳशं निर् अमिमीत तम् अनुष्टुप् छन्दः

अनुवाक(‘6) अन्व् असृज्यत वैराजꣳ साम शूद्रो मनुष्याणाम् अश्वः पशूनाम् । तस्मात् तौ भूतसंक्रामिणाव् अश्वश् च शूद्रश् च तस्माच् छूद्रो यज्ञे ऽनवक्लृप्तः ।
 न हि देवता अन्व् असृज्यत तस्मात् पादाव् उप जीवतः पत्तो ह्य् असृज्येताम् प्राणा वै त्रिवृत् । अर्धमासाः पञ्चदशः प्रजापतिः सप्तदशस् त्रय इमे लोकाः । असाव् आदित्य एकविꣳशः । एतस्मिन् वा एते श्रिता एतस्मिन् प्रतिष्ठिताः ।        य एवं वेदैतस्मिन्न् एव श्रयत एतस्मिन् प्रति तिष्ठति।
_________________________
(तैत्तिरीय संहिता काण्ड ७/प्रपाठक१/अनुवाक्४से ५ तक में उपर्युक्त वर्णन है)


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें