अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजत्यसौ।।
कर्षकस्तु द्विजः कार्यो ब्राह्मणो वेदवर्जितः ॥ ३६ ॥
एवं युगे युगे विष्णुरवताराननेकशः ।
करोति धर्मरक्षार्थं ब्रह्मणा प्रेरितो भृशम् ॥ ३७ ॥
पुनः पुनर्हरेरेवं नानायोनिषु पार्थिव ।
अवतारा भवन्त्यन्ये रथचक्रवदद्भुताः ॥ ३८ ॥
दैत्यानां हननं कर्म कर्तव्यं हरिणा स्वयम् ।
अंशांशेन पृथिव्यां वै कृत्वा जन्म महात्मना ॥ ३९॥
तदहं संप्रवक्ष्यामि कृष्णजन्मकथां शुभाम् ।
स एव भगवान्विष्णुरवतीर्णो यदोः कुले ॥ ४० ॥
कश्यपस्य मुनेरंशो वसुदेवः प्रतापवान् ।
गोवृत्तिरभवद्राजन् पूर्वशापानुभावतः ॥ ४१ ॥
कश्यपस्य च द्वे पत्न्यौ शापादत्र महीपते ।
अदितिः सुरसा चैवमासतुः पृथिवीपते ॥ ४२ ॥
देवकी रोहिणी चोभे भगिन्यौ भरतर्षभ ।
वरुणेन महाञ्छापो दत्तः कोपादिति श्रुतम् ॥ ४३ ॥
राजोवाच
किं कृतं कश्यपेनागो येन शप्तो महानृषिः ।
सभार्यः स कथं जातस्तद्वदस्व महामते ॥ ४४ ॥
कथञ्च भगवान्विष्णुस्तत्र जातोऽस्ति गोकुले ।
वासी वैकुण्ठनिलये रमापतिरखण्डितः ॥ ४५ ॥
निदेशात्कस्य भगवान्वर्तते प्रभुरव्ययः ।
नारायणः सुरश्रेष्ठो युगादिः सर्वधारकः ॥ ४६ ॥
स कथं सदनं त्यक्त्वा कर्मवानिव मानुषे ।
करोति जननं कस्मादत्र मे संशयो महान् ॥ ४७ ॥
प्राप्य मानुषदेहं तु करोति च विडम्बनम् ।
भावान्नानाविधांस्तत्र मानुषे दुष्टजन्मनि ॥ ४८ ॥
कामः क्रोधोऽमर्षशोकौ वैरं प्रीतिश्च कर्हिचित् ।
सुखं दुःखं भयं नॄणां दैन्यमार्जवमेव च ॥ ४९ ॥
दुष्कृतं सुकृतं चैव वचनं हननं तथा ।
पोषणं चलनं तापो विमर्शश्च विकत्थनम् ॥ ५० ॥
लोभो दम्भस्तथा मोहः कपटः शोचनं तथा ।
एते चान्ये तथा भावा मानुष्ये सम्भवन्ति हि ॥ ५१॥
स कथं भगवान्विष्णुस्त्वक्त्या सुखमनश्वरम् ।
करोति मानुषं जन्म भावैस्तैस्तैरभिद्रुतम् ॥ ५२ ॥
किं सुखं मानुषं प्राप्य भुवि जन्म मुनीश्वर ।
किं निमित्तं हरिः साक्षाद्गर्भवासं करोति वै ॥ ५३ ॥
गर्भदुःखं जन्मदुःखं बालभावे तथा पुनः ।
यौवने कामजं दुःखं गार्हस्त्येऽतिमहत्तरम् ॥ ५४ ॥
दुःखान्येतान्यवाप्नोति मानुषे द्विजसत्तम ।
कथं स भगवान्विष्णुरवतारान्पुनः पुनः ॥ ५५ ॥
प्राप्य रामावतारं हि हरिणा ब्रह्मयोनिना ।
दुःखं महत्तरं प्राप्तं वनवासेऽतिदारुणे ॥ ५६ ॥
सीताविरहजं दुःखं संग्रामश्च पुनः पुनः ।
कान्तात्यागोऽप्यनेनैवमनुभूतो महात्मना ॥ ५७ ॥
तथा कृष्णावतारेऽपि जन्म रक्षागृहे पुनः ।
गोकुले गमनं चैव गवां चारणमित्युत ॥ ५८ ॥
कंसस्य हननं कष्टाद् द्वारकागमनं पुनः ।
नानासंसारदुःखानि भुक्तवान्भगवान् कथम्॥५९ ॥
स्वेच्छया कः प्रतीक्षेत मुक्तो दुःखानि ज्ञानवान् ।
संशयं छिन्धि सर्वज्ञ मम चित्तप्रशान्तये ॥ ६० ॥
____________________________
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां ॥ चतुर्थस्कन्धे कर्मणो जन्मादिकारणत्वनिरूपणं नाम द्वितीयोऽध्यायः ॥ २ ॥
देवीभागवतपुराणम्/स्कन्धः ०४/अध्यायः ०३
दित्या अदित्यै शापदानम्
व्यास उवाच
कारणानि बहून्यत्राप्यवतारे हरेः किल ।
सर्वेषां चैव देवानामंशावतरणेष्वपि ॥ १ ॥
वसुदेवावतारस्य कारणं शृणु तत्त्वतः ।
देवक्याश्चैव रोहिण्या अवतारस्य कारणम् ॥ २ ॥
एकदा कश्यपः श्रीमान्यज्ञार्थं धेनुमाहरत् ।
याचितोऽयं बहुविधं न ददौ धेनुमुत्तमाम् ॥ ३ ॥
वरुणस्तु ततो गत्वा ब्रह्माणं जगतः प्रभुम् ।
प्रणम्योवाच दीनात्मा स्वदुःखं विनयान्वितः ॥ ४ ॥
किं करोमि महाभाग मत्तोऽसौ न ददाति गाम् ।
शापो मया विसृष्टोऽस्मै गोपालो भव मानुषे ॥ ५ ॥
भार्ये द्वे अपि तत्रैव भवेतां चातिदुःखिते ।
यतो वत्सा रुदन्त्यत्र मातृहीनाः सुदुःखिताः ॥ ६ ॥
मृतवत्सादितिस्तस्माद्भविष्यति धरातले ।
कारागारनिवासा च तेनापि बहुदुःखिता ॥ ७ ॥
व्यास उवाच
तच्छ्रुत्वा वचनं तस्य यादोनाथस्य पद्मभूः ।
समाहूय मुनिं तत्र तमुवाच प्रजापतिः ॥ ८ ॥
कस्मात्त्वया महाभाग लोकपालस्य धेनवः ।
हृताः पुनर्न दत्ताश्च किमन्यायं करोषि च ॥ ९ ॥
जानन् न्यायं महाभाग परवित्तापहारणम् ।
कृतवान्कथमन्यायं सर्वज्ञोऽसि महामते ॥ १० ॥
अहो लोभस्य महिमा महतोऽपि न मुञ्चति ।
लोभं नरकदं नूनं पापाकरमसम्मतम् ॥ ११ ॥
कश्यपोऽपि न तं त्यक्तुं समर्थः किं करोम्यहम् ।
सर्वदैवाधिकस्तस्माल्लोभो वै कलितो मया॥१२॥
धन्यास्ते मुनयः शान्ता जितो यैर्लोभ एव च ।
वैखानसैः शमपरैः प्रतिग्रहपराङ्मुखैः ॥ १३ ॥
संसारे बलवाञ्छत्रुर्लोभोऽमेध्योऽवरः सदा ।
कश्यपोऽपि दुराचारः कृतस्नेहो दुरात्मना ॥ १४ ॥
ब्रह्मापि तं शशापाथ कश्यपं मुनिसत्तमम् ।
मर्यादारक्षणार्थं हि पौत्रं परमवल्लभम् ॥ १५ ॥
अंशेन त्वं पृथिव्यां वै प्राप्य जन्म यदोः कुले ।
भार्याभ्यां संयुतस्तत्र गोपालत्वं करिष्यसि ॥१६॥
व्यास उवाच
एवं शप्तः कश्यपोऽसौ वरुणेन च ब्रह्मणा ।
अंशावतरणार्थाय भूभारहरणाय च ॥ १७ ॥
तथा दित्यादितिः शप्ता शोकसन्तप्तया भृशम् ।
जाता जाता विनश्येरंस्तव पुत्रास्तु सप्त वै ॥१८॥
जनमेजय उवाच
कस्माद्दित्या च भगिनी शप्तेन्द्रजननी मुने ।
कारणं वद शापे च शोकस्तु मुनिसत्तम ॥ १९॥
सूत उवाच
पारीक्षितेन पृष्टस्तु व्यासः सत्यवतीसुतः ।
राजानं प्रत्युवाचेदं कारणं सुसमाहितः ॥ २० ॥
व्यास उवाच
राजन् दक्षसुते द्वे तु दितिश्चादितिरुत्तमे ।
कश्यपस्य प्रिये भार्ये बभूवतुरुरुक्रमे ॥ २१ ॥
अदित्यां मघवा पुत्रो यदाभूदतिवीर्यवान् ।
तदा तु तादृशं पुत्रं चकमे दितिरोजसा ॥ २२ ॥
पतिमाहासितापाङ्गी पुत्रं मे देहि मानद ।
इन्द्रख्यबलं वीरं धर्मिष्ठं वीर्यवत्तमम् ॥ २३ ॥
तामुवाच मुनिः कान्ते स्वस्था भव मयोदिते ।
व्रतान्ते भविता तुभ्यं शतक्रतुसमः सुतः ॥ २४ ॥
सा तथेति प्रतिश्रुत्य चकार व्रतमुत्तमम् ।
निषिक्तं मुनिना गर्भं बिभ्राणा सुमनोहरम् ॥ २५ ॥
भूमौ चकार शयनं पयोव्रतपरायणा ।
पवित्रा धारणायुक्ता बभूव वरवर्णिनी ॥ २६ ॥
एवं जातः सुसंपूर्णो यदा गर्भोऽतिवीर्यवान् ।
शुभ्रांशुमतिदीप्ताङ्गीं दितिं दृष्ट्वा तु दुःखिता ॥२७॥
मघवत्सदृशः पुत्रो भविष्यति महाबलः ।
दित्यास्तदा मम सुतस्तेजोहीनो भवेत्किल ॥२८ ॥
इति चिन्तापरा पुत्रमिन्द्रं चोवाच मानिनी ।
शत्रुस्तेऽद्य समुत्पन्नो दितिगर्भेऽतिवीर्यवान् ॥२९ ॥
उपायं कुरु नाशाय शत्रोरद्य विचिन्त्य च ।
उत्पत्तिरेव हन्तव्या दित्या गर्भस्य शोभन ॥ ३० ॥
वीक्ष्य तामसितापाङ्गीं सपत्नीभावमास्थिताम् ।
दुनोति हृदये चिन्ता सुखमर्मविनाशिनी ॥ ३१ ॥
राजयक्ष्मेव संवृद्धो नष्टो नैव भवेद्रिपुः ।
तस्मादङ्कुरितं हन्याद्बुद्धिमानहितं किल ॥३२॥
लोहशङ्कुरिव क्षिप्तो गर्भो वै हृदये मम ।
येन केनाप्युपायेन पातयाद्य शतक्रतो ॥ ३३ ॥
सामदानबलेनापि हिंसनीयस्त्वया सुतः ।
दित्या गर्भो महाभाग मम चेदिच्छसि प्रियम् ॥३४॥
व्यास उवाच
श्रुत्वा मातृवचः शक्रो विचिन्त्य मनसा ततः ।
जगामापरमातुः स समीपममराधिपः ॥ ३५ ॥
ववन्दे विनयात्पादौ दित्याः पापमतिर्नृप ।
प्रोवाच विनयेनासौ मधुरं विषगर्भितम् ॥ ३६ ॥
इन्द्र उवाच
मातस्त्वं व्रतयुक्तासि क्षीणदेहातिदुर्बला ।
सेवार्थमिह सम्प्राप्तः किं कर्तव्यं वदस्व मे ॥३७ ॥
पादसंवाहनं तेऽहं करिष्यामि पतिव्रते ।
गुरुशुश्रूषणात्पुण्यं लभते गतिमक्षयाम् ॥ ३८ ॥
न मे किमपि भेदोऽस्ति तथादित्या शपे किल ।
इत्युक्त्वा चरणौ स्पृष्टा संवाहनपरोऽभवत् ॥३९ ॥
संवाहनसुखं प्राप्य निद्रामाप सुलोचना ।
श्रान्ता व्रतकृशा सुप्ता विश्वस्ता परमा सती।४० ॥
तां निद्रावशमापन्नां विलोक्य प्राविशत्तनुम् ।
रूपं कृत्वातिसूक्ष्मञ्च शस्त्रपाणिः समाहितः॥४१॥
उदरं प्रविवेशाशु तस्या योगबलेन वै ।
गर्भं चकर्त वज्रेण सप्तधा पविनायकः ॥ ४२ ॥
रुरोद च तदा बालो वज्रेणाभिहतस्तथा ।
मा रुदेति शनैर्वाक्यमुवाच मघवानमुम् ॥ ४३ ॥
शकलानि पुनः सप्त सप्तधा कर्तितानि च ।
तदा चैकोनपञ्चाशन्मरुतश्चाभवन्नृप ॥ ४४ ॥
तदा प्रबुद्धा सुदती ज्ञात्वा गर्भं तथाकृतम् ।
इन्द्रेण छलरूपेण चुकोप भृशदुःखिता ॥ ४५ ॥
भगिनीकृतं तु सा बुद्ध्वा शशाप कुपिता तदा ।
अदितिं मघवन्तञ्च सत्यव्रतपरायणा ॥ ४६ ॥
यथा मे कर्तितो गर्भस्तव पुत्रेण छद्मना ।
तथा तन्नाशमायातु राज्यं त्रिभुवनस्य तु ॥ ४७ ॥
यथा गुप्तेन पापेन मम गर्भो निपातितः ।
अदित्या पापचारिण्या यथा मे घातितः सुतः ॥४८॥
तस्याः पुत्रास्तु नश्यन्तु जाता जाताः पुनः पुनः ।
कारागारे वसत्वेषा पुत्रशोकातुरा भृशम् ॥ ४९ ॥
अन्यजन्मनि चाप्येव मृतापत्या भविष्यति ।
व्यास उवाच
इत्युत्सृष्टं तदा श्रुत्वा शापं मरीचिनन्दनः ॥ ५० ॥
उवाच प्रणयोपेतो वचनं शमयन्निव ।
मा कोपं कुरु कल्याणि पुत्रास्ते बलवत्तराः ॥५१ ॥
भविष्यन्ति सुराः सर्वे मरुतो मघवत्सखाः ।
शापोऽयं तव वामोरु त्वष्टाविंशेऽथ द्वापरे ॥ ५२ ॥
अंशेन मानुषं जन्म प्राप्य भोक्ष्यति भामिनी ।
वरुणेनापि दत्तोऽस्ति शापः सन्तापितेन च ॥५३ ॥
उभयोः शापयोगेन मानुषीयं भविष्यति ।
व्यास उवाच
पतिनाश्वासिता देवी सन्तुष्टा साभवत्तदा ॥ ५४ ॥
नोवाच विप्रियं किञ्चित्ततः सा वरवर्णिनी ।
इति ते कथितं राजन् पूर्वशापस्य कारणम् ॥ ५५ ॥
अदितिर्देवकी जाता स्वांशेन नृपसत्तम ॥ ५६ ॥
_______________
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ चतुर्थस्कन्धे दित्या अदित्यै शापदानं नाम तृतीयोऽध्यायः ॥ ३ ॥
देवीभागवतपुराणम्/स्कन्धः ०४/अध्यायः ०४
अधमजगतः स्थितिवर्णनम्
राजोवाच
विस्मितोऽस्मि महाभाग श्रुत्वाख्यानं महामते ।
संसारोऽयं पापरूपः कथं मुच्येत बन्धनात् ॥ १ ॥
कश्यपस्यापि दायादस्त्रिलोकीविभवे सति ।
कृतवानीदृशं कर्म को न कुर्याञ्चुगुप्सितम् ॥ २ ॥
गर्भे प्रविश्य बालस्य हननं दारुणं किल ।
सेवामिषेण मातुश्च कृत्वा शपथमद्भुतम् ॥ ३ ॥
शास्ता धर्मस्य गोप्ता च त्रिलोक्याः पतिरप्युत ।
कृतवानीदृशं कर्म को न कुर्यादसाम्प्रतम् ॥ ४ ॥
पितामहा मे संग्रामे कुरुक्षेत्रेऽतिदारुणम् ।
कृतवन्तस्तथाश्चर्यं दुष्टं कर्म जगद्गुरो ॥ ५ ॥
भीष्मोद्रोणः कृपः कर्णो धर्माशोऽपि युधिष्ठिरः ।
सर्वे विरुद्धधर्मेण वासुदेवेन नोदिताः ॥ ६ ॥
असारतां विजानन्तः संसारस्य सुमेधसः ।
देवांशाश्च कथं चकुर्निन्दितं धर्मतत्पराः ॥ ७ ॥
कास्था धर्मस्य विप्रेन्द्र प्रमाणं किं विनिश्चितम् ।
चलचित्तोऽस्मि सञ्जातः श्रुत्वा चैतत्कथानकम् ॥ ८ ॥
आप्तवाक्यं प्रमाणं चेदाप्तः कः परदेहवान् ।
पुरुषो विषयासक्तो रागी भवति सर्वथा ॥ ९ ॥
रागो द्वेषो भवेन्नूनमर्थनाशादसंशयम् ।
द्वेषादसत्यवचनं वक्तव्यं स्वार्थसिद्धये ॥ १० ॥
जरासन्धविघातार्थं हरिणा सत्त्वमूर्तिना ।
छलेन रचितं रूपं ब्राह्मणस्य विजानता ॥ ११ ॥
तदाप्तः कः प्रमाणं किं सत्त्वमूर्तिरपीदृशः ।
अर्जुनोऽपि तथैवात्र कार्ये यज्ञविनिर्मिते ॥ १२ ॥
कीदृशोऽयं कृतो यज्ञः किमर्थं शमवर्जितः ।
परलोकपदार्थं वा यशसे वान्यथा किल ॥ १३ ॥
धर्मस्य प्रथमः पादः सत्यमेतच्छ्रुतेर्वचः ।
द्वितीयस्तु तथा शौचं दया पादस्तृतीयकः ॥ १४ ॥
दानं पादश्चतुर्थश्च पुराणज्ञा वदन्ति वै ।
तैर्विहीनः कथं धर्मस्तिष्ठेदिह सुसम्मतः ॥ १५ ॥
धर्महीनं कृतं कर्म कथं तत्फलदं भवेत् ।
धर्मे स्थिरा मतिः क्वापि न कस्यापि प्रतीयते ॥ १६ ॥
छलार्थञ्च यदा विष्णुर्वामनोऽभूञ्चगत्प्रभुः ।
येन वामनरूपेण वञ्चितोऽसौ बलिर्नृपः ॥ १७ ॥
विहर्ता शतयज्ञस्य वेदाज्ञापरिपालकः ।
धर्मिष्ठो दानशीलश्च सत्यवादी जितेन्द्रियः ॥ १८ ॥
स्थानात्प्रभ्रंशितोऽकस्माद्विष्णुना प्रभविष्णुना ।
जितं केन तयोः कृष्ण बलिना वामनेन वा ॥ १९ ॥
छलकर्मविदा चायं सन्देहोऽत्र महान्मम ।
वञ्चयित्वा वञ्चितेन सत्यं वद द्विजोत्तम ॥ २० ॥
पुराणकर्ता त्वमसि धर्मज्ञश्च महामतिः ।
व्यास उवाच
जितं वै बलिना राजन् दत्ता येन च मेदिनी ॥ २१ ॥
त्रिविक्रमोऽपि नाम्ना यः प्रथितो वामनोऽभवत् ।
छलनार्थमिदं राजन्वामनत्वं नराधिप ॥ २२ ॥
सम्प्राप्तं हरिणा भूयो द्वारपालत्वमेव च ।
सत्यादन्यतरन्नास्ति मूलं धर्मस्य पार्थिव ॥ २३ ॥
दुःसाध्यं देहिनां राजन्सत्यं सर्वात्मना किल ।
माया बलवती भूप त्रिगुणा बहुरूपिणी ॥ २४ ॥
ययेदं निर्मितं विश्वं गुणैः शबलितं त्रिभिः ।
तस्माच्छलवता सत्यं कुतोऽविद्धं भवेन्नृप ॥ २५ ॥
मिश्रेण जनिता चैव स्थितिरेषा सनातनी ।
वैखानसाश्च मुनयो निःसङ्गा निष्प्रतिग्रहाः ॥ २६ ॥
सत्ययुक्ता भवन्त्यत्र वीतरागा गतस्पृहाः ।
दृष्टान्तदर्शनार्थाय निर्मितास्ते च तादृशाः ॥ २७ ॥
अन्यत्सर्वं शबलितं गुणैरेभिस्त्रिभिनृप ।
नैकं वाक्यं पुराणेषु वेदेषु नृपसत्तम ॥ २८ ॥
धर्मशास्त्रेषु चाङ्गेषु सगुणै रचितेष्विह ।
सगुणः सगुणं कुर्यान्निर्गुणो न करोति वै ॥ २९ ॥
गुणास्ते मिश्रिताः सर्वे न पृथग्भावसङ्गताः ।
निर्व्यलीके स्थिरे धर्मे मतिः कस्यापि न स्थिरा ॥ ३० ॥
भवोद्भवे महाराज मायया मोहितस्य वै ।
इन्द्रियाणि प्रमाथीनि तदासक्तं मनस्तथा ॥ ३१ ॥
करोति विविधान्भावान्गुणैस्तैः प्रेरितो भृशम् ।
ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनः स्थिरजङ्गमाः ॥ ३२ ॥
सर्वे मायावशा राजन् सानुक्रीडति तैरिह ।
सर्वान्वै मोहयत्येषा विकुर्वत्यनिशं जगत् ॥ ३३ ॥
असत्यो जायते राजन्कार्यवान्प्रथमं नरः ।
इन्द्रियार्थांश्चिन्तयानो न प्राप्नोति यदा नरः ॥ ३४ ॥
तदर्थं छलमादत्ते छलात्पापे प्रवर्तते ।
कामः क्रोधश्च लोभश्च वैरिणो बलवत्तराः ॥ ३५ ॥
कृताकृतं न जानन्ति प्राणिनस्तद्वशं गताः ।
विभवे सत्यहङ्कारः प्रबलः प्रभवत्यपि ॥ ३६ ॥
अहङ्काराद्भवेन्मोहो मोहान्मरणमेव च ।
सङ्कल्पा बहवस्तत्र विकल्पाः प्रभवन्ति च ॥ ३७ ॥
ईर्ष्यासूया तथा द्वेषः प्रादुर्भवति चेतसि ।
आशा तृष्णा तथा दैन्यं दम्भोऽधर्ममतिस्तथा ॥ ३८ ॥
प्राणिनां प्रभवन्त्येते भावा मोहसमुद्भवाः ।
यज्ञदानानि तीर्थानि व्रतानि नियमास्तथा ॥ ३९ ॥
अहङ्काराभिभूतस्तु करोति पुरुषोऽन्वहम् ।
अहंभावकृतं सर्वं प्रभवेद्वै न शौचवत् ॥ ४० ॥
रागलोभात्कृतं कर्म सर्वाङ्गं शुद्धिवर्जितम् ।
प्रथमं द्रव्यशुद्धिश्च द्रष्टव्या विबुधैः किल ॥ ४१ ॥
अद्रोहेणार्जितं द्रव्यं प्रशस्तं धर्मकर्मणि ।
द्रोहार्जितेन द्रव्येण यत्करोति शुभं नरः ॥ ४२ ॥
विपरीतं भवेत्तत्तु फलकाले नृपोत्तम ।
मनोऽतिनिर्मलं यस्य स सम्यक्फलभाग्भवेत् ॥ ४३ ॥
तस्मिन्विकारयुक्ते तु न यथार्थफलं लभेत् ।
कर्तारः कर्मणां सर्वे आचार्यऋत्विजादयः ॥ ४४ ॥
स्युस्ते विशुद्धमनसस्तदा पूर्णं भवेत्फलम् ।
देशकालक्रियाद्रव्यकर्तॄणां शुद्धता यदि ॥ ४५ ॥
मन्त्राणां च तदा पूर्णं कर्मणां फलमश्नुते ।
शत्रूणां नाशमुद्दिश्य स्ववृद्धिं परमां तथा ॥ ४६ ॥
करोति सुकृतं तद्वद्विपरीतं भवेत्किल ।
स्वार्थासक्तः पुमान्नित्यं न जानाति शुभाशुभम् ॥ ४७ ॥
दैवाधीनः सदा कुर्यात्पापमेव न सत्कृतम् ।
प्राजापत्याः सुराः सर्वे ह्यसुराश्च तदुद्भवाः ॥ ४८ ॥
सर्वे ते स्वार्थनिरताः परस्परविरोधिनः ।
सत्त्वोद्भवाः सुराः सर्वेऽप्युक्ता वेदेषु मानुषाः ॥ ४९ ॥
रजोद्भवास्तामसास्तु तिर्यंचः परिकीर्तिताः ।
सत्त्वोद्भवानां तैर्वैरं परस्परमनारतम् ॥ ५० ॥
तिरश्चामत्र किं चित्रं जातिवैरसमुद्भवे ।
सदा द्रोहपरा देवास्तपोविघ्नकरास्तथा ॥ ५१ ॥
असन्तुष्टा द्वेषपराः परस्परविरोधिनः ।
अहङ्कारसमुद्भूतः संसारोऽयं यतो नृप ॥ ५२ ॥
रागद्वेषविहीनस्तु स कथं जायते नृप ॥ ५३ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ चतुर्थस्कन्धे अधमजगतः स्थितिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥
छद्मरूपधरं सौम्यं बोधयन्तं छलेन तान् ।
जैनं धर्मं कृतं स्वेन यज्ञनिन्दापरं तथा ॥ ५४ ॥
____________
भो देवरिपवः सत्यं ब्रवीमि भवतां हितम् ।
अहिंसा परमो धर्मोऽहन्तव्या ह्याततायिनः ॥ ५५ ॥
द्विजैर्भोगरतैर्वेदे दर्शितं हिंसनं पशोः ।
जिह्वास्वादपरैः काममहिंसैव परा मता ॥ ५६ ॥
एवंविधानि वाक्यानि वेदशास्त्रपराणि च ।
ब्रुवाणं गुरुमाकर्ण्य विस्मितोऽसौ भृगोः सुतः ॥ ५७ ॥
चिन्तयामास मनसा मम द्वेष्यो गुरुः किल ।
वञ्चिताः किल धूर्तेन याज्या मे नात्र संशयः ॥ ५८ ॥
धिग्लोभं पापबीजं वै नरकद्वारमूर्जितम् ।
गुरुरप्यनृतं ब्रूते प्रेरितो येन पाप्मना ॥ ५९ ॥
प्रमाणं वचनं यस्य सोऽपि पाखण्डधारकः ।
गुरुः सुराणां सर्वेषां धर्मशास्त्रप्रवर्तकः ॥ ६० ॥
किं किं न लभते लोभान्मलिनीकृतमानसः ।
अन्योऽपि गुरुरप्येवं जातः पाखण्डपण्डितः ॥ ६१ ॥
शैलूषचेष्टितं सर्वं परिगृह्य द्विजोत्तमः ।
वञ्जयत्यतिसम्मूढान्दैत्यान्याज्यान्ममाप्यसौ ॥ ६२ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
मागधाद्या महाभागाः स्वशक्त्या मन्दतेजसः ।
भवद्भिरपि स्वैरंशैरवतीर्य धरातले ॥ ३१ ॥
मच्छक्तियुक्तैः कर्तव्यं भारावतरणं सुराः ।
कश्यपो भार्यया सार्धं दिविजानां प्रजापतिः ॥ ३२ ॥
यादवानां कुले पूर्वं भविताऽऽनकदुन्दुभिः ।
तथैव भृगुशापाद्वै भगवान्विष्णुरव्ययः ॥ ३३ ॥
अंशेन भविता तत्र वसुदेवसुतो हरिः ।
तदाहं प्रभविष्यामि यशोदायां च गोकुले ॥ ३४ ॥
कार्यं सर्वं करिष्यामि सुराणां सुरसत्तमाः ।
कारागारे गतं विष्णुं प्रापयिष्यामि गोकुले ॥ ३५ ॥
शेषं च देवकीगर्भात्प्रापयिष्यामि रोहिणीम् ।
मच्छक्त्योपचितौ तौ च कर्तारौ दुष्टसंक्षयम् ॥ ३६ ॥
दुष्टानां भूभुजां कामं द्वापरान्ते सुनिश्चितम् ।
इन्द्रांशोऽप्यर्जुनः साक्षात्करिष्यति बलक्षयम् ॥ ३७ ॥
धर्मांशोऽपि महाराजो भविष्यति युधिष्ठिरः ।
वाय्वंशो भीमसेनश्चाश्विन्यंशौ च यमावपि ॥ ३८ ॥
वसोरंशोऽथ गाङ्गेयः करिष्यति बलक्षयम् ।
व्रजन्तु च भवन्तोऽद्य धरा भवतु सुस्थिरा ॥ ३९ ॥
भारावतरणं नूनं करिष्यामि सुरोत्तमाः ।
कृत्वा निमित्तमात्रांस्तान्स्वशक्त्याहं न संशयः ॥ ४० ॥
कुरुक्षेत्रे करिष्यामि क्षत्त्रियाणां च संक्षयम् ।
असूयेर्ष्या मतिस्तृष्णा ममताभिमता स्पृहा ॥ ४१ ॥
जिगीषा मदनो मोहो दोषैर्नक्ष्यन्ति यादवाः ।
ब्राह्मणस्य च शापेन वंशनाशो भविष्यति ॥ ४२ ॥
भगवानपि शापेन त्यक्ष्यत्येतत्कलेवरम् ।
भवन्तोऽपि निजाङ्गैश्च सहायाः शार्ङ्गधन्वनः ॥ ४३ ॥
प्रभवन्तु सनारीका मथुरायां च गोकुले ।
व्यास उवाच
इत्युक्त्वान्तर्दधे देवी योगमाया परात्मनः ॥ ४४ ॥
सधरा वै सुराः सर्वे जग्मुः स्वान्यालयानि च ।
धरापि सुस्थिरा जाता तस्या वाक्येन तोषिता ॥ ४५ ॥
ओषधीवीरुधोपेता बभूव जनमेजय ।
प्रजाश्च सुखिनो जाता द्विजाश्चापुर्महोदयम् ।
सन्तुष्टा मुनयः सर्वे बभूबुर्धर्मतत्पराः ॥ ४६ ॥
___________
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवान् प्रति देवीवाक्यवर्णनं नामकोनविंशोऽध्यायः ॥ १९ ॥
मागधाद्या महाभागाः स्वशक्त्या मन्दतेजसः ।
भवद्भिरपि स्वैरंशैरवतीर्य धरातले ॥ ३१ ॥
मच्छक्तियुक्तैः कर्तव्यं भारावतरणं सुराः ।
कश्यपो भार्यया सार्धं दिविजानां प्रजापतिः ॥ ३२ ॥
यादवानां कुले पूर्वं भविताऽऽनकदुन्दुभिः ।
तथैव भृगुशापाद्वै भगवान्विष्णुरव्ययः ॥ ३३ ॥
अंशेन भविता तत्र वसुदेवसुतो हरिः ।
तदाहं प्रभविष्यामि यशोदायां च गोकुले ॥ ३४ ॥
कार्यं सर्वं करिष्यामि सुराणां सुरसत्तमाः ।
कारागारे गतं विष्णुं प्रापयिष्यामि गोकुले ॥ ३५ ॥
शेषं च देवकीगर्भात्प्रापयिष्यामि रोहिणीम् ।
मच्छक्त्योपचितौ तौ च कर्तारौ दुष्टसंक्षयम् ॥ ३६ ॥
दुष्टानां भूभुजां कामं द्वापरान्ते सुनिश्चितम् ।
इन्द्रांशोऽप्यर्जुनः साक्षात्करिष्यति बलक्षयम् ॥ ३७ ॥
धर्मांशोऽपि महाराजो भविष्यति युधिष्ठिरः ।
वाय्वंशो भीमसेनश्चाश्विन्यंशौ च यमावपि ॥ ३८ ॥
वसोरंशोऽथ गाङ्गेयः करिष्यति बलक्षयम् ।
व्रजन्तु च भवन्तोऽद्य धरा भवतु सुस्थिरा ॥ ३९ ॥
भारावतरणं नूनं करिष्यामि सुरोत्तमाः ।
कृत्वा निमित्तमात्रांस्तान्स्वशक्त्याहं न संशयः ॥ ४० ॥
कुरुक्षेत्रे करिष्यामि क्षत्त्रियाणां च संक्षयम् ।
असूयेर्ष्या मतिस्तृष्णा ममताभिमता स्पृहा ॥ ४१ ॥
जिगीषा मदनो मोहो दोषैर्नक्ष्यन्ति यादवाः ।
ब्राह्मणस्य च शापेन वंशनाशो भविष्यति ॥ ४२ ॥
भगवानपि शापेन त्यक्ष्यत्येतत्कलेवरम् ।
भवन्तोऽपि निजाङ्गैश्च सहायाः शार्ङ्गधन्वनः ॥ ४३ ॥
प्रभवन्तु सनारीका मथुरायां च गोकुले ।
व्यास उवाच
इत्युक्त्वान्तर्दधे देवी योगमाया परात्मनः ॥ ४४ ॥
सधरा वै सुराः सर्वे जग्मुः स्वान्यालयानि च ।
धरापि सुस्थिरा जाता तस्या वाक्येन तोषिता ॥ ४५ ॥
ओषधीवीरुधोपेता बभूव जनमेजय ।
प्रजाश्च सुखिनो जाता द्विजाश्चापुर्महोदयम् ।
सन्तुष्टा मुनयः सर्वे बभूबुर्धर्मतत्पराः ॥ ४६ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवान् प्रति देवीवाक्यवर्णनं नामकोनविंशोऽध्यायः ॥ १९ ॥
व्यास उवाच
तच्छ्रुत्वा वचनं तथ्यं सर्वे यादवपुङ्गवाः ॥ २७ ॥
गमनाय मतिं चक्रुः सकुटुम्बाः सवाहनाः ।
शकटानि तथोष्ट्राश्च वाम्यश्च महिषास्तथा ॥ २८ ॥
धनपूर्णानि कृत्वा ते निर्ययुर्नगराद्बहिः ।
रामकृष्णौ पुरस्कृत्य सर्वे ते सपरिच्छदाः ॥ २९ ॥
अग्रे कृत्वा प्रजाः सर्वाश्चेलुः सर्वे यदूत्तमाः ।
कतिचिद्दिवसैः प्रापुः पुरीं द्वारवतीं किल ॥ ३० ॥
शिल्पिभिः कारयामास जीर्णोद्धारं हि माधवः ।
संस्थाप्य यादवांस्तत्र तावेतौ बलकेशवौ ॥ ३१ ॥
तरसा मथुरामेत्य संस्थितौ निर्जनां पुरीम् ।
तदा तत्रैव सम्प्राप्तो बलवान् यवनाधिपः ॥ ३२ ॥
ज्ञात्वैनमागतं कृष्णो निर्ययौ नगराद्बहिः ।
पदातिरग्रे तस्याभूद्यवनस्य जनार्दनः ॥ ३३ ॥
पीताम्बरधरः श्रीमान्प्राहसन्मधुसूदनः ।
तं दृष्ट्वा पुरतो यान्तं कृष्णं कमललोचनम् ॥ ३४ ॥
यवनोऽपि पदातिः सन्पृष्ठतोऽनुगतः खलः ।
प्रसुप्तो यत्र राजर्षिर्मुचुकुन्दो महाबलः ॥ ३५ ॥
प्रययौ भगवांस्तत्र सकालयवनो हरिः ।
तत्रैवान्तर्दधे विष्णुर्मुचुकुन्दं समीक्ष्य च ॥ ३६ ॥
तत्रैव यवनः प्राप्तः सुप्तभूतमपश्यत ।
मत्वा तं वासुदेवं स पादेनाताडयन्नृपम् ॥ ३७ ॥
प्रबुद्धः क्रोधरक्ताक्षस्तं ददाह महाबलः ।
तं दग्ध्वा मुचुकुन्दोऽथ ददर्श कमलेक्षणम् ॥ ३८ ॥
वासुदेवं सुदेवेशं प्रणम्य प्रस्थितो वनम् ।
जगाम द्वारकां कृष्णो बलदेवसमन्वितः ॥ ३९ ॥
देवीभागवतपुराणम्/स्कन्धः ०४/अध्यायः २०
किसी अन्य भाषा में पढ़ें
डाउनलोड करें
निरीक्षताम्
संपादित करें
< देवीभागवतपुराणम् | स्कन्धः ०४
कृष्णावतारकथोपक्रमवर्णनम्
व्यास उवाच
शृण भारत वक्ष्यामि भारावतरणं तथा ।
कुरुक्षेत्रे प्रभासे च क्षपितं योगमायया ॥ १ ॥
यदुवंशे समुत्पत्तिर्विष्णोरमिततेजसः ।
भृगुशापप्रतापेन महामायाबलेन च ॥ २ ॥
क्षितिभारसमुत्तारनिमित्तमिति मे मतिः ।
मायया विहितो योगो विष्णोर्जन्म धरातले ॥ ३ ॥
किं चित्रं नृप देवी सा ब्रह्मविष्णुसुरानपि ।
नर्तयत्यनिशं माया त्रिगुणानपरान्किमु ॥ ४ ॥
गर्भवासोद्भवं दुःखं विण्मूत्रस्नायुसंयुतम् ।
विष्णोरापादितं सम्यग्यया विगतलीलया ॥ ५ ॥
पुरा रामावतारेऽपि निर्जरा वानराः कृताः ।
विदितं ते यथा विष्णुर्दुःखपाशेन मोहितः ॥ ६ ॥
अहं ममेति पाशेन सुदृढेन नराधिप ।
योगिनो मुक्तसङ्गाश्च भुक्तिकामा मुमुक्षवः ॥ ७ ॥
तामेव समुपासन्ते देवीं विश्वेश्वरीं शिवाम् ।
यद्भक्तिलेशलेशांशलेशलेशलवांशकम् ॥ ८ ॥
लब्ध्वा मुक्तो भवेज्जन्तुस्तां न सेवेत को जनः ।
भुवनेशीत्येव वक्त्रे ददाति भुवनत्रयम् ॥ ९ ॥
मां पाहीत्यस्य वचसो देयाभावादृणान्विता ।
विद्याविद्येति तस्या द्वे रूपे जानीहि पार्थिव ॥ १० ॥
विद्यया मुच्यते जन्तुर्बध्यतेऽविद्यया पुनः ।
ब्रह्मा विष्णुश्च रुद्रश्च सर्वे तस्या वशानुगाः ॥ ११ ॥
अवताराः सर्व एव यन्त्रिता इव दामभिः ।
कदाचिच्च सुखं भुंक्ते वैकुण्ठे क्षीरसागरे ॥ १२ ॥
कदाचित्कुरुते युद्धं दानवैर्बलवत्तरैः ।
हरिः कदाचिद्यज्ञान्वै विततान्प्रकरोति च ॥ १३ ॥
कदाचिच्च तपस्तीव्रं तीर्थे चरति सुव्रत ।
कदाचिच्छयने शेते योगनिद्रामुपाश्रितः ॥ १४ ॥
न स्वतन्त्रः कदाचिच्च भगवान्मधुसूदनः ।
तथा ब्रह्मा तथा रुद्रस्तथेन्द्रो वरुणो यमः ॥ १५ ॥
कुबेरोऽग्नी रवीन्दू च तथान्ये सुरसत्तमाः ।
मुनयः सनकाद्याश्च वसिष्ठाद्यास्तथापरे ॥ १६ ॥
सर्वेऽम्बावशगा नित्यं पाञ्चालीव नरस्य च ।
नसि प्रोता यथा गावो विचरन्ति वशानुगाः ॥ १७ ॥
तथैव देवताः सर्वाः कालपाशनियन्त्रिताः ।
हर्षशोकादयो भावा निद्रातन्द्रालसादयः ॥ १८ ॥
सर्वेषां सर्वदा राजन्देहिनां देहसंश्रिताः ।
अमरा निर्जराः प्रोक्ता देवाश्च ग्रन्थकारकैः ॥ १९ ॥
अभिधानतश्चार्थतो न ते नूनं तादृशाः क्वचित् ।
उत्पत्तिस्थितिनाशाख्या भावा येषां निरन्तरम् ॥ २० ॥
अमरास्ते कथं वाच्या निर्जराश्च कथं पुनः ।
कथं दुःखाभिभूता वा जायन्ते विबुधोत्तमाः ॥ २१ ॥
कथं देवाश्च वक्तव्या व्यसने क्रीडनं कथम् ।
क्षणादुत्पत्तिनाशश्च दृश्यतेऽस्मिन्न संशयः ॥ २२ ॥
जलजानां च कीटानां मशकानां तथा पुनः ।
उपमा न कथं चैषामायुषोऽन्ते मराः स्मृताः ॥ २३ ॥
ततो वर्षायुषश्चापि शतवर्षायुषस्तथा ।
मनुष्या ह्यमरा देवास्तस्माद् ब्रह्मापरः स्मृतः ॥ २४ ॥
रुद्रस्तथा तथा विष्णुः क्रमशश्च भवन्ति हि ।
नश्यन्ति क्रमशश्चैव वर्धन्ति चोत्तरोत्तरम् ॥ २५ ॥
नूनं देहवतो नाशो मृतस्योत्पत्तिरेव च ।
चक्रवद् भ्रमणं राजन् सर्वेषां नात्र संशयः ॥ २६ ॥
मोहजालावृतो जन्तुर्मुच्यते न कदाचन ।
मायायां विद्यमानायां मोहजालं न नश्यति ॥ २७ ॥
उत्पित्सुकाल उत्पत्तिः सर्वेषां नृप जायते ।
तथैव नाशः कल्पान्ते ब्रह्मादीनां यथाक्रमम् ॥ २८ ॥
निमित्तं यस्तु यन्नाशे स घातयति तं नृप ।
नान्यथा तद्भवेन्नूनं विधिना निर्मितं तु यत् ॥ २९ ॥
जन्ममृत्युजराव्याधिदुःखं वा सुखमेव वा ।
तत्तथैव भवेत्कामं नान्यथेह विनिर्णयः ॥ ३० ॥
सर्वेषां सुखदौ देवौ प्रत्यक्षौ शशिभास्करौ ।
न नश्यति तयोः पीडा क्यचित्तद्वैरिसम्भवा ॥ ३१ ॥
भास्करस्य सुतो मन्दः क्षयी चन्द्रः कलङ्कवान् ।
पश्य राजन् विधेः सूत्रं दुर्वारं महतामपि ॥ ३२ ॥
वेदकर्ता जगत्स्रष्टा बुद्धिदस्तु चतुर्मुखः ।
सोऽपि विक्लवतां प्राप्तो दृष्ट्वा पुत्रीं सरस्वतीम् ॥ ३३ ॥
शिवस्यापि मृता भार्या सती दग्ध्वा कलेवरम् ।
सोऽभवद्दुःखसन्तप्तः कामार्तश्च जनार्तिहा ॥ ३४ ॥
कामाग्निदग्धदेहस्तु कालिन्द्यां पतितः शिवः ।
सापि श्यामजला जाता तन्निदाघवशान्नृप ॥ ३५ ॥
कामार्तो रममाणस्तु नग्नः सोऽपि भृगोर्वनम् ।
गतः प्राप्तोऽथ भृगुणा शप्तः कामातुरो भृशम् ॥ ३६ ॥
पतत्वद्यैव ते लिङ्गं निर्लज्जेति भृशं किल ।
पपौ चामृतवापीञ्च दानवैर्निर्मितां मुदे ॥ ३७ ॥
इन्द्रोऽपि च वृषो भूत्वा वाहनत्वं गतः क्षितौ ।
आद्यस्य सर्वलोकस्य विष्णोरेव विवेकिनः ॥ ३८ ॥
सर्वज्ञत्वं गतं कुत्र प्रभुशक्तिः कुतो गता ।
यद्धेममृगविज्ञानं न ज्ञातं हरिणा किल ॥ ३९ ॥
राजन् मायाबलं पश्य रामो हि काममोहितः ।
रामो विरहसन्तप्तो रुरोद भृशमातुरः ॥ ४० ॥
योऽपृच्छत्पादपान्मूढः क्व गता जनकात्मजा ।
भक्षिता वा हृता केन रुदन्नुच्चतरं ततः ॥ ४१ ॥
लक्ष्मणाहं मरिष्यामि कान्ताविरहदुःखितः ।
त्वं चापि मम दुःखेन मरिष्यसि वनेऽनुज ॥ ४२ ॥
आवयोर्मरणं ज्ञात्वा माता मम मरिष्यति ।
शत्रुघ्नोऽप्यतिदुःखार्तः कथं जीवितुमर्हति ॥ ४३ ॥
सुमित्रा जीवितं जह्यात्पुत्रव्यसनकर्शिता ।
पूर्णकामाथ कैकेयी भवेत्पुत्रसमन्विता ॥ ४४ ॥
हा सीते क्व गतासि त्वं मां विहाय स्मरातुरा ।
एह्येहि मृगशावाक्षि मां जीवय कृशोदरि ॥ ४५ ॥
किं करोमि क्व गच्छामि त्वदधीनञ्च जीवितम् ।
समाश्वासय दीनं मां प्रियं जनकनन्दिनि ॥ ४६ ॥
एवं विलपता तेन रामेणामिततेजसा ।
वने वने च भ्रमता नेक्षिता जनकात्मजा ॥ ४७ ॥
शरण्यः सर्वलोकानां रामः कमललोचनः ।
शरणं वानराणां स गतो मायाविमोहितः ॥ ४८ ॥
सहायान्वानरान्कृत्वा बबन्ध वरुणालयम् ।
जघान रावणं वीरं कुम्भकर्णं महोदरम् ॥ ४९ ॥
आनीय च ततः सीतां रामो दिव्यमकारयत् ।
सर्वज्ञोऽपि हृतां मत्वा रावणेन दुरात्मना ॥ ५० ॥
किं ब्रवीमि महाराज योगमायाबलं महत् ।
यया विश्वमिदं सर्वं भ्रामितं भ्रमते किल ॥ ५१ ॥
एवं नानावतारेऽत्र विष्णुः शापवशं गतः ।
करोति विविधाश्चेष्टा दैवाधीनः सदैव हि ॥ ५२ ॥
तवाहं कथयिष्यामि कृष्णस्यापि विचेष्टितम् ।
प्रभवं मानुषे लोके देवकार्यार्थसिद्धये ॥ ५३ ॥
कालिन्दीपुलिने रम्ये ह्यासीन्मधुवनं पुरा ।
लवणो मधुपुत्रस्तु तत्रासीद्दानवो बली ॥ ५४ ॥
द्विजानां दुःखदः पापो वरदानेन गर्वितः ।
निहतोऽसौ महाभाग लक्ष्मणस्यानुजेन वै ॥ ५५ ॥
शत्रुघ्नेनाथ संग्रामे तं निहत्य मदोत्कटम् ।
वासिता मथुरा नाम पुरी परमशोभना ॥ ५६ ॥
स तत्र पुष्कराक्षौ द्वौ पुत्रौ शत्रुनिषूदनः ।
निवेश्य राज्ये मतिमान्काले प्राप्ते दिवं गतः ॥ ५७ ॥
सूर्यवंशक्षये तां तु यादवाः प्रतिपेदिरे ।
मथुरां मुक्तिदा राजन् ययातितनयः पुरा ॥ ५८ ॥
शूरसेनाभिधः शूरस्तत्राभून्मेदिनीपतिः ।
माथुराञ्छूरसेनांश्च बुभुजे विषयान्नृप ॥ ५९ ॥
तत्रोत्पन्नः कश्यपांशः शापाच्च वरुणस्य वै ।
वसुदेवोऽतिविख्यातः शूरसेनसुतस्तदा ॥ ६० ॥
वैश्यवृत्तिरतः सोऽभून्मृते पितरि माधवः ।
उग्रसेनो बभूवाथ कंसस्तस्यात्मजो महान् ॥ ६१ ॥
अदितिर्देवकी जाता देवकस्य सुता तदा ।
शापाद्वै वरुणस्याथ कश्यपानुगता किल ॥ ६२ ॥
दत्ता सा वसुदेवाय देवकेन महात्मना ।
विवाहे रचिते तत्र वागभूद् गगने तदा ॥ ६३ ॥
कंस कंस महाभाग देवकीगर्भसम्भवः ।
अष्टमस्तु सुतः श्रीमांस्तव हन्ता भविष्यति ॥ ६४ ॥
तच्छ्रुत्वा वचनं कंसो विस्मितोऽभून्महाबलः ।
देववाचं तु तां मत्वा सत्यां चिन्तामवाप सः ॥ ६५ ॥
किं करोमीति सञ्चिन्त्य विमर्शमकरोत्तदा ।
निहत्यैनां न मे मृत्युर्भवेदद्यैव सत्वरम् ॥ ६६ ॥
उपायो नान्यथा चास्मिन्कार्ये मृत्युभयावहे ।
इयं पितृष्वसा पूज्या कथं हन्मीत्यचिन्तयत् ॥ ६७ ॥
पुनर्विचारयामास मरणं मेऽस्त्यहो स्वसा ।
पापेनापि प्रकर्तव्या देहरक्षा विपश्चिता ॥ ६८ ॥
प्रायश्चित्तेन पापस्य शुद्धिर्भवति सर्वदा ।
प्राणरक्षा प्रकर्तव्या बुधैरप्येनसा तथा ॥ ६९ ॥
विचिन्त्य मनसा कंसः खड्गमादाय सत्वरः ।
जग्राह तां वरारोहां केशेष्वाकृष्य पापकृत् ॥ ७० ॥
कोशात्खड्गमुपाकृष्य हन्तुकामो दुराशयः ।
पश्यतां सर्वलोकानां नवोढां तां चकर्ष ह ॥ ७१ ॥
हन्यमानाञ्च तां दृष्ट्वा हाहाकारो महानभूत् ।
वसुदेवानुगा वीरा युद्धायोद्यतकार्मुकाः ॥ ७२ ॥
मुञ्च मुञ्चेति प्रोचुस्तं ते तदाद्भुतसाहसाः ।
कृपया मोचयामासुर्देवकीं देवमातरम् ॥ ७३ ॥
तद्युद्धमभवद् घोरं वीराणाञ्च परस्परम् ।
वसुदेवसहायानां कंसेन च महात्मना ॥ ७४ ॥
वर्तमाने तथा युद्धे दारुणे लोमहर्षणे ।
कंसं निवारयामासुर्वृद्धा ये यदुसत्तमाः ॥ ७५ ॥
पितृष्वसेयं ते वीर पूजनीया च बालिशा ।
न हन्तव्या त्वया वीर विवाहोत्सवसङ्गमे ॥ ७६ ॥
स्त्रीहत्या दुःसहा वीर कीर्तिघ्नी पापकृत्तमा ।
भूतभाषितमात्रेण न कर्तव्या विजानता ॥ ७७ ॥
अन्तर्हितेन केनापि शत्रुणा तव चास्य वा ।
उदितेति कुतो न स्याद्वागनर्थकरी विभो ॥ ७८ ॥
यशसस्ते विघाताय वसुदेवगृहस्य च ।
अरिणा रचिता वाणी गुणमायाविदा नृप ॥ ७९ ॥
बिभेषि वीरस्त्वं भूत्वा भूतभाषितभाषया ।
यशोमूलविघातार्थमुपायस्त्वरिणा कृतः ॥ ८० ॥
पितृष्वसा न हन्तव्या विवाहसमये पुनः ।
भवितव्यं महाराज भवेच्च कथमन्यथा ॥ ८१ ॥
एवं तैर्बोध्यमानोऽसौ निवृत्तो नाभवद्यदा ।
तदा तं वसुदेवोऽपि नीतिज्ञः प्रत्यभाषत ॥ ८२ ॥
कंस सत्यं ब्रवीम्यद्य सत्याधारं जगत्त्रयम् ।
दास्यामि देवकीपुत्रानुत्पन्नांस्तव सर्वशः ॥ ८३ ॥
जातं जातं सुतं तुभ्यं न दास्यामि यदि प्रभो ।
कुम्भीपाके तदा घोरे पतन्तु मम पूर्वजाः ॥ ८४ ॥
श्रुत्वाथ वचनं सत्यं पौरवा ये पुरःस्थिताः ।
ऊचुस्ते त्वरिताः कंसं साधु साधु पुनः पुनः ॥ ८५ ॥
न मिथ्या भाषते क्वापि वसुदेवो महामनाः ।
केशं मुञ्च महाभाग स्त्रीहत्या पातकं तथा ॥ ८६ ॥
व्यास उवाच
एवं प्रबोधितः कंसो यदुवृद्धैर्महात्मभिः ।
क्रोधं त्यक्त्वा स्थितस्तत्र सत्यवाक्यानुमोदितः ॥ ८७ ॥
ततो दुन्दुभयो नेदुर्वादित्राणि च सस्वनुः ।
जयशब्दस्तु सर्वेषामुत्पन्नस्तत्र संसदि ॥ ८८ ॥
प्रसाद्य कंसं प्रतिमोच्य देवकीं
महायशाः शूरसुतस्तदानीम् ।
जगाम गेहं स्वजनानुवृत्तो
नवोढया वीतभयस्तरस्वी ॥ ८९ ॥
इति श्रमिद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे कृष्णावतारकथोपक्रमवर्णनं नाम विंशोऽध्यायः ॥ २० ॥
व्यास उवाच
तच्छ्रुत्वा वचनं तथ्यं सर्वे यादवपुङ्गवाः ॥ २७ ॥
गमनाय मतिं चक्रुः सकुटुम्बाः सवाहनाः ।
शकटानि तथोष्ट्राश्च वाम्यश्च महिषास्तथा ॥ २८ ॥
धनपूर्णानि कृत्वा ते निर्ययुर्नगराद्बहिः ।
रामकृष्णौ पुरस्कृत्य सर्वे ते सपरिच्छदाः ॥ २९ ॥
अग्रे कृत्वा प्रजाः सर्वाश्चेलुः सर्वे यदूत्तमाः ।
कतिचिद्दिवसैः प्रापुः पुरीं द्वारवतीं किल ॥ ३० ॥
शिल्पिभिः कारयामास जीर्णोद्धारं हि माधवः ।
संस्थाप्य यादवांस्तत्र तावेतौ बलकेशवौ ॥ ३१ ॥
तरसा मथुरामेत्य संस्थितौ निर्जनां पुरीम् ।
तदा तत्रैव सम्प्राप्तो बलवान् यवनाधिपः ॥ ३२ ॥
ज्ञात्वैनमागतं कृष्णो निर्ययौ नगराद्बहिः ।
पदातिरग्रे तस्याभूद्यवनस्य जनार्दनः ॥ ३३ ॥
पीताम्बरधरः श्रीमान्प्राहसन्मधुसूदनः ।
तं दृष्ट्वा पुरतो यान्तं कृष्णं कमललोचनम् ॥ ३४ ॥
यवनोऽपि पदातिः सन्पृष्ठतोऽनुगतः खलः ।
प्रसुप्तो यत्र राजर्षिर्मुचुकुन्दो महाबलः ॥ ३५ ॥
प्रययौ भगवांस्तत्र सकालयवनो हरिः ।
तत्रैवान्तर्दधे विष्णुर्मुचुकुन्दं समीक्ष्य च ॥ ३६ ॥
तत्रैव यवनः प्राप्तः सुप्तभूतमपश्यत ।
मत्वा तं वासुदेवं स पादेनाताडयन्नृपम् ॥ ३७ ॥
प्रबुद्धः क्रोधरक्ताक्षस्तं ददाह महाबलः ।
तं दग्ध्वा मुचुकुन्दोऽथ ददर्श कमलेक्षणम् ॥ ३८ ॥
वासुदेवं सुदेवेशं प्रणम्य प्रस्थितो वनम् ।
जगाम द्वारकां कृष्णो बलदेवसमन्वितः ॥ ३९ ॥
विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३८
श्रीपराशर उवाच
अर्जुनोपि तदान्वीक्ष्य रामकृष्णकलेवरे
संस्कारं लंभयामास तथान्येषामनुक्रमात् १
अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः
उपगुह्य हरेर्देहं विविशुस्ता हुताशनम् २
रेवती चापि रामस्य देहमाश्लिष्य सत्तमा
विवेश ज्वलितं वह्निं तत्संगाह्लादशीतलम् ३
उग्रसेनस्तु तच्छ्रुत्वा तथैवानकदुंदुभिः
देवकी रोहिणी चैव विविशुर्जातवेदसम् ४
ततोर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि
निश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च ५
द्वारवत्या विनिष्क्रांताः कृष्णपत्न्यः सहस्रशः
वज्रं जनं च कौंतेयः पालयञ्छनकैर्ययौ ६
सभा सुधर्मा कृष्णेन मर्त्यलोके समुज्झिते
स्वर्गं जगाम मैत्रेय पारिजातश्च पादपः ७
यस्मिन्दिने हरिर्यातो दिवं संत्यज्य मेदिनीम्
तस्मिन्नेवावतीर्णोऽयं कालकायो बली कलिः ८
प्लावयामास तां शून्यां द्वारकां च महोदधिः
वासुदेवगृहं त्वेकं न प्लावयति सागरः ९
नातिक्रांतुमलं ब्रह्मंस्तदद्यापि महोदधिः
नित्यं सन्निहितस्तत्र भगवान्केशवो यतः १०
तदतीव महापुण्यं सर्वपातकनाशनम्
विष्णुश्रियान्वितं स्थानं दृष्ट्वा पामाद्विमुच्यते ११
पार्थः पंचनदे देशो! बहुधान्यधनान्विते
चकार वासं सर्वस्य जनस्य मुनिसत्तमः १२
ततो लोभस्समभवत्पार्थेनैकेन धन्विना
दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः १३
ततस्ते पापकमाणो लोभोपहृतचेतसः
आभीरा मंत्रयामासुस्समेत्यात्यंतदुर्मदाः १४
अयमेकोऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम्
नयत्यस्मानतिक्रम्य धिगेतद्भवतां बलम् १५
हत्वा गर्वसमारूढो भीष्मद्रो णजयद्र थान्
कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् १६
यष्टिहस्तानवेक्ष्यास्मान्धनुष्पाणिस्स दुर्मतिः
सर्वानेवावजानाति किं वो बाहुभिरुन्नतैः १७
ततो यष्टिप्रहरणादस्यवो लोष्टधारिणः
सहस्रशोभ्यधावंत तं जनं निहतेश्वरम् १८
ततो निर्भर्त्स्य कौंतेयः प्राहाभीरान्हसन्निव
निवर्त्तध्वमधर्मज्ञा यदि न स्थ मुमूर्षवः १९
अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम्
स्त्रीधनं चैव मैत्रेय विष्वक्सेन परिग्रहम् २०
ततोर्जुनो धनुर्दिव्यं गांडीवमजरं युधि
आरोपयितुमारेभे न शशाक च वीर्यवान् २१
चकार सज्यं कृच्छ्राच्च तच्चाभूच्छिथिलं पुनः
न सस्मार ततोस्त्राणि चिंतयन्नपि पांडवः २२
शरान्मुमोच चैतेषु पार्थो वैरिष्वमर्षितः
त्वग्भेदं ते परं चक्रुरस्ता गांडीवधन्विना २३
______________________________________
वह्निना येऽक्षया दत्ताश्शरास्तेपि क्षयं ययुः
युद्ध्यतस्सह गोपालैरर्जुनस्य भवक्षये २४
अचिंतयच्च कौंतेयः कृष्णस्यैव हि तद्बलम्
यन्मया शरसंघातैस्सकला भूभृतो हताः २५
मिषतः पांडुपुत्रस्य ततस्ताः प्रमदोत्तमाः
आभीरैरपकृष्यंत कामं चान्याः प्रदुद्रु वुः २६
ततश्शरेषु क्षीणेषु धनुष्कोट्या धनंजयः
जघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्मुने २७
प्रेक्षतस्तस्य पार्थस्य वृष्ण्यंधकवरस्त्रियः
जग्मुरादाय ते म्लेच्छाः समस्ता मुनिसत्तम २८
ततस्सुदुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन्
अहो भगवतानेन मुष्टोस्मीति रुरोद वै २९
तद्धनुस्तानि शस्त्राणि स रथस्ते च वाजिनः
सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ३०
अहोतिबलबद्दैवं विना तेन महात्मना
यदसामर्थ्ययुक्तेपि निचवर्गे जयप्रदम् ३१
तौ बाहू स च मे मुष्टिः स्थानं तत्सोस्मि चार्जुनः
पुण्येनैव विना तेन गतं सर्वमसारताम् ३२
ममार्जुनत्वं भीमस्य भीमत्वं तत्कृते ध्रुवम्
विना तेन यदा भीरैर्जितोहं रथिनां वरः ३३
श्रीपराशर उवाच
इत्थं वदन्ययौ जिष्णुरिंद्र प्रस्थं पुरोत्तमम्
चकार तत्र राजानं वज्रं यादवनंदनम् ३४
स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम्
तमुपेत्य महाभागं विनयेनाभ्यवादयत् ३५
तं वंदमानं चरणाववलोक्य मुनिश्चिरम्
उवाच वाक्यं विच्छायः कथमद्य त्वमीदृशः ३६
अवीरजोनुगमनं ब्रह्महत्या कृताथ वा
दृढाशाभंगदुःखीव भ्रष्टच्छायोऽसि सांप्रतम् ३७
सांतानिकादयो वाते याचमाना निराकृताः
अगम्यस्त्रीरतिर्वा त्वं येनासि विगतप्रभः ३८
भुङ्तेऽप्रदाय विप्रेभ्यो मृष्टमेकोथ वा भवान्
किं वा कृपणवित्तानि हृतानि भवताऽर्जुन ३९
कचिन्नु शूर्पवातस्य गोचरत्वं गतोऽर्जुन
दुष्टचक्षुर्हतो वासि निश्श्रीकः कथमन्यथा ४०
स्पृष्टो नखांभसा वाथ घटवचार्युक्षितोपि वा
केन त्वं वासि विच्छायो न्यूनैर्वा युधि निर्जितः ४१
श्रीपराशर उवाच
ततः पार्थो विनिश्वस्य श्रूयतां भगवन्निति
प्रोक्त्वा यथावदाचष्टे व्यासायात्मपराभवम् ४२
अर्जुन उवाच
यद्बलं यच्च मत्तेजो यद्वीर्यं यः पराक्रमः
या श्रीश्छाया च नः सोस्मान्परित्यज्य हरिर्गतः ४३
ईश्वरेणापि महता स्मितपूर्वाभिभाषिणा
हीना वयं मुने तेन जातास्तृणमया इव ४४
अस्त्राणां सायकानां च गांडीवस्य तथा मम
सारता याभवन्मूर्त्तिस्स गतः पुरुषोत्तमः ४५
यस्यावलोकनादस्माञ्छ्रीर्जयः संपदुन्नतिः
न तत्याज स गोविंदस्त्यक्त्वास्मान्भगवान्गतः ४६
भीष्मद्रो णांगराजाद्यास्तथा दुर्योधनादयः
यत्प्रावेन निर्दग्धास्स कृष्णस्त्यक्तवान्भुवम् ४७
निर्यौवना गतश्रीका नष्टच्छायेव मेदिनी
विभाति तात नैकोहं विरहे तस्य चक्रिणः ४८
यस्य प्रभावाद्भीष्माद्यैर्मय्यग्नौ शलभायतम्
विना तेनाद्य कृष्णेन गोपालैरस्मि निर्जितः ४९
गांडीवस्त्रिषु लोकेषु ख्यातिं यदनुभावतः
गतस्तेन विनाऽऽभीरलगुडैस्स तिरस्कृतः ५०
स्त्रीसहस्राण्यनेकानि मन्नाथानि महामुने
यततो मम नीतानि दस्युभिर्लगुडायुधैः ५१
आनीयमानमाभीरैः कृष्ण कृष्णावरोधनम्
हृतं यष्टिप्रहरणैः परिभूय बलं मम ५२
निश्श्रीकता न मे चित्रं यज्जीवामि तदद्भुतम्
नीचावमानपंकांकी निर्लज्जोस्मि पितामह ५३
व्यास उवाच
अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि
अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ५४
कालो भवाय भूतानामभवाय च पांडव
कालमूलमिदं ज्ञात्वा भव स्थैर्यपरोऽर्जुन ५५
नद्यः समुद्रा गिरयस्सकला च वसुंधरा
देवा मनुष्याः पशवस्तरवश्च सरीसृपाः ५६
सृष्टाः कालेन कालेन पुनर्यास्यंति संक्षयम्
कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ५७
कालस्वरूपी भगवान्कृष्णः कमललोचनः
यच्चात्थ कृष्णमाहात्म्यं तत्तथैव धनंजय ५८
भारावतारकार्यार्थमवतीर्णस्स मेदिनीम्
भाराक्रांता धरा याता देवानां समितिं पुरा ५९
तदर्थमवतीर्णोऽसौ कालरूपी जनार्दनः
तच्च निष्पादिनं कार्यमश्षोआ! भूभुजो हताः ६०
वृष्ण्यंधककुलं सर्वं तथा पार्थोपसंहृतम्
न किंचिदन्यत्कर्त्तव्यं तस्य भूमितले प्रभोः ६१
अतो गतस्स भगवान्कृतकृत्यो यथेच्छया
सृष्टिं सर्गे करोत्येष देवदेवः स्थितौ स्थितिम्
अंतेंताय समर्थोयं सांप्रतं वै यथा गतः ६२
तस्मात्यार्थ न संतापस्त्वया कार्यः पराभवे
भवंति भावाः कालेषु पुरुषाणां यतः स्तुतिः ६३
त्वयैकेन हता भीष्मद्रो णकर्णादयो रणे
तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ६४
विष्णोस्तस्य प्रभावेन यथा तेषां पराभवः
कृतस्तथैव भवतो दस्युभ्यस्स पराभवः ६५
स देवेशश्शरीराणि समाविश्य जगत्स्थितिम्
करोति सर्वभूतानां नाशमंते जगत्पतिः ६६
भगोदये ते कौंतेय सहायोऽभूज्जनार्दनः
तथांते तद्विपक्षास्ते केशवेन विनाशिताः ६७
कश्श्रद्दद्ध्यात्सगांगेयान्हन्यास्त्वं कौरवानिति
आभीरेभ्यश्च भवतः कः श्रद्दध्यात्पराभवम् ६८
पार्थैतत्सर्वभूतस्य हरेर्लीलाविचेष्टितम्
त्वया यत्कौरावा ध्वस्ता यदाभीरैर्भवाञ्जितः ६९
गृहीता दस्युभिर्याश्च भवाञ्छोचति तास्स्त्रियः
एतस्याह यथावृत्तं कथयामि तवार्जृन ७०
अष्टावकः पुरा विप्रो जलवासरतोऽभवत्
बहून्वर्षगणान्पार्थ गृणन्ब्रह्म सनातनम् ७१
जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवः
बभूव तत्र गच्छंत्यो ददृशुस्तं सुरस्त्रियः ७२
रंभातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः
तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पांडव ७३
आकंठमग्नं सलिले जटाभारवहं मुनिम्
विनयावनताश्चैनं प्रणेमुस्तोत्रतत्पराः ७४
यथायथा प्रसन्नोऽसौ तुष्टुवुस्तं तथातथा
सर्वास्ताः कौरवश्रेष्ठ तं वरिष्ठं द्विजन्मनाम् ७५
अष्टावक्र उवाच
प्रसन्नोऽहं महाभागा भवतीनां यदिष्यते
मत्तस्तद्व्रियतां सर्वं प्रदास्याम्यतिदुर्लभम् ७६
रंभातिलोत्तमाद्यास्तं वैदिक्योप्सरसोब्रुवन्
प्रसन्ने त्वय्यपर्याप्तं किमस्माकमिति द्विज ७७
इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवान्यदि
तदिच्छामः पतिं प्राप्तुं विप्रेंद्र पुरुषोत्तमम् ७८
व्यास उवाच
एवं भविष्यतीत्युक्त्वा ह्युत्ततार जलान्मुनिः
तमुत्तीर्णं च दृदृशुर्विरूपं वक्रमष्टधा ७९
तं दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत्
ताश्शशाप मुनिः कोपमवाप्य कुरुनंदन ८०
यस्माद्विकृतरूपं मां मत्वा हीसावमानना
भवतीभिः कृता तस्मादेतं शापं ददामि वः ८१
मत्प्रसादेन भर्त्तारं लब्ध्वा तु पुरुषोत्तमम्
मच्छापोपहतास्सर्वा दस्युहस्तं गमिष्यथ ८२
व्यास उवाच
इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः
पुनस्सुरेंद्र लोकं वै प्राह भूयो गमिष्यथ ८३
एवं तस्य मुनेश्शापादष्टावक्रस्य चक्रिणम्
भर्त्तारं प्राप्य ता याता दस्युहस्तं सुरांगनाः ८४
तत्त्वया नात्र कर्त्तव्यश्शोकोऽल्पोपि हि पांडव
तेनैवाखिलनाथेन सर्वं तदुपसंहृतम् ८५
भवतां चोपसंहार आसन्नस्तेन पांडव
बलं लेजस्तथा वीर्यं माहात्म्यं चोपसंहृतम् ८६
जातस्य नियतो मृत्युः पतनं च तथोन्नतेः
विप्रयोगावमानस्तु संयोगः संचये क्षयः ८७
विज्ञाय न बुधाश्शोकं न हर्षमुपयांति ये
तेषामेवेतरे चेष्टां शिक्षंतस्संति तादृशाः ८८
तस्मात्त्वया नरश्रेष्ठ ज्ञात्वैतद्भ्रातृभिस्सह
परित्यज्याऽखिलं तंत्रं गंतव्यं तपसे वनम् ८९
तद्गच्छ धर्मराजाय निवेद्यैतद्वचो मम
परश्वो भ्रातृडभिस्सार्द्धं यथा यासि तथा कुरु ९०
इत्युक्तोभ्येत्य पार्थाभ्यां यमाभ्यां च सहार्जुनः
दृष्टं चैवानुभूतं च सर्वमाख्यातवांस्तथा ९१
व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनमुखेरितम्
राज्ये परीक्षितं कृत्वा ययुः पांडुसुता वनम् ९२
इत्येतत्तव मैत्रेय विस्तरेण मयोदितम्
जातस्य यद्यदोर्वंशो! वासुदेवस्य चेष्टितम् ९३
यश्चैतच्चरितं तस्य कृष्णस्य शृणुयात्सदा
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ९४
इति श्रीविष्णुमहापुराणे पंचमांशो!ऽष्टात्रिंशोऽध्यायः ३८
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें