रविवार, 29 अगस्त 2021

देवी भागवत में महिषासुर उत्पत्ति प्रकरण-

यदि महिष का आकार बनाने के कारण ही महिषासुर यादव है तो धेनुकासुर बछड़े का आकार बनाकर यादव क्यों नहीं हुआ मूर्खो !



महिषासुर के समय यादव वंश की उत्पत्ति ही नहीं हुई थी मतलब सावर्णि मन्वन्तर में महिषासुर हुये थे यादव वैवस्वत मन्वन्तर में  महिषासुर को मारने के बाद दुर्गा ने कहा था की  वैवस्वत मन्वन्तर में नंद गोप की पुत्री के रूप में अवतार लूंगी और संसार का कल्याण करूंगी ।

 बाकी आप जैसे विद्वानों को हम क्या बता सकते हैं ।

राज्ञा शूद्रसमो ज्ञेयो न योज्यः सर्वकर्मसु ।
कर्षकस्तु द्विजः कार्यो ब्राह्मणो वेदवर्जितः ॥ ३६ ॥देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ०२

< देवीभागवतपुराणम्‎ | स्कन्धः ०५
महिषासुरोत्पत्तिः

राजोवाच
योगेश्वर्याः प्रभावोऽयं कथितश्चातिविस्तरात् ।
ब्रूहि तच्चरितं स्वामिञ्छ्रोतुं कौतूहलं मम ॥ १ ॥
महादेवीप्रभावं वै श्रोतुं को नाभिवाञ्छति ।
यो जानाति जगत्सर्वं तदुत्पन्नं चराचरम् ॥ २ ॥
व्यास उवाच
शृणु राजन् प्रवक्ष्यामि विस्तरेण महामते ।
श्रद्दधानाय शान्ताय न ब्रूयात्स तु मन्दधीः ॥ ३ ॥
पुरा युद्धमभूद्‌ घोरं देवदानवसेनयोः ।
पृथिव्यां पृथिवीपाल महिषाख्ये महीपतौ ॥ ४ ॥
महिषो नाम राजेन्द्र चकार तप उत्तमम् ।
गत्वा हेमगिरौ चोग्रं देवविस्मयकारकम् ॥ ५ ॥
वर्षाणामयुतं पूर्णं चिन्तयन्हृदि देवताम् ।
तस्य तुष्टो महाराज ब्रह्मा लोकपितामहः ॥ ६ ॥
तत्रागत्याब्रवीद्वाक्यं हंसारूढश्चतुर्मुखः ।
वरं वरय धर्मात्मन्ददामि तव वाच्छितम् ॥ ७ ॥
महिष उवाच
अमरत्वं देवदेव वाञ्छामि द्रुहिण प्रभो ।
यथा मृत्यु भयं न स्यात्तथा कुरु पितामह ॥ ८ ॥
ब्रह्मोवाच
उत्पन्नस्य ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च ।
सर्वथा मरणोत्पत्ती सर्वेषां प्राणिनां किल ॥ ९ ॥
नाशः कालेन सर्वेषां प्राणिनां दैत्यपुङ्गव ।
महामहीधराणां च समुद्राणां च सर्वथा ॥ १० ॥
एकं स्थानं परित्यज्य मरणस्य महीपते ।
प्रब्रूहि तं वरं साधो यस्ते मनसि वर्तते ॥ ११ ॥
महिष उवाच
न देवान्मानुषाद्दैत्यान्मरणं मे पितामह ।
पुरुषान्न च मे मृत्युर्योषा मां का हनिष्यति ॥ १२ ॥
तस्मान्मे मरणं नूनं कामिन्याः कुरु पद्मज ।
अबला हन्त मां हन्तुं कथं शक्ता भविष्यति ॥ १३ ॥

ब्रह्मोवाच
यदा कदापि दैत्येन्द्र नार्यास्ते मरणं धुवम् ।
न नरेभ्यो महाभाग मृतिस्ते महिषासुर ॥ १४ ॥
व्यास उवाच
एवं दत्त्वा वरं तस्मै ययौ ब्रह्मा निजालयम् ।
सोऽपि दैत्यवरः प्राप निजं स्थानं मुदान्वितः ॥ १५ ॥
राजोवाच
महिषः कस्य पुत्रोऽसौ कथं जातो महाबली ।
कथं च माहिषं रूपं प्राप्तं तेन महात्मना ॥ १६ ॥
व्यास उवाच
दनोः पुत्रौ महाराज विख्यातौ क्षितिमण्डले ।
रम्भश्चैव करम्भश्च द्वावास्तां दानवोत्तमौ ॥ १७ ॥
तावपुत्रौ महाराज पुत्रार्थं तेपतुस्तपः ।
बहून्वर्षगणान्कामं पुण्ये पञ्चनदे जले ॥ १८ ॥
करम्भस्तु जले मग्नश्चकार परमं तपः ।
वृक्षं रसालवटं प्राप्य रम्भोऽग्निमसेवत ॥ १९ ॥
पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् ।
ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति ॥ २० ॥
गत्वा पञ्चनदे तत्र ग्राहरूपं चकार ह ।
वासवस्तु करम्भं तं तदा जग्राह पादयोः ॥ २१ ॥
निजघान च तं दुष्टं करम्भं वृत्रसूदनः ।
भ्रातरं निहतं श्रुत्वा रम्भः कोपं परं गतः ॥ २२ ॥
स्वशीर्षं पावके होतुमैच्छच्छित्त्वा करेण ह ।
केशपाशे गहीत्वाशु वामेन क्रोधसंयुतः ॥ २३ ॥
दक्षिणेन करेणोग्रं गृहीत्वा खड्गमुत्तमम् ।
छिनत्ति शीर्षं तत्तावद्वह्निना प्रतिबोधितः ॥ २४ ॥
उक्तश्च दैत्य मूर्खोऽसि स्वशीर्षं छेत्तुमिच्छसि ।
आत्महत्यातिदुःसाध्या कथं त्वं कर्तुमुद्यतः ॥ २५ ॥
वरं वरय भद्रं ते यस्ते मनसि वर्तते ।
मा म्रियस्व मृतेनाद्य किं ते कार्यं भविष्यति ॥ २६ ॥
व्यास उवाच
तच्छुत्वा वचनं रम्भः पावकस्य सुभाषितम् ।
ततोऽब्रवीद्वचो रम्भस्त्यक्त्वा केशकलापकम् ॥ २७ ॥
यदि तुष्टोऽसि देवेश देहि मे वाञ्छितं वरम् ।
त्रैलोक्यविजयी पुत्रः स्यान्नः परबलार्दनः ॥ २८ ॥
अजेयः सर्वथा स स्याद्देवदानवमानवैः ।
कामरूपी महावीर्यः सर्वलोकाभिवन्दितः ॥ २९ ॥
पावकस्तं तथेत्याह भविष्यति तवेप्सितम् ।
पुत्रस्तव महाभाग मरणाद्विरमाधुना ॥ ३० ॥
यस्यां चित्तं तु रम्भ त्वं प्रमदायां करिष्यसि ।
तस्यां पुत्रो महाभाग भविष्यति बलाधिकः ॥ ३१ ॥
व्यास उवाच
इत्युक्तो वह्निना रम्भो वचनं चित्तरञ्जनम् ।
श्रुत्वा प्रणम्य प्रययौ वह्निं तं दानवोत्तमः ॥ ३२ ॥
यक्षैः परिवृतं स्थानं रमणीयं श्रियान्वितम् ।
दृष्ट्वा चक्रे तदा भावं महिष्यां दानवोत्तमः ॥ ३३ ॥
मत्तायां रूपपूर्णायां विहायान्याञ्च योषितम् ।
सा समागाच्च तरसा कामयन्ती मुदान्विता ॥ ३४ ॥
रम्भोऽपि गमनं चक्रे भवितव्यप्रणोदितः ।
सा तु गर्भवती जाता महिषी तस्य वीर्यतः ॥ ३५ ॥
तां गृहीत्वाथ पातालं प्रविवेश मनोहरम् ।
महिषेभ्यश्च तां रक्षन्प्रियामनुमतां किल ॥ ३६ ॥
कदाचिन्महिषश्चान्यः कामार्तस्तामुपाद्रवत् ।
स्वयमागत्य तं हन्तुं दानवः समुपाद्रवत् ॥ ३७ ॥
स्वरक्षार्थं समागत्य महिषं समताडयत् ।
सोऽपि तं निजघानाशु शृङ्गाभ्यां काममोहितः ॥ ३८ ॥
ताडितस्तेन तीक्ष्णाभ्यां शृङ्गाभ्यां हृदये भृशम् ।
भूमौ पपात तरसा ममार च विमूर्च्छितः ॥ ३९ ॥
मृते भर्तरि सा दीना भयार्ता विद्रुता भृशम् ।
सा वेगात्तं वटं प्राप्य यक्षाणां शरणं गता ॥ ४० ॥
पृष्ठतस्तु गतस्तत्र महिषः कामपीडितः ।
कामयानस्तु तां कामी बलवीर्यमदोद्धतः ॥ ४१ ॥
रुदती सा भृशं दीना दृष्टा यक्षैर्भयातुरा ।
धावमानं च तं वीक्ष्य यक्षास्त्रातुं समाययुः ॥ ४२ ॥
युद्धं समभवद्‌ घोरं यक्षाणां च हयारिणा ।
शरेण ताडितस्तूर्णं पपात धरणीतले ॥ ४३ ॥
मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् ।
चितायां रोपयामासुस्तस्य देहस्य शुद्धये ॥ ४४ ॥
महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा ।
प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम् ॥ ४५ ॥
वार्यमाणापि यक्षैः सा प्रविवेश हुताशनम् ।
ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम् ॥ ४६ ॥
महिषस्तु चितामध्यात्समुत्तस्थौ महाबलः ।
रम्भोऽप्यन्यद्वपुः कृत्वा निःसृतः पुत्रवत्सलः ॥ ४७ ॥
रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः ।
अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः ॥ ४८ ॥
एवं स महिषो जातो रक्तबीजश्च वीर्यवान् ।
अवध्यस्तु सुरैर्दैत्यैर्मानवैश्च नृपोत्तम ॥ ४९ ॥
इत्येतत्कथितं राजन् जन्म तस्य महात्मनः ।
वरप्रदानञ्च तथा प्रोक्तं सर्वं सविस्तरम् ॥ ५० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरोत्पत्तिर्नाम द्वितीयोऽध्यायः ॥ २ ॥



इन्द्राण्या शक्रदर्शनम्

व्यास उवाच
नहुषस्त्वथ तां श्रुत्वा गुरोस्तु शरणं गताम् ।
चुक्रोध स्मरबाणार्तस्तमाङ्‌गिरसमाशु वै ॥ १ ॥
देवानाहाङ्‌गिरासूनुर्हन्तव्योऽयं मया किल ।
इतीन्द्राणीं गृहे मूढो रक्षतीति मया श्रुतम् ॥ २ ॥
इति तं कुपितं दृष्ट्वा देवाः सर्षिपुरोगमाः ।
अब्रुवन्नहुषं घोरं सामपूर्वं वचस्तदा ॥ ३ ॥
क्रोधं संहर राजेन्द्र त्यज पापमतिं प्रभो ।
निन्दन्ति धर्मशास्त्रेषु परदाराभिमर्शनम् ॥ ४ ॥
शक्रपत्‍नी सदा साध्वी जीवमाने पतौ पुनः ।
कथमन्ये पतिं कुर्यात्सुभगातिपतिव्रता ॥ ५ ॥
त्रिलोकीशस्त्वमधुना शास्ता धर्मस्य वै विभो ।
त्वादृशोऽधर्ममातिष्ठेत्तदा नश्येत्प्रजा ध्रुवम् ॥ ६ ॥
सर्वथा प्रभुणा कार्यं शिष्टाचारस्य रक्षणम् ।
वारमुख्याश्च शतशो वर्तन्तेऽत्र शचीसमाः ॥ ७ ॥
रतिस्तु कारणं प्रोक्तं शृङ्गारस्य महात्मभिः ।
रसहानिर्बलात्कारे कृते सति तु जायते ॥ ८ ॥
उभयोः सदृशं प्रेम यदि पार्थिवसत्तम ।
तदा वै सुखसम्पत्तिरुभयोरुपजायते ॥ ९ ॥
तस्माद्‌भावमिमं मुञ्च परदाराभिमर्शने ।
सद्‌भावं कुरु देवेन्द्र पदं प्राप्तोऽस्यनुत्तमम् ॥ १० ॥
ऋद्धिक्षयस्तु पापेन पुण्येनातिविवर्धनम् ।
तस्मात्पापं परित्यज्य सन्मतिं कुरु पार्थिव ॥ ११ ॥
नहुष उवाच
गौतमस्य यदा भुक्ता दाराः शक्रेण देवताः ।
वाचस्पतेस्तु सोमेन क्व यूयं संस्थितास्तदा ॥ १२ ॥
परोपदेशे कुशला प्रभवन्ति नराः किल ।
कर्ता चैवोपदेष्टा च दुर्लभः पुरुषो भवेत् ॥ १३ ॥
मामागच्छतु सा देवी हितं स्यादद्‌भुतं हि वः ।
एतस्याः परमं देवाः सुखमेव भविष्यति ॥ १४ ॥
अन्यथा न हि तुष्येऽहं सत्यमेतद्‌ब्रवीमि वः ।
विनयाद्वा बलाद्वापि तामाशु प्रापयन्त्विह ॥ १५ ॥
इति तस्य वचः श्रुत्वा देवाश्च मुनयस्तथा ।
तमूचुश्चातिसन्त्रस्ता नहुषं मदनातुरम् ॥ १६ ॥
इन्द्राणीमानयिष्यामः सामपूर्वं तवान्तिकम् ।
इत्युक्त्वा ते तदा जग्मुर्बृहस्पतिनिकेतनम् ॥ १७ ॥
व्यास उवाच
ते गत्वाङ्‌गिरसः पुत्रं प्रोचुः प्राञ्जलयः सुराः ।
जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि ॥ १८ ॥
सा देया नहुषायाद्य वासवोऽसौ कृतो यतः ।
वृणोत्वियं वरारोहा पतित्वे वरवर्णिनी ॥ १९ ॥
बृहस्पतिः सुरानाह तच्छ्रुत्वा दारुणं वचः ।
नाहं त्यक्ष्ये तु पौलोमीं सतीं च शरणागताम् ॥ २० ॥
देवा ऊचुः
उपायोऽन्यः प्रकर्तव्यो येन सोऽद्य प्रसीदति ।
अन्यथा कोपसंयुक्तो दुराराध्यो भविष्यति ॥ २१ ॥
गुरुरुवाच
तत्र गत्वा शची भूपं प्रलोभ्य वचसा भृशम् ।
करोतु समयं बाला पतिं ज्ञात्वा मृतं भजे ॥ २२ ॥
इन्द्रे जीवति मे कान्ते कथमन्यं करोम्यहम् ।
अन्वेषणार्थं गन्तव्यं मया तस्य महात्मनः ॥ २३ ॥
इति सा समयं कृत्वा वञ्चयित्वा च भूपतिम् ।
भर्तुरानयने यत्‍नं करोतु मम वाक्यतः ॥ २४ ॥
इति सञ्चिन्त्य मे सर्वे बृहस्पतिपुरोगमाः ।
नहुषं सहिता जग्मुरिन्द्रपत्‍न्या दिवौकसः ॥ २५ ॥
तानागतान्ममीक्ष्याह तदा कृत्रिमवासवः ।
जहर्ष च मुदायुक्तस्तां वीक्ष्य मुदितोऽब्रवीत् ॥ २६ ॥
अद्यास्मि वासवः कान्ते भज मां चारुलोचने ।
पतित्वे सर्वलोकस्य पूज्योऽहं विहितः सुरैः ॥ २७ ॥
इत्युक्ता सा नृपं प्राह वेपमाना त्रपायुता ।
वरमिच्छाम्यहं राजंस्त्वत्तः प्राप्तं सुरेश्वर ॥ २८ ॥
किञ्चित्कालं प्रतीक्षस्व यावत्कुर्वे विनिर्णयम् ।
इन्द्रोऽस्तीति न वास्तीति सन्देहो मे हृदि स्थितः ॥ २९ ॥
ततस्त्वां समुपस्थास्ये कृत्वा निश्चयमात्मनि ।
तावत्क्षमस्व राजेन्द्र सत्यमेतद्‌ब्रवीमि ते ॥ ३० ॥
न हि विज्ञायते शक्रो नष्टः किं वा क्व वा गतः ।
एवमुक्तः स चेन्द्राण्या नहुषः प्रीतिमानभूत् ॥ ३१ ॥
व्यसर्जयत्स तां देवीं तथेत्युक्त्वा मुदान्वितः ।
सा विसृष्टा नृपेणाशु गत्वा प्राह सुरान्सती ॥ ३२ ॥
इन्द्रस्यागमने यत्‍नं कुरुताद्य कृतोद्यमाः ।
श्रुत्वा तद्वचनं देवा इन्द्राण्या रसवच्छुचि ॥ ३३ ॥
मन्त्रयामासुरेकाग्राः शक्रार्थं नृपसत्तम ।
ते गत्वा वैष्णवं धाम तुष्टुवुः परमेश्वरम् ॥ ३४ ॥
आदिदेवं जगन्नाथं शरणागतवत्सलम् ।
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥ ३५ ॥
देवदेव सुरपतिर्ब्रह्महत्याप्रपीडितः ।
अदृश्यः सर्वभूतानां क्वापि तिष्ठति वासवः ॥ ३६ ॥
त्वद्धिया निहते विप्रे ब्रह्महत्या कुतः प्रभो ।
त्वं गतिस्तस्य भगवन्नस्माकं च तथैव हि ॥ ३७ ॥
त्राहि नः परमापन्नान्मोक्षं तस्य विनिर्दिश ।
देवानां वचनं श्रुत्वा कातरं विष्णुरब्रवीत् ॥ ३८ ॥
यजतामश्वमेधेन शक्रपापनिवृत्तये ।
पुण्येन हयमेधेन पावितः पाकशासनः ॥ ३९ ॥
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ।
हयमेधेन सन्तुष्टा देवी श्रीजगदम्बिका ॥ ४० ॥
ब्रह्महत्यादिपापानि नाशयिष्यत्यसंशयम् ।
यस्याः स्मरणमात्रेण पापजालं विनश्यति ॥ ४१ ॥
किं पुनर्वाजिमेधेन तत्प्रीत्यर्थं कृतेन च ।
इन्द्राणी कुरुतान्नित्यं भगवत्याः प्रपूजनम् ॥ ४२ ॥
आराधनं शिवायास्तु सुखकारि भविष्यति ।
नहुषोऽपि जगन्मातुर्मायया मोहितः किल ॥ ४३ ॥
विनाशं स्वकृतेनाशु गमिष्यत्येनसा सुराः ।
पावितश्चाश्वमेधेन तुराषाडपि वैभवम् ॥ ४४ ॥
प्राप्स्यत्यचिरकालेन स्वमासनमनुत्तमम् ।
ते तु श्रुत्वा शुभां वाणीं विष्णोरमिततेजसः ॥ ४५ ॥
जग्मुस्तं देशमनिशं यत्रास्ते पाकशासनः ।
तमाश्वास्य सुराः शक्रं बृहस्पतिपुरोगमाः ॥ ४६ ॥
कारयामासुरखिलं हयमेधं महाक्रतुम् ।
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च ॥ ४७ ॥
पर्वतेषु पृथिव्यां च स्त्रीषु चैवाक्षिपद्विभुः ।
तां विसृज्य च भूतेषु विपापः पाकशासनः ॥ ४८ ॥
विज्वरः समभूद्‌भूयः कालाकाङ्क्षी स्थितो जले ।
अदृश्यः सर्वभूतानां पद्मनाले व्यतिष्ठत ॥ ४९ ॥
देवास्तु निर्गताः स्थाने कृत्वा कार्यं तदद्‌भुतम् ।
पौलोमी तु गुरुं प्राह दुःखिता विरहाकुला ॥ ५० ॥
कृतयज्ञोऽपि मे भर्ता किमदृश्यः पुरन्दरः ।
कथं द्रक्ष्ये प्रियं स्वामिंस्तमुपायं वदस्व मे ॥ ५१ ॥
बृहस्पतिरुवाच
त्वमाराधय पौलोमि देवीं भगवतीं शिवाम् ।
दर्शयिष्यति ते नाथं देवी विगतकल्मषम् ॥ ५२ ॥
आराधिता जगद्धात्री नहुषं वारयिष्यति ।
मोहयित्वा नृपं स्थानात्पातयिष्यति चाम्बिका ॥ ५३ ॥
इत्युक्ता सा तदा तेन पुलोमतनया नृप ।
जग्राह मन्त्रं विधिवद्‌गुरोर्देव्याः ससाधनम् ॥ ५४ ॥
विद्यां प्राप्य गुरोर्देवी देवीं श्रीभुवनेश्वरीम् ।
सम्यगाराधयामास बलिपुष्पार्चनैः शुभै ॥ ५५ ॥
त्यक्तान्यभोगसम्भारा तापसीवेषधारिणी ।
चकार पूजनं देव्याः प्रियदर्शनलालसा ॥ ५६ ॥
कालेन कियता तुष्टा प्रत्यक्षं दर्शनं ददौ ।
सौम्यरूपधरा देवी वरदा हंसवाहिनी ॥ ५७ ॥
सूर्यकोटिप्रतीकाशा चन्द्रकोटिसुशीतला ।
विद्युत्कोटिसमानाभा चतुर्वेदसमन्विता ॥ ५८ ॥
पाशांकुशाभयवरान्दधती निजबाहुभिः ।
आपादलम्बिनीं स्वच्छां मुक्तामालां च बिभ्रती ॥ ५९ ॥
प्रसन्तस्मेरवदना लोचनत्रयभूषिता ।
आब्रह्मकीटजननी करुणामृतसागरा ॥ ६० ॥
अनन्तकोटिब्रह्माण्डनायिका परमेश्वरी ।
सौम्यानन्तरसैर्युक्तस्तनद्वयविराजिता ॥ ६१ ॥
सर्वेश्वरी च सर्वज्ञा कूटस्थाक्षररूपिणी ।
तामुवाच प्रसन्ना सा शक्रपत्‍नीं कृतोद्यमाम् ॥ ६२ ॥
मेघगम्भीरशब्देन मुदमाददती भृशम् ।
देव्युवाच
वरं वरय सुश्रोणि वाञ्छितं शक्रवल्लभे ॥ ६३ ॥
ददाम्यद्य प्रसन्नास्मि पूजिता सुभृशं त्वया ।
वरदाहं समायाता दर्शनं सहजं न मे ॥ ६४ ॥
अनेककोटिजन्मोत्थपुण्यपुञ्जैर्हि लभ्यते ।
इत्युक्ता सा तदा देवी तामाह प्रणता पुरः ॥ ६५ ॥
शक्रपत्‍नी भगवतीं प्रसन्नां परमेश्वरीम् ।
वाञ्छामि दर्शनं मातः पत्युः परमदुर्लभम् ॥ ६६ ॥
नहुषाद्‌भयनाशं च स्वपदप्रापणं तथा ।
देव्युवाच
गच्छ त्वमनया दूत्या सार्धं श्रीमानसं सरः ॥ ६७ ॥
यत्र मे मूर्तिरचला विश्वकामाभिधा मता ।
तत्र पश्यसि शक्रं त्वं दुःखितं भयविह्वलम् ॥ ६८ ॥
मोहयिष्यामि राजानं कालेन कियता पुनः ।
स्वस्था भव विशालाक्षि करोमि तव चेप्सितम् ॥ ६९ ॥
भ्रंशयिष्यामि भूपालं मोहितं त्रिदशासनात् ।
व्यास उवाच
देवीदूती तां गृहीत्वा शक्रपत्‍नीं त्वरान्विता ॥ ७० ॥
प्रापयामास सान्निध्यं स्वपत्युः परमेश्वरीम् ।
सा दृष्ट्वा तं पतिं बाला सुरेशं गुप्तसंस्थितम् ।
मुदिताभूद्वरं वीक्ष्य बहुकालाभिवाञ्छितम् ॥ ७१ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे इन्द्राण्या शक्रदर्शनं नामाष्टमोऽध्यायः ॥ ८ ॥



देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः ११
किसी अन्य भाषा में पढ़ें
डाउनलोड करें
निरीक्षताम्
संपादित करें
< देवीभागवतपुराणम्‎ | स्कन्धः ०६
युगधर्मव्यवस्थावर्णनम्

जनमेजय उवाच
भारावतारणार्थाय कथितं जन्म कृष्णयोः ।
संशयोऽयं द्विजश्रेष्ठ हृदये मम तिष्ठति ॥ १ ॥
पृथिवी गोस्वरूपेण ब्रह्माणं शरणं गता ।
द्वापरान्तेऽतिदीनार्ता गुरुभारप्रपीडिता ॥ २ ॥
वेधसा प्रार्थितो विष्णुः कमलापतिरीश्वरः ।
भूभारोत्तारणार्थाय साधूनां रक्षणाय च ॥ ३ ॥
भगवन् भारते खण्डे देवैः सह जनार्दन ।
अवतारं गृहाणाशु वसुदेवगृहे विभो ॥ ४ ॥
एवं सम्प्रार्थितो धात्रा भगवान्देवकीसुतः ।
बभूव सह रामेण भूभारोत्तारणाय वै ॥ ५ ॥
कियानुत्तारितो भारो हत्वा दुष्टाननेकशः ।
ज्ञात्वा सर्वान्दुराचारान्पापबुद्धिनृपानिह ॥ ६ ॥
हतो भीष्मो हतो द्रोणो विराटो द्रुपदस्तथा ।
बाह्लीकः सोमदत्तश्च कर्णो वैकर्तनस्तथा ॥ ७ ॥
यैर्लुण्ठितं धनं सर्वं हृताश्च हरियोषितः ।
कथं न नाशिता दुष्टा ये स्थिताः पृथिवीतले ॥ ८ ॥
आभीराश्च शका म्लेच्छा निषादाः कोटिशस्तथा ।
भारावतरणं किं तत्कृतं कृष्णेन धीमता ॥ ९ ॥
सन्देहोऽयं महाभाग न निवर्तति चित्ततः ।
कलावस्मिन्मजाः सर्वाः पश्यतः पापनिश्चयाः ॥ १० ॥
व्यास उवाच
राजन् यस्मिन्युगे यादृक्प्रजा भवति कालतः ।
नान्यथा तद्‌भवेन्नूनं युगधर्मोऽत्र कारणम् ॥ ११ ॥
ये धर्मरसिका जीवास्ते वै सत्ययुगेऽभवन् ।
धर्मार्थरसिका ये तु ते वै त्रेतायुगेऽभवन् ॥ १२ ॥
धर्मार्थकामरसिका द्वापरे चाभवन्युगे ।
अर्थकामपराः सर्वे कलावस्मिन्भवन्ति हि ॥ १३ ॥
युगधर्मस्तु राजेन्द्र न याति व्यत्ययं पुनः ।
कालः कर्तास्ति धर्मस्य ह्यधर्मस्य च वै पुनः ॥ १४ ॥
राजोवाच
ये तु सत्ययुगे जीवा भवन्ति धर्मतत्पराः ।
कुत्र तेऽद्य महाभाग तिष्ठन्ति पुण्यभागिनः ॥ १५ ॥
त्रेतायुगे द्वापरे वा ये दानव्रतकारकाः ।
वर्तन्ते मुनयः श्रेष्ठाः कुत्र ब्रूहि पितामह ॥ १६ ॥
कलावद्य दुराचारा येऽत्र सन्ति गतत्रपाः ।
आद्ये युगे क्व यास्यन्ति पापिष्ठा देवनिन्दकाः ॥ १७ ॥
एतत्सर्वं समाचक्ष्व विस्तरेण महामते ।
सर्वथा श्रोतुकामोऽस्मि यदेतद्धर्मनिर्णयम् ॥ १८ ॥
व्यास उवाच
ये वै कृतयुगे राजन् सम्भवन्तीह मानवाः ।
कृत्वा ते पुण्यकर्माणि देवलोकान्व्रजन्ति वै ॥ १९ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम ।
स्वधर्मनिरता यान्ति लोकान्कर्मजितान्किल ॥ २० ॥
सत्यं दया तथा दानं स्वदारगमनं तथा ।
अद्रोहः सर्वभूतेषु समता सर्वजन्तुषु ॥ २१ ॥
एतत्साधारणं धर्मं कृत्वा सत्ययुगे पुनः ।
स्वर्गं यान्तीतरे वर्णा धर्मतो रजकादयः ॥ २२ ॥
तथा त्रेतायुगे राजन् द्वापरेऽथ युगे तथा ।
कलावस्मिन्युगे पापा नरकं यान्ति मानवाः ॥ २३ ॥
तावत्तिष्ठन्ति ते तत्र यावत्स्याद्युगपर्ययः ।
पुनश्च मानुषे लोके भवन्ति भुवि मानवाः ॥ २४ ॥
यदा सत्ययुगस्यादिः कलेरन्तश्च पार्थिव ।
तदा स्वर्गात्पुण्यकृतो जायन्ते किल मानवाः ॥ २५ ॥
यदा कलियुगस्यादिर्द्वापरस्य क्षयस्तथा ।
नरकात्पापिनः सर्वे भवन्ति भुवि मानवाः ॥ २६ ॥
एवं कालसमाचारो नान्यथाभूत्कदाचन ।
तस्मात्कलिरसत्कर्ता तस्मिंस्तु तादृशी प्रजा ॥ २७ ॥
कदाचिद्दैवयोगात्तु प्राणिनां व्यत्ययो भवेत् ।
कलौ ये साधवः केचिद्‌द्वापरे सम्भवन्ति ते ॥ २८ ॥
तथा त्रेतायुगे केचित्केचित्सत्ययुगे तथा ।
दुष्टाः सत्ययुगे ये तु ते भवन्ति कलावपि ॥ २९ ॥
कृतकर्मप्रभावेण प्राप्नुवन्त्यसुखानि च ।
पुनश्च तादृशं कर्म कुर्वन्ति युगभावतः ॥ ३० ॥
जनमेजय उवाच
युगधर्मान्महाभाग ब्रूहि सर्वानशेषतः ।
यस्मिन्वै यादृशो धर्मो ज्ञातुमिच्छामि तं तथा ॥ ३१ ॥
व्यास उवाच
निबोध नृपशार्दूल दृष्टान्तं ते ब्रवीम्यहम् ।
साधूनामपि चेतांसि युगभावाद्‌भ्रमन्ति हि ॥ ३२ ॥
पितुर्यथा ते राजेन्द्र वुद्धिर्विप्रावहेलने ।
कृता वै कलिना राजन् धर्मज्ञस्य महात्मनः ॥ ३३ ॥
अन्यथा क्षत्रियो राजा ययातिकुलसम्भवः ।
तापसस्य गले सर्पं मृतं कस्मादयोजयत् ॥ ३४ ॥
सर्वं युगबलं राजन्वेदितव्यं विजानता ।
प्रयत्‍नेन हि कर्तव्यं धर्मकर्म विशेषतः ॥ ३५ ॥
नूनं सत्ययुगे राजन् ब्राह्मणा वेदपारगाः ।
पराशक्त्यर्चनरता देवीदर्शनलालसाः ॥ ३६ ॥
गायत्रीप्रणवासक्ता गायत्रीध्यानकारिणः ।
गायत्रीजपसंसक्ता मायाबीजैकजापिनः ॥ ३७ ॥
ग्रामे ग्रामे पराम्बायाः प्रासादकरणोत्सुकाः ।
स्वकर्मनिरताः सर्वे सत्यशौचदयान्विताः ॥ ३८ ॥
त्रय्युक्तकर्मनिरतास्तत्त्वज्ञानविशारदाः ।
अभवन्क्षत्रियास्तत्र प्रजाभरणतत्पराः ॥ ३९ ॥
वैश्यास्तु कृषिवाणिज्यगोसेवानिरतास्तथा ।
शूद्राः सेवापरास्तत्र पुण्ये सत्ययुगे नृप ॥ ४० ॥
पराम्बापूजनासक्ताः सर्वे वर्णाः परे युगे ।
तथा त्रेतायुगे किञ्चिन्न्यूना धर्मस्य संस्थितिः ॥ ४१ ॥
द्वापरे च विशेषेण न्यूना सत्ययुगस्थितिः ।
पूर्वं ये राक्षसा राजन् ते कलौ ब्राह्मणाः स्मृताः ॥ ४२ ॥
पाखण्डनिरताः प्रायो भवन्ति जनवञ्चकाः ।
असत्यवादिनः सर्वे वेदधर्मविवर्जिताः ॥ ४३ ॥
दाम्भिका लोकचतुरा मानिनो वेदवर्जिताः ।
शूद्रसेवापराः केचिन्नानाधर्मप्रवर्तकाः ॥ ४४ ॥
वेदनिन्दाकराः क्रूरा धर्मभ्रष्टातिवादुकाः ।
यथा यथा कलिर्वृद्धिं याति राजंस्तथा तथा ॥ ४५ ॥
धर्मस्य सत्यमूलस्य क्षयः सर्वात्मना भवेत् ।
तथैव क्षत्रिया वैश्याः शूद्राश्च धर्मवर्जिताः ॥ ४६ ॥
असत्यवादिनः पापास्तथा वर्णेतराः कलौ ।
शूद्रधर्मरता विप्राः प्रतिग्रहपरायणाः ॥ ४७ ॥
भविष्यन्ति कलौ राजन् युगे वृद्धिं गताः किल ।
कामचाराः स्त्रियः कामलोभमोहसमन्विताः ॥ ४८ ॥
पापा मिथ्याभिवादिन्यः सदा क्लेशरता नृप ।
स्वभर्तृवञ्जका नित्यं धर्मभाषणपण्डिताः ॥ ४९ ॥
भवन्त्येवंविधा नार्यः पापिष्ठाश्च कलौ युगे ।
आहारशुद्ध्या नृपते चित्तशुद्धिस्तु जायते ॥ ५० ॥
शुद्धे चित्ते प्रकाशः स्याद्धर्मस्य नृपसत्तम ।
वृत्तसङ्करदोषेण जायते धर्मसङ्करः ॥ ५१ ॥
धर्मस्य सङ्करे जाते नूनं स्याद्वर्णसङ्करः ।
एवं कलियुगे भूप सर्वधर्मविवर्जिते ॥ ५२ ॥
स्ववर्णधर्मवार्तैषा न कुत्राप्युपलभ्यते ।
महान्तोऽपि च धर्मज्ञा अधर्मं कुर्वते नृप ॥ ५३ ॥
कलिस्वभाव एवैष परिहार्यो न केनचित् ।
तस्मादत्र मनुष्याणां स्वभावात्पापकारिणाम् ॥ ५४ ॥
निष्कृतिर्न हि राजेन्द्र सामान्योपायतो भवेत् ।

जनमेजय उवाच
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ ५५ ॥
कलावधर्मबहुले नराणां का गतिर्भवेत् ।
यद्यस्ति तदुपायश्चेद्दयया तं वदस्व मे ॥ ५६ ॥
व्यास उवाच
एक एव महाराज तत्रोपायोऽस्ति नापरः ।
सर्वदोषनिरासार्थं ध्यायेद्देवीपदाम्बुजम् ॥ ५७ ॥
न सन्त्यघानि तावन्ति यावती शक्तिरस्ति हि ।
नास्ति देव्याः पापदाहे तस्माद्‌भीतिः कुतो नृप ॥ ५८ ॥
अवशेनापि यन्नाम लीलयोच्चारितं यदि ।
किं किं ददाति तज्ज्ञातुं समर्था न हरादयः ॥ ५९ ॥
प्रायश्चित्तं तु पापानां श्रीदेवीनामसंस्मृतिः ।
तस्मात्कलिभयाद्‌राजन् पुण्यक्षेत्रे वसेन्नरः ॥ ६० ॥
निरन्तरं पराम्बाया नामसंस्मरणं चरेत् ।
छित्त्वा भित्त्वा च भूतानि हत्वा सर्वमिदं जगत् ॥ ६१ ॥
देवीं नमति भक्त्या यो न स पापैर्विलिप्यते ।
रहस्यं सर्वशास्त्राणां मया राजन्नुदीरितम् ॥ ६२ ॥
विमृश्यैतदशेषेण भज देवीपदाम्बुजम् ।
अजपां नाम गायत्रीं जपन्ति निखिला जनाः ॥ ६३ ॥
महिमानं न जानन्ति मायाया वैभवं महत् ।
गायत्रीं ब्राह्मणाः सर्वे जपन्ति हृदयान्तरे ॥ ६४ ॥
महिमानं न जानन्ति मायाया वैभवं महत् ।
एतत्सर्वं समाख्यातं यत्पृष्टं तत्त्वया नृप ।
युगधर्मव्यवस्थायां किं भूयः श्रोतुमिच्छसि ॥ ६५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे युगधर्मव्यवस्थावर्णनं नामकादशोऽध्यायः ॥ ११ ॥


मागधाद्या महाभागाः स्वशक्त्या मन्दतेजसः ।
भवद्‌भिरपि स्वैरंशैरवतीर्य धरातले ॥ ३१ ॥
मच्छक्तियुक्तैः कर्तव्यं भारावतरणं सुराः ।
कश्यपो भार्यया सार्धं दिविजानां प्रजापतिः ॥ ३२ ॥
यादवानां कुले पूर्वं भविताऽऽनकदुन्दुभिः ।
तथैव भृगुशापाद्वै भगवान्विष्णुरव्ययः ॥ ३३ ॥
अंशेन भविता तत्र वसुदेवसुतो हरिः ।
तदाहं प्रभविष्यामि यशोदायां च गोकुले ॥ ३४ ॥
कार्यं सर्वं करिष्यामि सुराणां सुरसत्तमाः ।
कारागारे गतं विष्णुं प्रापयिष्यामि गोकुले ॥ ३५ ॥
शेषं च देवकीगर्भात्प्रापयिष्यामि रोहिणीम् ।
मच्छक्त्योपचितौ तौ च कर्तारौ दुष्टसंक्षयम् ॥ ३६ ॥
दुष्टानां भूभुजां कामं द्वापरान्ते सुनिश्चितम् ।
इन्द्रांशोऽप्यर्जुनः साक्षात्करिष्यति बलक्षयम् ॥ ३७ ॥
धर्मांशोऽपि महाराजो भविष्यति युधिष्ठिरः ।
वाय्वंशो भीमसेनश्चाश्विन्यंशौ च यमावपि ॥ ३८ ॥
वसोरंशोऽथ गाङ्गेयः करिष्यति बलक्षयम् ।
व्रजन्तु च भवन्तोऽद्य धरा भवतु सुस्थिरा ॥ ३९ ॥
भारावतरणं नूनं करिष्यामि सुरोत्तमाः ।
कृत्वा निमित्तमात्रांस्तान्स्वशक्त्याहं न संशयः ॥ ४० ॥
कुरुक्षेत्रे करिष्यामि क्षत्त्रियाणां च संक्षयम् ।
असूयेर्ष्या मतिस्तृष्णा ममताभिमता स्पृहा ॥ ४१ ॥
जिगीषा मदनो मोहो दोषैर्नक्ष्यन्ति यादवाः ।
ब्राह्मणस्य च शापेन वंशनाशो भविष्यति ॥ ४२ ॥
भगवानपि शापेन त्यक्ष्यत्येतत्कलेवरम् ।
भवन्तोऽपि निजाङ्गैश्च सहायाः शार्ङ्गधन्वनः ॥ ४३ ॥
प्रभवन्तु सनारीका मथुरायां च गोकुले ।
व्यास उवाच
इत्युक्त्वान्तर्दधे देवी योगमाया परात्मनः ॥ ४४ ॥
सधरा वै सुराः सर्वे जग्मुः स्वान्यालयानि च ।
धरापि सुस्थिरा जाता तस्या वाक्येन तोषिता ॥ ४५ ॥
ओषधीवीरुधोपेता बभूव जनमेजय ।
प्रजाश्च सुखिनो जाता द्विजाश्चापुर्महोदयम् ।
सन्तुष्टा मुनयः सर्वे बभूबुर्धर्मतत्पराः ॥ ४६ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवान् प्रति देवीवाक्यवर्णनं नामकोनविंशोऽध्यायः ॥ १९ ॥



व्यास उवाच
तच्छ्रुत्वा वचनं तथ्यं सर्वे यादवपुङ्गवाः ॥ २७ ॥
गमनाय मतिं चक्रुः सकुटुम्बाः सवाहनाः ।
शकटानि तथोष्ट्राश्च वाम्यश्च महिषास्तथा ॥ २८ ॥
धनपूर्णानि कृत्वा ते निर्ययुर्नगराद्‌बहिः ।
रामकृष्णौ पुरस्कृत्य सर्वे ते सपरिच्छदाः ॥ २९ ॥
अग्रे कृत्वा प्रजाः सर्वाश्चेलुः सर्वे यदूत्तमाः ।
कतिचिद्दिवसैः प्रापुः पुरीं द्वारवतीं किल ॥ ३० ॥
शिल्पिभिः कारयामास जीर्णोद्धारं हि माधवः ।
संस्थाप्य यादवांस्तत्र तावेतौ बलकेशवौ ॥ ३१ ॥
तरसा मथुरामेत्य संस्थितौ निर्जनां पुरीम् ।
तदा तत्रैव सम्प्राप्तो बलवान् यवनाधिपः ॥ ३२ ॥
ज्ञात्वैनमागतं कृष्णो निर्ययौ नगराद्‌बहिः ।
पदातिरग्रे तस्याभूद्यवनस्य जनार्दनः ॥ ३३ ॥
पीताम्बरधरः श्रीमान्प्राहसन्मधुसूदनः ।
तं दृष्ट्वा पुरतो यान्तं कृष्णं कमललोचनम् ॥ ३४ ॥
यवनोऽपि पदातिः सन्पृष्ठतोऽनुगतः खलः ।
प्रसुप्तो यत्र राजर्षिर्मुचुकुन्दो महाबलः ॥ ३५ ॥
प्रययौ भगवांस्तत्र सकालयवनो हरिः ।
तत्रैवान्तर्दधे विष्णुर्मुचुकुन्दं समीक्ष्य च ॥ ३६ ॥
तत्रैव यवनः प्राप्तः सुप्तभूतमपश्यत ।
मत्वा तं वासुदेवं स पादेनाताडयन्नृपम् ॥ ३७ ॥
प्रबुद्धः क्रोधरक्ताक्षस्तं ददाह महाबलः ।
तं दग्ध्वा मुचुकुन्दोऽथ ददर्श कमलेक्षणम् ॥ ३८ ॥
वासुदेवं सुदेवेशं प्रणम्य प्रस्थितो वनम् ।
जगाम द्वारकां कृष्णो बलदेवसमन्वितः ॥ ३९ ॥
(अध्याय २४वाँ)




कोई टिप्पणी नहीं:

एक टिप्पणी भेजें