मंगलवार, 10 अगस्त 2021

पुराण सार

भविष्यपुराणम्  पर्व (१ (ब्राह्मपर्व)अध्यायः ०४४

< भविष्यपुराणम् ‎ | पर्व १ (ब्राह्मपर्व)

भविष्य पुराण का यह अध्याय देखें -
            वर्णविभागविवेकवर्णनम्

              ।ब्रह्मोवाच।
हेयोपादेयतत्त्वज्ञास्त्यक्तान्यायपथागमाः ।
जितेन्द्रियमनोवाचः सदाचारपरायणाः ।१।

नियमाचारवृत्तस्था हितान्वेषणतत्पराः ।
संसाररक्षणोपायक्रियायुक्तमनोरथाः । २।

सम्यग्दर्शनसम्पन्नाः समाधिस्था हतक्रुधः ।
स्वाध्यायभक्तहृदयास्त्यक्तसङ्गा विमत्सराः ।३।

विशोका विमदाः शान्ता सर्वप्राणिहितैषिणः।
सुखदुःखसमालोका विविक्तस्थानवासिनः ।४।

व्रतोपयुक्तसर्वाङ्गा धार्मिकाः पापभीरवः ।
निर्ममा निरहङ्कारा दानशूरा दयापराः ।५।

सत्यब्रह्मविदः शान्ता सर्वशास्त्रेषु निष्ठिताः ।
सर्वलोकहितोपायप्रवृत्तेन स्वयंभुवा ।६।

वागीश्वरेण देवेन नाभेयेन भवच्छिदा ।
ब्रह्मणा कृतमर्यादास्त एवं ब्राह्मणाः स्मृताः ।७।

महातपोधनैरार्यैः सर्वसत्त्वाभयप्रदैः ।
सर्वलोकहितार्थाय निपुणं सुप्रतिष्ठितम् ।८।

वृहत्त्वाद्भगवान्ब्रह्मा नाभेयस्तस्य ये जनाः।
भक्त्यासक्ताः प्रपन्नाश्च ब्राह्मणास्ते प्रकीर्तिताः।९।

_______________________________________

क्षत्रियास्तु क्षतत्राणाद्वैश्या वार्ताप्रवेशनात् ।
ये तु श्रुतेर्द्रुतिं प्राप्ताः शूद्रास्तेनेह कीर्तिताः।(1/44/10 भविष्यपुराण )

ये चाचाररताः प्राहुर्ब्राह्मण्यं ब्रह्मवादिनः ।
ते तु फलं प्रशंसन्ति यत्सदा मनसेप्सितम् ।११।

क्षमा दमो दया दानं सत्यं शौचं धृतिर्घृणा ।
मार्दवार्जवसन्तोषानहङ्कारतपःशमाः. ।१२।

धर्मो ज्ञानमपैशुन्यं ब्रह्मचर्यममूढता ।
ध्यानमास्तिक्यमद्वेषो वैराग्यं च शमात्मता।१३।

पापभीरुत्वमस्तेयममात्सर्यमतृष्णता ।
नैःसङ्ग्यं गुरुशुश्रूषा मनोवाक्काय संयमः ।१४।

य एवम्भूतमाचारमनुतिष्ठन्ति मानवाः।
ब्राह्मण्यं पुष्कलं तेषां नित्यमेव प्रवर्धते ।१५।

ते स्वमतास्वादलब्धवर्णाचारा महौजसः ।
सर्वशास्त्राविरोधेन पवित्रीकृतमानसाः ।१६।

सज्जनाभिमताः प्राज्ञाः पुराणागमपण्डिताः ।
गीतगीतागमाचाराः स्मृतिकाराः पठन्ति च ।१७।

मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः ।
वर्णाश्रमाचारकृतं कर्म सिद्ध्यत्यनुत्तमम् ।१८।

संसिद्धायां तु वार्तायां ततस्तेषां स्वयं प्रभुः ।
मर्यादां स्थापयामास यथारब्धं परस्परम् ।१९।

ये वै परिगृहीतारस्तेषां सत्त्वबलाधिकाः ।
इतरेषां क्षतत्राणान्स्थापयामास क्षत्रियान्। 1.44.२०

उपतिष्ठन्ति ये तान्वै याचन्तो नर्मदाः सदा ।
सत्यब्रह्म सदाभूतं वदन्तो ब्राह्मणास्तु ते ।२१।

ये चान्येप्यबलास्तेषां वैश्यकर्मणि संस्थिताः ।
कीलानि नाशयन्ति स्म पृथिव्यां प्रागतन्द्रिताः । ।
वैश्यानेव तु तानाह कीनाशान्वृत्तिमाश्रितान् ।२२।

शोचन्तश्व द्रवन्तश्च परिचर्यासु ये नराः ।
निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीत्तु सः।२३।

ब्राह्मणक्षत्रियविशां शूद्राणां च परस्परम् ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ।२४।

शमस्तपो दमः शौचं क्षांतिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ।२५।

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ।२६।

कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ।२७।

योगस्तपो दया दानं सत्यं धर्मश्रुतिर्घृणा ।
ज्ञानं विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ।२८।

शिखा ज्ञानमयी यस्य पवित्रं च तपोमयम् ।
ब्राह्मण्यं पुष्कलं तस्य मनुः स्वायम्भुवोऽब्रवीत्।२९।

यत्र वा तत्र वा वर्णे उत्तमाधममध्यमाः ।
निवृत्तः पापकर्मेभ्यो ब्राह्मणः स विधीयते । । 1.44.३०

______________________________________

शूद्रोऽपि शीलसम्पन्नो ब्राह्मणादधिको भवेत् ।
ब्राह्मणो विगताचारः शूद्राद्धीनतरो भवेत् ।३१।

न सुरां सन्धयेद्यस्तु आपणेषु गृहेषु च ।
न विक्रीणाति च तथा सच्छूद्रो हि स उच्यते । । ।३२।

यद्येका स्फुटमेव जातिरपरा कृत्यात्परं भेदिनी ।
यद्वा व्याहृतिरेकतामधिगता यच्चान्यधर्मं ययौ । ।
एकैकाखिलभावभेदनिधनोत्पत्तिस्थितिव्यापिनी ।
किं नासौ प्रतिपत्तिगोचरपथं यायाद्विभक्त्या नृणाम् ।३३।

इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे वर्णविभागविवेकवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ( ४४ )

ब्राह्मणः सर्ववर्णानां ज्येष्ठः श्रेष्ठस्तथोत्तमः ।
एवमस्मिन्पुराणे तु संस्कारान्ब्राह्मणस्य तु ।१७१।

शृणोति यश्च जानाति यश्चापि पठते सदा।
ऋद्धिं वृद्धिं तथा कीर्तिं प्राप्येह श्रियमुत्तमाम् ।१७२।
धनं धान्यं यशश्चापि पुत्रान्बन्धून्सुरूपताम् ।
सावित्रं लोकमासाद्य ब्रह्मलोकमवाप्नुयात् ।१७३।

इति श्रीभविष्य महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि द्वितीयोऽध्यायः । २।

___________________________________

वैश्यस्य धनसंयुक्तं शूद्रस्य च जुगुप्सितम् ।धनवर्धनेति वैश्यस्य सर्वदासेति हीनजे । ९।

मनुना च तथा प्रोक्तं नाम्नो लक्षणमुत्तमम् ।शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम्।1.3.१०

वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ।      स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थमनोरमम् । । ११

मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ।द्वादशेऽहनि राजेन्द्र शिशोर्निष्कमणं गृहात् । । १२

चतुर्थे मासि कर्त्तव्यं तथान्येषां मतं विभो ।षष्ठेऽन्नप्राशनं मासि यथेष्टं मङ्गलं कुले । । १३

चूडाकर्म द्विजातीनां सर्वेषामनुपूर्वशः ।     प्रथमेऽब्दे तृतीये वा कर्तव्यं कुरुनन्दन । । १४।

________________________________

गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।गर्भादेकादशे राजन्क्षत्रियस्य विनिर्दिशेत् । । १५

द्वादशेऽब्देऽपि गर्भात्तु वैश्यस्य व्रतमादिशेत् ।ब्रह्मवर्चसकामेन कार्यं विप्रस्य पञ्चमे । । १६

बलार्थिना तथा राज्ञः षष्ठे ऽब्दे कार्यमेव हि ।अर्थकामेन वैश्यस्य अष्टमे कुरुनन्दन ।१७।

आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।द्वाविंशतेः क्षत्रबन्धोराचतुर्विंशतेर्विशः ।१८।

अत ऊर्ध्वं तु ये राजन्यथाकालमसंस्कृताः ।सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते ३ क्रतोः। १९।

न चाप्येभिरपूतैस्तु आपद्यपि हि कर्हिचित् ।     ब्राह्मं यौनं च सम्बन्धमाचरेद्ब्राह्मणैः सह। 1.3.२०

ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु । । ५८
न वाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
भो भवत्पूर्वकत्वेन इति स्वायम्भुवोऽब्रवीत् । ५९।

ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु । । ५८
न वाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
भो भवत्पूर्वकत्वेन इति स्वायम्भुवोऽब्रवीत् । ५९।

हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ००२

कंसस्य देवकीगर्भविनाशस्य प्रयत्नम्, विष्णुना पाताललोके स्थितानां षड्गर्भ संज्ञकानां दैत्यानां जीवानां आकर्षणं कृत्वा तान् निद्रां देव्यां दानं, तान् देवक्याः गर्भे स्थापनस्य आदेशम् च, कार्यसाधनानन्तरं वर्धनशीलायाः तस्याः देव्याः महिमाकथनम्
द्वितीयोऽध्यायः

                 ।वैशम्पायन उवाच।
सोऽज्ञापयतसंरब्धः सचिवानान्मनो हि तान् ।
यत्ता भवत सर्वे वै देवक्या गर्भकृन्तने ।। १ ।।

प्रथमादेव हन्तव्या गर्भास्ते सप्त एव हि ।
मूलादेव तु हन्तव्यः सोऽनर्थो यत्र संशयः ।। २ ।।

देवकी च गृहे गुप्ता प्रच्छन्नैरभिरक्षिता ।
स्वैरं चरतु विश्रब्धा गर्भकाले तु रक्ष्यताम् ।। ३ ।।

मासान् वै पुष्पमासादीन्गणयन्तु मम स्त्रियः ।
परिणामे तु गर्भस्य शेषं ज्ञास्यामहे वयम् ।। ४ ।।

वसुदेवस्तु संरक्ष्यः स्त्रीसनाथासु भूमिषु ।
अप्रमत्तैर्मम हितै रात्रावहनि चैव हि ।
स्त्रीभिर्वर्षवरैश्चैव वक्तव्यं न तु कारणम् ।। ५ ।।

एष मानुष्यको यत्नो मानुषैरेव साध्यते ।
श्रूयतां येन दैवं हि मद्विधैः प्रतिहन्यते ।। ६ ।।

मन्त्रग्रामैः सुविहितैरौषधैश्च सुयोजितैः ।
यस्तेन चानुकूलेन दैवमप्यनुलोम्यते ।। ७ ।।

             वैशम्पायन उवाच
एवं स यत्नवान् कंसो देवकीगर्भकृन्तने ।
भयेन मन्त्रयामास श्रुतार्थो नारदात्स वै ।। ८ ।।

एवं श्रुत्वा प्रयत्नं वै कंसस्यारिष्टसंज्ञितम् ।
अन्तर्धानं गतो विष्णुश्चिन्तयामास वीर्यवान्।९।

सप्तेमान् देवकीगर्भान् भोजपुत्रो वधिष्यति ।
अष्टमे च मया गर्भे कार्यमाधानमात्मनः। 2.2.१०।

तस्य चिन्तयतस्त्वेवं पातालमगमन्मनः ।
यत्र ते गर्भशयनाः षड्गर्भा नाम दानवाः ।।११।।

विक्रान्तवपुषो दीप्तास्तेऽमृतप्राशनोपमाः ।
अमरप्रतिमा युद्धे पुत्रा वै कालनेमिनः ।। १२ ।।

ते ताततातं संत्यज्य हिरण्यकशिपुं पुरा ।
उपासांचक्रिरे दैत्याः पुरा लोकपितामहम् ।१३ ।।

तप्यमानास्तपस्तीव्रं जटामण्डलधारिणः ।
तेषां प्रीतोऽभवद् ब्रह्मा षड्गर्भाणां वरं ददौ।१४।
                      ब्रह्मोवाच
भो भो दानवशार्दूलास्तपसाहं सुतोषितः ।
ब्रूत वो यस्य यः कामस्तस्य तं तं करोम्यहम् ।१५।

ते तु सर्वे समानार्था दैत्या ब्रह्माणमब्रुवन् ।
यदि नो भगवान् प्रीतो दीयतां नो वरो वरः ।१६।।

अवध्याः स्याम भगवन् दैवतैः समहोरगैः ।
शापप्रहरणैश्चैव स्वस्ति नोऽस्तु महर्षिभिः ।१७ ।

यक्षगन्धर्वपतिभिः सिद्धचारणमानवैः ।
मा भूद् वधो नो भगवन्ददासि यदि नो वरम्।१८।

तानुवाच ततो ब्रह्मा सुप्रीतेनान्तरात्मना ।
भवद्भिर्यदिदं प्रोक्तं सर्वमेतद् भविष्यति ।१९।

षड्गर्भाणां वरं दत्त्वा स्वयम्भूस्त्रिदिवं गतः ।
ततो हिरण्यकशिषुः सरोषो वाक्यमब्रवीत् ।(2.2.२०)
मामुन्मृज्य वरो यस्माद्धृतो वः पद्मसम्भवात्।
तस्माद् वस्त्याजितः स्नेहः शत्रुभूतांस्त्यजाम्यहम्।२१।
षङ्गर्भा इति योऽयं वः शब्दः पित्राभिवर्धितः ।
स एव वो गर्भगतान् पिता सर्वान्वधिष्यति ।२२।।

षडेव देवकीगर्भे षड्गर्भा वै महासुराः ।
भविष्यथ ततः कंसो गर्भस्थान्वो वधिष्यति ।२३।

                 वैशम्पायन उवाच
जगामाथ ततो विष्णुः पातालं यत्र तेऽसुराः ।
षङ्गर्भाः संयताः सन्ति जले गर्भगृहेशयाः ।। २४।।

संददर्श जले सुप्तान् षड्गर्भान् गर्भसंस्थितान्।
निद्रया कालरूपिण्या सर्वानन्तर्हितान्स वै ।२५।

स्वप्नरूपेण तेषां वै विष्णुर्देहानथाविशत्।
प्राणेश्वरांश्च निष्कृष्य निद्रायै प्रददौ तदा ।२६।

तां चोवाच ततो निद्रां विष्णुः सत्यपराक्रमः ।
गच्छ निद्रे मयोत्सृष्टा देवकीभवनान्तिकम् ।२७।

इमान्प्राणेश्वरान् गृह्य षड्गर्भान् दानवोत्तमान् ।
षङ्गर्भान् देवकोगर्भे योजयस्व यथाक्रमम् ।२८।

जातेष्वेतेषु गर्भेषु नीतेषु च यमक्षयम्।
कंसस्य विफले यत्ने देवक्याः सफले श्रमे ।२९।

प्रसादं ते करिष्यामि मत्प्रभावसमं भुवि।
येन सर्वस्य लोकस्य देवि देवी भविष्यसि। 2.2.३० ।।

सप्तमो देवकीगर्भो योंऽशः सौम्यो ममाग्रजः ।
स संक्रामयितव्यस्ते सप्तमे मासि रोहिणीम् ।३१।

संकर्षणात्तु गर्भस्य स तु संकर्षणो युवा ।
भविष्यत्यग्रजो भ्राता मम शीतांशुदर्शनः।३२।

पतितो देवकीगर्भः सप्तमोऽयं भयादिति ।
अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति । ३३।

या तु सा नन्दगोपस्य दयिता भुवि विश्रुता ।
यशोदा नाम भद्रं ते भार्या गोपकुलोद्वहा ।३४ ।

तस्यास्त्वं नवमो गर्भः कुलेऽस्माकं भविष्यसि ।
नवम्यामेव संजाता कृष्णपक्षस्य वै तिथौ ।३५।

अहं त्वभिजितो योगे निशायां यौवने स्थिते ।
अर्धरात्रे करिष्यामि गर्भमोक्षं यथासुखम् ।३६।

अष्टमस्य तु मासस्य जातावावां ततः समम् ।
प्राप्स्यावो गर्भव्यत्यासं प्राप्ते कंसस्य नाशने ।३७।

अहं यशोदां यास्यामि त्वं देवि भज देवकीम् ।
आवयोर्गर्भसंयोगे कंसो गच्छतु मूढताम् ।३८।

ततस्त्वां गृह्य चरणे शिलायां पातयिष्यति ।
निरस्यमाना गगने स्थानं प्राप्स्यसि शाश्वतम्।३९।।

मच्छवीसदृशी कृष्णा संकर्षणसमानना ।
बिभ्रती विपुलौ बाहूपमौ दिवि ।।2.2.४०।।

त्रिशिखं शूलमुद्यम्य खड्गं च कनकत्सरुम् ।
पात्रीं च पूर्णं मधुना पङ्कजं च सुनिर्मलम् । ४१।

नीलकौशेयसंवीता पीतेनोत्तरवाससा ।
शशिरस्मिप्रकाशेन हारेणोरसि राजता ।४२।

दिव्यकुण्डलपूर्णाभ्यां श्रवणाभ्यां विभूषिता ।
चन्द्रसापत्नभूतेन मुखेन त्वं विराजिता ।४३।

मुकुटेन विचित्रेण केशबन्धेन शोभिना ।
भुजङ्गाभैर्भुजैर्भीमैर्भूषयन्ती दिशो दश ।४४।

ध्वजेन शिखिबर्हेण उच्छ्रितेन विराजता ।
अङ्गजेन मयूराणामङ्गदेन च भास्वता ।।४५।।

कीर्णा भूतगणैर्घोरैर्मन्नियोगानुवर्तिनी ।
कौमारं व्रतमास्थाय त्रिदिवं त्वं गमिष्यसि ।४६ ।

तत्र त्वां शतदृक्छक्रो मत्प्रदिष्टेन कर्मणा ।
अभिषेकेण दिव्येन दैवतैः सह योक्ष्यसे ।।४७।।

तत्रैव त्वां भगिन्यर्थे ग्रहीष्यति स वासवः ।
कुशिकस्य तु गोत्रेण कौशिकी त्वं भविष्यसि।४८।

स ते विन्ध्ये नगश्रेष्ठे स्थानं दास्यति शाश्वतम् ।
ततः स्थानसहस्रैस्त्वं पृथिवीं शोभयिष्यसि ।४९।।

त्रैलोक्यचारिणी सा त्वं भुवि सत्योपयाचना ।
चरिष्यसि महाभागे वरदा कामरूपिणी ।। 2.2.५० ।।

तत्र शुम्भनिशुम्भौ द्वौ दानवौ नगचारिणौ ।
तौ च कृत्वा मनसि मां सानुगौ नाशयिष्यसि । ५१।

कृत्वानुयात्रां भूतैस्त्वं सुरामांसबलिप्रिया ।
तिथौ नवम्यां पूजां त्वं प्राप्स्यसे सपशुक्रियाम् ।। ५२ ।।
ये च त्वां मत्प्रभावज्ञाः प्रणमिष्यन्ति मानवाः ।
तेषां न दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ।। ५३ ।।
कान्तारेष्ववसन्नानां मग्नानां च महार्णवे ।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ।। ५४।।
त्वां तु स्तोष्यन्ति ये भक्त्या स्तवेनानेन वै शुभे ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।। ५५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि भारावतरणे निद्रासंविज्ञाने द्वितीयोऽध्यायः ।। २ ।।

हरिवंश पुराण: विष्णु पर्व: द्वितीय अध्याय: श्लोक 1-18 का हिन्दी अनुवाद
कंस द्वारा देवकी के गर्भ के विनाश का प्रयत्‍न, भगवान विष्णु का पाताल लोक में स्थित ‘षड्गर्भ’ नामक दैत्यों के जीवों का आकर्षण करके उन्हें निद्रा देवी के हाथ में देना और देवकी के गर्भ में क्रमश: स्थापित करने का आदेश देकर अन्य कर्तव्य बताना तथा कार्य साधन के अन्तर बढ़ने वाली उस देवी की महिमा का उल्लेेख

वैशम्पायन जी कहते हैं- जनमेजय! क्रोध में भरे हुए कंस ने अपने हितैषी मन्त्रियों को आज्ञा दी कि तुम सब लोग देवकी के गर्भ का उच्छेद करने के लिये उद्यत हो जाओ। पहले गर्भ से ही आरम्भ करके वे सातों गर्भ नष्ट कर देने चाहिये। जहाँ संशय हो, उस अनर्थ का मूल से ही उच्छेद कर देना आवश्यक है। देवकी अपने भवन में गुप्त रक्षकों द्वारा सुरक्षित रहकर अपनी इच्छा के अनुसार निर्भय विचरे; परंतु जब वह गर्भवती हो जाय, उस समय उसे विशेष नियन्त्रण में रखना चाहिये। मेरी स्त्रियां रजस्वलावस्था से ही आरम्भ करके उसके गर्भधारण के मासों की गणना करती रहें। जब गर्भ के परिपक्व होकर प्रकट होने का समय आ जाय, तब से जो शेष कृत्या है, उसे हम लोग स्‍वयं ही समझ लेंगे। मेरे हितैषी सेवक रात-दिन सावधान रहकर स्त्रियों से सनाथ अन्तय:पुर में वसुदेव जी की भली-भाँति रक्षा (देखभाल) करें। स्त्रियां और हिजड़े भी उन पर कड़ी दृष्टि रखें, परंतु इसका कारण उन्हें नहीं बताना चाहिये। मनुष्यों द्वारा किया जाने वाला यह उपाय उन्हीं से साध्यक हो सकता है, परंतु मेरे जैसे शक्तिशाली पुरुष जिस उपाय से दैव को भी प्रतिहत (निष्फल) कर देते है, उसे सुनो। भलीभाँति किये हुए मन्त्र समूहों के जप अच्छी तरह उपयोग में लाये हुए औषधों के सेवन तथा अनुकूल प्रयत्न से दैव को भी अपने अनुकूल बना लिया जाता है।
हरिवंश पुराण: विष्णु पर्व: तृतीय अध्याय: श्लोक 1-20 का हिन्दी अनुवाद
आर्या की स्तु‍ति

वैशम्पायन जी कहते हैं- जनमेजय! पूर्वकाल में जैसा ऋषियों ने बताया है, उसके अनुसार मैं आर्यादेवी की स्तु्ति का वर्णन करता हूँ। तीनों लोकों की अधीश्वरी नारायणी देवी को नमस्कार करता हूँ। देवि! तुम्हीं सिद्धि धृति, कीर्ति, श्री, विद्या, संनति, मति, संध्यां, रात्रि, प्रभा, निद्रा, और कालरात्रि हो। आर्या, कात्यायनी, देवी कौशिकी, ब्रह्मारिणी, सिद्धसेन (कुमार कार्तिकेय) की जननी, उग्रचारिणी तथा महान बल से सम्पन्न हो। जया, विजया, पुष्टि, तुष्टि, क्षमा, दया, यम की ज्येष्ठ बहिन तथा नीले रंग की रेशमी साड़ी पहनने वाली हो। तुम्हारे बहुत से रूप हैं, इसलिये तुम बहुरूपा हो। अनेक प्रकार की विधियों को आचरण में लाने वाली हो। तनी होने के कारण तुम्हारे नेत्र विरूप प्रतीत होते हैं इसलिये तुम विरूपाक्षी हो। तुम्हारे नेत्र बडे़-बड़े हैं, इस कारण विशालाक्षी हो। तुम सदा अपने भक्तों की रक्षा करने वाली हो। महादेवी! पर्वतों के घोर शिखरों पर, नदियों में, गुफाओं में तथा वनों और उपवनों में भी तुम्हारा निवास है। शबरों, बर्बरों और पुलिन्दों ने भी तुम्हारा अच्छी तरह से पूजन किया है। तुम मोरपंख की ध्वजा से सुशोभित हो और क्रमश: सभी लोकों में विचरती रहती हो। मुर्गे, बकरे, भेड़, सिंह तथा व्याघ्र आदि पशु-पक्षी तुम्हें सदा घेरे रहते हैं। तुम्हारे पास घण्टा की ध्वनि अधिक होती है। तुम ‘विन्यवासिनी’ नाम से विख्यात हो। देवि! तुम त्रिशूल और पट्टिश धारण करने वाली हो तुम्हारी पताका पर सूर्य और चन्द्र के चिह्न हैं।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें