शुक्रवार, 27 अगस्त 2021

कालिका पुराण प्रथम अध्याय- हिन्दू वर्णन एवं शिव आ पार्वती का रति क्रिया वर्णन

कलिमहिमा

यवनैरवनिः क्रान्ता हिन्दवो विन्ध्यमाविशन् | बलिना वेदमागाँऽय कलिना कवलीकृतः ॥ १ ॥



मुख्य मेनू खोलें

विकिस्रोतः

अन्विष्यताम्

कालिकापुराणम्/अध्यायः ४७

किसी अन्य भाषा में पढ़ें

डाउनलोड करें

निरीक्षताम्

संपादित करें

< कालिकापुराणम्

।।और्व्य उवाच।।

हरो यावद् जगत्यर्थे देववर्गैः प्रसादितः।

तावन्महामैथुनेन हीनोऽभूदुमया सह।। ४७..१ ।।


वर्तते रतिमात्रेण स्वेच्छां सम्पूरयन् सदा।

यथामनोरथं देव्याः सततं पूरयन्मृडः।। ४७..२ ।।


अथैकदोमया सार्धं निगूढे रतिमन्दिरे।

नर्माकरोन्महादेवो मोदयुक्तो रतिप्रियः।। ४७..३ ।।


यदा सा नर्मणे याता गौरी स्मरहरन्तिकम्।

तदा भृङ्गिमहाकालौ द्वाःस्थौ द्वारि प्रतिष्ठितौ।। ४७..४ ।।


नर्मावसाने सा देवी मुक्तधम्मिल्लबन्धना।

बन्धहीनं गलद्‌गात्राद्वस्त्रमालम्ब्य पाणिना।। ४७..५ ।।


व्यस्तहारा गन्धपुष्पैराकुलैर्नातिशोभना ।

विलुप्तकुङ्कुमा दष्टदशनच्छदविभ्रमा।। ४७..६ ।।


निःसृतारतिसङ्केलिनिलयाज्जलजानना ।

ईषदाघूर्णनयना निचितास्वेदबिन्दुभिः।। ४७..७ ।।


तां निःसरन्तीं सदनात् तथाभूतामनिन्दिताम्।

अयोग्यां वीक्षितुञ्चन्यैर्वृषध्वजमृते पतिम् ।। ४७..८ ।।


ददशृतुर्महात्मानौ नातिहृष्टात्ममानसौ।

भृङ्गी चापि महाकालः प्राप्तकालं चुकोपतुः।। ४७..९ ।।


दृष्ट् वा तां मातरं दीनौ तथाभूतावधोमुखौ।

चिन्तां च जग्मतुस्तीव्रां निशश्वसतुरुत्तमौ।। ४७..१० ।।


तौ पश्यन्तौ तदा देवी ददर्श हिमवत्सुता।

चुकोप च तदापर्णा वाक्यं चैतदुवाच ह।। ४७..११ ।।


एवंभूतं च मां कस्मादसम्बद्धावपश्यताम्।

भवन्ती तनयौ शुद्धौ ह्नीमर्यादाविवर्जितौ।। ४७..१२ ।।


यष्मादिमाममर्यादां भवन्तौ निरपत्रपौ।

अकुर्वतां ततो भूयाद् सवतोर्जन्म मानुषे।। ४७..१३ ।।


मानुषीं योनिमासाद्य मदवेक्षवणदोषतः।

भविष्यन्तौ भवन्तौ तु शाखामृगमुखौ भुवि।। ४७..१४ ।।


इति तावुमया शप्तौ हरपुत्रौ महामती।

भृङ्गी चैव महाकालः स्वमातुरन्तिकं तदा।। ४७..१५ ।।


तौ प्रप्तदुःकौ तु तदा दुर्मस्कौ हरात्मजौ।

शापं तस्या न सेहाते प्रोचतुश्चेदमद्रिजाम्।। ४७..१६ ।।


अनागसौ सदैवावां भवत्या हिमवत्सुते।

कथं शप्तौ त्वया मातर्हठादेवं प्रकोपया।। ४७..१७ ।।


नियोजितौ यथा द्वारि महेशे न त्वया सह।

तथा नियोगं कुर्वन्तो तिष्ठावो द्वारि संयतौ।। ४७..१८ ।।


हठान्निः सरणं गेहात् तवैव न हि युज्यते।

आगच्छन्त्या भवत्या तु दृष्टावावां सुसंयतौ।। ४७..१९ ।।


तस्मान्निरर्थकः कोपः को दोषस्तत्र चावयोः।

तस्मात् तत्र प्रतीकां शृणु मातरनिन्दिते।। ४७..२० ।।


त्वं मानुषी क्षितौ भूया हरो भवतु मानुषः।

मानुषस्य हरस्याथ जायायां हरतेजसा।। ४७..२१ ।।


भवत्याश्चापि मानुष्यां भविष्यावस्तथोदरे।

यदि सत्यं हरसुतावावां यदि निरागसौ।। ४७..२२ ।।


तदावयोरिदं वाक्यं सत्यमस्तु गिरेः सुते।

इत्यन्योन्यमथो शापं दत्त्ता दत्त्वा सुदारुणम्।। ४७..२३ ।।


विनेशु विविशुर्नृ पशार्दूल गौरी हरसुतौ च तौ।

अथ काले व्यतीते तु सर्वज्ञो वृषभध्वजः।। ४७..२४ ।।


तद्‌भावि कर्म ज्ञात्वैव मानुषो ह्यभवत् स्वयम्।

ब्रह्मणो दक्षिणाङ्गु ष्ठाद् दक्षो ब्रह्मसुतोऽभवत्।। ४७..२५ ।।


अदितिस्तत्सुता जाता ततः पूषाह्वयोऽभवत्।

पूष्णः पुत्रोऽभवत् पौष्यः सर्वशास्त्रार्थपारगः।। ४७..२६ ।।


यस्य तुल्यो नृपो न भूमौ न भूतो न भविष्यति।

स पुत्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः।। ४७..२७ ।।


शेषे वयसि संप्राप्ते भार्याभिस्तिसभिः सह।

पौष्यः परमया भक्त्या ब्रह्माणं पर्यतोषयत्।। ४७..२८ ।।


।।ब्रह्मोवाच।।

तस्य प्रसन्नो भगवान् ब्रह्मा लोकपितामहः।

तमुवाच च राजानं किमिच्छसि वदस्व मे।। ४७..२९ ।।


प्रसन्नोऽस्मि नृपश्रेष्ठ प्रदास्यामि यथेप्सितम्।

यदिष्टं तव जायानां तद्‌वदिष्यसि साम्प्रतम्।। ४७..३० ।।


।।पौष्य उवाच।।

हिरण्यगर्भपुत्रोऽहं हिरण्यगर्भपुत्रोऽहं पुत्रार्थी त्वामुपास्महे।

त्वयि प्रसन्ने पुत्रो मे मूयाल्लक्षणसंयुतः।। ४७..३१ ।।


एतदर्थे सभार्योऽहं भक्त्या त्वां समुपस्थितः।

यथा मे जायते पुत्रस्तथा कुरु जगत्पते।। ४७..३२ ।।


पुन्नाम्नो नरकात् पुत्रस्त्रायते पितरं प्रसूम्।

अतस्तस्माद् भयं ब्रह्मं स्त्वं नाशयितेमर्हसि।। ४७..३३ ।।


।। ब्रह्मोवाच।।

शृणु पौष्य यथा भावी पुत्रस्तव कुलोद्वहः।

तदहं ते वदाम्यद्य भार्याभिस्तत् समाचार।। ४७..३४ ।।


इदं फलं गृहाण त्वं मया दत्तं नृपोत्तम्।

अजीर्णं बहुले काले प्राप्तेऽपि सुरसं सदासुरसंसदि ।। ४७..३५ ।।


फलमेतत् समादाय तावत् संवत्सरत्रयम् द्वयम्

आराधय महादेवं स प्रसन्नो भविष्यति।। ४७..३६ ।।


यथा सम्भाषते भर्गः फलमेतत् तथा भवान्।

करिष्यति फलं राजन् भार्याभिस्तिसृभिः सह।। ४७..३७ ।।


ततस्ते लक्षणोपेतस्तनयः कुलवर्धनः।

भविष्यति स्वयं शास्ता चक्रवर्ती वसुन्धराम्।। ४७..३८ ।।


।।और्व्य उवाच।।

इत्युक्त्वा प्रययौ ब्रह्मा राजापि सह भीरुभिः।

हरं यष्टुं समारेभे भक्त्या परमया युतः।। ४७..३९ ।।


निराशीः संयताहारः कदाचित् फलभोजनः।

दृषद्वतीनदीतीरे फलं संस्थाप्य चाग्रतः।। ४७..४० ।।


पुष्पार्घदीपधूपैश्च वृषभध्वजमतर्पयत्।

स तु वर्षत्रयेऽतीते द्वयातीते महादेवो जगत्पतिः।। ४७..४१ ।।


पौष्यस्य नृपतेः सम्यक् प्रससादार्थसिद्धये।

प्रसन्नः प्राह नृपतिं सहादेवो हसन्निव।

उपाससे किमर्थं मां तन्मे वद ददामि ते।। ४७..४२ ।।


।।पौष्य उवाच।।

अपुत्रोऽहं पुत्रकामस्तच्छुणुष्वपूजयामि मुद्रितपुस्तके अधिकः।

यथाहं पुत्रवान् वै स्यां वृषध्वज तथा कुरु।। ४७..४३ ।।


।।और्व्य उवाच।।

इति स न्यगदद्राजा भार्याभिः सह हर्षितः। मुद्रितपुस्तके अधिकः।

प्रणम्य स्तुतिपूर्वेण भक्तिनम्रात्ममानसः।। ४७..४४ ।।


ततः पूत्रार्थिनं भूपं प्रसन्नो वृषभध्वजः। मुद्रितपुस्तके अधिकः।

ब्रह्मदत्तं फलं हस्ते कृत्वेदं तमुवाच ह।। ४७.. ४५ ।।


।।ईश्वर उवाच।।

इदं फलं ब्रह्मदत्तं विभज्य नृपते त्रिधा।

भोजयेथाः स्वजायास्त्वं प्रहृष्टः सुस्थमानसः।। ४७..४६ ।।


ततः प्रवृत्ते भवत एतासु ऋतुसङ्गमे।

आधास्यन्ति तु गर्भास्तु भार्यास्ते युगपन्नृप।। ४७..४७ ।।


कालं प्राप्ते च युगपत् प्रसवो योषितां तव।

भविष्यति नृपश्रेष्ठ तत्रेत्थं त्वं करिष्यसि।। ४७..४८ ।।


एकस्या जठरे शीर्षभागस्ते सम्भविष्यति।

अपरस्यास्तदा कुक्षेर्मध्यभागो भविष्यति।। ४७..४९ ।।


अधो नाभ्यास्तु यो भागः सोऽपरस्यां भविष्यति।

तच्च खण्डत्रयं भूप यथास्थानं पृथक् पृथक्।। ४७..५० ।।


योजयिष्यसि पश्चात् ते पुत्र एको भविष्यति।

तस्य शीर्षे चन्द्ररेखा सहजा सम्भविष्यति।। ४७..५१ ।।


तेनैव नाम्ना स ख्यातिं गमिष्यति च भूतले।

।।और्व्य उवाच।।

इत्युक्त्वा स महादेवस्तासां गर्भान् स्वयं तदा।। ४७..५२ ।।


संस्कर्तुं जाह्नवीतोयमात्मवासाय वै न्यधात्।

ततः फले स्वयं देवः प्रविवेश वृषध्वजः।। ४७..५३ ।।


तत्क्षणात् तत्फलं भूतं त्रिभागं स्वयमेव हि।

पौष्यस्तत्फलमादाय मुदितः सह भार्यया।। ४७..५४ ।।


प्रययौ मन्दिरं हृष्टो अनुज्ञाप्य वृषध्वजम्।

ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम्।। ४७..५५ ।।


तत्फलं नृपशार्दूल गर्भाश्चाप्यायिताः शुभाः।

सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत।। ४७..५६ ।।


खण्डत्रयं पृथग्राजंस्तथा यथा भर्गेण भाषितम्।

तच्च खण्त्रयं पौष्यौ यथास्थानं नियोज्य च।। ४७..५७ ।।


एकपिण्डं चकाराशु तत्र पुत्रो व्यजायत।

तस्य शीर्षे तदा राजन् सहजेन्दुकला शुभा।। ४७..५८ ।।


विरराज यथा स्वस्था शरत्काले कला विधोः।

तं सर्वलक्षणोपेतं पीनोरस्कं सुनासिकम्।। ४७..५९ ।।


सिंहग्रीवं विशालाक्षं दीर्घायतभुजं तदा।

दृष्ट्वा पौष्योऽथ भार्याभिस्तिसृभिः सह सम्मुदम्।। ४७..६० ।।


लेभे दरिद्रः सत्कोषं प्राप्येव विपुलं ततः।

तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः।। ४७..६१ ।।


चन्द्रशेखर इत्येव कान्त्या चन्द्रमसः समः।

ववृधे स महाभागः प्रत्यहं चन्द्रवत् सुतः।। ४७..६२ ।।


कलाभिरिव तेजस्वी शरदीव निशाकरः।

एवं तिसृणामम्बानां गर्भे जातो यतो हरः।। ४७..६३ ।।


अतस्त्र्यम्बक नामाभूत्सुतोऽभुत् प्रथितो लोकवेदयोः।

स राजपुत्रः कौमारीमवस्थां प्रापयत् तदा।। ४७..६४ ।।


सर्वशास्त्रार्थतत्त्वज्ञो विष्णोस्तुल्यो बभूव ह।

बले वीर्ये प्रहरणे शास्त्रे शीले च तत्समः।। ४७..६५ ।।


नान्योऽभूद् नृपशार्दूल नो वा भूमौ भविष्यति।

अभिषिच्याथ तं राख्ये कुमारं बलवत्तरम्।। ४७..६६ ।।


दशपञ्चैकवर्षीयं सर्वराजगुणैर्युतम्।

तिसृभिः सहभार्याभिर्वनं पौष्यो विवेश ह।

वृद्धोचितक्रियां कर्तुं राजा परमधार्मिकः।। ४७..६७ ।।


गते पितरि राजा स वनवासं महाबलः।। ४७..६८ ।।


सर्वां क्षितिं वशे चक्रे सामातयैः सामात्यश्चन्द्रशेखरः।

सार्वभौमो नृपो भूत्वा राजभिः परिसेवितः।। ४७..६९ ।।


अमरैरिव देवेन्द्रो विजहार श्रिया युतः।

एवं पौष्यसुतो भूत्वा त्र्यम्बकः पुण्यनिर्वृतः।। ४७..७० ।।


ब्रह्मावर्ताह्वये रम्ये करवीराह्वये पुरे।

दृषद्वतीनदीतीरे राजा भूत्वा मुमोद ह।। ४७..७१ ।।


अथैकदा स पितर वनवासगतं स्वयम्।

मातृश्चापि नृपश्रेष्ठ द्रष्टुकामोऽभवन्नृपः।। ४७..७२ ।।


स एकस्यन्दनेनैव एकाकी चन्द्रशेखरः।

विपुलं धनुरादाय समार्गणगणं तदा।। ४७..७३ ।।


तपोवनं पुण्यमयं विषयान्ते व्यवस्थितम्।

आससाद दिदृक्षुः स तातं वृद्धं समातृकम।। ४७..७४ ।।


स गच्छन् पितुरभ्याशं नृपतिं चन्द्रशेखरः।

ददर्श नमुचं नाम तपस्यन्तं महामुनिम्।। ४७..७५ ।।


कृषणाजिनोत्तरीयेण संवीतं सूर्यसन्निभम्।

ऊर्ध्वगाभिर्जटाभिश्च संयुतं ध्यानिनं कृशम्।। ४७..७६ ।।


तपसा द्योतिततनुं निश्चलं कुशजासनम्।

तं दृष्ट्वा दूरतो वीरो रथोपस्थादवातरत्।। ४७..७७ ।।


उपतस्थे च विप्रेन्द्रं विनयानतकन्धरः।

प्रणनाम मुनिं तं च वाक्यमेतदुदीरयनुदाहरन् ।। ४७..७८ ।।


पौष्यस्य तनयो ब्रह्मन् नाम्नाहं चन्द्रशेखरः।

प्रणमामि महाभक्त्या भवन्तं मुनिसत्तमम्।। ४७..७९ ।।


इत्युक्त्वा प्राञ्जलिस्तस्थौ मुनेस्तस्याग्रतो नृपः।

नमुचस्य मुखं वीक्ष्य भक्तिनम्रात्ममानसः कन्धरः ।। ४७..८० ।।


पूर्वमेव यदा राजा प्राविशत् तपसे वनम्।

तदैव सह भार्याभिस्तं मुनिं प्रत्यपूजयत्।। ४७..८१ ।।


चिरमाराध्य नमुचं पौष्यः परमपण्डितः।

प्रसादयामास मुनिं पुत्रार्थे सूनृताक्षरैः।। ४७..८२ ।।


विषयान्ते तपः कुर्वन् मुनिश्रेष्ठेह तिष्ठसि।

एकन्तु प्रार्थये त्वत्तो यदि मां दयसे मुने।। ४७..८३ ।।


शिशुर्मे तनयो राजा चन्द्रशेखरसंज्ञकः।


सहजेन्दुकलायुक्तो बालभावाच्च चञ्चलः।। ४७..८४ ।।


स चेदं भवन्तमासाद्य कराचिदपराध्यति।

तदा क्षमिष्यसि मुने मयैतत् प्रार्थितं त्वयि।। ४७..८५ ।।


पौष्यस्य वचनं श्रुत्वा मुनिश्चाङ्गीचकार ह।

दृष्ट्वा तत्तनयं विप्रः पौष्यवाक्यमथास्मरत्।। ४७..८६ ।।


स्मृत्वाग्रतः स्थितं नम्रं सुचिरं चन्द्रशेखरम्।

इदं प्रोवाच स मुनिर्दयावान्नमुचाह्वयः।। ४७..८७ ।।


विनयेनाद्य तुष्टोऽस्मि भवतः चन्द्रशेखर।

वरं वरय दास्यामि वाञ्छितं मे महत्तरम्।। ४७..८८ ।।


तस्य श्रुत्वा ततो वाक्यं नृपतिश्चन्द्रशेखरः।

पुनः प्रणम्य नमुचमिदमाहातिसूनृतम्।। ४७..८९ ।।


कायेन मनसा वाचा यदर्थद्विजसत्तम ।

तत्सर्वं विषये मेऽस्ति त्वादृशा यस्य दक्षिणाः।। ४७..९० ।।


मनोगतं मे दुष्प्रापं वाञ्छनीयं न विद्यते।

तदेव वरणीयं मे यद् ददाति स्वयं भवान्।। ४७..९१ ।।


।।नमुच उवाच।।

त्वं सप्तदशवर्षाणां प्राप्ते संवत्सरे परे।

भविष्यसि नृपश्रेष्ठ वररामापतिःस्वयम्।। ४७..९२ ।।


यथा गिरिसुता शम्भोर्यथा लक्ष्मीर्गदाभृतः।

यथा सुरेशस्य शची तथा तेऽपि भविष्यति।। ४७..९३ ।।


इत्युक्त्वा स मुनिर्भूपं नमुचस्तपसां निधिः।

विसर्जयामास तदा स चापि मुदितो ययौ।। ४७..९४ ।।


स गत्वा पितरं प्राप्य मातृश्च चन्द्रशेखरः।

अपूजयद् यथार्हन्तु तैरप्याश्वासितः सुतः।। ४७..९५ ।।


अथागतो नृपः स्वीयां करवीरपुरीं प्रति।

मुदितः सचिवै, सार्द्धं रेमे देवेन्द्रसन्निभः।। ४७..९६ ।।


।। इति श्रीकालिकापुराणे नवचत्वारिंश सप्तचत्वारिंशोऽध्यायः।। ४७ ।।


<



मार्कण्डेय उवाच
वेतालस्य च सन्तानं शृण्वन्तु मुनिसत्तमाः।
यच्छ्रुत्वा सर्वपापेभ्यस्तत्क्षणादेव हीयते।। ९०.१ ।।

दक्षस्य तनया चाभूत् सुरभिर्नाम नामतः।
गवां माता महाभागा सर्वलोकोपकारिणी।। ९०.२ ।।

तस्यां तु तनया जज्ञे कश्यपात् तु प्रजापतेः।
नाम्ना सा रोहिणी शुभ्रा सर्वकामदुघा नृणाम्।। ९०.३ ।।

तस्यां जज्ञे शुनःशेफान्मुनेरतितपोधनात्।
कामधेनुरिति ख्याता सर्वलक्षणसंयुता।। ९०.४ ।।



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें