भविष्यपुराणम्पर्व(१) (ब्राह्मपर्व)अध्याय(४४)
वर्णविभागविवेकवर्णनम्
।ब्रह्मोवाच।
हेयोपादेयतत्त्वज्ञास्त्यक्तान्यायपथागमाः ।
जितेन्द्रियमनोवाचः सदाचारपरायणाः ।१।
नियमाचारवृत्तस्था हितान्वेषणतत्पराः ।
संसाररक्षणोपायक्रियायुक्तमनोरथाः । २।
सम्यग्दर्शनसम्पन्नाः समाधिस्था हतक्रुधः ।
स्वाध्यायभक्तहृदयास्त्यक्तसङ्गा विमत्सराः ।३।
विशोका विमदाः शान्ता सर्वप्राणिहितैषिणः।
सुखदुःखसमालोका विविक्तस्थानवासिनः ।४।
व्रतोपयुक्तसर्वाङ्गा धार्मिकाः पापभीरवः ।
निर्ममा निरहङ्कारा दानशूरा दयापराः ।५।
सत्यब्रह्मविदः शान्ता सर्वशास्त्रेषु निष्ठिताः ।
सर्वलोकहितोपायप्रवृत्तेन स्वयंभुवा ।६।
वागीश्वरेण देवेन नाभेयेन भवच्छिदा ।
ब्रह्मणा कृतमर्यादास्त एवं ब्राह्मणाः स्मृताः ।७।
____________
महातपोधनैरार्यैः सर्वसत्त्वाभयप्रदैः ।
सर्वलोकहितार्थाय निपुणं सुप्रतिष्ठितम् ।८।
वृहत्त्वाद्भगवान्ब्रह्मा नाभेयस्तस्य ये जनाः।
भक्त्यासक्ताः प्रपन्नाश्च ब्राह्मणास्ते प्रकीर्तिताः।९।
_______________________________________
क्षत्रियास्तु क्षतत्राणाद्वैश्या वार्ताप्रवेशनात् ।
ये तु श्रुतेर्द्रुतिं प्राप्ताः शूद्रास्तेनेह कीर्तिताः।(1/44/10 भविष्यपुराण )
ये चाचाररताः प्राहुर्ब्राह्मण्यं ब्रह्मवादिनः ।
ते तु फलं प्रशंसन्ति यत्सदा मनसेप्सितम् ।११।
क्षमा दमो दया दानं सत्यं शौचं धृतिर्घृणा ।
मार्दवार्जवसन्तोषानहङ्कारतपःशमाः. ।१२।
धर्मो ज्ञानमपैशुन्यं ब्रह्मचर्यममूढता ।
ध्यानमास्तिक्यमद्वेषो वैराग्यं च शमात्मता।१३।
पापभीरुत्वमस्तेयममात्सर्यमतृष्णता ।
नैःसङ्ग्यं गुरुशुश्रूषा मनोवाक्काय संयमः ।१४।
य एवम्भूतमाचारमनुतिष्ठन्ति मानवाः।
ब्राह्मण्यं पुष्कलं तेषां नित्यमेव प्रवर्धते ।१५।
ते स्वमतास्वादलब्धवर्णाचारा महौजसः ।
सर्वशास्त्राविरोधेन पवित्रीकृतमानसाः ।१६।
सज्जनाभिमताः प्राज्ञाः पुराणागमपण्डिताः ।
गीतगीतागमाचाराः स्मृतिकाराः पठन्ति च ।१७।
मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः ।
वर्णाश्रमाचारकृतं कर्म सिद्ध्यत्यनुत्तमम् ।१८।
संसिद्धायां तु वार्तायां ततस्तेषां स्वयं प्रभुः ।
मर्यादां स्थापयामास यथारब्धं परस्परम् ।१९।
ये वै परिगृहीतारस्तेषां सत्त्वबलाधिकाः ।
इतरेषां क्षतत्राणान्स्थापयामास क्षत्रियान्। 1.44.२०
उपतिष्ठन्ति ये तान्वै याचन्तो नर्मदाः सदा ।
सत्यब्रह्म सदाभूतं वदन्तो ब्राह्मणास्तु ते ।२१।
ये चान्येप्यबलास्तेषां वैश्यकर्मणि संस्थिताः ।
कीलानि नाशयन्ति स्म पृथिव्यां प्रागतन्द्रिताः।
वैश्यानेव तु तानाह कीनाशान्वृत्तिमाश्रितान् ।२२।
___________________
( शूद्र शब्द की व्युत्पत्ति-)
शोचन्तश्व द्रवन्तश्च परिचर्यासु ये नराः ।
निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीत्तु सः।२३।
_________________________________
ब्राह्मणक्षत्रियविशां शूद्राणां च परस्परम् ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ।२४।
शमस्तपो दमः शौचं क्षांतिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म (ब्राह्मण) स्वभावजम् ।२५।
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म (क्षत्रिय) स्वभावजम् ।२६।
कृषिगोरक्षवाणिज्यं वैश्यकर्म (वैश्य) स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि ( शूद्र:) स्वभावजम् ।२७।
________________________________
योगस्तपो दया दानं सत्यं धर्मश्रुतिर्घृणा ।
ज्ञानं विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ।२८।
शिखा ज्ञानमयी यस्य पवित्रं च तपोमयम् ।
ब्राह्मण्यं पुष्कलं तस्य मनुः स्वायम्भुवोऽब्रवीत्।२९।
____________________________________
यत्र वा तत्र वा वर्णे उत्तमाधममध्यमाः ।
निवृत्तः पापकर्मेभ्यो ब्राह्मणः स विधीयते । । 1.44.३०
______________________________________
शूद्रोऽपि शीलसम्पन्नो ब्राह्मणादधिको भवेत् ।
ब्राह्मणो विगताचारः शूद्राद्धीनतरो भवेत् ।३१।
न सुरां सन्धयेद्यस्तु आपणेषु गृहेषु च ।
न विक्रीणाति च तथा सच्छूद्रो हि स उच्यते । । ।३२।
यद्येका स्फुटमेव जातिरपरा कृत्यात्परं भेदिनी ।
यद्वा व्याहृतिरेकतामधिगता यच्चान्यधर्मं ययौ । ।
एकैकाखिलभावभेदनिधनोत्पत्तिस्थितिव्यापिनी ।
किं नासौ प्रतिपत्तिगोचरपथं यायाद्विभक्त्या नृणाम् ।३३।
इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे वर्णविभागविवेकवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ( ४४ )
_______________________________________
ब्राह्मणः सर्ववर्णानां ज्येष्ठः श्रेष्ठस्तथोत्तमः ।
एवमस्मिन्पुराणे तु संस्कारान्ब्राह्मणस्य तु ।१७१।
शृणोति यश्च जानाति यश्चापि पठते सदा।
ऋद्धिं वृद्धिं तथा कीर्तिं प्राप्येह श्रियमुत्तमाम् ।१७२।
धनं धान्यं यशश्चापि पुत्रान्बन्धून्सुरूपताम् ।
सावित्रं लोकमासाद्य ब्रह्मलोकमवाप्नुयात् ।१७३।
इति श्रीभविष्य महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि द्वितीयोऽध्यायः । २।
___________________________________
वैश्यस्य धनसंयुक्तं शूद्रस्य च जुगुप्सितम् ।धनवर्धनेति वैश्यस्य सर्वदासेति हीनजे । ९।
मनुना च तथा प्रोक्तं नाम्नो लक्षणमुत्तमम् ।शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम्।1.3.१०
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् । स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थमनोरमम् । । ११
मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ।द्वादशेऽहनि राजेन्द्र शिशोर्निष्कमणं गृहात् । । १२
चतुर्थे मासि कर्त्तव्यं तथान्येषां मतं विभो ।षष्ठेऽन्नप्राशनं मासि यथेष्टं मङ्गलं कुले । । १३
चूडाकर्म द्विजातीनां सर्वेषामनुपूर्वशः । प्रथमेऽब्दे तृतीये वा कर्तव्यं कुरुनन्दन । । १४।
________________________________
गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।गर्भादेकादशे राजन्क्षत्रियस्य विनिर्दिशेत् । । १५
द्वादशेऽब्देऽपि गर्भात्तु वैश्यस्य व्रतमादिशेत् ।ब्रह्मवर्चसकामेन कार्यं विप्रस्य पञ्चमे । । १६।
______
बलार्थिना तथा राज्ञः षष्ठे ऽब्दे कार्यमेव हि ।अर्थकामेन वैश्यस्य अष्टमे कुरुनन्दन ।१७।
आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।द्वाविंशतेः क्षत्रबन्धोराचतुर्विंशतेर्विशः ।१८।
अत ऊर्ध्वं तु ये राजन्यथाकालमसंस्कृताः ।सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः। १९।
न चाप्येभिरपूतैस्तु आपद्यपि हि कर्हिचित् । ब्राह्मं यौनं च सम्बन्धमाचरेद्ब्राह्मणैः सह। 1.3.२०
भवन्ति राजंश्चर्माणि व्रतिनां त्रिविधानि च।कार्ष्णरौरववास्तानि ब्रह्मक्षत्रविशां नृप।२१
वशीरंश्चानुपूर्व्येण वस्त्राणि विविधानि तु ।ब्रह्मक्षत्रविशो राजञ्छाणक्षौमादिकानि च।२२।
मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।क्षत्रियस्य च मौर्वीज्या वैश्यस्य शणतान्तवी ।२३।
मुञ्जालाभे तु कर्तव्या कुशाश्मन्तकबल्वजैः ।त्रिवृत्ता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव च ।२४।
कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् ।शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् । । २५
पुष्कराणि तथा चैषां भवन्ति त्रिविधानि तु ।ब्रह्मणो बैल्वपालाशौ तृतीयं प्लक्षजं नृप । । २६
वाटखादिरौ क्षत्रियस्तु तथान्यं वेतसोद्भवम् ।पैलवोदुम्बरौ वैश्यस्तथाश्वत्थजमेव हि ।२७।
दण्डानेतान्महाबाहो धर्मतोऽर्हन्ति धारितुम् ।केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः।२८।
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ।ऋजवस्ते तू सर्वे स्युर्ब्राह्मणाः सौम्यदर्शनाः ।२९।
अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः । प्रगृह्य चेप्सितं दण्डमुपस्थाय च भास्करम् ।1.3.३०
सम्यग्गुरुं तथा पूज्य चरेद्भैक्ष्यं यथाविधि । भवत्पूर्वं चरेद्भैक्ष्यमुपनीतो द्विजोत्तमः ।३१।
भवन्मध्यं तु राजन्यो वैश्यस्य भवदुत्तरम् । मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।३२।
भिक्षेत भैक्ष्यं प्रथमं या चैनं नावमानयेत् । सुवर्णं रजतं चान्नं सा पात्रेऽस्य विनिर्दिशेत् ।३३।
समाहृत्य ततो भैक्ष्यं यावदर्थममायया । निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ।३४।
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः।३५।
उपस्पृश्य द्विजो राजन्नन्नमद्यात्समाहितः । भुक्त्वा चोपस्पृशेत्सम्यगद्भिःखानि च संस्पृशेत्। ३६
तथान्नं पूजयेन्नित्यमद्याच्चैतदकुत्सयन् ।दर्शनात्तस्य हष्येद्वै प्रसीदेच्चापि भारत।३७
अभिनन्द्य ततोऽश्नीयादित्येवं मनुरब्रवीत् । पूजितं त्वशनं नित्यं बलमोजश्च यच्छति।३८
अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् । नोच्छिष्टं कस्यचिद्दद्यान्नाद्याच्चैतत्तथान्तरा ।३९
यस्त्वन्नमन्तरा कृत्वा लोभादत्ति नृपोत्तम । विनाशं याति स नर इह लोके परत्र च । ।यथाभवत्पुरा वैश्यो धनवर्द्धनसंज्ञितः । । 1.3.४०
।शतानीक उवाच।
स कथमन्तरं पूर्वमन्नस्य द्विजसत्तम । किमन्तरं तथान्नस्य कथं वा तत्कृतं भवेत् । । ४१
।सुमन्तुरुवाच।
पुरा कृतयुगे राजन्वैश्यो वसति पुष्करे ।धनवर्धननामा वै समृद्धौ धनधान्यतः । । ४२
निदाघकाले राजेन्द्र स कृत्वा वैश्वदेविकम् ।सपुत्रभ्रातृभिः सार्धं तथा वै मित्रबन्धुभिः । ।आहारं कुरुते राजन्भक्ष्यभोज्यसमन्वितम् । ४३
अथ तद्भुञ्जतस्तस्य तस्य अन्नं शब्दो महानभूत् ।करुणः कुरुशार्दूल अथ तं स प्रधावितः । ४४
त्यक्त्वा स भोजनं यावन्निष्क्रान्तो गृहबाह्यतः ।अथ शब्दस्तिरोभूतः स भूयो गृहमागतः ।४५
तमेव भाजनं गृह्य आहारं कृतवान्नृप । भुक्तशेषं महाबाहो आहारं स तु भुक्तवान् ।४६
भुक्त्वा स शतधा जातस्तस्मिन्नेव क्षणे नृप ।तस्मादन्नं न राजेन्द्र अश्नीयादन्तरा क्वचित् । ४७।
न चैवात्यशनं कुर्यान्न चोच्छिष्टः क्वचिद्व्रजेत् ।रसो भवत्यत्यशनाद्रसाद्रोगः प्रवर्तते । ४८।
स्नानं दानं जपो होमः पितृदेवाभिपूजनम् । न भवन्ति रसे जाते नराणां भरतर्षभ ।४९
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् । 1.3.५०
यक्षभूतपिशाचानां रक्षसां च नृपोत्तम । गम्यो भवति वै विप्र उच्छिष्टो नात्र संशयः ।५१।
शुचित्वमाश्रयेत्तस्माच्छुचित्वान्मोदते दिति । सुखेन चेह रमते इतीयं वैदिकी श्रुतिः । । ५२
शतानीक उवाच
शुचितामियात्कथं विप्रः कथं चाशुचितामियात् ।एतन्मे इहि विप्रेन्द्र कौतुकं परमं मम । ५३।
सुमन्तुरुवाच
उपस्पृश्य शुचिर्विप्रो भवते भरतर्षभ ।विधिवत्कुरुशार्दूल भवेद्विधिपरो ह्यतः ।५४।
शतानीक उवाच
उपस्पर्शविधिं विप्र कथय त्वं ममाखिलम् ।शुचित्वमाप्नुयाद्येन आचान्तो ब्राह्मणो द्विजः ।५५
सुमन्तुरुवाच
साधु पृष्टोऽस्मि राजेन्द्र शृणु विप्रो यथा भवेत् ।शुचिर्भरतशार्दूल विधिना येन वा विभो । ५६
प्रक्षाल्य हस्तौ पादौ च प्राङ्मुखोदङ्मुखोऽपि वा ।उपविश्य शुचौ देशे बाहुं कृत्वा च दक्षिणम् ।५७
जान्वन्तरे महाबाहो ब्रह्मसूत्रसमन्वितः १ । सुसमौ चरणौ कृत्वा तथा बद्धशिखो नृप । ५८
न तिष्ठन्न च संजल्पंस्तथा चानवलोकयन् । न त्वरन्कुपितो वापि त्यक्त्वा राजन्सुदूरतः । ५९
प्रसन्नाभिस्तथाद्भिस्तु आचान्तः शुचितामियात् ।नोष्णाभिर्न सफेनाभिर्युक्ताभिः कलुषेण च । । 1.3.६०
वर्णेन रसगन्धाभ्यां हीनाभिर्न च भारत ।सबुद्बुदाभिश्च तथा नाचामेत्पण्डितो नृप । । ६१
पञ्चतीर्थानि विप्रस्य श्रूयन्ते दक्षिणे करे । देवतीर्थं पितृतीर्थं ब्रह्मतीर्थं च मानद ।६२
प्राजापत्यं तथा चान्यत्तथान्यत्सौम्यमुच्यते ।अङ्गुष्ठमूलोत्तरतो येयं रेखा महीपते । ६३
ब्राह्मं तीर्थं वदन्त्येतद्वसिष्ठाद्या द्विजोत्तमाः। कायं कनिष्ठिकामूले अङ्गुल्यग्रे तु दैवतम् ।६४
तर्जन्यङ्गुष्ठयोरन्तः पित्र्यं तीर्थमुदाहृतम् । करमध्ये स्थितं सौम्यं प्रशस्तं देवकर्मणि ।६५
देवार्चाबलिहरणं प्रविक्षपणमेव च । एतानि देवतीर्थेन कुर्यात्कुरुकुलोद्वह ।६६
अन्ननिर्वपणं राजंस्तथा सपवनं नृप । लाजाहोमं तथा सौम्यं प्राजापत्येन कारयेत् ।६७
कमण्डलूपस्पर्शनं दधिप्राशनमेव च । सौम्यतीर्थेन राजेन्द्र सदा कुर्याद्विचक्षणः ।६८
पितॄणां तर्पणं कार्यं पितृतीर्थेन धीमता । ब्राह्मेण चापि तीर्थेन सदोषस्पर्शनं परम् । ६९
घनाङ्गुलिकरं कृत्वा एकाग्रः सुमना द्विजः । त्रिःकृत्वा यः पिबेदापो मुखशब्दविवर्जितः । 1.3.७०
शृणु यत्फलमाप्नोति प्रीणाति च यथा सुरान् । प्रथमं यत्पिबेदाप ऋग्वेदस्तेन तृप्यति । ७१
यद्द्वितीयं यजुर्वेदस्तेन प्रीणाति भारत । यत्तृतीयं सामवेदस्तेन प्रीणाति भारत । ७२
प्रथमं यन्मृजेदास्यं दक्षिणाङ्गुष्ठमूलतः । अथर्ववेदः प्रीणाति तेन राजन्नसंशयः । । ७३
इतिहासपुराणानि यद्द्वितीयं प्रमार्जति । यन्मूर्धानं हि राजेन्द्र अभिषिञ्चति वै द्विजः। ७४
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु । । ५८।
न वाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
भो भवत्पूर्वकत्वेन इति स्वायम्भुवोऽब्रवीत् । ५९।
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् । गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ।। १७६
बालः समानजन्मा वा विशिष्टो यज्ञकर्मणि ।अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति ।१७७।
उत्सादनमथाङ्गानां स्नापनोच्छिष्टभोजने ।पादयोर्नेजन राजन्गुरुपुत्रेषु वर्जयेत् ।१७८।
गुरुवत्प्रतिपूज्यास्तु सवर्णा गुरुयोषितः ।असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः।१७९।
अभ्यञ्जनं स स्नपनं गात्रोत्सादनमेव च ।गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ।। 1.4.१८०
गुरुपत्नीं तु युवतीं नाभिवादेत पादयोः ।पूर्णविंशतिवर्षेण गुणदोषौ विजानता ।१८१।
___________
स्वभाव एव नारीणां नराणामिह दूषणम् ।अतोर्थान्न प्रमाद्यन्ति प्रतिपाद्य विपश्चितः। १८२
अविद्वांसमलं लोके विद्वांसमपि वा पुनः । प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ।१८३।
_____________________
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ।१८४।
______________
राजेन्द्र गुरुपत्नीनां युवतीनां युवा भुवि ।विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ।। १८५
विप्रोऽस्य पादग्रहणमन्वहं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ।। १८६
यथा खनन्खनित्रेण जलमाप्नोति मानवः । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।। ।१८७।
मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखी जटी नैनं ग्रामेऽभिनिम्लोचेदर्को नाभ्युदियात्क्वचित् ।१८८।
भविष्यपुराणम् पर्व (१ )(ब्राह्मपर्व) अध्यायः(७)
विवाह-धर्मवर्णनम्
।ब्रह्मोवाच।
असपिण्डा च या मातुरसगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने । । १।
सहजो न भवेद्यस्या न च विज्ञायते पिता ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया । । २।
___________________________________
ब्राह्मणानां प्रशस्ता स्यात्सवर्णा दारकर्मणि ।
कामशस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः। ३।
क्षत्रस्यापि सवर्णा स्यात्प्रथमा द्विजसत्तमाः ।
द्वे चावरे तथा प्रोक्ते कामतस्तु न धर्मतः ।४।
_________________________________
वैश्यस्यैकावरा प्रोक्ता सवर्णा चैव धर्मतः ।
तथावरा कामतस्तु द्वितीया न तु धर्मतः ।५।
शूद्रैव भार्या शूद्रस्य धर्मतो मनुरब्रवीत् ।
चतुर्णामपि वर्णानां परिणेता द्विजोत्तमः ।६।
न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः ।
कस्मिंश्चिदपि वृतान्ते शूद्रा भार्योपदिश्यते ।७।
हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः ।
कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ।८।
शूद्रमारोप्य वेद्यां तु पतितोत्रिर्बभूव ह ।
उतथ्यः पुत्रजननात्पतितत्वमवाप्तवान् । ९।
____________________________
शूद्रस्य पुत्रमासाद्य शौनकः शूद्रतां गतः ।
भृग्वादयोप्येवमेव पतितत्वमवाप्नुयुः । । 1.7.१०
शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ।११।
देवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
नादन्ति पितरो देवाः स च स्वर्गं न गच्छति ।१२।
वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ।१३।
चतुर्णामपि विप्रेन्द्राः प्रेत्येह च हिताहितम् ।
समासतो ब्रवीम्येष विवाहाष्टकमुत्तमम् । १४।
कालो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः ।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ।१५।
ये यस्य धर्मा वर्णस्य गुणदोषौ च यस्य यौ ।
शृणुध्वं तद्द्विजश्रेष्ठाः प्रसवे च गुणागुणम् ।१६।
विप्रस्य चतुरः पूर्वान्क्षत्रस्य चतुरोऽवरान् ।
विट्शूद्रयोस्तु त्रीनेव विद्याद्धर्मानराक्षसान् ।१७।
चतुरो ब्राह्मणस्याद्यान्प्रशस्तान्कवयो विदुः ।
राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ।१८।
क्षत्रियाणां त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ।पैशाचश्चासुरश्चैव न कर्त्तव्यौ कथञ्चन । । १९
पृथक्पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ ।
गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ । । 1.7.२०।
आच्छाद्य चार्चयित्वा तु श्रुतशीलवते स्वयम् ।
आहूय दानं कन्याया बाह्यो धर्मः प्रकीर्तितः।२१।
वितते चापि यज्ञे तु कर्म कुर्वति चार्त्विजि ।
अलङ्कृत्य सुतादानं दैवो धर्म उदाहृतः ।२२।
____________
एकं गोमिथुनं द्वे वा वरादादाय धर्मतः ।
कन्याप्रदानं विधिवदार्षीयो धर्म उच्यते । २३।
सहोभौ चरतं धर्ममिति वाचानुभाष्य तु ।
कन्याप्रदानमभ्यर्च प्राजापत्यविधिः स्मृतः ।२४।
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायाश्चैव शक्तितः ।
कन्याप्रदानं स्वच्छन्दादासुरो धर्म उच्यते ।२५।
इच्छयान्योऽन्यसंयोगः कन्यायाश्च वरस्य च ।
गान्धर्वः स विधिर्ज्ञेयो मैथुन्यः कामसम्भवः ।२६।
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ।२७।
सुप्तां मत्तां प्रमत्तां च रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशाचः कथितोऽष्टमः ।२८।
जलपूर्वं द्विजाग्र्याणां कन्यादानं प्रशस्यते ।
इतरेषां तु वर्णानामितरेतरकाम्यया । । २९
यो यस्यैषां विवाहानां विभूनां कीर्तितो गुणः ।
तं निबोधत वै विप्राः सम्यक्तकीर्तयतो मम । । 1.7.३०
कुलानि दश पूर्वाणि तथान्यानि दशैव तु ।
स हि तान्यात्मना चैवं मोचयत्येनसो ध्रुवम् ।३१।
ब्राह्मीपुत्रः सुकृतकृद्दैवोढाजं सुतं शृणु ।
दैवोढाजः सुतो विप्राः सप्त सप्त परावरान् ।
आर्षोढाजः सुतः स्त्रीणां पुरुषांस्तारयेद्द्विजाः३२।
ब्रह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः ।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः ।३३।
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।
पुत्रवन्तोऽथ धर्मिष्ठा जीवन्ति च शतं समाः ।३४।
इतरेषु निबोधध्वं नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ।३५।
अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा ।
निन्दितैर्निंदिता नृणां तस्मान्निद्यान्विवर्जयेत् ।३६।
करग्रहणसंस्काराः सवर्णासु भवन्ति वै ।
असवर्णास्वयं ज्ञेया विधिरुद्वाहकर्मणि ।३७।
बाणः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ।३८।
न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कमण्वपि ।
गृह्णन्हि शुल्कं लोभेन स्यान्नरोऽपत्यविक्रयी ।३९।
स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः ।
नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् । 1.7.४०
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव १ तत् ।
अल्पो वापि महान्वापि विक्रयस्तावदेव सः । ४१।
यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।
अर्हणं तत्कुमारीणामानृशंस्यं च केवलम् । ४२।
इत्थं दारान्समासाद्य देशमग्र्यं समावसेत् ।
ब्राह्मणो द्विजशार्दूल य इच्छेद्विपुलं यशः ।४३।
ऋषय ऊचुः
को देशः परमो ब्रह्मन्कश्च पुण्यो मतस्तव ।
प्रवसन्यत्र विप्रेन्द्र यशः प्राप्नोति कञ्जज । । ४४
ब्रह्मोवाच
न हीयते यत्र धर्मश्चतुष्पात्स कलो द्विजाः ।
स देशः परमो विप्राः स च पुण्यो मतो मम ।४५।
विद्वद्भिः सेवितो धर्मो यस्मिन्देशे प्रवर्तते ।
शास्त्रोक्तश्चापि विप्रेन्द्राः स देशः परमो मतः।४६।
ऋषय ऊचू
विद्वद्भिः सेवितं धर्मं शास्त्रोक्तं च सुरोत्तम ।
वदास्मासु सुरश्रेष्ठ कौतुकं परमं हि नः।४७।
ब्रह्मोवाच
विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत । ४८।
कामात्मता न प्रशस्ता न वेहास्याप्यकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः । । ४९
सङ्कल्पाज्जायते कामो यज्ञाद्यानि च सर्वशः ।
व्रताः नियमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः । । 1.7.५०
कामादृते क्रियाकारी दृश्यते नेह कर्हिचित् ।
यद्यद्धि कुरुते कश्चित्तत्तत्कामस्य चेष्टितम् । । ५१
निगमो १ धर्ममूलं स्यात्स्मृतिशीले तथैव च ।
तथाचारश्च साधूनामात्मनस्तुष्टिरेव च । । ५२
सर्वं तु समवेक्षेत निश्चयं ज्ञानचक्षुषा ।
श्रुतिप्राधान्यतो विद्वान्स्वधर्मे निवसेत वै । । ५३
श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्सदा नरः ।
प्राप्य चेह परां कीर्तिं याति शक्रसलोकताम् ।५४
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
ते सर्वार्थेषु मीमांस्ये ताभ्यां धर्मो हि निर्बभौ । ५५
योऽवमन्येत ते चोभे हेतुशास्त्राश्रयाद्द्विजः ।
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः। ५६।
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं विप्राः साक्षाद्धर्मस्य लक्षणम् ।५७।
धर्मज्ञानं भवेद्विप्रा अर्थकामेष्वसज्जताम् ।
धर्मं जिज्ञासमानानां प्रमाणान्नैगमं परम् । । ५८।
निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
अधिकारो भवेत्तस्य वेदेषु च जपेषु च । । ५९।
सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् १ ।
तदेव निर्मितं देशं ब्रह्मावर्तं प्रचक्षते । । 1.7.६०।
यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते । । ६१।
कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनयः ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरम् । । ६२।
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः।
स्वं स्वं चरित्रं शिक्षन्ति पृथिव्यां सर्वमानवाः।६३।
हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ।६४।
आ समुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् ।
तयोरेवान्तरं गिर्योरार्यावर्त्तं विदुर्बुधाः ।६५।
अटते यत्र कृष्णा गौर्मृगो नित्यं स्वभावतः ।
स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्त्वतः परः।६६।
एतान्नित्यं शुभान्देशान्संश्रयेत द्विजोत्तमः ।
यस्मिन्कस्मिंश्च निवसेत्पादजो२ वृत्तिकर्शितः।६७।
प्रकीर्तितेयं धर्मस्य बुधैर्योनिर्द्विजोत्तमाः ।
सम्भवश्चास्य सर्वस्य समासान्न तु विस्तरात् ।६८।
__________________________________
इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि विवाहधर्मवर्णनं नाम सप्तमोऽध्यायः।७।
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०१०
स्त्रीदुराचारवर्णनम्
ब्रह्मोवाच
आराध्यानां हि सर्वेषामयमाराधने विधिः ।
चित्त ज्ञानानुवृत्तिश्च हितैषित्वं च सर्वदा । १।
कन्या पुनर्भूर्वेश्या च त्रिविधा एव योषितः ।
प्रिया मध्याप्रिया चैव योग्या मध्येतरा तथा । । २
समा श्रेष्ठा च नीचा च भूयोपि त्रिविधाः पुनः ।
पूर्ववत्परयोर्वृत्तिरिष्टानुक्त्या १ प्रियाप्रिये । । ३
अधमाप्रिययोरत्र पतिपत्न्यादिका मता ।
निषिद्धानां तु भक्ष्यादि तद्धि यत्नाद्विधीयते । । ४
एकद्वित्वबहुत्वाद्या२ ये भेदाः समुदाहृताः ।
ज्येष्ठादिवृत्ते वक्ष्यामस्तानशेषान्द्विजोत्तमाः । । ५
वृत्तं च द्विविधं स्त्रीणां बाह्यमाभ्यन्तरं तथा ।
भर्तुरन्यजने बाह्यं तस्याः शारीरमान्तरम् । । ६
ज्ञातीतरविभागेन तद्बाह्यं द्विविधं पुनः ।
पूज्यं तुल्यं कनिष्ठं च तत्प्रत्येकं पुनस्त्रिधा । । ७
रहोरतं प्रकाशं च शारीरमपि तत्त्रिधा ।
भर्तुश्चित्तानुकूल्येन प्रयोक्तव्यं यथोचितम् । । ८
माता पिता स्वसा भ्राता पितृव्याचार्यमातुलाः ।
सभार्या ३ भगिनी भर्ता भर्तृमातृपितृष्वसा । । ९
धात्री वृद्धाङ्गनादिश्च यस्तत्रास्ता समो जनः ।
प्रथमोढा सपत्नी च स्त्रीणां मान्यतमो गणः ४ । । 1.10.१०
एषामेव त्वपत्यादिभगिनीभ्रातरस्तथा ।
कनिष्ठा भर्तुरित्यादिभार्याश्चाप्तसमो मतः । । ११
हीनोऽन्यः शासनीयस्तु तत्र तावन्न विद्यते ।
योग्यता सुतसौभाग्यैर्न यावत्स्यात्प्रतिष्ठिता । । १२
यत्रापि गुरु भर्तॄणामानुकूल्येन सर्वदा ।
वृत्तिः प्रशस्यते स्त्रीणां पूजाचाराविरोधिनीी ।१३।
_____________________________
देवरैः पतिमित्रैश्च परिहासक्रियोचितैः ।
विविक्तदेशावस्थानं वर्जयेदिति नर्म च । । १४
प्रायशो हि कुलस्त्रीणां शीलविध्वंसहेतवः ।
दुष्टयोगो रहो नित्यं स्वातन्त्र्यमतिनर्मता । । १५।
दुष्टसङ्गे त्वरा स्त्रीणां युवभिर्नर्म नोचितम् ।
निर्भेषता स्वतन्त्राणां साफल्यं रहसि यजेत् ।१६।
पुंसो दुष्टेङ्गिताकारान्दुष्टभावप्रयोजितान् ।
भ्रातृवत्पितृवच्चैतान्पश्यती परिवर्जयेत् । । १७
पुंसोऽ न्याग्रहमालापस्मितविप्रेक्षितानि च ।
करान्तरेण १ द्रव्याणां निबन्धं ग्रहणार्पणम् ।१८।
द्वारप्रदेशावस्थानं राजमार्गावलोकनम् ।
प्रेक्षोद्यानादिशीलत्वं निरुष्याद्देशमालयम् ।१९।
बहूनां दर्शने स्थानं दृष्टिवाक्कायचापलम् ।
ष्ठीवनत्वं ससीत्कारमुच्चैर्हसितजल्पितम् । 1.10.२०
साङ्गत्यं लिङ्गिदुष्टस्त्रीभिघृणीक्षणिकादिभिः ।
मन्त्रमण्डलदीक्षायां सक्तिः संवसनेषु च । २१
इत्येवमादिदुर्वृत्तं प्रायोदुष्टजनोचितम् ।
वर्जयेत्परिरक्षन्ती कुलत्रितयवाच्यताम् । २२।
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीदुर्वृत्तवर्णनंनाम दशमोऽध्यायः । १० ।
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०११
< भविष्यपुराणम् | पर्व १ (ब्राह्मपर्व)
स्त्रीणां गृहस्थधर्मवर्णनम्
ब्रह्मोवाच
या पतिं दैवतं पश्येन्मनोवाक्कायकर्मभिः ।
तच्छरीरार्धजातेव सर्वदा हितमाचरेत् । । १
तत्प्रियां प्रियवत्पश्येत्तद्द्वेष्या द्वेष्यवत्सदा ।
अधर्मानर्थयुक्तेभ्योऽयुक्ता चास्य निवर्तते । । २
प्रियं किमस्य किं पथ्यं साम्यं चास्य कथं भवेत् ।
ज्ञात्वैवं सर्वभृत्येषु न प्रमाद्येत वै द्विजाः । । ३
देवतापितृकार्येषु भर्तुः स्नानाशनादिषु ।
सत्कारेऽभ्यागतानां च यथौचित्यं न हापयेत् । । ४
वेश्मात्मा च शरीरं हि गृहिणीनां द्विधा कृतम् ।
संस्कर्तव्यं प्रयत्नेन प्रथमं पश्चिमादपि । । ५
कृत्वा वेश्म सुसंमृष्टं त्रिकालविहितार्चनम् ।
वृत्तकर्मोपभोगानां संस्कर्तव्यं यथोचितम् । । ६
प्रातर्मध्यापराह्णेषु बहिर्मध्यान्तरेषु च ।
गृहसम्मार्जनं कृत्वा निष्कारान्न निशि क्षिपेत् । । ७
गोमहिष्यादिशालानां तत्पुरीषादिमात्रकम् ।
व्यपनेयं तु यत्नेन सम्मार्जन्या प्रसाधनम् । । ८
दासकर्मकरादीनां बाह्याभ्यन्तरचारिणाम् ।
पोषणादिविधिं विद्यादनुष्ठानं च कर्मसु । । ९
शाकमूलफलादीनां वल्लीनामौषधस्य च ।
सङ्ग्रहः सर्वबीजानां यथाकालं यथाबलम् । । 1.11.१०
ताम्रकांस्यायसादीनां काष्ठवेणुमयस्य १ च ।
मृन्मयानां च भाण्डानां विविधानां च सङ्ग्रहम् । । ११
कुण्डकादिजलद्रोण्या कलशोदञ्चतालुकाः ।
शाकपात्राण्यनेकानि स्नेहानां गोरसस्य च । । १२
मुसलं कुण्डनीयं तु यन्त्रकं२ चूर्णचालनी ।
दोहन्यो नेत्रकं मन्था मण्डन्यः शृङ्खलानि च । । १३
संदंशः कुण्डिका शूलाः पट्टपिप्पलको दृषत् ।
डाविका हस्तको दर्वी भ्राष्टस्फुटलकानि च । । १४
तुलाप्रस्थादिमानानि मार्जन्यः पिटकानि च ।
सर्वमेतत्प्रकुर्वीत प्रयत्नेन च सर्वदा । । १५
हिंग्वादिकमथो जाजी पिपल्यो मारिचानि च ।
राजिका धान्यकं शुण्ठी त्रिचतुर्जातकानि च । । १६
लवणं क्षारवर्गाश्च सौवीरकपरूषकौ ।
द्विदलामलकं चिंचा सर्वाश्च स्नेहजातयः । । १७
शुष्ककाष्ठानि वल्लूरमरिष्टा पिष्टमाषयोः ।
विकाराः पयसश्चापि विविधाः कन्दजातयः । । १८
नित्यनैमित्तिकानां हि कार्याणामुपयोगतः ।
सर्वमित्यादि संग्राह्यं यथावद्विभवोचितम् । । १९
यत्कार्याणां समुत्पत्तावुपाहर्तुं न दृश्यते ।
तत्प्रागेव यथायोगं सङ्गृह्णीयात्प्रयत्नतः । । 1.11.२०
धान्यानां घृष्टपिष्टानां क्षुण्णोपहतयोरपि ।
भृशं शुष्कार्द्रसिद्धानां क्षयवृद्धी निरूपयेत् । । २१
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि गृहधर्मवर्णनं नामैकादशोऽध्यायः । ११
भर्त्रा विरहिता स्त्री च श्वशुराभ्यां विशेषतः ।
देहलीं नातिवर्तेत प्रतीकारे १ महत्यपि । । २।
पुरुषलक्षणवर्णनम्
ब्रह्मोवाच
दक्षिणावर्तलिङ्गश्च नरो वै पुत्रमान्भवेत् ।
वामावर्ते तथा लिङ्गे नरः कन्यां प्रसूयते । । १
स्थूलैः शिरालैर्विषमैर्लिङ्गैर्दारिद्र्यमादिशेत् ।
ऋजुभिर्वर्तुलाकारैः पुरुषा पुत्रभागिनः । । २
निम्नपादोपविष्टस्य भूमिं स्पृशति मेहनः ।
दुःखितं तं विजानीयात्पुरुषं नात्र संशयः । । ३
भूमौ पादोपविष्टस्य गुल्फौ स्पृशति मेहनः ।
ईश्वरं तं विजानीयात्प्रमदानां च वल्लभम्२ । । ४
सिंहव्याघ्रसमो यस्य ह्रस्वौ भवति मेहनः ।
भोगवान्स तु विज्ञेयोऽशेषभोगसमन्वितः । । ५
रेखाकृतिर्मणिर्यस्य मेहने हि विराजते ।
पार्थिवः स तु विज्ञेयः समुद्रवचनं यथा । । ६
सुवर्णरजतप्रख्यैर्मणिमुक्तासमप्रभैः ।
प्रवालसदृशैः स्निग्धैर्मणिभिः पार्थिवो भवेत् । । ७
पाण्डुरैर्मलिनै रूक्षैर्दीर्घव्यासैर्दिशो व्रजेत् ।
समैस्तथोन्नतैश्चापि सुस्निग्धैर्मणिभिर्गृही । । ८
धनरक्षास्तथा स्त्रीणां भोक्तारस्ते भवन्ति हि ।
मणिभिर्मध्यनिम्नैस्तु पितरस्ते भवन्ति हि । । ९
युवतीनां महाबाहो निःस्वाश्चापि भवन्ति ते ।
नोल्बणैश्चापि धनिनो नरा वीरा भवन्ति हि । । 1.25.१०
मूत्रधारा पतेदेका वलिता दक्षिणा यदि ।
स भवेत्पार्थिवः पृथ्व्याः समुद्रवचनं यथा । । ११
द्वे धारे च तथा स्निग्धे धनवान्भोगवान्स्मृतः ।
बहुधारास्तथा रूक्षाः सशब्दाः पुरुषाधमाः । । १२
मीनगन्धि भवेद्रेतो धनवान्पुत्रवान्भवेत् ।
हविगन्धि भवेद्यस्य धनाढ्यः श्रोत्रियः स्मृतः । । १३
१मूषगन्धिर्भवेत्पुत्री पद्मगन्धिर्नृपः स्मृतः ।
लाक्षागन्धिर्भवेद्यश्च बहुकन्यः प्रजायते । ।
मद्यगन्धिर्भवेद्योद्धा क्षारगन्धिर्दरिद्रकः । । १४
शीघ्रमैथुनगामी यः स दीर्घायुरतोऽन्यथा ।
अल्पायुर्देवशार्दूल विज्ञेयो नात्र संशयः । । १५
तनुशुक्रः स्त्रीजनको मांसगन्धी च भोगवान् ।
पद्मवर्णं भवेद्रक्तं स नरो धनवान्भवेत् । । १६
किञ्चिद्रक्तं तथा कृष्णं भवेद्यस्य तु शोणितम् ।
अधमः स तु विज्ञेयः सदा दुःखैकभाजनम् । । १७
प्रवालसदृशं स्निग्धं भवेद्यस्य च शोणितम् ।
राजानं तं विजानीयात्सप्तद्वीपाधिपं गुह । । १८
विस्तीर्णा मांसला स्निग्धा वस्तिः पुंसां प्रशस्यते ।
निर्मांसा विकटा रूक्षा बस्तिर्येषां न ते शुभाः । । १९
गोमायुसदृशी यस्य श्वानोष्ट्रमहिषस्य च ।
स भवेद्दुःखितो नित्यं पुरुषो नात्र संशयः । । 1.25.२०
यश्चैकवृषणस्तात जले प्राणान्विमुञ्जति ।
स्त्रीचञ्चलस्तु विषमैः समै राज्यं प्रचक्षते । । २१
ऊर्ध्वगैश्चापि ह्रस्वायुः शतञ्जीवी प्रलम्बधृक् ।
मानवाश्चापि रक्तैस्तु धनवन्तो भवन्ति वै । । २२
स्थूलस्फिग्भवति क्षेमी द्रव्ययुक्तः समांसधृक् ।
व्याघ्रस्फिङ्मण्डलो राजा मण्डूकस्फिङ्नराधिपः । ।
द्विमण्डलो महाबाहो सिंहस्फिक्सार्वभौमता । । २३
उष्ट्रवानरयोर्यस्तु धारयेत्स्फिङ्महामते ।
धनधान्यविहीनोऽसौ विज्ञेयो भीमनन्दन । । २४
पुमान्मृगोदरो धन्यो मयूरोदर एव च ।
व्याघ्रोदरो नरपती राजा सिंहोदरो भवेत् । । २५
मण्डूकसदृशं यस्य पुरुषस्योदरं भवेत् ।
स भवेत्पार्थिवः पुष्ट्या समुद्रवचनं यथा । । २६
मांसलैर्ऋजुभिर्वृत्तैः पार्श्वैर्नृपतयः स्मृताः ।
ईश्वरो व्याघ्रपृष्ठस्तु सेनायाश्चैव नायकः । । २७
सिंहपृष्ठो नरो यस्तु बन्धनं तस्य निर्दिशेत् ।
कूर्मपृष्ठास्तु राजानो धनसौभाग्यभागिनः । । २८
विस्तीर्णं हदयं येषां मांसलोमचितं समम् ।
शतायुषो विजानीयाद्भोगभाजो महाधनान् । । २९
विरलाः शुष्कास्तथा रूक्षा दृश्यन्तेऽङ्गुलयः करे ।
स भवेद् दुःखितो नित्यं नरो दारिद्र्यभाजनम् । । 1.25.३०
यस्य मीनसमा रेखा कर्मसिद्धिभ्र तस्य तु ।
धनवान्स तु विज्ञेयो बहुपुत्रश्च मानवः । । ३१
तुला यस्य तु वेदी वा करमध्ये तु दृश्यते ।
तस्य सिध्यति वाणिज्यं पुरुषस्य न संशयः । । ३२
सौम्ये पाणितले यस्य द्विजस्य तु विशेषतः ।
यज्ञयाजी भवेन्नित्यं बहुवित्तश्च मानवः । । ३३
शैलं वाप्यथ वा वृक्षः करमध्ये तु दृश्यते ।
अचलां श्रियमाप्नोति बहुभृत्यसमन्वितः । । ३४
शक्तितोमरबाणासिरेखा १ चापोपमा तथा ।
यस्य हस्ते महाबाहो स जयेद्विग्रहे रिपून् । । ३५
ध्वजभ्राप्यथ वा शंखः करमध्ये तु दृश्यते ।
समुद्रयायी स भवेद्धनी च सततं गुह । । ३६
श्रीवत्समथ वा पद्मं वज्रं वा चकमेव च ।
रथो वाप्यथ वा कुम्भो यस्य हस्ते प्रकाशते । ।
राजानं तं विजानीयात्परसैन्यविदारणम् । । ३७
दक्षिणे तु कराङ्गुष्ठे यवो यस्य तु दृश्यते ।
सर्वविद्याप्रवक्ता च भवेद्वै नात्र संशयः । । ३८
यस्य पाणितले रेखा कनिष्ठामूलमुत्थिता२ ।
गता मध्यं प्रदेशिन्याः स जीवेच्छरदः शतम् । । ३९
इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे पुरुषलक्षणवर्णनं नाम पञ्चविंशोऽध्यायः । २५ ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें