ब्रह्मवैवर्तपुराण (प्रकृतिखण्डः)/अध्यायः (५८)
★नारद उवाच★
कस्य वंशोद्भवो राजा सुरथो धर्मिणां वरः।
कथं संप्राप वै ज्ञानं मेधसो ज्ञानिनां वरात्।१।।
कस्य वंशोद्भवो ब्रह्मन्मेधसो मुनिसत्तम।।
बभूव कुत्र संवादो नृपस्य मुनिना सह।२।
सख्यं बभूव कुत्रास्य वा प्रभो नृपवैश्ययोः।।
व्यासेन श्रोतुमिच्छामि वद वेदविदां वर।३।
★नारायण उवाच।
अत्रिश्च ब्रह्मणः पुत्रस्तस्य पुत्रो निशाकरः।
स च कृत्वा राजसूयं द्विजराजो बभूव ह ।४।
अनुवाद– ब्रह्मा के अत्रि हुए और अत्रि के निशाकर जिन्होंने राजसूय यज्ञ करके द्विजराज
की उपाधि पायी।४।
गुरुपत्न्यां च तारायां तस्याभूच्च बुधः सुतः।
बुधपुत्रस्तु चैत्रश्च तत्पुत्रः सुरथः स्मृतः ।५।
अनुवाद– गुरु पत्नी तारा में जिन्होंने बुध नाम का पुत्र उत्पन्न किया और बुध का पुत्र चैत्र हुआ और चैत्र का पुत्र सुर हुआ।५।
*************************************
ब्रह्म वैवर्तपुराण महापुराण द्वितीय प्रकृतिखण्ड नारदनारायणसंवाद दुर्गोपाख्याने ताराचन्द्रयोर्दोषनिवारणं नामाष्टपञ्चाशत्तमोऽध्यायः।।५८।।
नारद उवाच ।।
गुरुपत्न्यां च तारायां समभूत्तत्सुतः कथम्।।
अहो व्यतिक्रमं ब्रूहि वेदस्य च महामुने ।। ६ ।।
नारायण उवाच ।।
सम्पन्मत्तो महाकामी व्यचरज्जाह्नवीतटे ।।
तारां सुरगुरोः पत्नीं धर्मिष्ठां च पतिव्रताम् ।। ७ ।।
सुस्नातां सुन्दरीं रम्यां पीनोन्नतपयोधराम् ।।
सुश्रोणीं सुनितम्बाढ्यां मध्यक्षीणां मनोहराम् ।।८।।
सुदतीं कोमलांगीं च नवयौवनसंयुताम् ।।
सूक्ष्मवस्त्रपरीधानां रत्नभूषणभूषिताम् ।। ९ ।।
कस्तूरीबिन्दुना सार्द्धमधश्चन्दनबिन्दुना ।।
सिन्दूरबिन्दुना चारुफालमध्यस्थलोज्ज्वलाम् ।। 2.58.१० ।।
वायुनाऽधोवस्त्रहीनां सकामां रक्तलोचनाम् ।।
शरत्पार्वणचन्द्रास्यां पक्वबिम्बाधरां वराम् । ११।।
सस्मितां नम्नवक्त्रां च लज्जया चन्द्रदर्शनाम् ।।
गच्छन्तीं स्वगृहं हर्षान्मत्तवारणगामिनीम् ।। १२।।
तां दृष्ट्वा मन्मथाक्रान्तश्चन्द्रो लज्जां जहौ मुने ।।
पुलकांकितसर्वाङ्गः सकामस्तामुवाच सः ।। १३ ।।
,_चन्द्र उवाच ।।
योषिच्छ्रेष्ठे क्षणं तिष्ठ वरिष्ठे रसिकासु च ।।
सुविदग्धे विदग्धानां मनो हरसि सन्ततम् ।। १४ ।।
निषेव्य प्रकृतिं जन्मसहस्रे कामसागरे ।।
तपःफलेन त्वां प्राप बृहच्छ्रोणीं बृहस्पतिः ।। १।।
अहो तपस्विना सार्द्धमविदग्धेन वेधसा ।।
योजिता त्वं रसवती शश्वत्कामातुरा वरा ।। १६ ।।
किं वा सुखं च विज्ञातमविज्ञेषु समागमे ।।
विदग्धाया विदग्धेन सङ्गमः सुखसागरः ।। १७ ।।
कामेन कामिनी त्वं च दग्धाऽसि व्यर्थमीश्वरि ।।
कर्मणा वाऽऽत्मदोषाद्वा को जानाति मनः स्त्रियाः ।। १८ ।।
दिने दिने वृथा याति दुर्लभं नवयौवनम् ।।
नवीनयौवनस्थाया वृद्धेन स्वामिना तव ।। १९ ।।
शश्वत्तपस्यायुक्तश्च कृष्णमात्मानमीप्सितम् ।।
स्वप्ने जागरणे वाऽपि ध्यायन्नास्ते बृहस्पतिः ।। 2.58.२० ।।
सर्वकामरसज्ञा त्वं निष्कामं काममीप्सितम् ।।
ध्यायन्ती कामुकी शश्वद्यूनां शृंगारमात्मनि ।। २१।।
अन्यश्च त्वन्मनःकामो भिन्नं त्वद्भर्तुरीप्सितम् ।।
ययोश्च भिन्नौ विषयौ का प्रीतिः संगमे तयोः ।। २२।।
वासन्तीपुष्पतल्पे च गन्धचन्दन चर्चिते ।।
मोदस्व मां गृहीत्वा त्वं वसन्ते माधवीवने ।। २३।।
सुगन्ध्युत्फुल्लकुसुमे निर्जने चन्दने वने ।।
भवती युवती भाग्यवती तत्रैव मोदताम् ।। २४ ।।
चन्दने चम्पकवने शीतचम्पकवायुना ।।
रम्ये चम्पकतल्पे च क्रीडां कुरु मया सह ।। २५।।
इत्युक्त्वा मदनो न्मत्तो मदनाधिकसुन्दरः ।।
पपात चरणे देव्या मन्दो मन्दाकिनीतटे ।। २५ ।।
निरुद्धमार्गा चन्द्रेण शुष्ककण्ठौष्ठतालुका ।।
अभीतोवाच कोपेन रक्तपंकजलोचना ।। २४ ।।
तारोवाच ।।
धिक् त्वां चन्द्र तृणं मन्ये परस्त्रीलम्पटं शठम् ।।
अत्रेरभाग्यात्त्वं पुत्रो व्यर्थं ते जन्म जीवनम् ।। २८।
अरे कृत्वा राजसूयमात्मानं मन्यसे बली ।।
बभूव पुण्यं ते व्यर्थं विप्रस्त्रीषु च यन्मनः ।। २९ ।।
यस्य चित्तं परस्त्रीषु सोऽशुचिः सर्वकर्मसु ।।
न कर्मफलभाक्पापी निन्द्यो विश्वेषु सर्वतः 2.58.३० ।।
सतीत्वं मे नाशयसि यक्ष्मग्रस्तो भविष्यसि ।।
अत्युच्छ्रितो निपतनं प्राप्नोतीति श्रुतौ श्रुतम् । ३१।
दुष्टानां दर्पहा कृष्णो दर्पं ते निहनिष्यति ।।
त्यज मां मातरं वत्स सत्यं ते शं भविष्यति ।। ३२।।
इत्युक्त्वा तारका साध्वी रुरोद च मुहुर्मुहुः ।।
चकार साक्षिणं धर्मं सूर्य्यं वायुं हुताशनम् ।। ३३ ।
ब्रह्माणं परमात्मानमाकाशं पवनं धराम् ।।
दिनं रात्रिं च सन्ध्यां च सर्वं सुरगणं मुने ।। ३४ ।।
तारकावचनं श्रुत्वा न भीतः स चुकोप ह।।
करे धृत्वा रथे तूर्णं स्थापयामास सुन्दरीम् ।।३५।।
रथं च चालयामास मनोयायी मनोहरम्।।
मनोहरां गृहीत्वा तां स च रेमे मनोहरम् ।। ३६ ।।
विस्पन्दके सुरवने चन्दने पुष्पभद्रके ।।
पुष्करे च नदीतीरे पुष्पिते पुष्पकानने ।।३७।।
सुगन्धि पुष्पतल्पे च पुष्पचन्दनवायुना ।।
निर्जने मलयद्रोण्यां स्निग्धचन्दनचर्चिते ।। ३८ ।।
शैले शैले नदे नद्यां शृंगारं कुर्वतोस्तयोः ।।
गतं वर्षशतं हर्षान्मुहूर्त्तमिव नारद ।। ३९ ।।
बभूव शरणापन्नो भीतो दैत्येषु चन्द्रमाः ।।
तेजस्विनि तथा शुक्रे तेषां च बलिनां गुरौ ।। 2.58.४० ।।
अभयं च ददौ तस्मै कृपया भृगुनन्दनः ।।
गुरुं जहास देवानां सुविपक्षं बृहस्पतिम् ।। ४१ ।।
सभायां जहसुर्हृष्टा बलिनो दितिनन्दनाः ।।
अभयं च ददुस्तस्मै भीताय च कलङ्किने ।। ४२।।
सतीसतीत्वध्वंसेन पापिष्ठचन्द्रमण्डले ।।
बभूव शशरूपं च कलंकं निर्मले मलम् ।। ४३ ।।
उवाच तं महाभीतं शुक्रो वेदविदां वरः ।।
हितं तथ्यं वेदयुक्तं परिणामसुखावहम् ।। ४४ ।।
शुक्र उवाच ।।
त्वमहो ब्रह्मणः पौत्रोऽप्यत्रेर्भगवतः सुतः ।।
दुर्नीतं कर्म ते पुत्र नीचवन्नयशस्करम् ।। ४५ ।।
राजसूयस्य सुफले निर्मले कीर्त्तिमण्डले ।।
सुधाराशौ सुराबिन्दुरूपमंकमुपार्जितम् ।। ४६ ।।
त्यज देवगुरौ पत्नीं प्रसूमिव महासतीम् ।।
धर्मिष्ठस्य वरिष्ठस्य ब्राह्मणानां बृहस्पतेः ।। ४७ ।।
शम्भोः सुराणामीशस्य गुरुपुत्रस्य वेधसः ।।
पौत्रस्यांगिरसे नित्यं ज्वलतो ब्रह्मतेजसा ।।४८।।
शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि ।।
इति सद्वंशजातानां स्वभावं च सतामपि ।।४९।।
स शत्रुर्मे सुरगुरुः परो विश्वे निशाकर ।।
तथाऽपि सहजाख्यानं वर्णितं धर्मसंसदि ।।
यत्र लोकाश्च धर्मिष्ठास्तत्र धर्मः सनातनः ।। ।। 2.58.५० ।।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ।।
गौरेकं पञ्च च व्याघ्री सिंही सप्त प्रसूयते ।। ५१ ।।
***********************************
इति श्री० ब्रह्म वैवर्तपुराण महापुराण द्वितीय प्रकृतिखण्ड नारदनारायणसंवाद दुर्गोपाख्याने ताराचन्द्रयोर्दोषनिवारणं नामाष्टपञ्चाशत्तमोऽध्यायः।।५८।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें