शुक्रवार, 18 अगस्त 2023

गर्गसंहिता विश्वजीत खण्ड - मूल संस्कृत हिन्दी अनुवाद सहित-


                  अध्याय १--

                "श्री भगवानुवाच -
नमो भगवते तुभ्यं वासुदेवाय साक्षिणे॥
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥१॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ॥
चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥२॥
                 श्रीगर्ग उवाच -
इत्थं श्रीकृष्णचरितं मया ते कथितं मुने ॥
चतुष्पदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ॥३॥
                  शौनक उवाच -
बहुलाश्वो मैथिलेंद्रः श्रीकृष्णेष्टो हरिप्रियः ॥
किं पप्रच्छाथ देवर्षिं तन्मे ब्रूहि तपोधन ॥४॥
                 श्रीगर्ग उवाच -
उग्रसेनं यादवेंद्रं श्रीकृष्णेन कृतं मुने ॥
श्रुत्वातिविस्मितो राजा नारदं प्राह मैथिलः ॥५॥
                 बहुलाश्व उवाच -
को वायं मरुतो राजा केन पुण्येन भूतले ॥
यादवेंद्रो महाबुद्धिरुग्रसेनो बभूव ह ॥६॥
यस्य श्रीकृष्णचन्द्रोऽपि सहायोऽभूद्धरिः स्वयम् ॥
तस्याहो महिमानं मे ब्रूहि देवर्षिसत्तम ॥७॥
               श्रीनारद उवाच -
सूर्यवंशोद्‌भवो राजा चक्रवर्ती कृते युगे ॥
यज्ञं चकार विधिवन्मरुतो यो जगज्जितः ॥८॥
महासम्भृतसम्भारैर्हिमाद्रेः पार्श्व उत्तरे ॥
संवर्तं मुनिशार्दूलं गुरुं कृत्वा हि दीक्षितः ॥९॥
पंचयोजनविस्तीर्णः कुण्डोऽभूद्यस्य चाध्वरे
योजनं ब्रह्मकुण्डस्तु गव्यूतिः पञ्च कुण्डकाः ॥१०॥
मेखलागर्तविस्तारवेदीभिर्निर्मिता दश ॥
सहस्रहस्तमुच्चाङ्‌गो यज्ञस्तम्भो बभौ महान्॥११॥
विञ्शद्योजनविस्तीर्णः सौवर्णो यज्ञमण्डपः ॥
वितानतोरणै रेजे कदलीषण्डमण्डितः ॥१२॥
ब्रह्मरुद्रादयो देवाः सगणास्तत्र चागताः ॥
ऋषयो मुनयः सर्वे तस्य यज्ञं समाययुः ॥१३॥
होतारो दश लक्षाणि दश लक्षाणि दीक्षिताः ॥
अध्वर्यवः पञ्चलक्षमुद्‌गातारस्तथा परे ॥१४॥
आहूतास्तत्र विद्वांसश्चतुर्वेदविदो द्विजाः ॥
सर्वशास्त्रार्थ तत्वज्ञाःकोटिशोऽन्ये प्रपूजिताः॥१५॥
हस्तिशुण्डासमां धारां भुक्त्वाऽऽज्यस्य हुताशनः ॥
अजीर्णं प्राप तद्यज्ञे न चित्रं विद्धि मैथिल ॥१६॥
येभ्यो भागं वदन्तीह विश्वेदेवाः सभासदः ॥
तेभ्यस्तेभ्यो ददुर्वा ताः परिवेष्टार एव ते ॥१७॥
केऽपि जीवास्त्रिलोक्यां तु न बभूवुर्बुभुक्षिताः।
सर्वे देवास्तु सोमेन ह्यजीर्णत्वमुपागताः ॥१८॥
संवर्ताय ददौ राज्यं जम्बूद्वीपस्य चाध्वरे
गजानां हेैमभाराणां नियुतानि चतुर्दश ॥१९॥
शतार्बुदं हयानां तु यज्ञान्ते दक्षिणां नृप ॥
कोटिशो नवरत्‍नानां महार्हाणां महात्मने ॥२०॥
हयानां पञ्चसाहस्रं गजानां शतमेव च ॥
शतभारं सुवर्णानां ब्राह्मणे ब्राह्मणे ददौ ॥२१॥
जलभोजनपात्राणि हैमानि प्रस्फुरन्ति च ॥
भुक्त्वा तानि विसृज्याशु गतास्तुष्टा द्विजातयः॥२२॥
विप्रत्यक्तैः स्वर्णपात्रैरुच्छिष्टैर्नृप वर्जितैः ॥
हिमाद्रिपार्श्वे शैलोऽभूदद्यापि शतयोजनम् ॥२३॥
मरुतस्य यथा यज्ञो न तथान्यस्य कर्हिचित् ॥
त्रिलोक्यां शृणु राजेन्द्र न भूतो न भविष्यति॥२४॥
यज्ञकुण्डाद्विनिर्गत्य परिपूर्णतमः स्वयम् ॥
आत्मानं दर्शयामास मरुताय महात्मने ॥२५॥
तमालोक्य हरिं नत्वा कृताञ्जलिपुटो नृपः ॥
गदितुं न समर्थोऽभूद्रोमाञ्ची प्रेमविह्वलः ॥२६॥
तं प्रेमपूरितं दृष्ट्वा पतितं पादयोर्नतम् ॥
उवाच भगवान्साक्षान्मेघगम्भीरया गिरा ॥२७॥
                  श्रीभगवनुवाच -
राजंस्त्वयाहं विनयेन तोषितो
     निष्कारणैर्यज्ञपरैः समर्चितः ॥
वरं परं ब्रूहि महामते त्वरं
     दास्यामि देवैरपि दुर्लभं दिवि ॥२८॥
                श्रीनारद उवाच -
श्रुत्वा तु राजा मरुतः कृतांजलिः
     प्रदक्षिणीकृत्य हरिं परमेश्वरम् ॥
सम्पूज्य भक्त्या विशदोपचारकै-
     र्नत्वा भृशं गद्‌गदया गिराब्रवीत् ॥२९॥
                मरुत उवाच -
न वेद्‍म्यहं त्वच्चरणारविन्दतो
     वरं परं श्रीपुरुषोत्तमोत्तम ॥
समेत्य गङ्गा तृषितातिदुर्धियः
     खनन्ति कूपं हि यथा नरेतराः ॥३०॥
तथापि याचे तव वाक्यगौरवा-
     त्पादारविंदं हृदयारविंदात् ॥
कदापि मे मा व्रजतु व्रजेश्वर
     मूलं चतुर्णां विदुरर्थसम्पदाम् ॥३१॥
            श्रीभगवानुवाच -
धन्यऽस्ति राजंस्तव निर्मला मतिः
     प्रलोभितस्यापि वरैर्न कामभृत् ॥
तथापि मत्तो वरयेप्सितं वरं विना
     फलं भक्तसुखान्न मे सुखम् ॥३२॥
               मरुत उवाच -
देयं यदा मे वरमीप्सितं प्रभो
     वैकुण्ठलोकं कुरुताद्धरातले ॥
रक्ष स्थितं मां निजभक्तवत्सल
     तस्मिन्पुरे भक्तजनैः परैः सह ॥३३॥
            श्रीभगवानुवाच -
अस्मिन्मनौ देवमनोरथाब्धिं
     गतेषु विंशेषु युगेषु चाष्टौ ॥
गत्वाथ नाकं धरणीं समेत्य
     मया हि गोवत्सपदं करिष्यसि ॥३४॥
              श्रीनारद उवाच -
इत्युक्त्वा भगवान्साक्षात्तत्रैवांतरधीयत ॥
सोऽयं तु मरुतो राजा ह्युग्रसेनो बभूव ह ॥३५॥
तं यज्ञं कारयामास राजसूयं हरिः स्वयम् ॥
किं दुर्लभं त्रिलोक्यां तु भक्तानां मैथिलेश्वर ॥३६॥
मरुतस्यापि चरितं यः शृणोति नृपोत्तम ॥
तस्य ज्ञानं सवैराग्यं भक्तियुक्तं प्रजायते ॥३७॥

           "प्रद्युम्नविजयाभिषेकम्

              बहुलाश्व उवाच -
कथं चकार विधिवद्‌राजसूयाध्वरं नृप ॥
श्रीकृष्णेन सहायेन वदैतन्नितरां मुने ॥१॥

              श्रीनारद उवाच -
उग्रसेनः सुधर्मायां कृष्णं संपूज्य चैकदा ॥
नत्वा प्राह प्रसन्नात्मा कृताञ्जलिपुटः शनैः ॥२॥
              उग्रसेन उवाच -
भगवान्नारदमुखाच्छ्रुतं यस्य महत्फलम् ॥
तं यज्ञं राजसूयाख्यं करिष्यामि तवाज्ञया ॥३॥
त्वत्पादसेवया पूर्वे मनोरथमहार्णवे ॥
तेरुर्जगत्तृणीकृत्य निर्भयाः पुरुषोत्तम ॥४॥
              श्रीभगवानुवाच -
सम्यग्व्यवसितं राजन्भवता यादवेश्वर ॥
यज्ञेन ते जगत्कीर्तिस्त्रिलोक्यां सम्भविष्यति ॥५॥
आहूय यादवान्साक्षात्सभां कृत्वथ सर्वतः ॥
तान्बूलबीटिकां धृत्वा प्रतिज्ञां कारय प्रभो ॥६॥
ममांशा यादवाः सर्वे लोकद्वयजिगीषवः ॥
जित्वारीनागमिष्यंति हरिष्यंति बलिं दिशाम् ॥७॥
              श्रीनारद उवाच -
अथांधकादीनाहूय शक्रसिंहासने स्थितः ॥
सुधर्मायां प्राह नृपो धृत्वा तांबूलबीटिकाम् ॥८॥
                उग्रसेन उवाच -
यो जयेत्समरे सर्वाञ्जंबूद्वीपस्थितान्नृपान्॥
मनस्वी शक्रकोदण्डी सोऽत्ति तांबूलबीटिकाम्॥९॥
                श्रीनारद उवाच -
नृपेषु तूष्णीं प्रगतेषु सत्सु
     श्रीरुक्मिणीनंदन एव चागात् ॥
जग्राह ताम्बूलचयं महात्मा
     नत्वा नृपं मैथिल शंबरारिः ॥१०॥
               प्रद्मुम्न उवाच -
विजित्य समरे सर्वाञ्जंबूद्वीपस्थितान्नृपान् ॥
गृहीत्वा च बलिं तेभ्य आगमिष्याम्यहं बलात् ॥११॥
अगम्यागमनं बभ्रोर्ब्राह्मणस्य गुरोस्तथा ॥
हत्या भ्रूणस्य मे भूयान्न कुर्यां कर्म चेदिदम् ॥१२॥
               श्रीनारद उवाच -
श्रुत्वा वचः शंबरारेः साधु साध्विति यूथपाः ॥
ऊचुस्तेषां पश्यतां च तं जग्राह यदूत्तमः ॥१३॥
गर्गाद्यदुकुलाचार्यान्मुहूर्तं बोध्य यत्‍नतः ॥
तत्स्नानं कारयामास मुनिभिर्वेदसूक्तिभिः ॥१४॥
उग्रसेनोऽथ तिलकं प्रद्युम्नस्य चकार ह ॥
बलिं दत्वा नमश्चक्रुः सर्वे यादवयूथपाः ॥१५॥
उग्रसेनो ददौ खड्गं प्रद्युम्नाय महात्मने ॥
कवचं प्रददौ साक्षाद्‌बलदेवो महाबलः ॥१६॥
स्वतूणाभ्यां विनिष्कृष्य तूणावक्षयसायकौ ॥
धनुश्च शार्ङ्‌गधनुषः समुत्पाद्य ददौ हरिः ॥१७॥
किरीटकुण्डले दिव्ये पीतं वासो मनोहरम् ॥
छत्रं च चामरे साक्षाच्छूरो वृद्धो ददौ पुनः ॥१८॥
शतचन्द्रं ददौ तस्मै वसुदेवो महामनाः ॥
उद्धवः प्रददौ साक्षान्मालां किंजल्किनीं शुभाम्॥१९॥
अक्रूरो दक्षिणावर्तं शङ्खं विजयदं ददौ ॥
श्रीकृष्णकवचं यंत्रं गर्गाचार्यो ददौ मुनिः ॥२०॥
तदैव ह्यागतः शक्रो लोकपालैः सकौतुकः ॥
आजग्मतुर्ब्रह्मशिवौ देवर्षिगणसंवृतौ ॥२१॥
प्रद्युम्नाय ददौ शूली त्रिशूलं ज्वलनप्रभम् ॥
ब्रह्मा ददौ महाराज पद्मरागं शिरोमणिम् ॥ २२॥
पाशी पाशं शक्तिधरः शक्तिं शत्रुविमर्दिनीम् ॥
वायुश्च व्यजने दिव्ये यमो दंडं ददौ पुनः ॥२३॥
रविर्गदां महागुर्वीं कुबेरो रत्‍नमालिकाम् ॥
चन्द्रकांतमणिं चन्द्रः परिघं च तनूनपात् ॥२४॥
क्षितिश्च पादुके प्रादाद्दिवे योगमये परे ॥
प्रद्युम्नाय ददौ कुंतं भद्रकाली तरस्विनी ॥२५॥
हेमाढ्यमुच्चशिखरं सहस्रहयसंयुतम् ॥
विश्वकर्मकृतं साक्षाद्‍ब्रह्मांडांतर्बहिर्गतम् ॥२६॥
सहस्रचक्रसंयुक्तं मनोवेगं घनस्वनम् ॥
मंजीरकिंकिणीजालं घंटाटंकारभूषणम् ॥२७॥
रथं ददौ महादिव्यं सहस्रध्वजशोभितम् ॥
जैत्रं रत्‍नमयं शुक्रः प्रद्युम्नाय महात्मने ॥२८॥
शंखदुंदुभयो नेदुस्तालवीणादयस्तदा ॥
मृदंगवेणूसन्नादैर्जयध्वनिसमाकुलैः ॥२९॥
वेदघोषैर्लाजपुष्पैर्मुक्तावर्षसमन्वितैः ॥
प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥३०॥

दिग्विजये यादवसैन्याभियानम्

             श्रीनारद उवाच -
अथ नत्वा हरिं कार्ष्णिरुग्रसेनं बलं गुरुम् ॥
नीत्वाज्ञां रथमारुह्य कुशस्थल्या विनिर्ययौ ॥१॥
तथा तमनुगाः सर्वे यादवा उद्धवादयः ॥
भोजवृष्ण्यंधकमधु-शूरसेनदशार्हकाः ॥२॥
तथा स्वभ्रातरः सर्वे गदाद्याः कृष्णनोदिताः ॥
सपुत्रा सबलाः सर्वे सांबाद्याश्च महारथाः ॥३॥
किरीटिनः कुंडलिनो लोहकंचुकमंडिताः ॥
चतुरंगबलोपेताः कोटिशस्ते विनिर्ययुः ॥४॥
कलापिहंसगरुड-मीनतालध्वजै रथैः ॥
सूर्यमंडलसंकाशैश्चंचलाश्वनियोजितैः ॥५॥
हेमकुंभैः सशिखरैर्मुक्तातोरणराजितैः ॥
विडंबयद्‌भिर्नितरां वायुवेगमतः परम् ॥६॥
चामरांदोलितैर्दिव्यैर्वीरमंडलमंडितैः ॥
सौवर्णैर्देवधिष्णाभै रेजुर्वीरा मनोहराः ॥७॥
मदच्युताश्चित्रमुखा हेमजालसमन्विताः ॥
महोद्‌भटा गजा उच्चरणद्‍घण्टारुणांबराः ॥८॥
गिरीन्द्रशिखरा भद्रा द्विपेंद्रान् दिग्विभावितान् ॥
विडंबयन्तो दृश्यंते राजसैन्ये द्विपा नृप ॥९॥
केचिद्‌भद्रास्तु कथिताः केचिद्‌भद्रमृगाः परे॥
विंध्याचलभवाः केचित्केचित्काश्मीरसंभवाः॥१०॥
मलयप्रभवाः केचिद्धिमाद्रिप्रभवाः परे ॥
मौरंगप्रभवाः केचित्कैलासवनसंभवाः ॥११॥
ऐरावतकुलेभाश्च चतुर्दंता कलापिनः ॥
त्रिशुंडा गरुडाभाश्च गच्छंति भुवि चांबरे ॥१२॥
ध्वजयुक्ताः कोटिगजाः कोटिदुंदुभिसंयुताः ॥
कोटिसैन्या महामात्यै रत्‍नमंडलमंडिताः ॥१३॥
गर्जयंतो घनश्यामा नीडोदुंबरराजिताः ॥
इतस्ततो विरेजुस्ते बलेऽब्धौ मकरा इव ॥१४॥
करैर्गुल्मान्समुत्पाट्य क्षेपयंतोऽर्कमंडलम् ॥
कंपयंतो भुवं पादैर्मदैरार्द्रीकृताचलाः ॥१५॥
दुर्गाद्रिगंडशैलादीन्पातयंतः शिरःस्थलेः ॥
खंडयंतश्च शत्रूणां बलमेतादृशा गजाः ॥१६॥
तुरंगा निर्गता राजन् केचिन्मात्स्याः कलिंगजाः ॥
औशीनराः कौशलाश्च वैदर्भाः कुरुजांगलाः ॥१७॥
कांबोजजाः सृंजयजाः कैकयाः कुंतिसंभवाः ॥
दारदाः केरला आंगा बांगा विकटसंभवाः ॥१८॥
कौंकणाः कोटकाः केचित्कर्णाटा गौर्जरा हयाः ॥
सौवीराः सैंधवाः केचित्पांचाला अर्बुदाः परे ॥१९॥
काच्छाश्च केचिदानर्ता गांधारा मालवादयः ॥
महाराष्ट्रभवाः केचित्तैलंगा जलसंभवाः ॥२०॥
परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः ॥
वाजिशालासु वर्त्तंते तेऽपि सर्वे विनिर्गताः ॥२१॥
श्वेतद्वीपाश्च वैकुंठात्तथाऽजितपदा नृप ॥
रमावैकुंठलोकाच्च प्राप्ता ये तेऽपि निर्गताः।।२२॥
हेमहारसमायुक्ता मुक्तामालामनोहराः ॥
शिखामणिमहारश्मिसेविताः सुपरिच्छदाः ॥२३॥
चामरैर्मंडिताः पुच्छमुखपादस्फुरत्प्रभाः ॥
यादवानां महासैन्ये दृश्यन्ते चेदृशा हयाः ॥२४॥
वायुवेगा मनोवेगा न स्पृशंतः पदैर्भुवम् ॥
अपक्वसूत्रेष्वतिगा बुद्‍बुदेष्वपि मैथिल ॥२५॥
व्रजंतः पारदमनु जालेषूर्णाभवेषु च ॥
दृश्यंतेऽपि निराधारा स्फारा वारिषु मैथिल ॥२६॥
गंडशैलनदीदुर्गगर्तप्रासादसंचयान् ॥
विलंघयंतः सततं चंचलास्ते तुरंगमाः ॥२७॥
मायूरीं तैत्तरीं क्रौञ्चीं हंसी ये खांजनीं गतिम् ॥
कुर्वंतो भुवि नृत्यंतो मैथिलेन्द्र इतस्ततः ॥२८॥
केचित्सपक्षा दिव्यांगाः श्यामकर्णा मनोहराः ॥
पीतपुच्छाश्चंद्रवर्णा वाजिशालाविनिर्गताः ॥२९॥
उच्चैःश्रवःकुले जाताः सूर्यवाजिभवाः परे ॥
आश्विनीसुतविद्याढ्या वरुणेन प्रयोजिताः ॥३०॥
केचिन्मंदारभाः केचिच्चित्रवर्णा मनोहराः ॥
आश्विनीपुष्पसंकाशाः स्वर्णाभा हरितप्रभाः ॥३१॥
पद्मरागप्रभाः केचित्सर्वलक्षणलक्षिताः।।
कोटिशः कोटिशो राजन्नन्येऽपि निर्गता हयाः॥३२॥
धनुर्भृतो भटाः सैन्ये संग्रामे लब्धकीर्तयः ॥
शक्तित्रिशूलासिगदावर्मपाशधराः परे ॥३३॥
वर्षंतः शस्त्रधाराभिः प्रलयाब्धिसमा नृप ॥
दिग्गजा इव दृश्यंते मर्दयन्तो ह्यरीन्मृधे ॥३४॥
एवं विनिर्गतं राजन् यदूनां विपुलं बलम् ॥
दृष्ट्वा सुरासुराः सर्वे विसिस्मुः परमाद्‌भुतम् ॥३५॥

गर्गसंहिता-खण्डः ७ (विश्वजित्खण्डः)-अध्यायः४

           प्रद्युम्नस्य दिग्विजययात्रा

                श्रीनारद उवाच -
इत्थं सेनावृतं वीराः प्रद्युम्नं धन्विनां वरम् ॥
श्रीकृष्णबलदेवाभ्यामुग्रसेन उवाच ह ॥१॥
               उग्रसेन उवाच -
हे प्रद्युम्न महाप्राज्ञ श्रीकृष्णकृपया त्वरम् ॥
विजित्य नृपतीन् सर्वान् द्वारकामागयिष्यसि ॥२॥
मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं जडं स्त्रियम् ॥
प्रपन्नं विरथं भीतं न रिपुं हंति धर्मवित् ॥३॥
राज्ञो हि परमो धर्म आर्तानामार्तिनिग्रहः ॥
उत्पथानां वधश्चेत्थमाततायी वधार्हणः ॥४॥
पुमान् योषिदुत क्लीब आत्मसंभावितोऽधमः ॥
भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः ॥५॥
नैनो राज्ञः प्रजाभर्तु-र्धर्मयुद्धे वधो द्विषाम् ॥
आदिराज्ञो नृपान्पूर्वं प्राह स्वायंभुवो मनुः ॥६॥
यो रणे निर्भयो भूत्वा कृत्वाङ्‌घ्रिं प्रागतो व्यसुः ॥
स गच्छेद्धाम परमं भित्वा मार्तंडमंडलम् ॥७॥
भयाद्‌रणादुपरतस्त्यक्त्वा युद्धे पतिं च यः ॥
व्रजेद्यः क्षत्रियो भूत्वा स महारौरवं व्रजेत् ॥८॥
सेनां रक्षेत्तु राजा हि सेना राजानमेव हि ॥
सूतः कृच्छ्रगतं रक्षेद्‌रथिनं सारथिं रथी ॥९॥
यूयं च यादवाः सर्वे समर्थबलवाहनाः ॥
कार्ष्णिमेवाभीरक्षंतु कार्ष्णिर्वः परिरक्षतु ॥१०॥
गावो विप्राः सुरा धर्मच्छंदांसि भुवि साधवः ॥
पूजनीयाः सदा सर्वैर्मनुष्यैर्मोक्षकांक्षिभिः॥११॥
वेदा विष्णुवचो विप्रा मुखं गावस्तनुर्हरेः॥
अंगानि देवताः साक्षात्साधवो ह्यसवः स्मृताः॥१२॥
श्रीकृष्णोऽयं हरिः साक्षात्परिपूर्णतमः प्रभुः ॥
येषां चित्ते स्थितो भक्त्या तेषां तु विजयः सदा॥१३॥
              श्रीनारद उवाच -
शिरसा जगृहुः साक्षादुग्रसेनस्य शासनम् ॥
प्रणेमुर्यादवाः सर्वे कृतांजलिपुटा नृप॥१४॥
उग्रसेनं नृपं शूरं वसुदेवं बलं हरिम् ॥
ननाम कार्ष्णिः शिरसा गर्गाचार्यं महामुनिम् ॥१५॥
श्रीकृष्णबलदेवाभ्यां पुरीं याते नृपेश्वर ॥
दिग्जयार्थी हरेः पुत्रः प्रययौ यादवैः सह॥१६॥
चतुर्योजनलम्बीत्थं राजमार्गोऽपि यस्य वै ॥
बभौ हेममयैः सर्वैः शिबिरैर्मैथिलेश्वर ॥१७॥
अग्रतो वाहिनीयुक्तः कृतवर्मा महाबलः॥
ध्वजिनीसहितः पश्चादक्रूरो धन्विनां वरः ॥१८॥
तत्पश्चादुद्धवो मंत्री प्रतिमापंचसंयुतः॥
तत्पश्चात्कृष्णचंद्रस्य सुतास्त्वष्टादश स्मृताः॥१९॥
ययुर्महारथा राजन् ये शताक्षौहिणीयुताः॥
प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान्भानुरेव च ॥२०॥
सांबो मधुर्बृहद्‌भानुश्चित्रभानुर्वृकोऽरुणः ॥
पुष्करो वेदबाहुश्च श्रुतदेवः सुनंदनः ॥२१॥
चित्रभानुर्विरूपश्च कविर्न्यग्रोध एव च ॥
तत्पश्चात्प्रययुः सर्वे गदाद्याः कृष्णनोदिताः ॥२२॥
भोजवृष्ण्यंधकमधु-शूरसेनदशार्हकाः ॥
ऋतुबाणकोटिसंख्या यादवानां प्रकथ्यते ॥
तत्सैन्यसंख्यां नृपते कः करिष्यति भूमिषु ॥२३॥
इत्थं यदूनां चलतां नृपाणां
     विकर्षतां तां महतीं च सेनाम् ॥
कोदंडटंकारयुतोऽभवत्कौ
     धुंकार आताडित दुंदुभीनाम् ॥२४॥
इभेंद्रचीत्कारहयेंद्रहेषणै-
     र्नदद्‌भुशुंडीदृढवीरगर्जनैः ॥
ढक्कानिनादैर्यदवस्तडित्स्वनैः
     प्रचंडमेघा इव ते विडिंडिरे ॥२५॥
राजद्‌भुवो मंडलमेव दिग्गजा
     महत्स्वनैस्ते बधिरीकृता इव ॥
सद्योऽथ दुर्गं रिपवो विदुद्रुवु-
     र्निःसाहसाः कौ चलतां महात्मनाम् ॥२६॥
कूर्मास्तु किं काविति के वदंतः
     कुतः क्व गच्छाम इति द्रवंतः ॥
उपद्रवो ह्येष विधे क्व याति
     चचाल लोकैः सहिता चलेति ॥२७॥
छलेन यज्ञस्य हरिः परेश्वरो
     भारं विदेहेश भुवोऽवतारयन् ॥
योऽभूच्चतुर्व्यूहधरो यदोः कुले
     तस्मै नमोऽनंतगुणाय भूभृते ॥२८॥


गर्गसंहिता-खण्डः ७ (विश्वजित्खण्डः)-अध्यायः(५)

कच्छ तथा कलिङ्गदेशविजयम्

श्रीबहुलाश्व उवाच -
कन्कान्देशान् ययौ जेतुं क्रमतः श्रीहरेः सुतः ॥
तस्य कर्माण्युदाराणि ब्रूहि देवर्षिसत्तम ॥१॥
अहो श्रीकृष्णचंद्रस्य कृपा भक्तेषु चेदृशी ॥
पुनाति प्रश्रुता ध्याता पापिनं संकुलं जनम् ॥२॥
श्रीनारद उवाच -
साधु साधु त्वया पृष्टं साधु ते विमला मतिः ॥
चरितं कृष्णभक्तानां पुनाति भुवनत्रयम् ॥३॥
तत्काले मेघधाराश्च भूमेः सर्वरजांसि च ॥
कविश्चेद्‌गणयेद्‌राजन् न हरेः श्रीमतो गुणान् ॥४॥
चतुर्योजनमात्रं हि छाया यस्य प्रदृश्यते ॥
तेन श्वेतातपत्रेण शोभितो रुक्मिणीसुतः ॥५॥
रथेन शक्रदत्तेन स्वसैन्यपरिवारितः ॥
कच्छदेशान् ययौ जेतुं त्रिपुरान्गिरिशो यथा ॥६॥
कच्छदेशाधिपः शुभ्रो मृगयार्थी विनिर्गतः ॥
सेनां समागतां ज्ञात्वा पुरीं हालां समाययौ ॥७॥
प्रद्युम्नस्यागता सेना गजपादप्रताडनैः ॥
चूर्णयंती तरून्देशान्पातयन्ती च मैथिल ॥८॥
उत्थितैस्तद्‌रजोवृन्दै-रन्धीभूतं नभोऽभवत् ॥
भयं प्रापुर्जनाः सर्वे कच्छदेशनिवासिनः ॥९॥
तदातिहर्षितः शुभ्रो गजानां हेममालिनाम् ॥
नीत्वा पञ्चशतं सद्यो हयानामयुतं तथा ॥१०॥
विंशद्‌भारं सुवर्णानामागतस्यास्य संमुखे ॥
दत्त्वा बलिं ननामाशु स्रजा बद्ध्वा करद्वयम् ॥ ११॥
तस्मै तुष्टः शंबरारिः प्रददौ रत्‍नमालिकाम् ॥
संस्थाप्य राज्ये तं राजंस्तथा हि प्रकृतिः सताम् ॥१२॥
कलिंगान्प्रययौ जेतुं रुक्मिणीनन्दनो बली ॥
पतत्पताकैः सत्सैन्यैर्मेघैरिंद्र इव व्रजन् ॥१३॥
कलिंगराजः स्वबलैः समर्थद्विपवाहनैः ॥
निर्ययौ संमुखे योद्धुं प्रद्युम्नस्य महात्मनः ॥१४॥
कलिंगमागतं वीक्ष्यानिरुद्धो धन्विनां वरः ॥
रथेनैकेन तत्सैन्यैर्युयुधे यादवाग्रतः ॥१५॥
शतबाणैश्च कालिंगं दशभिर्दशभी रथान् ॥
आतडयद्‌गजान् वीरश्चापं टंकारयन्मुहुः ॥१६॥
स्वशत्रवश्च स्वे सर्वे साधु साध्विति वादिनः ॥
आनिरुद्धः प्रयुयुधे प्रद्युम्नस्य प्रपश्यतः ॥१७॥
अनिरुद्धस्य बाणौघैः केचिद्वीरा द्विधा कृताः ॥
गजाश्च भिन्नशिरसः पादभिन्ना हया नृप ॥१८॥
रथाश्च चूर्णचरणा हताश्वा हतनायकाः ॥
रथिसारथयो वातैर्निपेतुः पादपा इव ॥१९॥
पलायमानां तां सेनां कलिंगो वीक्ष्य मैथिल ॥
आजगाम गजारूढो विच्छिन्नकवचो रुषा ॥२०॥
द्विसप्ततिभारयुतां गदां चिक्षेप सत्वरम् ॥
गजेन पातयन्‍वीरान् जगर्ज घनवद्बली ॥२१॥
गदाप्रहारपतितं किंचिद्‌व्याकुलमानसम् ॥
अनिरुद्धं मृधे वीक्ष्य यादवाः क्रोधपूरिताः ॥२२॥
तदैव तेडुः कालिंगं बाणैस्तीक्ष्णैः स्फुरत्प्रभैः ॥
समांसमुद्‍भटं श्येनं कुरराश्चंचुभिर्यथा ॥२३॥
कालिंगोऽपि तदा क्रुद्धःसज्जं कृत्वा धनुः स्वयम् ॥
टंकारयन्मुहुर्बाणैर्बाणांश्चूर्णीचकार ह ॥२४॥
गदो गदां समादाय बलदेवानुजो बली ॥
तद्‌गजं ताडयामास वामहस्तेन मैथिल ॥२५॥
अर्धचंद्रप्रहारेण विशीर्णोऽभूद्‌गजस्तथा ॥
इन्द्रवज्रप्रहारेण गण्डशैलो यथा नृप ॥२६॥
कालिंगः पतितो भूत्वा गृहीत्वा महतीं गदाम् ॥
गदं च ताडयामास कालिंगं च गदस्तदा ॥२७॥
कलिंगगदयोस्तत्र घोरं युद्धं बभूव ह ॥
विस्फुलिंगान् क्षरन्त्यौ द्वे गदे चूर्णीबभूवतुः ॥२८॥
गदो गृहीत्वा कालिंगं पातयित्वा रणांगणे ॥
चकर्ष स्वकरेणाशु फणिनं गरुडो यथा ॥२९॥
गदाप्रहारव्यथितश्चूर्णितास्थिः कलिंगराट् ॥
आययौ शरणं सोऽपि प्रद्युम्नस्य महात्मनः ॥३०॥
दत्वा बलिं प्राह कलिंगराज-
     स्त्वं देवदेवः परमेश्वरोऽसि ॥
कः क्रोधवन्तं प्रसहेत कौ त्वां
     जनो यथा दण्डधरं नमस्ते ॥३१॥


मरुधन्वा-मानस-माहिष्मती-जयम्

              श्रीनारद उवाच -
इत्थं जित्वाथ कालिंगं प्रद्युम्नो यादवेश्वरः ॥
जगाम मरुधन्वानं जलं वैश्वानरो यथा ॥१॥
गिरिदुर्गसमायुक्तं धन्वदेशाधिपं गयम् ॥
उद्धवं प्रेषयामास ज्ञात्वा तं यादवेश्वरः ॥२॥
गिरिदुर्गे गतः साक्षादुद्धवो बुद्धिसत्तमः ॥
सभामेत्य गयं प्राह शृणु राजन्महामते ॥३॥
उग्रसेनो यादवेन्द्रो राजराजेश्वरो महान् ॥
जंबूद्वीपनृपाञ्जित्वा राजसूयं करिष्यति ॥४॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥
असंख्यब्रह्मांडपतिर्मंत्री तस्याभवद्धरिः ॥५॥
तेन वै प्रेषितः साक्षात्प्रद्युम्नो धन्विनां वरः ॥
शीघ्रं तस्मै बलिं नीत्वा कुलकौशलहेतवे ॥६॥
श्रीनारद उवाच -
श्रुत्वा किंचित्प्रकुपितो वीर्यशौर्यमदोद्धतः ॥
उद्धवं प्राह नृपतिर्गयो नाम महाबलः ॥७॥
गय उवाच -
बलिं तस्मै न दास्यामि विना युद्धं महामते ॥
अल्पकालेन यदवो गता वृद्धिं भवादृशाः ॥८॥
इत्युक्त उद्धवो राजञ्च्छंबरारिं समेत्य सः ॥
सर्वेषां यादवानां च शृण्वतां प्रशशंस ह ॥९॥
तदैव रुक्मिणीपुत्रो गिरिदुर्गं समाययौ ॥
तत्सैन्यैर्यादवैः सार्द्धं घोरं युद्धं बभूव ह ॥१०॥
चूर्णयन् गजपादैश्च नागरान् भूजनान्द्रुमान् ॥
अक्षौहिणीभ्यां संयुक्तो गयो योद्धुं विनिर्ययौ ॥११॥
रथिनो रथिभिस्तत्र गजवाहा गजैः सह ॥
आश्ववाहैरश्ववाहा वीरा वीरैः परस्परम् ॥१२॥
युयुधुस्तीक्ष्णबाणौघैश्चर्मखड्गगदर्ष्टिभिः ॥
पाशैः परश्वधै राजञ्छतघ्नीभिर्भुशुंडिभिः ॥१३॥
मन्यमानाश्च यदुभिर्गयवीरा भयातुराः ॥
सर्वे स्वं स्वं रथं त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥१४॥
पलायमाने स्वबले गयो नाम महाबलः ॥
एकाकी प्रययौ योद्धुं धनुष्टंकारयन्मुहुः ॥१५॥
दीप्तिमान् कृष्णपुत्रस्तु धनुर्बाणै रिपोर्हयान् ॥
एकेन सारथिं जघ्ने द्वाभ्यां केतुं समुच्छ्रितम् ॥१६॥
रथं च बाणविंशत्या कवचं पंचभिः पुनः ॥
धनुस्तस्यापि चिच्छेद शतबाणैर्महाबलः ॥१७॥
गयोऽन्यद्धनुरादाय दीप्तिमन्तं हरेः सुतम् ॥
जघान बाणविंशत्या जगर्ज घनवद्‌बली ॥१८॥
तत्प्रहारेण समरे किंचिद्‌व्याकुलमानसः ॥
दीप्तिमानथ जग्राह शक्तिं ज्योतिर्मयीं दृढाम् ॥१९॥
चिक्षेप भ्रामयित्वा तां गयाख्याय महात्मने ॥
साऽपि तद्‍धृदयं भित्वा पपौ च रुधिरं महत् ॥२०॥
गयोऽपि पतितो राजन्मूर्छितोऽभूद्‌रणांगणे ॥
दीप्तिमांश्च धनुष्कोट्या कर्षयंस्तद्‌गले रिपुम् ॥२१॥
प्रद्युम्नस्य पुरः प्रागात्कद्रुजं गरुडो यथा ॥
नरदुंदुभयो नेदुर्देवदुन्दुभयस्तदा ॥
आकाशाद्‌ववृषुर्देवाः पुष्पवर्षाणि पार्थिवाः ॥२२॥
तदैव तेनापि समर्पितांघ्रिः
     श्रीकृष्णपुत्रो नृप शंबरारिः ॥
अवन्तिकां संप्रययौ महात्मा
     श्रीकर्णिकां स्वर्णमयीमिवालिः ॥२३॥
श्रुत्वाऽऽगतं तं जयसेनराजः
     समर्चयामास स मालवाधिपः ॥
आनीय वृद्धान्सुबलिं महात्मने
     प्रधर्षितो मैथिल तत्प्रभाववित् ॥२४॥
राजाधिदेवीं स्वपितुः पितुः स्वसां
     प्रणम्य तां कृष्णसुतो महामनाः ॥
विंदानुविंदौ परिरभ्य तत्सुतौ
     बभौ वृतो मालवदेशसंभवैः ॥२५॥
प्रद्युम्नो धन्विनां श्रेष्ठः पुरीं माहिष्मतीं ययौ ॥
यादवैः स्वबलैः सार्द्धं नर्मदां स ददर्श ह ॥२६॥
राजितामंबुकल्लोलैः शृङ्गारतिलकामिव ॥
वहंती पुष्पनिचयमुष्णीषं मुद्रिकामिव ॥२७॥
वेतसीवेणुतरुभिः पुष्पितैर्माधवैर्वृतैः ॥
स्फुरद्‌भिर्मूर्तिमद्‌भिश्च देवैः स्वर्गनदीमिव ॥२८॥
तत्तीरे शिबिरैर्युक्तः प्रद्युम्नो यादवेश्वरः ॥
स्थितोऽभूद्यादवैः साकं देवैरिंद्र इव प्रभुः ॥२९॥
इन्द्रनीलो महाराज ज्ञानी माहिष्मतीपतिः ॥
स्वदूतं प्रेषयामास प्रद्युम्नाय महात्मने ॥३०॥
प्रद्युम्नराजशिबिरे दूतो गत्वा कृतांजलिः ॥
उवाच वचनं तत्र सर्वेषां शृण्वतां नृप ॥३१॥
दूत उवाच -
हस्तिनापुरनाथेन धार्तराष्ट्रेण धीमता ॥
स्थापितोऽतिबलो वीरो बलिं कस्मै न दास्यति ॥३२॥
सुयोधनाय चेच्छाभिर्द्रव्यं यच्छति नो बलात् ॥
योद्धव्यं च भवद्‌भिश्च विफलो हि रणोऽत्र वै ॥३३॥
श्रीप्रद्युम्न उवाच -
यथा गयो दूत कलिंगराड् यथा
     तथाभिभूतोऽपि बलिं प्रदास्यति ॥
नृपं न जानाति महोग्रसेनकं
     माहिष्मतीशोऽयमतीव राजराट् ॥३४॥
श्रीनारद उवाच -
उक्तो दूतस्तदैवाशु गत्वा माहिष्मतीपतिम् ॥
सभायां कथयामास प्रद्युम्नकथितं वचः ॥३५॥
यदूनामुद्‌भटं सैन्यं वीक्ष्य माहिष्मतीपतिः ॥
गजानां पंचसाहस्रं हयानां नियुतं शुभम् ॥३६॥
रथानामयुतं जैत्रं नीत्वा राजा विनिर्गतः ॥
बलिं ददौ समेत्याशु प्रद्युम्नाय महात्मने ॥३७॥



गुर्जराष्ट्र तथा चेदिदेश जयम्

श्रीनारद उवाच -
प्रद्युम्नोऽथ महावीर्यो जित्वा माहिष्मतीपतिम् ॥
विकर्षन्महतीं सेनां गुर्जराजं समाययौ ॥१॥
गुर्जरस्याधिपं वीरमृष्यं नाम महाबलम् ॥
जग्राह सेनया कार्ष्णिस्तुंडयाहिं यथाविरट् ॥२॥
सद्यस्तस्माद्‌बलिं नीत्वा यादवेंद्रो महाबलः ॥
विकर्षन्महतीं सेनां चेदिदेशांस्ततो ययौ ॥३॥
दमघोषश्चेदिराजो वसुदेवस्वसुः पतिः ॥
शिशुपालस्तस्य पुत्रः कृष्णशत्रुः प्रकीर्तितः ॥४॥
आभीयाय महाबुद्धिर्दमघोषं महाबलम् ॥
नत्वा प्राह महाबुद्धिमुद्धवो बुद्धिसत्तमः ॥५॥
उद्धव उवाच -
राजन्देहि बलिं तस्मा उग्रसेनाय भूभृते ॥
विजित्य नृपतीन् योऽसौ राजसूयं करिष्यति ॥६॥
श्रीनाराद उवाच -
इत्थं निशम्य वचनं दमघोषसुतः खलः ॥
स्फुरदोष्ठो मन्युपरः प्राहेदं सदसि त्वरम् ॥७॥
शिशुपाल उवाच -
दुरत्यया कालगतिरहो चित्रमिदं जगत् ॥
विधेः कालात्मकस्यापि प्राजापत्ये भवेत्कलिः ॥८॥
क्व राजहंसः काकः क्व क्व मूर्खः क्व च पंडितः ॥
भृत्या विजेष्यन्ति नृपं चक्रवर्तिनमीश्वरम् ॥९॥
ययातिशापाद्यदवो भ्रष्टराज्यपदाः स्मृताः ॥
राज्यं स्वल्पं जलं प्राप्य प्रोच्छलंत्यापगा इव ॥१०॥
अवंशसंभवो राजा मूर्खपुत्रो हि पंडितः ॥
निर्धनश्च धनं प्राप्य तृणवन्मन्यते जगत् ॥११॥
उग्रसेनः कतिदिनै राजत्वं समुपागतः ॥
मंत्रिणा वासुदेवेन पूजितः स बलान्नृपः ॥१२॥
तस्य मंत्री वासुदेवो जरासंधभयाद्‍द्रुतम् ॥
मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः ॥१३॥
आभीरस्यापि नन्दस्य पूर्वं पुत्रः प्रकीर्तितः ॥
वसुदेवो मन्यते तं मत्पुत्रोऽयं गतत्रपः ॥१४॥
वसुदेवाद्‌गौरवर्णादयं श्यामः कुतोऽभवत् ॥
पितामहोऽपि गौरश्च दुःखहास्यमिदं वचः ॥१५॥
प्रद्युम्नं तत्सुतं जित्वा सबलं यादवैः सह ॥
कुशस्थलीं गमिष्यामि महीं कर्तुमयादवीम् ॥१६॥
श्रीनारद उवाच -
इत्युक्त्वा धनुरादाय तूणौ चाक्षयसायकौ ॥
गंतुमभ्युद्यतं वीक्ष्य चेदिराजस्तमब्रवीत् ॥१७॥
दमघोष उवाच -
शृणु पुत्र प्रवक्ष्यामि क्रोधं मा कुरु मा कुरु ॥
अकस्मादाचरेत्कार्यं न सिद्धिं विंदते ह्यसौ ॥१८॥
धर्मार्थकाममोक्षाणां साधनं न क्षमासमम् ॥
तस्मात्साम प्रकर्तव्यं साम्नो न सदृशं सुखम् ॥१९॥
दानेन राजते साम दानं सत्क्रियया पुनः ॥
सत्क्रियापि तथा योग्यं गुणं संप्रेक्ष्य राजते ॥२०॥
यादवाश्चेदिपाश्चैव ज्ञातिसंबंधिनः स्मृताः ॥
चेदिपानां च वृष्णीनां कलिं नेच्छामि तत्वतः ॥२१॥
श्रीनारद उवाच -
शिशुपालो बोधितोऽपि दमघोषेण धीमता ॥
नोवाच किञ्चिद्विमनास्तूष्णिंभूतो महाखलः ॥२२॥
श्रुतिश्रवाश्चेदिपराजराज्ञी
     स्वसा शुभा शूरसुतस्य राजन् ॥
समेत्य पुत्रं शिशुपालसंज्ञं
     प्रत्याह सम्यग्विनयान्विता सा ॥२३॥
श्रुतिश्रवा उवाच -
मा पुत्र खेदं कुरुतात्कदाचि-
     न्माभूत्कलिश्चेदिपयादवानाम् ॥
ते मातुलोऽयं किल शूरसूनु-
     र्भ्राता च ते तत्सुत एव कृष्णः ॥॥२४॥
तस्यात्मजा येऽत्र समागतास्ते
     प्रद्युम्नमुख्याः शतशो महांतः ॥
संपूजनीयाश्च मया भवद्‌भिः
     संलालनीया न हि युद्धयोग्याः ॥२५॥
अहं गमिष्यामि सहार्द्रचित्ता
     नेतुं त्वया तात समागतांस्तान् ॥
द्र्ष्टुं चिरोत्कण्ठमना महोत्सवै-
     र्नैतादृशोऽयं समयः कदाचित् ॥२६॥
शिशुपाल उवाच -
मम शत्रू रामकृष्णौ यदवः शत्रवश्च मे ॥
घातयिष्यामि तान्सर्वान् यैरहं तु तिरस्कृतः ॥२७॥
पुरा वै कुंडिनपुरे याभ्यां मे हेलनं कृतम् ॥
विवाहो वरितो मे वै रामकृष्णावरी मम ॥२८॥
यदि तेषां यादवानां युवां पक्षं करिष्यथः ॥
तदा त्वां सह पित्रा च निगृह्य निगडैर्दृढैः ॥२९॥
कारागारे कारयामि कंसः स्वपितरौ यथा ॥
अन्यथा चेद्‌वधिष्यामि शपथो मे तु दुर्घटः ॥३०॥
श्रीनारद उवाच -
तद्वचः परुषं श्रुत्वा तूष्णीं यातेऽथ चेदिपे ॥
तद्वचः स्वबलं प्राप्य प्राह सर्वं यथोदितम् ॥३१॥
वाहिनी ध्वजिनी चैव प्रतिमाक्षौहिणीयुता ॥
चतुर्धा शिशुपालस्य सेना युक्ता बभूव ह ॥३२॥
बहुलाश्व उवाच -
वाहिन्याद्याश्च या सेनास्तत्संख्यां वद मे प्रभो ॥
ऋषयो हि प्रजानंति भूतं भव्यं भवत्परम् ॥३३॥
                "श्रीनारद उवाच -
शतं द्विपानां रथिनां सहस्रं शतसंयुतम् ॥
अयुतं तुरगाणां च पत्तीनां लक्षमेव च ॥३४॥
सेनाया लक्षणं स्वल्पं द्विगुणं चतुरंगिणी ॥
चतुःशतं द्विपानां च रथानामयुतं तथा ॥३५॥
चतुर्लक्षं हयानां च पत्तीनामेककोटयः ॥
लोहकंचुकसंयुक्ताः समर्थबलवाहनाः ॥३६॥
शस्त्रास्त्रज्ञा यत्र शूरा वाहिनी सा बुधैः स्मृता ॥
वाहिन्या द्विगुणीभुता ध्वजिनी सा प्रकीर्तिता ॥३७॥
ध्वजिन्या द्विगुणी ज्ञेया पृतनां कथिता पुरा ॥
ससाहसोऽपि शूरः स्यात्सामंतः शतशूरभृत् ॥३८॥
सामन्तानां शतं बिभ्रत्स गजी कथितो मृधे ॥
समरे सारथिं चाश्वान् रथं रक्षेद्‌रथी च यः ॥३९॥
सेनां रक्षिति यो बाणैः कथ्यते स महारथी ॥
स्वसेनां रक्षयञ्शत्रून्सूदयन् रणमंडले ॥४०॥
योऽक्षौहिण्या समं युद्ध्येत्सदा सोऽतिरथी स्मृतः ॥४१॥



द्युमान् तथा शक्तवधम्

श्रीनारद उवाच -
निर्गतः शिशुपालोऽसौ सबलश्चंद्रकापुरात् ॥
पितरौ तौ तिरस्कृत्य स्वभावो ह्यसतामयम् ॥१॥
वाहिनीध्वजिनीभ्यां च द्युमच्छक्तौ विनिर्गतौ ॥
पृतनाक्षौहिणीभ्यां तौ रंगपिंगौ च मंत्रिणौ ॥२॥
शिशुपालमहासैन्यं प्रलयाब्धिसमं नृप ॥
संवीक्ष्य यदवस्तर्तुं चाजग्मुः कृष्णपोतकाः ॥३॥
वाहिनीसहितः पश्चाद्द्युमान्नामा महाबलः ॥
युयुधे यादवैः सार्द्धं शिशुपालप्रणोदितः ॥४॥
द्वयोश्च सैन्ययोर्बाणैरंधकारोऽभवद्‌रणे ॥
हयपादरजोवृन्दैः प्रोत्थितैश्छादयन्नभः ॥५॥
हयाश्च नृप धावन्तः प्रोत्पतंतो द्विपान्प्रति ॥
द्विपाश्च सक्षता युद्धे पातयंतः पदैर्द्विषः ॥६॥
शुण्डादण्डस्य फूत्कारैर्मर्दयन्त इतस्ततः ॥
कस्तूरीपत्रसिंदूर-रक्तकंबलमंडिताः ॥७॥
बाणैर्गदाभिः परिघैः खड्गैः शूलैश्च शक्तिभिः ॥
छिन्नाङ्गाः पत्तयः पेतुश्छिन्नबाह्वंघ्रिजानवः ॥८॥
कश्चित्तीक्ष्णासिना राजन् हयान्युद्धे द्विधाकरोत् ॥
केचिद्दंतान् संगृहीत्वा कुंभेषु करिणां गताः ॥९॥
अमात्यं हस्तिवाहं च मर्दयन्तो मृगेन्द्रवत् ॥
उल्लंघयंत सहसा गजवृंदं महाबलाः ॥१०॥
खड्गप्रहारं कुर्वंतो विदार्य परसैनिकान् ॥
हयस्पृष्टा न दृश्यंते दृश्यंते ते नटा इव ॥११॥
सैन्यवेगं च शत्रूणां दृष्ट्वाक्रूरः समाययौ ॥
चकार दुर्दिनं बाणैर्बाणौघैश्चापि निर्गतैः ॥
छादयामास चाक्रूरं वर्षासूर्यमिवाम्बुदः ॥१२॥
छित्वा तद्‌बाणपटलमसिना गांदिनीसुतः ॥
शक्त्या तताड तं वीरं द्युमंतं क्रोधमूर्छितम् ॥१३॥
तत्प्रहारेण भीन्नांगो मूर्छितो घटिकाद्वयम् ॥
पुनरुत्थाय युयुधे शिशुपालसखा बली ॥१४॥
गृहीत्वाथ गदां गुर्वीं लक्षभारविनिर्मिताम् ॥
तताड हृदि चाक्रूरं जगर्ज घनवद्द्युमान् ॥१५॥
अक्रूरे तत्प्रहारेण किंचिद्व्याकुलमानसे ॥
युयुधानस्तदा प्रागाज्ज्याशब्दं कारयन्मुहुः ॥१६॥
शिरस्तस्याशु चिच्छेद बाणेनैकेन लीलया ॥
पतिते द्युमति ह्याजौ वीरास्तस्य विदुद्रुवुः ॥१७॥
तदैव शक्तः संप्राप्तो दृष्ट्वा सेनां पलायिताम् ॥
शूलं चिक्षेप सहसा युयुधानाय धीमते ॥१८॥
युयुधानश्च बाणौघैस्तच्छूलं शतधाकरोत् ॥
शक्तो गृहीत्वा परिघं युयुधानं तताड ह ॥१९॥
युयुधानोऽर्जुनसखः क्षणं मूर्च्छामवाप ह ॥
तदैव वीरः संप्राप्तः कृतवर्मा महाबलः ॥२०॥
शक्तस्यापि रथं साश्वं बाणैश्चूर्णीचकार ह ॥
शक्तोऽपि चूर्णयामास गदया तद्‌रथं परम् ॥२१॥
कृतवर्मा रथं त्यक्त्वा शक्तं जग्राह रोषतः ॥
पातयित्वा भूजाभ्यां तं चिक्षेप नृप योजनम् ॥२२॥
शक्ते च पतिते युद्धे शिशुपालप्रणोदितौ ॥
रंगपिंगौ मंत्रिणौ तौ पृतनाऽक्षौहिणीयुतौ ॥२३॥
बाणवर्षं प्रकुर्वंतौ मर्दयंतावरीन्मृधे ॥
आजग्मतुर्मैथिलेन्द्र यथा वातहुताशनौ ॥२४॥
उद्‌भटं तद्‌बलं वीक्ष्य यादवेन्द्रपितुः समः ॥
आदाय चापं सदसि प्रद्युम्नो वाक्यमब्रवीत् ॥२५॥
प्रद्युम्न उवाच -
अहं गमिष्यामि पुरो रंगपिंगमृधे जनाः ॥
रंगपिंगौ च दृश्येते महाबलपराक्रमौ ॥२६॥
श्रीनारद उवाच -
एतच्छ्रुत्वा महाबाहुर्भानुः कृष्णसुतो बली ॥
सर्वेषामग्रतो भूत्वा भ्रातरं प्राह नीतिवत् ॥२७॥
भानुरुवाच -
त्रैलोक्यं दृश्यते प्राप्तं यदा ते संमुखे प्रभो ॥
तदा ते चापटंकारो भविष्यति न संशयः ॥२८॥
केवलेनापि खड्गेन शिरसी रंगपिंगयोः ॥
छित्वा चात्र प्रवेक्ष्यामि कलिंगशकलाविव ॥२९॥



श्रीनारद उवाच ।।
इत्युक्त्वा शत्रुहा भानुर्गृहीत्वा खङ्गचर्मणी ।।
पदातिः प्रययौ सैन्ये वने वन्यकरीवसः।।१।।
भानुखङ्गेन शत्रूंस्ताञ्च्छिन्नबाहूंश्चकार ह ।।
द्विपान्हयान्संमुखस्थान्पश्वस्थांश्च द्विधाकरोत् ।।२।।
खङ्गद्वितीयो ह्येकाकी रेजे छिंदन्नरीमृधे ।।
नीहारमेघपटलैर्भानुर्भानुरिवस्फुरन्।।३।।
हस्तिनां छिन्नकुंभानां भानुखङ्गेन मैथिल ।।
मुक्ता निपेतुश्च यथा तारकाः क्षीणकर्मणाम्।।४।।
लक्षमात्रेण तत्सैन्यं पातयित्वा रणांगणे ।।
रंगपिंगो परिप्रागाद्भानुर्वीरो- महाबलः ।।५।।
कृष्णदत्तेन खङ्गेन रथौ तौ रंगपिंगयोः ।।
छित्त्वा हयान्सनेतृंश्च भानुर्युद्धेद्विधाकरोत् ।। ६ ।।
खङ्गौ नीत्वा रंगपिंगौ तेडतुस्तमहोद्भटौ ।।
भानुचर्मगतौ खड्गौ भंगीभूतौ बभूवतुः ।। ७ ।।
भानुखङ्गप्रहारेण शिरसो रंगपिंगयोः ।।
युगपत्पेततुर्युद्धे तदद्भुतमिवाभवत् ।। ८ ।।
भानुस्तयोश्च शिरसी नीत्वा प्रद्युम्नसंमुखे ।।
आययौ विजयी वीरः श्लाघितः सैन्यनायकैः ।।९।
दिवि दुंदुभयो नेदुर्नरदुंदुभिभिः समम्।।
अभूज्जयजया रावः पुष्पवर्षाः सुरैः कृताः ।। 7.9.१० ।।
रंगपिंगौ मृतौ श्रुत्वा शिशुपालो रुषान्वितः ।।
जैत्रं रथं समारुह्य यदूनां संमुखं ययौ।।१ १।।
मदच्युद्भिर्गजै दीर्घै रत्नकंबलमंडितैः ।।
स्वर्णनीडसमायुक्तैलोंलघंटाक्वणत्स्वनैः ।। १२ ।।
रथैश्च देवधिष्ण्याभैर्वायुवेगैस्तुरंगमैः ।।
विद्याधरसमैर्वीरैर्नादयन्वसुधा- तलम् ।।१३।।
शिशुपालबलं दृष्ट्वा शक्रदत्ते रथे ततः ।।
सर्वेषामग्रतः कार्ष्णिः प्रययौ धन्विनां वर ।।१४।।
शंखं दध्मौ हरेः पुत्रो दिशः खं नादयन्नृपः ।।
तेन नादेन शत्रूणां कंपोऽभूद्धृदि मानद ।।१५।।
शिशुपालमहासैन्ये प्रासादइव दुर्गमे ।।
चक्रे नाराचसोपानं सहसा रुक्मिणीसुतः ।।१६।।
दमघोषसुतो धीमान्धनुष्टंकारयन्मुहुः ।।
ब्रह्मास्त्रं संदधे यद्वै दत्तात्रेयेण शिक्षितम् ।। १७ ।।
प्रचंडं सर्वतस्तेजो दृष्ट्वा श्रीरुक्मिणीसुतः।।
ब्रह्मास्त्रेणापि द्युद्धेसंजहार स लीलया ।। १८ ।।
शिशुपालो महाधीमानंगारास्त्रं समादधे।।
जामदग्न्येन यद्दत्तं महेंद्रे पर्वते नृप।।१९।।
तस्मादंगारवर्षाभिः कार्ष्णिसेनातिविह्वला ।।
पर्जन्यास्त्रं महादिव्यं तदा कार्ष्णिः समादधे।।7.9.२०।।
स्थूलाभिर्मेघधाराभिरंगाराः शांतिमाययुः ।।
शिशुपालस्तदा क्रुद्धो गजास्त्रं तं समादधे ।।२१ ।।
यदगस्त्येन मुनिना शिक्षितं मलयाचले ।।
महोद्भटा गजा दीर्घाः कोटिशस्तद्विनिर्गताः।२२ ।।
ते सैन्यं पातयामासुः प्रद्युम्नस्य महात्मनः ।।
हाहाकारो महानासीद्यदूनां वाहिनीषु च।।२३।।
प्रद्युम्नोथ रणश्लाघी नृसिंहास्त्रं समादधे।।
नृसिंहौ निर्गता स्तस्मान्नादयन्वसुधातलम् ।।२४।।
स्फुरत्सटो दीर्घबालो नखलांगलभीषणः ।।
ननाद हुंकृतैः शब्दैर्भक्षयंस्तान्गजान्रणे ।।२५।।
विदार्य गजकुंभां तमुत्पतन्भगवान्हरिः ।।
गजवृंदं मर्दयित्वा तत्रैवांतरधीयत ।।२६।।
चिक्षेप परिघं रोषाच्छिशुपालो महाबलः।।
चिच्छेद परिघं तद्वै यमदंडेन माधवः ।। २७ ।।
ततश्चैद्यो रुषाविष्टो गृहीत्वा खङ्गचर्मणी ।।
प्रद्युम्नं तमुपाधावत्पतंग इव पावकम् ।। २८ ।।
कार्ष्णिस्तताड तं खङ्गं यमदंडेन वेगतः ।।
चूर्णी बभूव तेनापि निस्त्रिंशश्चर्मणा सह ।। २९ ।।
पाशिदत्तेन पाशेन सहसा यादवेश्वरः ।।
दमघोषसुतं बद्ध्वा विचकर्ष रणांगणे ।।7.9.३०।।
शिशुपालं घातयितुं खङ्गं जग्राह रोषतः ।।
तदैव तत्करौ साक्षाद्गदो जग्राह वेगतः ।। ३१ ।।
गद उवाच ।।
परिपूर्णतमेनापि श्रीकृष्णेन महात्मना ।।
वध्योयं देववचनं वचनं मा वृथा कुरु ।। ३२ ।।
श्रीनारद उवाच ।।
तदा कोलाहले जाते शिशुपालस्य बंधने ।।
दमघोषो बलिं नीत्वा प्रागात्प्रद्युम्नसंमुखे ।। ३३ ।।
कार्ष्णिस्तमागतं दृष्ट्वा त्यक्त्वा शस्त्राणि शीघ्रतः ।
अग्रतश्चेदिपं शश्वन्ननाम शिरसा भुवि।।३४।।
मिलित्वा चाशिषं दत्त्वा प्रद्युम्नाय महात्मने।।
दमघोषो महाराजः प्राह गद्गदया गिरा ।। ३५ ।।
दमघोष उवाच ।।
प्रद्युम्न त्वं तु धन्योऽसि श्रीयदूनां शिरोमणे ।।
तत्पुत्रेण कृतं यद्वै तत्क्षमस्व दयानिधे ।। ३६ ।।
श्रीप्रद्युम्न उवाच ।।
मम दोषो न ते चायं न ते पुत्रस्य हे प्रभो ।।
सर्वं कालकृतं मन्ये प्रियमप्रियमेव वा ।। ३७ ।।
।। श्री नारद उवाच ।।
इत्युक्तो दमघोषोऽपि प्रद्युम्नेन प्रयंत्रितः ।।
शिशुपालं मोचयित्वा नीत्वागाच्चंद्रिकापुरीम् ।।३८।।
प्रद्युम्नस्य बलं श्रुत्वा साक्षाच्छ्रीकृष्णतेजसः ।।
न केऽपि युयुधुस्तेन राजानश्च बलिं ददुः ।।३९।।




यादवगणानां करूषदेशगमनम्

श्रीनारद उवाच -
मनुतीर्थे ततः स्नात्वा प्रद्युम्नो यदुभिः सह ॥
प्रययौ कौंकणान्देशान्दुंदुभीन्नादयन्मुहुः ॥१॥
कौंकणस्थोऽथ मेधावी गदायुद्धविशारदः ॥
एकाकी मल्लयुद्धेन परीक्षन्नाययौ बलम् ॥२॥
प्रद्युम्नं सबलं प्राह शृणु मे यादवेश्वर ॥
गदायुद्धं देहि मह्यं मद्‌बलं नाशय प्रभो ॥३॥
प्रद्युम्न उवाच -
एकतो ह्येकतो वीरा बलवंतो महीतले ॥
मानं मा कुरु हे मल्ल विष्णुमायातिदुर्गमा ॥४॥
वयं तु बहवो वीरास्त्वमेकाकी समागतः ॥
अधमोऽयं महामल्ल दृश्यते याहि सांप्रतम् ॥५॥
मल्ल उवाच -
यदा युद्धं न कुरुत भवंतो बलशालिनः ॥
मत्पादोऽधोऽत्र निर्यांतु तदा यास्यामि सांप्रतम् ॥६॥
श्रीनारद उवाच -
एवं वदति मल्ले वै सर्वे यादवपुंगवाः ॥
बभूवुः क्रोधसंयुक्ताः पश्यतस्तस्य मैथिल ॥७॥
गदो गदां समादाय बलदेवानुजो बली ॥
तस्थौ सोऽपि गदां नीत्वा सर्वेषां पश्यतां नृप ॥८॥
गदां वरिष्ठां चिक्षेप गदाय स महाबलः ॥
गदोपरि गदां नीत्वा स्वगदां प्राक्षिपद्‍गदः ॥९॥
गदस्य गदया सोऽपि ताडितः पतितो भुवि ॥
मृधेच्छां न चकाराशु ह्युद्‌वमन् रुधिरं मुखात् ॥१०॥
कोंकणस्थोऽथ मेधावी नत्वा प्राह हरेः सुतम् ॥
परीक्षार्थं च भवतामेतत्कार्यं मया कृतम् ॥११॥
त्वमेव भगवान्साक्षात्कुतोऽहं प्राकृतो जनः ॥
क्षमस्व मेऽपराधं भो त्वामहं शरणं गतः ॥१२॥
श्रीनारद उवाच -
इत्युक्त्वाथ बलिं दत्वा नमस्कृत्य हरेः सुतम् ॥
कोंकणस्थः पुरीं प्रागान्मेधावी क्षत्रियोत्तमः ॥१३॥
कुटकाधिपतिं मौलिं मृगयायां विनिर्गतम् ॥
जग्राह स महाबाहुः सांबो जांबवतीसुतः ॥१४॥
कार्ष्णिस्तस्माद्‌बलिं नीत्वा दंडकाख्यं वनं ययौ ॥
मुनीनामाश्रमान्पश्यन्स्वसैन्यपरिवारितः ॥१५॥
निर्विंध्यां च पयोष्णीं च तापीं स्नात्वा हरेः सुतः ॥
शूर्पारकं महाक्षेत्रमार्यां द्वैपायनीं ततः ॥१६॥
ऋष्यमूकं ततः पश्यन्प्रवर्षणगिरिं गतः ॥
पर्जन्यो भगवान्साक्षान्नित्यदा यत्र वर्षति ॥१७॥
गोकर्णाख्यं शिवक्षेत्रं दृष्ट्वा कार्ष्णिः स्वसैन्यकैः ॥
त्रिगर्तान्केरलान् देशान् ययौ जेतुं महाबलः ॥१८॥
अम्बष्ठः केरलाधीशः श्रुत्वा वार्तां तु मन्मुखात् ॥
ददौ तस्मै बलिं शीघ्रं प्रद्युम्नाय महात्मने ॥१९॥
कृष्णां वेणीं तदोत्तीर्य तैलंगान् विषयान् ययौ ॥
सैन्यपादरजोवृंदैरंधीकुर्वन्नभःस्थलम् ॥२०॥
तैलंगस्याधिपो राजा विशालाक्षः प्रकीर्तितः ॥
पुरस्योपवने रेमे सुंदरीगणसंवृतः ॥२१॥
मृदंगाद्यैश्च वादित्रैर्मधुरध्वनिसंकुलैः ॥
परैरप्सरसां रागैर्गीयमानो द्युराडिव ॥२२॥
तं प्राह सुंदरी रामा राज्ञी मंदारमालिनी ॥
रजोव्याप्तं नभो वीक्ष्य शुष्यद्‌बिंबाधरा परा ॥२३॥
मंदारमालिन्युवाच -
राजन्न जानासि सदा विहारा-
     दहर्निशं कामविशाललोलः ॥
अहं न जानामि कदापि दुःखं
     मुखालकालिभ्रमरास्तवेषा ॥२४॥
द्वारावतीशाध्वरनागवल्ली-
     चयं समुत्थाप्य दिशो जयार्थम् ॥
विजित्य सर्वान्नृप चेदिपान्स
     समागतोऽसौ यदुराजराजः ॥२५॥
धुंकारशब्दं नृणु दुंदुभीनां
     चित्कारफूत्कारयुतं द्विपानाम् ॥
कोदंडटंकारमयं पराणां
     कल्पांतसारस्वतनादकारम् ॥२६॥
त्वरं बलिं प्रेषय शंबरारये
     प्रधावतीः पश्य नरेन्द्र सुंदरीः ॥
च्यूतप्रसूनाः श्रमवारिवर्षणी-
     र्वनप्रवेशास्फुटकेशमंडनाः ॥२७॥
पत्‍नीवाक्यं ततः श्रुत्वा विशालाक्षोऽतिहर्षितः ॥
प्रद्युम्नसम्मुखे सोऽपि बलिं नीत्वा समाययौ ॥२८॥
तेन सम्पूजितः साक्षात्प्रद्युम्नो धन्विनां वरः ॥
स्नात्वा पंपासरस्तीर्थे महाराष्ट्रं ततो ययौ ॥२९॥
महाराष्ट्राधिपो राजा विमलो नाम वैष्णवः ॥
भक्त्या परमया कार्ष्णिं पूजयामास सर्वतः ॥३०॥
तथा हि कर्णाटपतिः सहस्रजि-
     त्स्वतः समानीय बलिं महात्मने ॥
सम्पूजयामास शुभार्थहेतवे
     श्रीशंबरारिं जगतः प्रभुं परम् ॥३१॥
प्रद्युम्नो भगवान्साक्षाद्यादवैः सह मैथिल ॥
करूषान् विषयान्प्रागाज्जेतुं योगीव देहजान् ॥३२॥
महारंगपुरे तत्र वृद्धशर्मा महामतिः ॥
भर्ताथ श्रुतदेवाया वसुदेवस्वसुर्नृप ॥३३॥
तस्य पुत्रो दंतवक्त्रः कृष्णशत्रुः प्रकीर्तितः ॥
शिशुपाल इव क्रुद्धो योद्धुं चक्रे मनः स्वयम् ॥३४॥
मात्रा पित्रा वारितोऽपि दैत्यो दैत्याननुव्रतः ॥
यादवान् घातयिष्यामि कोऽयमित्थं चकार ह ॥३५॥
आदाय स गदां गुर्वीं लक्षभारविनिर्मिताम् ॥
एकाकी प्रययौ योद्धुं प्रद्युम्नबलसम्मुखे ॥३६॥
दंतवक्त्रः कृष्णवर्णं कज्जलाद्रिसमप्रभम् ॥
ललज्जिह्वं घोररूपं तालवृक्षदशोच्छ्रितम् ॥३७॥
किरीटकुण्डलधरं हेमवर्णविभूषितम् ॥
किंकिणीजालसंयुक्तं चलच्चरणनूपुरम् ॥३८।।
कंपयन्तं भुवं वेगात्पातयन्तं गिरीन्द्रुमान् ॥
घातयंतं स्वगदया कृतांतमिव दुर्जनान् ॥३९॥
तं दृष्ट्वा यादवाः सर्वे भयं प्रापुर्मृधांगणे ॥
आगते दंतवक्त्रे च महान्कोलाहलो ह्यभूत् ॥४०॥
प्रद्युम्नः प्रेषयामास तस्योपरि महद्‌बलम् ॥
अष्टादशाक्षौहिणीनां धनुष्टंकारयन् मुहुः ॥४१॥
बाणैः परश्वधैः राजञ्छतघ्नीभीर्भृशुंडिभिः ॥
तं तेडुर्यादवाः सर्वे सर्वतोऽद्रिं यथा गजाः ॥४२॥
दंतवक्रः स्वगदया करींद्रानुत्कटान्बहून् ॥
पातयामास राजेंद्र भिन्नकुंभस्थलान् मृधे ॥४३॥
कांश्चित्पादेषु चोन्नीय किंकिणीजालनादितान् ॥
सशृङ्खलान्सनीडांस्ताँल्लोलघंटारणत्स्वनान् ॥४४॥
वातस्तूलमिवाकाशे चिक्षेप शतयोजनम् ॥
शूंडादंडेषु कांश्चिद्वै गृहीत्वा दैत्यपुंगवः ॥४५॥
भ्रामयित्वा गजान्दिक्षु नदतः प्राक्षिपद्‌रुषा ॥
कांश्चिद्‌गजान्वंशयोश्च कक्षयोरुभयोरपि ॥४६॥
पद्‍भ्यामाक्रम्य शुशुभे दैत्यः कालाग्निरुद्रवत् ॥
रथान्ससूतान्साश्वांश्च सध्वजान्समहारथान् ॥
चिक्षेप गगने वीरः पद्मानीव प्रभञ्जनः ॥४७॥
तुरगांश्च पदातीश्च प्राक्षिपद्‌गगने बलात् ॥
अधोमुखा ऊर्ध्वमुखा राजपुत्रा महाबलाः ॥४८॥
सशत्रा रत्‍नकेयुरसंयुक्तास्तारका इव ॥
आकाशात्प्रपतंतस्ते वमंतो रुधिरं मुखात् ॥४९॥
बलं विलोडयामास गदया दैत्यपुंगवः ॥
दंष्ट्रया प्रलयाब्धिं श्रीवराह इव मैथिल ॥५०॥
__________________________________


           दन्तवक्त्र-करूषविजयम्

तदा श्रीकृष्णपुत्राणामष्टादश महारथाः॥
सक्षतं कारयामासुर्दन्तवक्त्रं महाबलम्॥१॥
दन्तवक्त्रोऽतिशुशुभे स क्षतो रक्तधारया॥
लाक्षयेव यथा सौधं प्रहारं नानुचिंतयन्॥२॥
कृतवर्मा च बाणौघैस्तं जघान रणांगणे॥
युयुधानश्च खड्गेन शक्त्याक्रूरो महाबलम्॥३॥
सारणस्तं कुठारेणाहनत्तं रोहिणीसुतः॥
दंन्तवक्त्रोऽपि गदया युयुधानं तताड ह॥४॥
करेण कृतवर्माणमक्रूरं स्वाङ्घ्रिणाहनत् ॥
सारणं भुजवेगेन कारूषो रणदुर्मदः॥५॥
अक्रूरः कृतवर्मा च युयुधानोऽथ सारणः ॥
निपेतुर्मूर्छिता भूमौ मरुता पादपा इव॥६॥
ततो गदां समादाय साम्बो जांबवतीसुतः॥
गदोपरि गदां नीत्वा गदया तं तताड ह ॥७॥
दंतवक्रो गदां त्यक्त्वा सांबं जांबवतीसुतम् ॥
गृहीत्वा पातयामास भुजाभ्यां रणमंडले ॥८॥
सांबस्तदा समुत्थाय गृहीत्वा पादयोश्च तम् ॥
अपोथयद्‍भूमिपृष्ठे तदद्‌भुतमिवाभवत् ॥९॥
दंतवक्रः समुत्थाय साट्टहासं तदाकरोत् ॥
ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥१०॥
पताकाढ्येन दिव्येन सहस्रादित्यवर्चसा ॥
सहस्रहययुक्तेन प्रद्युम्नं धन्विनां वरम्॥
दंतवक्त्रोऽपि तं वीक्ष्य प्राहेदं परुषं वचः॥११॥
       -दन्तवक्त्र उवाच -
यूयं च यादवाः सर्वे वृष्णयो ह्यंधकादयः॥
अल्पसत्वा जनास्तुच्छा विद्रुतायुद्धभीरवः॥१२॥
ययातिशापसंभ्रष्टा भ्रष्टराज्या गतत्रपाः॥
एकोऽहं बहवो युयं युष्माभिश्च कृतं मृधम्॥१३॥
अधर्मवर्तिभिस्तुच्छैर्धर्मशास्त्रविलोपिभिः ॥
पूर्वं पिता ते श्रीकृष्णो नन्दस्य पशुरक्षकः॥१४॥
गोपालोच्छिष्टभोजी च सोऽद्य वै यादवेश्वरः॥
हय्यंगवीनदध्याज्यदुग्धतक्रादिकं रसम्॥१५॥
चोरयामास गोपीनां रसिको रासमंडले॥
जरासंधभयात्सोऽपि समुद्रं शरणं गतः॥१६॥
सोऽद्यैव यदुनाथोऽभूद्यो भीरुः कालसंमुखे॥
तेन दत्तं स्वल्पराज्यमुग्रसेनः समेत्य सः॥१७॥
करिष्यत्यल्पसारार्थे राजसूयं क्रतूत्तमम् ॥
दुरत्यया कालगतिर्जातं चित्रमहो जगत्॥
अध्यास्ते सिंहशार्दूलं शृगालो ह्यतिदुर्बलः॥१८॥
श्रीप्रद्युम्न उवाच -
पुरा वै कुंडिनपुरे यदूनां बलमूर्जितम् ॥
त्वया दृष्टं न किं त्वत्र पश्याद्यैव विनिंदक॥१९॥
युष्मान्संबंधिनो ज्ञात्वा नेच्छे युद्धम् करूषप ॥
बलात्त्वं युद्धमाकार्षीर्धर्मशास्त्रं त्वया कृतम् ॥२०॥
नंदो द्रोणो वसुःसाक्षाज्जातो गोपकुलेऽपिसः ॥
गोपाला ये च गोलोके कृष्णरोमसमुद्‌भवाः ॥२१॥
राधारोमोद्‌भवा गोप्यस्ताश्च सर्वा इहागताः॥
काश्चित्पुण्यैः कृतैः पूर्वैः प्राप्ताः कृष्णं वरैःपरैः॥२२॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥
असंख्यब्रह्मांडपतिर्गोलोकेशः परात्परः ॥२३॥
यस्मिन्सर्वाणि तेजांसि विलीयंते स्वतेजसि ॥
तं वदंति परे साक्षात्परिपूर्णतमः स्वयम् ॥२४॥
उग्रसेनोऽथ राजेंद्रो मरुतो नाम यः पुरा ॥
श्रीकृष्णस्य वरेणासौ यादवेंद्रो बभूव ह ॥२५॥
निरंकुशो महामूर्खो विनिन्दसि महद्‍गुणम् ॥
स न प्रार्थयते किंचिद्यथा सिंहः शिवारुतम् ॥२६।
श्रीनारद उवाच -
एवं वचस्तदा श्रुत्वा दंतवक्त्रो मदोत्कटः॥
गदां गुर्वीं समादाय प्राद्रवत्तद्‌रथोपरि ॥२७॥
गदया पातयामास सहस्रं घोटकान्नदन् ॥
घोटका दुद्रुवुः सर्वे दृष्ट्वा रूपं भयंकरम्॥२८॥
प्रद्युम्नोऽपि गदां नीत्वा तं तताड दृढं हृदि ॥
तत्प्रहारेण दैत्येद्रः किंचिद्व्याकुलमानसः ॥२९॥
तयोश्च गदया युद्धं घोररूपं बभूव ह ॥
गदाभ्यां प्रहरंतौ द्वौ मर्दयंतौ परस्परम् ॥३०॥
दंतवक्त्रो भुजाभ्यां तं गृहीत्वा श्रीहरेः सुतम् ॥
भूमौ निपातयामास सिंहः सिंहमिवौजसा ॥३१॥
प्रद्युम्नोऽपि समुत्थाय गृहीत्वा भुजयोर्बलात् ॥
भ्रामयित्वा भुजाभ्यां तं पातयामास भूतले ॥३२॥
प्रद्युम्नस्य प्रहारेण सोऽपतद्रुधिरं वमन्॥
चूर्णितास्थिः खिन्नगात्रो मूर्छितो विह्वलाकृतिः ॥
गिरिन्द्र इव भूपृष्ठे रेजे शक्रायुधाहतः॥
तत्प्रहारेण वसुधा चचाल सजलाभवत् ॥३४॥
विचेलुर्दिग्गजास्ताराः समुद्राश्च चकंपिरे ॥
पातशब्देन राजेन्द्र त्रिलोकी बधिरीकृता॥३५॥
तदैव कारूषापतिर्महात्मा
    श्रीवृद्धशर्मा श्रुतदेवया च ॥
राज्ञ्या महारंगपुराद्यदूनां
    समाययौ सुंदरसंधिकारी ॥३६॥
दत्वा बलिं मैथिल शंबरारये
     सुतं गृहीत्वा कृतसंधिरग्रतः ॥
तथा यदूनां प्रवरैः प्रपूजितः
     पुनर्महारंगपुरं समाययौ॥३७॥

"इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे दंतवक्त्रयुद्धे करुषदेशविजयो नामैकादशोऽध्यायः ॥११॥"


प्रद्युम्नस्य अगस्त्यात् उपदेशप्रार्थना

         श्रीनारद उवाच -
अर्णवं दक्षिणं स्नात्वा प्रद्युम्नो यादवाधिपः ॥
उशीनरांस्ततो जेतुमाजगाम बलैः सह ॥१॥
कोटिशः कोटिशो गावो यत्र देशे चरंति हि ॥
गोपालमंडलैर्युक्ता व्रजंत्यो भव्यमूर्तयः ॥२॥
औशीनराः क्षीरपाना गौरवर्णा मनोहराः ॥
हय्यंगवीनमादाय ते ययुः कार्ष्णिसंमुखे ॥३॥
तैः पूजितः शम्बरारिर्ददौ तेभ्यो महाधनम् ॥
गजान् रथान् हयान् रत्‍नवस्त्रभूषादि हर्षितः ॥४॥
चंपावती नाम पुरी मणिरत्‍नसमन्विता ॥
विराजते यत्र नृपैः सर्पैर्भोगवती यथा ॥५॥
चंपावतीपतिर्वीरो नाम्ना हेमांगदो नृपः ॥
नीत्वा बलिं समेत्याशु श्रीकार्ष्णिं प्रणनाम ह ॥६॥
तस्मै तुष्टः शंबरारिर्मालां किंजल्किनीं ददौ ॥
सहस्रदलशोभाढ्यं पद्मं दिव्यं ददौ पुनः ॥७॥
अथ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥
विदर्भान्प्रययौ धन्वी दुंदुभीन्नादयन्मुहुः ॥८॥
भीष्मकः कुंडिनपतिरागतं रुक्मिणीसुतम् ॥
आनीय पूजयामास ससैन्यं बहुभिर्धनैः ॥९॥
मातामहं ततो नत्वा रुक्मिणीनंदनो बली ॥
कुंतदेशांश्च दरदान्प्रययौ यादवेश्वरः ॥१०॥
मलयाचलपाटीरवायुभिः परिसेवितः ॥
श्रीखंडकेतकीपुष्पगंधाक्ते मलयाचले ॥११॥
अगस्त्यं मुनिशार्दूलं पीताब्धिं स ददर्श ह ॥
कृतांजलिपुटः कार्ष्णिर्नमस्कृत्य महामुनिम् ॥
स्थितोऽभूदुटजे साक्षादाशीर्भिरभिनंदितः ॥१२॥
श्रीप्रद्युम्न उवाच -
दृश्यं पदार्थ तु जगत्सत्यवद्वर्तते कथम् ॥
मुक्तो ब्रह्मांशको भूत्वा बद्ध्यतेऽयं कथं गुणैः ॥१३॥
एतत्प्रश्नं मम ब्रूहि नितरां मुनिसत्तम ॥
त्वं सर्वविद्दिव्यचक्षुः सर्वब्रह्मविदां वरः ॥१४॥
अगस्त्य उवाच -
त्वं साक्षात्कृष्णचंद्रस्य परिपूर्णतमस्य च ॥
पुत्रोऽसि पृच्छसे मां वै लीलामात्रमिदं वचः ॥१५॥
लोकसंग्रहमेवार्थं कुर्वन्देवो हरिर्यथा ॥
तथा नृणां च कल्याणं कुर्वन्विचरसि प्रभो ॥१६॥
यथा सत्यस्य सूर्यस्य बिंबं वारिषु सत्यवत् ॥
दृश्यते सत्यवद्‍दृश्यं प्रधानपरयोस्तथा ॥१७॥
काचे मुखं गुणे सर्पं सैकते जीवनं यथा ॥
तथायं सन्देहगुणैर्बद्ध्यते प्रेक्षता स्वयम् ॥१८॥
प्रद्युम्न उवाच -
कथं न बद्ध्यते देही येनोपायेन तद्वद ॥
वैराग्येण दृढेनापि ब्रूहि ब्रह्मविदां वर ॥१९॥
अगस्त्य उवाच -
विवेकं यः समाश्रित्य भजेद्‍ब्रह्म सनातनम् ॥
मनोमयं जगन्मत्त्वा स व्रजेत्परमं पदम् ॥२०॥
जन्ममृत्यू शोकमोहौ जराबालयुवादयः ॥
अहं मदो व्याधिभयं दुःखं शोकः क्षुधा रतिः ॥२१॥
आधिर्भयं तस्य राजन्न भवेत कदाचन ॥
आत्मा निरीहो ह्यतनुः सर्वतश्चानहंकृतिः ॥
शुद्धो गुणाश्रयः साक्षात्परो निष्कल आत्मदृक् ॥२२॥
ज्ञानात्मकः सदा पूर्णो विदितो यो मुनीश्वरैः ॥
तं ब्रह्म परमात्मनं ज्ञात्वायं विचरेत्सुखी ॥२३॥
अस्मिञ्छयाने जागर्ति सर्वं पश्यति यः पुमान् ॥
नायं तं वेत्ति पश्यंतं न पश्यति कदाचन ॥२४॥
नभोऽग्निपवनाः कोष्ठकाष्ठप्रोद्‌गतरेणुभिः ॥
न सज्जंते गुणैर्ब्रह्म वर्णश्च स्फटिको यथा॥२५॥
लक्षणाभिर्ध्वनिव्यंग्यैर्ज्ञायते न कदाचन ॥
कुतस्तु लौकिकैर्वाक्यैस्तस्मै श्रीब्रह्मणे नमः ॥२६॥
केचित्कर्म वदंत्येनं केचित्कालं तथाऽपरे ॥
कर्तारं योगमपरे सांख्यं ब्रह्म वदंति कम् ॥२७॥
केचित्तं परमात्मानं वासुदेवं वदंति के ॥
प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा ॥२८॥
विचार्य तद्‍ब्रह्म परं निःसंगो विचरेदिह ॥
यथांभसा प्रचलता तरवोऽपि चला इव ॥२९॥
चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ॥
तथा गुणानां भ्रमणो भ्रमता मनसा यतः ॥३०॥
भ्राम्यमाणः सदा राजन्करेणालातचक्रवत् ॥
करिष्यामि करोमीति ममेदं तव चाब्रुवन् ॥
त्वमहं च सुखी दुःखी सदाज्ञानविमोहितः ॥३१॥
सत्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ॥
तैरिदं जगदाव्याप्तमोतप्रोतपटं यथा ॥३२॥
ऊर्ध्वं गच्छंति सत्वस्था मध्ये तिष्ठंति राजसाः ॥
जघन्यगुणवृत्तिस्था अधो गच्छंति तामसाः ॥३३॥
अंधकारे गुणात्कार्ष्णे सर्पबुद्धिर्भवेद्यथा ॥
आरान्मरीचिकां वारि तथेदं मन्यते जगत् ॥३४॥
गतागतं सुखं विद्धि यथा मंडलवर्तिनाम् ॥
तथा नॄणां च तद्‍दुःखं यथा नरकवासिनाम् ॥
घनावलिर्देहगुणा अहोरात्रमृतेर्यथा ॥३५॥
यथा सार्थं तथा दृश्यं न किंचित्सर्वदैव हि ॥
पक्षे जाते यथा नीडात्पारे याते यथोडुपात् ॥३६॥
ज्ञाने प्राप्ते तथा लोकाद्दर्पणात्किं प्रयोजनम् ॥
तथा मार्गं निधायाशु विचरेत्समदृङ्‌‍मुनिः ॥३७॥
यथेन्दुरुदपात्रेषु यथाऽग्निः काष्ठसंचये ॥
तथैको भगवान्साक्षात्परमात्मा व्यवस्थितः ॥३८॥
घटे मठे यथाऽऽकाशो वर्ततेऽन्तर्बहिर्महान् ॥
तथा परात्मा निर्लिप्तो देहिषु स्वकृतेषु च ॥३९॥
यः कृष्णभक्तः शांतात्मा ज्ञाननिष्ठो विरागवान् ॥
तं न स्पृशंतीह गुणाः कानीव बिसिनीदलम् ॥४०॥
ज्ञानी सदानंदमयो बालवद्विचरेत्तनुम् ॥
न पश्यति धृतं वासो मदिरामदमत्तवत् ॥४१॥
सूर्योदये यथा वस्तु गृहे राजन् प्रदृश्यते ॥
दूरीकृत्य तथाज्ञानं साक्षात्तत्त्वं ततो बृहत् ॥४२॥
यथेन्द्रियं पृथग्द्वारैरर्थो बहुगुणाश्रयः ॥
नानेयते तथा ब्रह्म वाचिभिः शास्त्रवर्त्मभिः ॥४३॥
परं पदं वदंत्येतत्केचिद्वै वैष्णवं नृप ॥
केचिद्वै व्याप्य वैकुंठं शांतं केऽपि ततः परम् ॥४४॥
कैवल्यं तद्‍ब्रह्म केचित्परमं धाम चाव्ययम् ॥
अक्षरं च परां काष्ठां गोलोकं प्रकृतेः परम् ॥४५॥
केचिन्निकुंजं विशदं वदन्तीह पुराविदः ॥
ज्ञानवैराग्यभक्तिभ्यः प्राप्नोतीह न चान्यतः ॥४६॥
श्रीकृष्णचण्द्रस्य हरेः परस्य
     कैवल्यनाथस्य परात्परस्य ॥
व्रजेत्पदं श्रीपुरुषोत्तमस्य
     यत्प्राप्य भक्तो न निवर्ततेऽथ ॥४७॥
श्रीनारद उवाच -
इति भागवतं ज्ञानं श्रुत्वा कार्ष्णिर्महामुनिम् ॥
अगस्त्यं पूजयामास भक्त्या नत्वा कृतांजलिः ॥४८॥



शाल्व-मालव-लङ्काविजयम्

श्रीनारद उवाच -
कृतमालां ताम्रपर्णीं स्नात्वा श्रीयादवेश्वरः ॥
यदुभिः सैनिकैः सार्द्धं राजन् राजपुरं ययौ ॥१॥
शाल्वो राजपुराधीशः श्रुत्वा मन्मुखतो यदून् ॥
आगतान् स ययौ शीघ्रं द्विविदं वानराधिपम् ॥२॥
द्विविदो ह्यतिसंक्रुद्धो वीरो मित्रसहायकृत् ॥
शंबरारिबलं प्रागाच्चालयन् वसुधातलम् ॥३॥
विददार नखैर्दंतैः पताकाध्वजपट्टकान् ॥
काश्मीरकंबलैर्युक्तान्सामुद्रान्स्वर्णभूषितान् ॥४॥
रथानुत्पातयामास गजानारुह्य वेगतः ॥
अश्वान्विद्रावयामास भ्रूभंगैर्वानरस्वनैः ॥५॥
इत्थं कोलाहले जाते प्रद्युम्नो धन्विनां वरः ॥
आजगाम रथेनासौ धनुष्टंकारयन् मुहुः ॥६॥
द्विविदस्तद्‌रथस्यारादुच्चक्राम मदोत्कटः ॥
छत्रं ध्वजं स्वपुच्छेन कंपयन्सहयं रथम् ॥७॥
प्रद्युम्नः स्वधनुष्कोट्या धृत्वा कण्ठे चकर्ष ह ॥
कपिस्तदातिकुपितो मुष्टिना तं तताड ह ॥८॥
प्रद्युम्नो धनुरादय सज्जं कृत्वा विधानतः ॥
आकृष्य कर्णपर्यन्तं विशिखेन तताड् तम् ॥९॥
विशिखी भ्रामयित्वा तं गगने शतयोजनम् ॥
प्रहरार्द्धेन राजेन्द्र लंकाया संन्यपातयत् ॥१०॥
रक्षोभिः सह तद्युद्धं बभूव घटिकाद्वयम् ॥
न्यपातयत्स रक्षांसि प्रद्युम्नोऽथ यदूत्तमः ॥११॥
नादयन्दुन्दुभिं राजन् विजित्य जगृहे बलिम् ॥
दक्षिणां मथुरां दृष्ट्वा त्रिकूटं चारुरोह ह ॥१२॥
प्रोच्चक्राम त्रिकूटात्स मैनाकशिखरोपरि ॥
मैनाकात्सिंहलं चैत्य भारतं चाययौ पुनः ॥१३॥
शनैः शनैर्वानरेंद्रो हिमाचलगिरिं गतः ॥
हिमाचलस्य शिखरात्प्राग्ज्योतिषपुरं ययौ ॥१४॥
मत्सारदेशाधिपतिं प्रद्युम्नो यादवेश्वरः ॥
महाक्षेत्रं रामकृष्णं प्रययौ सेतुबंधनम् ॥१५॥
शतयोजनविस्तीर्णं समुद्रं मकरालयम् ॥
वीक्ष्य कार्ष्णिर्महावीरस्तस्थौ वेलां समेत्य सः ॥१६॥
सांबादीन्स समाहूयाक्रूराद्यान् यादवान्स्वकान् ॥
सभायामुद्धवं प्राह कार्ष्णिर्योगेश्वरेश्वरः ॥१७॥
प्रद्युम्न उवाच -
बिभीषणो द्वीपपतिर्महोज्ज्वलो
     लंकापतिः कौणपवृन्दमुख्यः ॥
वदाथ किं भोजवराय मंत्रि-
     न्न चेद्‌बलिं यच्छति मे वदाशु ॥१८॥
उद्धव उवाच -
त्वं देवदेवः पुरुषोत्तमोत्तमः
     श्रीकृष्ण्चन्द्रः परमस्त्वमेव हि ॥
त्वं पृच्छसे लोक इव प्रभो मां
     मायापि ते योगिवरैर्दुरत्यया ॥१९॥
ब्रह्मादयो यस्य परानुशासनं
     वहन्ति मूर्ध्ना सततं प्रधर्षिताः ॥
स एव साक्षात्पुरुषोऽसि भूमन्
     दासानुदासोऽस्मि वदामि किं ते ॥२०॥
श्रीनारद उवाच -
इत्युक्तः पश्यतां तेषां प्रद्युम्नो भगवान्हरिः ॥
पत्रं गृहीत्वा व्यलिखत्संदेशं मैथिलेश्वर ॥२१॥
श्रीभोजराजाय बलिं प्रयच्छ
     बलान्न चेन्मे वचनं शृणु त्वम् ॥
कोदंडमुक्तैर्विशिखैश्च सेतुं
     बद्ध्वाऽऽगमिष्यामि ससैन्यसंघः ॥२२॥
लिखित्वेदं समादाय कोदण्डं चण्डविक्रमः ॥
बाणे पत्रं समाधाय कर्णांतं तं ततान ह ॥२३॥
प्रस्फुटं स्फोटते नैव टंकारोऽभूत्तडित्स्वनः ॥
ननाद तेन ब्रह्माण्डं सप्तलोकैर्बिलैः सह ॥२४॥
कोदण्डमुक्तो विशिखो द्योतयन्मण्डलं दिशाम् ॥
विभीषणसभामध्ये संपपात तडित्स्वनः ॥२५॥
तदैव राक्षासाः सर्वे प्रोत्थिताश्चकिता इव ॥
सकंचुकानि शस्त्राणि जगृहुर्वेगतः खलाः ॥२६॥
पत्रं बाणात्समाकृष्य पठित्वाथ बिभीषणः ॥
विस्मितोऽभूत्सभामध्ये राक्षसेंद्रो महाबलः ॥२७॥
प्राप्तं तदैव सदसि शुक्राचार्यं बिभीषणः ॥
पूजयामास पाद्याद्यैर्नत्वा प्राह कृतांजलिः ॥२८॥
बिभीषण उवाच -
भगवन्कस्य बाणोऽयं भोजराजस्तु कः क्षितौ ॥
किं बलं तस्य मे ब्रूहि त्वं साक्षाद्दिव्यदर्शनः ॥२९॥
श्रीशुक्र उवाच -
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥
यस्य श्रवणमात्रेण राजन्पापं प्रशाम्यति ॥३०॥
पुरा हि ब्रह्मणः पुत्राः सनकाद्या दिवं गताः ॥
विष्णोर्लोकं ययुर्दिव्यं चरन्तो भुवनत्रयम् ॥३१॥
दिगंबराञ्छिशून्मत्वा जयो विजय एव तान् ॥
द्वारपालौ रुरुधतुर्वेत्रेणांतःपुरस्थितौ ॥३२॥
अशपंस्तौ च ते क्रुद्धाः कृष्णदर्शनलालसाः ॥
भूयास्तामसुरौ दुष्टौ शुद्धौ हि जन्मभिस्त्रिभिः ॥३३॥
एवं शप्तौ स्वभवनात्पतन्तौ भूमिमण्डले ॥
जज्ञाते तौ दितेः पुत्रौ दैत्यदानवपूजितौ ॥३४॥
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्तथा ॥
भगवान् यज्ञवाराहो भूत्वा क्ष्मामुद्धरञ्जलात् ॥३५॥
जघान मुष्टिना दैत्यं हिरण्याक्षं महाबलम् ॥
हिरण्यकशिपुं साक्षान्नृसिंहश्चण्डविक्रमः ॥३६॥
ददार जठरे तं वै कायाधवसहायकृत् ॥
भ्रातरौ तौ पुनर्जातौ केशिन्यां विश्रवःसुतौ ॥३७॥
रावणः कुम्भकर्णश्च सर्वलोकैकतापनौ ॥
सायकै राघवस्यापि पेततुर्युद्धमंडले ॥३८॥
राक्षसेंद्रौ महावेगौ ससैन्यौ पश्यतस्तव ॥
तृतीयेऽस्मिन्भवे जातौ क्षत्रियाणां कुले किल ॥३९॥
शिशुपालो दन्तवक्त्रो वर्तमानौ महाबलौ ॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥४०॥
असंख्यब्रह्माण्डपतिर्गोलोकेशः परात्परः ॥
जातस्तयोर्वधार्थाय यदुवंशे हरिः स्वयम् ॥४१॥
यादवेंद्रो भूरिलीलो द्वारकायां विराजते ॥
युधिष्ठिरमहायज्ञे युद्धे शाल्वस्य माधवः ॥४२॥
शिशुपालं दन्तवक्त्रं हनिष्यति न संशयः ॥
तस्य पुत्रः शंबरारिर्दिग्जयार्थं विनिर्गतः ॥४३॥
विजेष्यति नृपान्सर्वाञ्जंबूद्वीपस्थितान्नृपान् ॥
जितेषु सत्सु देवेषु द्वारकायां यदूत्तमः ॥
उग्रसेनो भोजराजो राजसूयं करिष्यति ॥४४॥
तस्यैव कोदण्डविनिर्गतो बला-
     त्प्रचण्डवेगो विशिखस्त्विहागतः ॥
तन्नामचिह्नोऽतितडित्स्वनो बभौ
     प्रद्योतयन् राक्षसमण्डलं दिशाम् ॥४५॥
श्रीनारद उवाच -
श्रीरामभक्तोऽथ बिभीषणोऽसौ
     विज्ञाय कृष्णं नृप रामचन्द्रम् ॥
नीत्वा बलिं कौणपवृंदमुख्यः
     समाययौ सुंदरशत्रुसेनाम् ॥४६॥
तदाऽवतीर्यार्शु महांबरात्स्फुर-
     द्घनद्युतिर्दीघवपुर्जयेक्षणः ॥
प्रदक्षिणीकृत्य हरेः सुतं पुनः
     कृतांजलिः संमुख आस्थितोऽभूत् ॥४७॥
विभीषण उवाच -
नमो भगवते तुभ्यं वासुदेवाय वेधसे ॥
प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च ॥४८॥
नमो मत्साय कूर्माय वराहय नमो नमः ॥
नमः श्रीरामचंद्राय भार्गवाय नमो नमः ॥४९॥
वामनाय नमस्तुभ्यं नृसिंहाय नमो नमः ॥
नमो बुद्धाय शुद्धाय कल्कये चार्तिहारिणे ॥५०॥
श्रीनारद उवाच -
इत्युक्त्वा श्रीहरेः पुत्रं पूजयामास मानदः ॥
उपचारैः षोडशभिर्भक्त्या परमयाऽऽर्द्रवाक् ॥५१॥
तस्मै तुष्टः शंबरारिर्ददौ ज्ञानं विरक्तिमत् ॥
भक्तिं शांतिकरीं साक्षाद्यांति दुष्प्रेमलक्षणाम् ॥५२॥
ब्रह्मदत्तं महादिव्यं पद्मरागं शिरोमणिम् ॥
पौलस्त्येन पुरा दत्तं रत्‍नमालां स्फुरत्प्रभाम् ॥५३॥
चन्द्रकान्तमणिं तस्मै चन्द्रदत्तं ददौ पुनः ॥
पीतांबरं परं साक्षात्प्रद्युम्नः परमः प्रभुः ॥५४॥
बिभीषणोऽथ प्रद्युम्नं नत्वा दत्वा बलिं ततः ॥
जगाम लंकां सगणो राक्षसेंद्रो महाबलः ॥५५॥



द्रविडदेशजयम्

श्रीनारद उवाच -
ऋषभाद्रिं ततो दृष्ट्वा श्रीरङ्गाख्यं हरेः सुतः ॥
कामः कार्ष्णिः पुरीं कांचीं नदीं प्राचीं सरिद्वराम् ॥॥१॥
कावेरीं च तदोत्तीर्य सह्याद्रिविषयं ययौ ॥
यादवैः सहितः साक्षात्प्रद्युम्नो भगवान्हरिः ॥२॥
शिबिरेषु समायान्तं मुक्तकेशं दिगंबरम् ॥
अवधूतं प्रधावन्तं पुष्टांगं रजसाऽऽवृतम् ॥३॥
बालास्तमनुधावन्तस्तलशब्दैरितस्ततः ॥
कोलाहलं प्रकुर्वंतो हसंतो मैथिलेश्वर ॥४॥
तं दृष्ट्वा चोद्धवं प्राह कर्ष्णिर्बुद्धिमतां वरः ॥५॥
प्रद्युम्न उवाच -
कोऽयं पुष्टवपुर्धावन्बालोन्मत्तपिशाचवत् ॥
तिरस्कृतोऽपि हसति जनैरानन्दवान्महान् ॥६॥
उद्धव उवाच -
अयं परमहंसाख्योऽवधूतो वा हरेः कला ॥
सदानंदमयः साक्षद्दत्तात्रेयो महामुनिः ॥७॥
यस्य प्रसादात्परमां सिद्धिं प्रापुः परे नृपाः ॥
सहस्रार्जुनमुख्या ये यदुकायाधवादयः ॥८॥
श्रीनारद उवाच -
इति श्रुत्वा शंबरारिर्नत्वा संपूज्य तं मुनिम् ॥
संस्थाप्य चासने दिव्ये पप्रच्छेदं यदूत्तमः ॥९॥
प्रद्युम्न उवाच -
भगवन्मे हृदिस्थं वै सन्देहं नाशय प्रभो ॥
जगतो ब्रह्ममार्गांश्च हेत्वंतं ब्रूहि तत्वतः ॥१०॥
दत्तात्रेय उवाच -
दृश्यते न वसुर्यावत्तावदुल्काप्रयोजनम् ॥
प्राप्ते वशे महानंदेऽथोल्कायाः किं प्रयोजनम् ॥११॥
तावदास्ते जगत्साधो यावत्तत्वं न वेद्यते ॥
परस्मिन्ब्रह्मणि प्राप्ते जगतः किं प्रयोजनम् ॥१२॥
आस्यबिंबो यथाऽऽदर्शे पश्यते न परं वपुः ॥
प्रधानार्थे तथा जीवो ज्ञानेनासौ परात्परम् ॥१३॥
यथा सूर्योदये सर्वं वस्तु नेत्रेण दृश्यते ॥
तथा ज्ञानोदये ब्रह्मतत्वं जीवेन सर्वतः ॥१४॥
श्रीनारद उवाच -
इति श्रुत्वाथ तं नत्वा प्रद्युम्नो यादवेश्वरः ॥
वैकुण्ठाद्रिं द्राविडेषु ययौ सेनासमन्वितः ॥१५॥
सत्यवाग्धर्मतत्वज्ञो राजर्षिर्द्राविडेश्वरः ॥
प्रद्युम्नं पूजयामास भक्त्या परमया युतः ॥१६॥
श्रीशैलदर्शनं कृत्वा गिरिशालयमद्‌भुतम् ॥
स्कंदं वीक्ष्य ततो राजन् ययौ पंपासरोवरे ॥१७॥
गोदावरीं भीमरथीं गतः श्रीद्वारकेश्वरः ॥
प्रदर्शयन्हरेस्तीर्थं महेंद्राद्रिं ततो ययौ ॥१८॥
महेन्द्राद्रिस्थितं रामं भार्गवं क्षत्रियांतकम् ॥
नत्वा प्रदक्षिणीकृत्य तत्र तस्थौ हरेः सुतः ॥१९॥
रामस्तस्याशिषं दत्वा यादवानां बलाय वै ॥
चतुरंगाय राजेंद्र योगेनार्हणमाचरत् ॥२०॥
भक्तसूपः प्रलेहश्च रुदिका दधिशाकजाः ॥
शिखरिण्यवलेहश्च बलका चक्षुखेरिणी ॥२१॥
त्रिकोणशर्करायुक्तो बटको मधुशीर्षकः ॥
फेणिका चोपरिष्टश्च शतपत्र सछिद्रकः ॥२२॥
चक्राभचिह्नकाश्चेत्थं सुधाकुण्डलिकाः स्मृताः ॥
घृतपूरो वायुपूरस्तथा चन्द्रकला स्मृताः ॥२३॥
दधिस्थलीश्च कर्पूरनाडीस्थं खण्डमंडलम् ॥
गोधूमपरिखाश्चैव सुफलाढ्यास्तथैव च ॥२४॥
दधिरूपो मोदकश्च शाकसौधान एव च ॥
मंडकापायसं युक्तं दधि गोघृतमेव च ॥२५॥
हैयंगवीनमंडूरी कुपिका पर्पटस्तथा ॥
शक्तिका लसिका चैव सुवृत्संधाय एव ही ॥२६॥
सुफलैश्च सितायुक्तैः फलानि विविधनी च ॥
यथा मोहनभोगैश्च लवणं च तथैव च ॥२७॥
कषायो मधुरस्तिक्तः कटुरम्लस्त्वनेकधा ॥
षट्पंचाशत्तमश्चैव ह्येते भोगाः प्रकीर्तिताः ॥२८॥
एतेषां भार्गवः शैलानकार्षीद्योगमास्थितः ॥
सैन्ये संभोजिते तत्र हस्तन्यूना न तेऽभवन् ॥२९॥
वैभवं भार्गवस्यापि दृष्ट्वा सर्वेऽतिविस्मिताः ॥
प्रद्युम्नस्तं नमस्कृत्य यादवैः सहितस्तदा ॥३०॥
सर्वेषां शृण्वतां राजन् पप्रच्छेदं हरेः सुतः ॥
प्रद्युम्न उवाच -
भगवन्भवता दत्तं सर्वेभ्यो भोजनं परम् ॥३१॥
समृद्धयः सिद्धयश्च त्वदंघ्रावास्थिताः प्रभो ॥
सर्वेषां हरिभक्तानां प्रियो भक्तस्तु को हरेः ॥
एतन्मे ब्रूहि विप्रेंद्र त्वं परावरवित्तमः ॥३२॥
परशुराम उवाच -
त्वं प्रभो किं न जानासि लोकवत्पृच्छसेऽथ माम् ॥
लोकसंग्रहमेवारात्कुर्वन् विचरसि क्षितौ ॥३३॥
निष्किंचनो हरिपदाब्जपरागलुब्धः
     श्रीमत्कथाश्रवणकीर्तनतत्परो यः ॥
तद्‌रूपसिंधुलहरीविनिमग्नचित्तः
     श्रीकृष्णचंद्रदयितः कथितः स भक्तः ॥३४॥
दांतो महानखिलजंगमवत्सलोऽयं
     शांतस्तितिक्षुरतिकारुणिकः सुहृत्सत् ॥
लोकं पुनाति निजपादरजोभिरारा-
     च्छ्रीकृष्णचंद्रदयितः कथितः परेश ॥३५॥
यः पारमेष्ठ्यमखिलं न महेंद्रधिष्ण्यं
     नो सार्वभौममनिशं न रसाधिपत्यम् ॥
नो योगसिद्धिमभितो न पुनर्भवं वा
     वांछत्यलं परमपादरजः स भक्तः ॥३६॥
निष्किंचनाः स्वकृतकर्मफलैर्विरागा
     यत्तत्पदं हरिजना मुनयो महांतः ॥
भक्ता जुषंति हरिपादरजःप्रसक्ता
     अन्ये विदंति न सुखं किल नैरपेक्ष्यम् ॥३७॥
भक्तात्प्रियो न विदितः पुरुषोत्तमस्य
     शंभुर्विधिर्न च रमा न च रौहिणेयः ॥
भक्ताननुव्रजति भक्तनिबद्धचित्त-
     चूडामणिः सकललोकजनस्य कृष्णः ॥३८॥
गच्छन्निजं जनमनु प्रपुनाति लोका-
     नावेदयन्हरिजने स्वरुचिं महात्मा ॥
तस्मादतीव भजतां भगवान्मुकुंदो
     मुक्तिं ददाति न कदापि सुभक्तियोगम् ॥३९॥
                 'श्रीनारद उवाच -
इति श्रुत्वा यादवेंद्रो नत्वा श्रीभार्गवोत्तमम् ॥
प्राच्यां दिशि ययौ राजन् गंगासागरसंगमम् ॥४०॥



                  केकयविजयम्

                   श्रीनारद उवाच -
दिग्जयस्य मिषेणासौ भूभारं हारयन्मुहुः ॥
प्रद्युम्नो भगवान्साक्षादंगदेशं ततो ययौ ॥१॥
अंगेशोऽन्तःपुराधीशो गृहीतो यादवैर्वने ॥
सोऽपि तस्मै बलिं प्रादात्प्रद्युम्नाय महात्मने ॥२॥
उड्डीशडामराधीशो बृहद्‌बाहुर्महाबलः ॥
न ददौ स बलिं तस्मै प्रद्युम्नाय मदोत्कटः ॥३॥
प्रद्युम्नप्रेषितो वीरः साम्बो जांबवतीसुतः ॥
एकाकी प्रययौ धन्वी रथेनादित्यवर्चसा ॥४॥
छादयामास बाणौघैर्डामरं नगरं नृप ॥
गिरिं तुषारपटलैर्जीमूत इव सर्वतः ॥५॥
तदा तु डामराधीशो धर्षितः सन्कृतांजलिः ॥
बलिं ददौ नमस्कृत्य प्रद्युम्नाय महात्मने ॥६॥
वंगदेशाधिपो वीरो वीरधन्वा मदोत्कटः ॥
आययौ संमुखे योद्धुमक्षौहिण्याऽऽवृतो बलि ॥७॥
चंद्रभानुर्हरेः पुत्रः प्रद्युम्नस्य प्रपश्यतः ॥
बिभेद तद्‌बलं बाणैः कुवाक्यैर्मित्रतामिव ॥८॥
करिणां बाणभिन्नानां शिरसो मौक्तिकानि च ॥
प्रस्फुरंति निपेतुः कौ रात्रौ तारागणा इव ॥९॥
निपेतू रथिनोऽनेका गजाश्वाश्च पदातयः ॥
तद्‌बाणैश्छिन्नशिरसः कूष्मांडशकला इव ॥१०॥
क्षणमात्रेण तत्सैन्यक्षतजानां नदी ह्यभूत् ॥
मनस्विनां हर्षकरी त्रस्तानां भयकारिणी ॥११॥
मुण्डैः कबंधैर्धावद्‌भिर्हरिकेयुरकुंडलैः ॥
किरीटैः कंकणैः शस्त्रैर्महामारीव भूर्बभौ ॥१२॥
कूष्माण्डोन्मादवेताला भैरवा ब्रह्मराक्षसाः ॥
शिरांसि जगृहुर्वेगाद्धरमालार्थहेतवे ॥१३॥
इत्थं निपातिते सैन्ये वीरधन्वा समागतः ॥
चंद्रभानुं तताडाशु गदया वज्रकल्पया ॥१४॥
तद्‌गदातिप्रहारेण न चचाल हरेः सुतः ॥
चंद्रभानुर्गदां नीत्वा तं तताड भुजांतरे ॥१५॥
गदाप्रहारव्यथितो मूर्छितो धरणीतले ॥
पपात पादप इव प्रोद्वमन् रुधिरं मुखात् ॥१६॥
लब्धसंज्ञो मुहूर्तेन वंगदेशाधिपो नृपः ॥
प्रययौ शरणं सोऽपि प्रद्युम्नस्य महात्मनः ॥१७॥
याते दत्तबलौ राजन्नगरं वीरधन्वनि ॥
ब्रह्मपुत्रं समुत्तीर्य प्रद्युम्नोऽमितविक्रमः ॥१८॥
आशीमाधिपतिं बिंबं गृहीत्वा यादवेश्वरः ॥
बलिमादाय यदुभिः कामरूपं समाययौ ॥१९॥
कामरुपेश्वरः पुंड्र ऐंद्रजालविशारदः ॥
निर्गतः सेनया सार्द्धं योद्धुं प्रद्युम्नसंमुखे ॥ २०॥
आशीमानां यदूनां च घोरं युद्धं बभूव ह ॥
बाणैः कुठारैः परिघैः शूलैः खड्गर्ष्टिशक्तिभिः ॥२१॥
पुंड्रो विद्याश्चकाराशु पैशाचोरगराक्षसीः ॥
ततो गुह्यकगंधर्वाः सर्वतो मैथिलेश्वर ॥२२॥
प्रधावंतो रणे राजन्पिशाचाः पिशिताशनाः ॥
कोटिशः कोटिशोंऽगारान् क्षेपयंतो मुहुर्मुहुः ॥२३॥
क्षणमात्रेण तत्सैन्यं वमंतो गरलं मुखात् ॥
फूत्कारमपि कुर्वंतो दंदशूकाः समागताः ॥२४॥
खरारूढा दंतवक्रा ललज्जिह्वाभयंकराः ॥
चर्वयंतो नरान् युद्धे धावंतो राक्षसास्ततः ॥२५॥
यक्षाश्च सिंहवदना तुरंगवदना नृप ॥
छिंधि भिंधीति गर्जंतः शूलहस्ता इतस्ततः ॥२६॥
क्षणमात्रेण मेघानां समूहैश्छादितं नभः ॥
अंधकारो ह्यभूद्राजन् रजसा वातवेगतः ॥२७॥
भोजवृष्ण्यंधकमधुशूरसेनदशार्हकाः ॥
भयं प्रापुर्महायुद्धे न्यस्तशस्त्रा यदूत्तमाः ॥२८॥
कृष्णदत्तं धनुः कार्ष्णिरादाय प्रतिकारवित् ॥
सत्त्वात्मिकां महाविद्यां बाणैः प्रायुङ्क्त मैथिल ॥२९॥
बाणैः पिशाचानुरगान् सयक्षान्
     रक्षांसि गंधर्वघनांधकारान् ॥
बिभेद दिव्यैः प्रभवैर्यथा हि
     नीहारमेघान् किरणैर्विवस्वान् ॥३०॥
बाणैश्च पुंड्रं सरथं सवाहनं
     तं भ्रामयित्वा घटिकाद्वयं खे ॥
निपातयामास रणे सपत्‍नं
     पद्मं पृथिव्यामिव मारुतः किल ।३१॥
बुद्धस्तदा तं शरणं समेत्य
     प्रधर्षितः सद्य उपायनानि ॥
लक्षैर्हयानामयुतैर्गजानां
     युतानि दत्त्वा प्रणनाम कार्ष्णिम् ॥३२॥
विपाशां स तदोत्तीर्य सैन्यैः शोणनदं नृप ॥
कैकयानाययौ धन्वी प्रद्युम्नो यदुनंदनः ॥३३॥
कैकयस्याधिपो राजा धृतकेतुर्महाबलः ॥
वसुदेवस्वसुः साक्षाच्छ्रुतकीर्तेः पतिर्महान् ॥३४॥
प्रद्युम्नमर्हयामास धृतकेतुः स यादवम् ॥
भक्त्या परमया राजञ्छ्रीकृष्णस्य प्रभाववित् ॥३५॥


              जनकोपाख्यानम्

                श्रीनारद उवाच -
दुंदुभीन्नादयंस्तस्मात्प्रद्युम्नो यदुनंदनः ॥
मैथिलानाययौ राजंस्तव देशान् सुखावृतान् ॥१॥
सुवर्णसौधैरत्युच्चैः सघटै राजितां पुरीम् ॥
मिथिलां वीक्ष्य तामारादुद्धवं प्राह माधवः ॥२॥
प्रद्युम्न उवाच -
कस्यैषा नगरी मंत्रिन् दृष्ययते सांप्रतं मया ॥
राजते बहुसौधैश्च पुरी भोगवती यथा ॥३॥
उद्धव उवाच -
जनकस्य पुरी ह्येषा मिथिला नाम मानद ॥
मिथिलेंद्रो धृतिस्तस्यां महाभागवतः कविः ॥४॥
सर्वधर्मभृतां श्रेष्ठः श्रीकृष्णेष्टो हरिप्रियः ॥
बहुलाश्वस्तस्य सुत आबाल्याद्‌भक्तिकृद्धरेः ॥५॥
तस्मै स्वं दर्शनं दातुं भगवानागमिष्यति ॥
बहुलाश्वं राजपुत्रं श्रुतदेवं द्विजं तथा ॥६॥
स्मरत्यलं द्वारकायां श्रीकृष्णो भगवान् हरिः ॥
जेतुं न शक्यो देवेंद्रैर्मनुजैश्च कुतः प्रभो ॥
धृतिः परमया भक्त्या श्रीकृष्णवशकारकः ॥७॥
श्रीनारद उवाच -
तच्छ्रुत्वा भगवान् कार्ष्णिरुद्धवेन समन्वितः ॥
स्वशिष्यमुद्धवं कृत्वा धृतिं द्रष्टुं समाययौ ॥८॥
भक्तेरेव परीक्षां हि कर्तुं तस्य नृपस्य च ॥
ददर्श मिथिलां कार्ष्णिरुद्धवेन समन्वितः ॥९॥
चर्मशस्त्रधृता वीरा मालातिलकशोभिताः ॥
जपन्तः कृष्णनामानि सर्वे वै यत्र मालया ॥१०॥
लिखितानि च नामानि द्वारि द्वारि हरेर्नृणाम् ॥
तथा श्रीकृष्णचित्राणि लिखितानि शुभानि च ॥११॥
कुड्ये कुड्ये गृहाणां च गदापद्मानि मानद ॥
दशावतारचित्राणि शंखचक्राणि यत्र वै ॥१२॥
तुलसीमंदिराणीत्थं प्राङ्गणे च गृहे गृहे ॥
एवं पश्यन्स सौधानि मिथिलायां जनान् बहून् ॥१३॥
मालातिलकसंयुक्तान् सर्वान्भक्तान्ददर्श ह ॥
तिलकैर्द्वादशाख्यैश्च युक्त्यैः कुंकुमजैर्वृतान् ॥१४॥
गोपीचंदनमुद्राभिश्चर्चिताञ्छांतविग्रहान् ॥
ऊर्ध्वपुंड्रधरान् विप्रान् हरिमंदिरचित्रितान् ॥१५॥
गदां मुद्रां ललाटे च ऊर्ध्वं वा हरिनामतः ॥
चक्रं शङ्खं च कमलं कूर्मं मत्स्यं भुजद्वये ॥१६॥
दधतश्च धनुर्बाणं मूर्ध्नि श्रीनंदकं हृदि ॥
मुसलं च हलं राजन्नथ कार्ष्णिर्ददश ह ॥१७॥
यस्या वीथ्यां भागवतं केचिच्छृण्वंति मानवाः ॥
इतिहासं भारतं च हरिवंशं तथापरे ॥१८॥
सनत्कुमारवासिष्ठयाज्ञवल्क्यपराशराः ॥
गर्गपौलस्त्यधर्मादिसंहिताः के पठंति वै ॥१९॥
ब्राह्मं पाद्मं वैष्णवं च शैवं लैंगं सगारुडम् ॥
नारदीयं भागवतमाग्नेयं स्कंदसंज्ञितम् ॥२०॥
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ॥
वाराहमात्सकौर्माणि ब्रह्माण्डाख्यं तथैव च ॥२१॥
वीथ्यां वीथ्यां स्म शृण्वन्ति जनाः सर्वे गृहे गृहे ॥
वाल्मीकिकाव्यं केचिद्वै श्रीरामचरितामृतम् ॥२२॥
स्मृतीः पठन्ति केचिद्वै केचिद्वेदत्रयीं द्विजाः ॥
केचित्कुर्वंति यज्ञं वै वैष्णवं मंगलायनम् ॥२३॥
राधाकृष्णेति कृष्णेति के वदन्ति मुहुर्मुहुः ॥
केचिन्नृत्यंति गायंति हरिकीर्तनतत्पराः ॥२४॥
मृदंगतालवादित्रैः कांस्यवीणामनोहरैः ॥
मंदिरे मंदिरे विष्णोः कीर्तनं श्रूयते जनैः ॥२५॥
नवलक्षणसंयुक्तां भक्तिं यां प्रेमलक्षणाम् ॥
कुर्वंति मैथिला राजन् मिथिलायां गृहे गृहे ॥२६॥
एवं तु नगरीं दृष्ट्वा प्रद्युम्नो भगवान्हरिः ॥
राजद्वारं समेत्याशु मैथिलेशं ददर्श ह ॥२७॥
मैथिलेशसभायां तु वेदव्यासः शुको मुनिः ॥
याज्ञवल्क्यो वसिष्ठश्च गौतमोऽहं बृहस्पतिः ॥२८॥
अन्ये च मुनयस्तत्र वेदमूर्तिधरा इव ॥
दृश्यन्ते धर्मवक्तारो हरिनिष्ठा इतस्ततः ॥ २९॥
मैथिलेंद्रो धृतिस्तत्र भक्तिभावनताननः ॥
बलस्य पादुकापूजां कुरुते विधिवन्नृप ॥३०॥
जपन्मुक्तिकरं नाम श्रीकृष्णबलदेवयोः ॥
दृष्ट्वोत्थाय नमश्चक्रे सशिष्यं ब्रह्मचारिणम् ॥३१॥
तं पूजयित्वा विधिवत् पाद्याद्यैर्मैथिलेश्वरः ॥
कृतांजलिपुटो राजा तदग्रे च स्थितोऽभवत् ॥३२॥
जनक उवाच -
अद्य मे सपलं जन्म मंदिरं विशदीकृतम् ॥
देवर्षिपितरः सर्वे संतुष्टा आगते त्वयि ॥३३॥
निर्विकल्पाः समदृशस्त्वादृशाः साधवः क्षितौ ॥
निःश्रेयसाय भगवन्दीनानां विचरंति हि ॥३४॥
ब्रह्मचार्युवाच -
धन्योऽसि राजशार्दूल धन्या ते मिथिलापुरी ॥
धन्याः प्रजाश्च ते सर्वा विष्णुभक्तिसमन्विताः ॥३५॥
जनक उवाच -
ममेयं नगरी नास्ति न प्रजा न गृहं धनम्॥
कलत्रपुत्रपौत्रादि सर्वं कृष्णस्य चैव हि ॥३६॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥
असंख्यब्रह्मांडपतिर्गोलोके धाम्नि राजते ॥३७॥
वासुदेवः संकर्षणः प्रद्युम्नः पुरुषः स्वयम् ॥
अनिरुद्धस्तथा चैकश्चतुर्व्यूहोऽभवत् क्षितौ ॥३८॥
कायेन मनसा वाचा बुद्ध्या वाचेंद्रियैः कृतम् ॥
तस्मै समर्पितं शौक्ल्यं मया ब्रह्मन्महामुने ॥३९॥
ब्रह्मचार्युवाच -
हे वैदेह महाभाग विष्णुभक्तिमतां वर ॥
त्वद्‌भक्त्या तोषितः कृष्णस्तवैकत्वं प्रदास्यति ॥४०॥
जनक उवाच -
दासोऽहं कृष्णभक्तानां त्वादृशानां महात्मनाम् ॥
मुक्तिं नेच्छामि हे ब्रह्मन्नेकतां हेतुवर्जितः ॥४१॥
ब्रह्मचार्युवाच -
करोष्यहैतुकीं भक्तिं राजंस्त्वं हेतुवर्जितः ॥
निर्गुणैर्भक्तिभावैश्च प्रेमलक्षणसंयुतः ॥४२॥
प्रद्युम्नो भगवान्साक्षाद्दिग्जयार्थं विनिर्गतः ॥
नायातस्तव गेहेषु संदेहो मे महानभूत् ॥४३॥
जनक उवाच -
प्रद्युम्नो भगवान्साक्षादंतर्यामी हरिः स्वयम् ॥
सर्वगः सर्वविच्छश्वदत्र नास्ति च किं प्रभो ॥४४॥
ब्रह्मचार्युवाच -
ज्ञानदृष्ट्यापि चेत्कार्ष्णिं मन्यसेऽत्र निरंतरम् ॥
तर्हि दर्शय तं देवं प्रह्लाद इव दिव्यदृक् ॥४५॥
श्रीनारद उवाच -
एतच्छ्रुत्वा तदा राजा महाभागवतो धृतिः ॥
अश्रुपूर्णमुखो भूत्वा प्राह गद्‌गदया गिरा ॥४६॥
जनक उवाच -
यदि मे श्रीहरेर्भक्तिरनिमित्ता कृता भुवि ॥
तर्हि कार्ष्णिर्हरेः पुत्रः प्रादुर्भूयान्ममाग्रतः ॥४७॥
यदि श्रीकृष्णभक्तानां दासोऽहं यदि तत्कृपा ॥
सर्वत्र यदि तद्‌भावस्तर्हि भूयान्मनोरथः ॥४८॥
श्रीनारद उवाच -
प्रादुर्बभूवाशु तदैव कार्ष्णि-
     र्विसृज्य सद्यः किल वर्णरूपम् ॥
पश्यत्सु सर्वेषु जनेषु शिष्यः
     स गद्‌गदोऽभूद्धरिभक्तिनिष्ठः ॥४९॥
घनप्रभं पद्मदलायतेक्षणं
     प्रलंबबाहुं जगतां मनोहरम् ॥
पीतांबरं नीलगुडालकालिभीः
     स्वलंकृतं श्रीमुखपद्ममंडलम् ॥५०॥
शीतर्तुबालार्ककिरीटकुंडलं
     काच्यंगदस्फूर्जितदिव्यविग्रहम् ॥
विलोक्य तं कृष्णसुतं कृतांजलि-
     र्ननाम साष्टांगमलं धृतिर्नृपः ॥५१॥
जनक उवाच -
अहोऽतिधन्यं मम भूरि भाग्यं
     दत्तं त्वया मे निजदर्शनं हि ॥
जातोऽद्य कायाधवतुल्य आरा-
     द्‍गृहं कृतार्थोऽस्मि कुलेन भूमन् ॥५२॥
श्रीप्रद्युम्न उवाच -
धन्यस्त्वं नृपशार्दूल भक्तस्त्वं मत्प्रभाववित् ॥
भक्तिभावपरीक्षार्थं प्राप्तोऽहं तव सांप्रतम् ॥५३॥
अद्यैव मम सारूप्यं भूयात्ते मैथिलेश्वर ॥
बलमायुर्यशःकीर्तिरिह लोके भवत्वलम् ॥५४॥
श्रीनारद उवाच -
तव पित्रा च धृतिना पूजितः पश्यतां सताम् ॥
प्रययौ शिबिरान् राजन् प्रद्युम्नो भक्तवत्सलः ॥५५॥



मागधविजयम्

श्रीनारद उवाच -
अथातो मागधञ्जेतुं प्रद्युम्नो मीनकेतनः ॥
गिरिव्रजं जगामाशु स्वसैन्यैः परिवारितः ॥१॥
श्रुत्वाऽऽगतं हरेः पुत्रं दिग्जयार्थं विशेषतः ॥
जरासंधो मागधेंद्रो महाकोपं चकार ह ॥२॥
जरासंध उवाच -
तुच्छा ये यादवाः सर्वे युधि विक्लवचेतसः ॥
तेऽद्य वै जगतीं जेतुं निर्गता गतबुद्धयः ॥३॥
मथुरां स्वपुरीं त्यक्त्वा मद्‌भयान्माधवोऽपिहि ॥
समुद्रं शरणं प्रागात्पिता चास्य दुरात्मनः ॥४॥
प्रवर्षणे रामकृष्णौ मया भस्मीकृतौ बलात् ॥
छलाद्‍दुद्रुवतुस्तौ द्वौ द्वारकायां समाश्रितौ ॥५॥
बद्ध्वा तौ चानयिष्यामि सोग्रसेनौ कुशस्थलीम् ॥
अयादवीं करिष्यामि पृथ्वीं सागरमेखलाम् ॥६॥
श्रीनारद उवाच -
इत्युक्त्वा निर्गतो राजा गिरिव्रजपुराद्‌बहिः ॥
अक्षौहिणीभिर्विंशत्या तिसृभिः संयुतो बली ॥७॥
गोमूत्रचयसिंदूरकस्तूरीपत्रभृन्मुखे ॥
स्रवन्मदैश्चतुर्दंतैरैरावतकुलोद्‌भवैः ॥८॥
शुण्डादण्डस्य फूत्कारैः क्षेपयद्‌भिस्तरून्बहून् ॥
बभौ गजैर्मागधेंद्रो मेघैरिंद्र इव प्रभुः ॥९॥
रथैश्च देवधिष्ण्याभैः सध्वजैरश्वनेतृभिः ॥
चामरैर्दोलितै राजंल्लोलचक्रध्वनिद्युतिः ॥१०॥
तुरङ्गमैर्वायुवेगैश्चित्रवर्णैर्मदोत्कटैः ॥
सौवर्णपट्टहाराद्यैः शिखारश्म्यूर्ध्वचामरैः ॥११॥
सकंचुकैर्वीरजनैः खड्गचर्मधनुर्धरैः ॥
विद्याधरसमैः प्रागान्मागधेंद्रो महाबलः ॥१२॥
धुंकारैर्दुंदुभीनां च दिशो नेदुर्धनुःस्वनैः ॥
चचाल वसुधा सैन्यै रजोभिश्छादितं नभः ॥१३॥
जरासंधस्य तत्सैन्यं प्रलयाब्धिमिवोल्बणम् ॥
विस्मिता यादवाः सर्वे बभूवुर्वीक्ष्य मैथिल ॥१४॥
प्रद्युम्नो भगवान्वीक्ष्य मागधेंद्रबलार्णवम् ॥
शंखं दघ्मौ दक्षिणाख्यं मा भैष्टेत्यभयं ददत् ॥१५॥
ततः सांबो महाबाहुः प्रद्युम्नस्य प्रपश्यतः ॥
अक्षौहिणीनां दशभिर्युयुधे मागधेन सः ॥१६॥
गजा गजैर्युयुधिरे रथिभी रथिनो मृधे ॥
हया हयैः पत्तयश्च पत्तिभिर्मैथिलेश्वर ॥१७॥
बभूव तुमुलं युद्धमद्‌भुतं रोमहर्षणम् ॥
मागधानां यदूनां चासुराणां निर्जरैर्यथा ॥१८॥
अश्वारुढाः केऽपि वीरा भल्लहस्ता इतस्ततः ॥
मर्दयंतो गजारूढाः करिकुम्भगतार्चयः ॥१९॥
केचिच्छक्तीस्तडिद्वर्णा गृहीत्वा चिक्षिपुर्बलात् ॥
ताः शक्तयस्त्वरीन् भित्वा दंशितान् धरणीं गताः ॥२०॥
केचिद्वीरा नदन्तः कौ रथांगानि च चिक्षुपुः ॥
चिच्छिदुर्वीरपटलं नीहारं रवयो यथा ॥२१॥
भिंदिपालैर्मुद्‌गरैश्च कुठारैरसिपट्टिशैः ॥
अच्छूरिकार्ष्टिभिस्तीक्ष्णैर्निस्त्रिंशैर्युयुधुश्च खे ॥२२॥
तोमरैश्च गदभिश्च बाणैश्छिन्नानि भूतले ॥
निपेतुर्वीरकरिणामश्वानां च शिरांसि च ॥२३॥
कबंधास्तत्र चोत्पेतुः पातयन्तो हयान्नरान् ॥
खड्गहस्ताः प्रधावन्तः संग्रामेषु भयंकरा ॥२४॥
वीरोपरि गता वीरा निपेतुश्छिन्नबाहवः ॥
हयोपरि हयाः केचिद्‌बाणैः संछिन्नकंधराः ॥२५॥
विद्याधर्यश्च गंधर्व्यो वव्रिरे ह्यंबरे गतान् ॥
वीरान्पतीन्समिच्छंत्यस्तासां चाभूत्कलिर्महान् ॥२६॥
क्षात्रधर्मापराः केचिद्युद्धदत्तासवो नृप ॥
न चलन्तः पदं पृष्ठे सदा संग्रामशालिनः ॥२७॥
जग्मुः परं पदं ते वै भीत्वा मार्तण्डमंडलम् ॥
ननृतुः शिशुमारे वै मंडले च नटा इव ॥२८॥
एवं सांबमहावीरैर्मर्दितं मागधं बलम् ॥
दुद्राव पश्यतां तेषां कृष्णभक्त्या यथाशुभम् ॥२९॥
केचिद्वै वृक्णवर्माणश्छिन्नचापास्तथापरे ॥
पलायमाना धावंतस्त्यक्तखड्गर्ष्टिपाणयः ॥३०॥
पलायमानं स्वबलं वीक्ष्य तन्मागधेश्वरः ॥
धनुष्टंकारयन्प्राप्तो मा भैष्टेत्यभयं ददौ ॥३१॥
स्वबलं नोदयामास जरासंधो धनुर्ज्यया ॥
महामात्यः प्रेरयति ह्यंकुशेन गजं यथा ॥३२॥
सांबस्तदैव सम्प्राप्तो दशभिश्चापनिर्गतैः ॥
बाणैर्विव्याध समरे मागधेंद्रं महाबलम् ॥३३॥
धनुर्ज्यामब्धिकल्लोलभीमसंघर्षनादिनीम् ॥
चिच्छेद दशभिर्बाणैः सांबो जांबवीसुतः ॥३४॥
धनुरन्यत्समादाय जरासंधो महाबलः ॥
धनुः सांबस्य चिच्छेद बाणैर्दशभिरग्रतः ॥३५॥
चतुर्भिश्चतुरो वाहान्द्वाभ्यां केतुं रथं त्रिभिः ॥
एकेन सारथिं जघ्ने मागधेंद्रो जरासुतः ॥३६॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥
पुनरन्यं समास्थाय रथं सांबो महाबलः ॥३७॥
गृहीत्वा चापमत्युग्रं सज्जं कृत्वा विधानतः ॥
तद्‌रथं चूर्णयामास सांबो बाणशतैरपि ॥३८॥
रथं त्यक्त्वा जरासंधो गजमारुह्य वेगतः ॥
बभौ गजे मागधेंद्र इन्द्र ऐरावते यथा ॥३९॥
चित्रपत्रविचित्रांगं कालांतकयमोपमम् ॥
सांबाय नोदयमास मत्तेभं क्रुद्धमानसः ॥४०॥
गृहीत्वा सरथं सांबं शुण्डादण्डेन नागराट् ॥
कुर्वंश्चीत्कारविकलश्चिक्षेप नवयोजनम् ॥४१॥
तदा कोलाहले जाते सांबसेनासु मैथिल ॥
प्रद्युम्नपार्श्वाच्च गदः प्राप्तोऽभूद्वेगतो बलम् ॥४२॥
विनाशयन्नंधकारं यथार्क उदयाचलात् ॥
जरासंधस्यापि गजं मुष्टिना वसुदेवजः ॥४३॥
जघान शक्रो वज्रेण यथा प्रोच्चदरीभृतम् ॥
गजो मुष्टिप्रहारेण विह्वलो धरणीं गतः ॥४४॥
जगाम पञ्चतां राजंस्तदद्‌भुतमिवावभवत् ॥
जरासंधः समुत्थाय गदामादाय वेगतः ॥४५॥
गदं तताड सहसा जगर्ज घनवद्‌बली ॥
तत्प्रहारेण स गदो न चचाल रणांगणात् ॥४६॥
त्वरं गदां समादाय लक्षभारविनिर्मिताम् ॥
अताडयज्जरासंधं सिंहनादमथाकरोत् ॥४७॥
तत्प्रहारेण व्यथितो बृहद्‌रथसुतो बली ॥
जरासंधः समुत्थाय गृहित्वा सगदं गदम् ॥४८॥
चिक्षेप रोषतो राजन्नाकाशे शतयोजनम् ॥
गदोऽपि मागधं नीत्वा भ्रामयित्वा महाबलः ॥४९॥
चिक्षेप गगने तं वै योजनानां सहस्रकम् ॥
आकाशात्पतितो राजा मागधो विंध्यपर्वते ॥५०॥
उत्थाय युयुधे तेन गदेनापि महाबलः ॥
तदैव सांबः संप्राप्तो गृहीत्वा मागधेश्वरम् ॥५१॥
भूपृष्ठे पोथयामास सिंहः सिंहमिवौजसा ॥
एकेन मुष्टिना सांबं द्वितीयेन गदं तथा ५२॥
तताड मागधो राजा जगर्जाशु रणांगणे ॥
मुष्टिप्रहारव्यथितौ गदः सांबश्च मूर्छितौ ॥५३॥
हाहाकारो महानासीत्तदैवाशु रणांगणे ॥
रथेनातिपताकेन प्रद्युम्नो यादवेश्वरः ॥५४॥
अक्षौहिणीयुतः प्राप्तो मा भैष्टेत्यभयं ददौ ॥
जरासंधो गदां नीत्वा लक्षभारविनिर्मिताम् ॥५५॥
विवेश यदुसेनायामरण्येऽग्निरिव प्रभुः ॥
रथान्गजन्सवीरांश्च तुरङ्गान्सैंधवान्बहून् ॥५६॥
पातयमास राजेंद्र पद्मानीव महागजः ॥
जरासंधस्य या सेना सापि सर्वा समागता ॥५७॥
जघान निशितैर्बाणैर्यदूनां सर्वतो बलम् ॥
प्रद्युम्नो युयुधे युद्धे निर्भयो यादवेश्वरः ॥५८॥
निपातयन्नरीन्बाणैर्धनुष्टङ्कारयन्मुहुः ॥
तदैव यदुपुर्यास्तु बलदेवः समागतः ॥५९॥
प्रादुर्बभूव तत्रापि सर्वेषां पश्यतां सताम् ॥
समाकृष्य हलाग्रेण मागधेंद्रं महाबलम् ॥६०॥
मुसलेनाहनत्क्रुद्धो बलदेवो महाबलः ॥
शतयोजनपर्यंतं रथाश्वगजपत्तयः ॥६१॥
पतिता भिन्नशिरसः सर्वे वै निधनं गताः ॥
देवदुंदुभयो नेदुर्नरदुन्दुभयस्तथा ॥६२॥
बलदेवोपरि सुराः पुष्पवर्षं प्रचकिरे ॥
तदा जयजयारावो यदूनां स्वबले महान् ॥६३॥
प्रद्युम्नाद्यास्ततो नेमुः कामपालं गतव्यथाः ॥
इत्थं जित्वा मागधेन्द्रं बलदेवो महाबलः ॥६४॥
प्रययौ द्वारकां राजन्भगवान्भक्तवत्सलः ॥
जरासंधसुतो धीमान् सहदेव उपायनम् ॥६५॥
नीत्वा पुरः शंबरारेर्गिरिदुर्गाद्विनिर्गतः ॥
अश्वार्बुदं रथानां च द्विलक्षं हस्तिनां तथा ॥६६॥
ददौ षष्टिसहस्रणि नत्वा कार्ष्णिं प्रभाववित् ॥६७॥


माथुर-शूरसेनविजयम्

श्रीनारद उवाच -
अथ कार्ष्णिर्गयामेत्य फल्गुं स्नात्वा ससैनिकः ॥
अन्यान्देशांस्ततो जेतुं प्रस्थानमकरोत्पुनः ॥१॥
श्रुत्वा जितं जरासंधं तदातंकान्नृपाः परे ॥
उपायनं ददुस्ते वै भयार्ताः शरणं गताः ॥२॥
गोमतीं सरयूं पुण्यामनुस्रोतं ततोऽगमत् ॥
ततो भागीरथीतीरे काशीमभिजगाम ह ॥३॥
पार्ष्णिग्राहः काशिराजो गृहीतो मृगयां गतः ॥
सोऽपि तस्मै बलिं प्रादाच्छ्रुत्वा तस्य बलं महत् ॥४॥
प्रद्युम्नः सैनिकैः सार्द्धं कोशलान्प्रगतो बली ॥
अयोध्यानिकटे राजन्नंदिग्रामे स्थितोऽभवत् ॥५॥
कोशलेन्द्रो नग्नजिच्च तुरंगैश्च गजै रथैः ॥
महाधनैः शंबरारिमर्हयामास तत्त्ववित् ॥६॥
उत्तरेशो दीपतमो नयपालाधिपो गजः ॥
विशालेशो बर्हिणश्च एते वै तं बलिं ददुः ॥७॥
नैमिषेशो हरेर्भक्तः श्रीकृष्णस्य प्रभाववित् ॥
कृतांजलिपुटो भूत्वा ददौ तस्मै बलिं नृपः ॥८॥
प्रयागं गतवान्कार्ष्णिस्त्रिवेणीं पापनाशिनीम् ॥
स्नात्वा ददौ महादानं तीर्थराजप्रभाववित् ॥९॥
गजा विंशतिसाहस्रमश्वानां दशलक्षकम् ॥
रथानां च चतुर्लक्षं गवां तत्र दशार्बुदम् ॥१०॥
हेममालासमायुक्तं हेमांबरसमन्वितम् ॥
दशभारं सुवर्णानां मुक्तानां लक्षमेव हि ॥११॥
द्विलक्षं नवरत्‍नानां वस्त्राणां दशलक्षकम् ॥
काश्मीरकंबलानां च द्विलक्षं नवकंबलम् ॥१२॥
ब्राह्मणेभ्यो ददौ कार्ष्णिस्तीर्थराजे हरिप्रिये ॥
कारूषाधिपतिस्तत्र पौंड्रको नाम मैथिल ॥१३॥
कृष्णशत्रुः सोऽपि कार्ष्णिं पूजयामास शंकितः ॥
प्रद्युम्नं चागतं वीक्ष्य पांचाले कान्यकुब्जके ॥१४॥
भयं प्रापुर्नृपाः सर्वे दुर्गे दुर्गे कृतार्गलाः ॥
विचेलुर्यादवात्सर्वे भयार्ता दुर्गमाश्रिताः ॥१५॥
बिंदुदेशाधिपो राजा दीर्घबाहुर्महाबलः ॥
शंबरारेः परं सन्धिं कर्तुं सैन्ये समाययौ ॥१६॥
दीर्घबाहुरुवाच -
यूयं सर्वे यादवेन्द्रा आगता जयिनो दिशाम् ॥
मनोरथं मे कुरुतां भवेयं तुष्टमानसः ॥१७॥
सजलस्यापि काचस्य पात्रस्य शरवेधतः ॥
न क्षरेद्‌बिंदुरेकोऽपि बाणस्तदधितिष्ठति ॥१८॥
न पात्रं शकलीभूतं तन्मध्ये हस्तलाघवम् ॥
ये कुर्वंति प्रतिज्ञां मे तेभ्यो दास्यामि कन्यकाः ॥१९॥
यूयं सर्वे यादवेन्द्रा धनुर्वेदविशारदाः ॥
मयापि नारदमुखाच्छ्रुता पूर्वं महाबलाः ॥२०॥
सर्वेषां विस्मितानां च प्रद्युम्नो धन्विनां वरः ॥
तथेत्युवाच सदसि बिंदुदेशाधिपं नृप ॥२१॥
दीर्घवंशौ सुविस्थाप्य गुणं बद्ध्वा तदन्तरे ॥
गुणे बद्ध्वा काचकुम्भं सजलं पश्यतां सताम् ॥२२॥
धनुर्गृहीत्वा तद्वीक्ष्य बाणं कार्ष्णिः समादधे ॥
काचपात्रं शरो भित्वा तस्थौ मध्येऽर्द्धनिःसृतः ॥२३॥
एकतो मुखपुङ्खाभ्यां रविरश्मिरिवांबुदे ॥
काचपात्रे बभौ बाणस्तदद्‌भुतमिवाभवत् ॥२४॥
न पात्रं शकलीभूतं त्रिकुशस्य फलं यथा ॥
न चालनं कंपनं च बिंदुस्रावोऽपि नाभवत् ॥२५॥
प्रद्युम्नो भगवान्बाणं द्वितीयं संदधे पुनः ॥
सोऽपि पूर्वं समुत्सृज्य तत्र तस्थौ विदेहराट् ॥२६॥
सांबोऽपि धनुरादाय बाणान्पंच समाददे ॥
काचपात्रं च ते भित्वा तस्थुस्तत्रार्धनिःसृताः ॥२७॥
युयुधानो धनुर्नीत्वा बाणमेकं समाक्षिपत् ॥
सर्वेषां पश्यतां तेषां पात्रं चूर्णीबभूव ह ॥२८॥
उच्चकैर्जहसुः सर्वे यादवाः परसैनिकाः ॥
त्वं महान्बाणधारीह कार्तवीर्यार्जुनो यथा ॥२९॥
अर्जुनो भरतो रामस्त्रिपुरघ्नो हि वा भवान् ॥
द्रोणो भीष्मोऽथवा कर्णो जामदग्न्य इवाभवत् ॥३०॥
अन्यत्पात्रं समाधायानिरुद्धो धन्विनां वरः ॥
अधो गत्वाऽथ तद्‍दृष्ट्वा बाणं चिक्षेप लाघवात् ॥३१॥
सोऽपि पात्रतलं भित्वा तस्थौ तत्रापि निःसृतः ॥
तत्पात्राद्धस्तपञ्चोर्ध्वं बद्ध्वा पाषाणमंबरे ॥३२॥
दीप्तिमान् धनुरादाय बाणमेकं समादधे ॥
सोऽपि पात्रतलं भित्वा बाणमुत्सृज्य चाग्रतः ॥३३॥
ताडयित्वा च पाषाणं पुनस्तत्र समाश्रितः ॥
बाणवेगेन तदपि बिंदुस्रावोऽपि नाभवत् ॥३४॥
गतागतेन यावद्वै बिंदुस्रावोऽपि नाभवत् ॥
तदा वीराश्च ते सर्वे साधु साध्विति वादिनः ॥३५॥
भानुर्धनुः संगृहीत्वा वीक्ष्य मीलितलोचनः ॥
आराच्चिक्षेप नाराचं सर्वेषां पश्यतां सताम् ॥३६॥
सोऽपि पात्रं तदा भीत्त्वा पात्रं कृत्वा ह्यधोमुखम् ॥
पुनरूर्ध्वमुखं कृत्वा तस्थौ तत्रार्द्धनिःसृतः ॥३७॥
बाणवेगेन तदपि बिंदुस्रावोऽपि नाभवत् ॥
न पात्रं शकलीभूतं तदद्‌भुतमिवाभवत् ॥३८॥
एवं श्रीकृष्णपुत्रा ये अष्टादश महारथाः ॥
सर्वे ते बिभिदुः पात्रं जलस्रावोऽपि नाभवत् ॥३९॥
बिंदुदेशाधिपो राजा दीर्घबाहुः सुविस्मितः ॥
तेभ्योऽदात्कन्यकाः सृष्टा अष्टादश सुलोचनाः ॥४०॥
तेषां विवाहसमये शंखभेर्यानकादयः ॥
नेदुर्जगुश्च गंधर्वा ननृतुश्चाप्सरोगणाः ॥४१॥
तेषामुपरि देवास्ते जयध्वनिसमाकुलाः ॥
ववृषुः पुष्पवर्षाणि चक्रुः श्लाघां दिवी स्थिताः ॥४२॥
गजान्षष्टिसहस्राणि हयानामर्बुदं तथा ॥
दशलक्षं रथानां च दासीनां लक्षमेव च ॥४३॥
शिबिकानां चतुर्लक्षं पारिबर्हे ददौ नृपः ॥
ताः प्राहिणोद्‍द्वारावतीं बभौ कर्ष्णिर्यदूत्तमः ॥४४॥
दीर्घबाहुमनुप्राप्य निषधान्प्रययौ ततः ॥
निषधाधिपतिर्वीरसेनजिन्नाम मैथिल ॥४५॥
उपायनं ददौ सोऽपि प्रद्युम्नाय महात्मने ॥
तथाहि भद्राधिपतिः श्रीकृष्णेष्टो हरिप्रियः ॥४६॥
पूजयामास सबलं बृहत्सेनो हरेः सुतम् ॥
माथुरान्शूरसेनांश्च मधून्प्राप्तः ससैनिकः ॥४७॥
स्वागतैः पूजितः कार्ष्णिर्मथुरायां ययौ पुनः ॥
ततः प्रदक्षिणिकृत्य मथुरां सवनां किल ॥४८॥
गोपान्गोपीं यशोदां च नन्दराजं व्रजेश्वरम् ॥
वृषभानूपनंदांश्च नत्वा कार्ष्णिर्बभौ नृप ॥४९॥
बलिं च नंदराजाय दत्वा दत्वा पुनः पुनः ॥
तै पूजितः कतिदिनैः स्थितोऽभून्नंदगोकुले ॥५०॥



          कौरवोपाख्यानम्

            श्रीनारद उवाच -
अथ कार्ष्णिर्महाबाहुर्ध्वजिनीभिः समन्वितः ॥
नादयन्दुंदुभीन्दीर्घान्दीर्घवेगः कुरून् ययौ ॥१॥
विंशतिर्योजनानां च मर्यादीकृततद्‌बले ॥
तस्थौ तच्छिबिराणां च विस्तारो दशयोजनम् ॥२॥
पंचयोजनमाश्रित्य तद्‌बले राजपद्धतिः ॥
धनाढ्यानां च वैश्यानामापणानि सहस्रशः ॥३॥
तथा रत्‍नपरीक्षाणां वस्त्रव्यापारकारिणाम् ॥
काचकरा वायकाश्च रंगकाराः कुलालकाः ॥४॥
कुंदकारास्तूलकाराः पटकारास्तथैव च ॥
टंककाराश्चित्रकाराः पत्रकाराश्च नापिताः ॥५॥
पट्टकारा रेतिकाराः पर्णकाराश्च शिल्पिनः ॥
लाक्षाकारा मालिनश्च रजकास्तैलिनस्तथा ॥६॥
तांबूलशोधिनस्तत्र चित्रपाषाणकर्मकाः ॥
अन्नभर्जकरास्तत्र काचभेदिन एव हि ॥७॥
मुक्तादीनां च रत्‍नानां सूक्ष्माणां रत्‍नवेधिनः ॥
एते कारुजनाः सर्वे दृश्यंते राजपद्धतौ ॥८॥
क्वचिद्‌भानुमतीर्लीला ऐंद्रजालविधायकाः ॥
क्वचिन्नटाश्च नृत्यंते युद्धं भल्लूकयोः क्वचित् ॥९॥
क्वचित्तु वानरी लीला डमरूवाद्यसंयुताः ॥
गायंति कुत्रचिद्राजन्सूतमागधवन्दिनः ॥१०॥
वारांगनाश्च नृत्यंति भूषैर्द्वादशभिर्युताः ॥
दिव्यैः षोडशशृङ्गारैर्हरंत्यप्सरसां मनः ॥११॥
बन्धूनामपि सेनानां महांतका गजाह्वये ॥
चालनं संभ्रमोपेतं विह्वलैश्च जनैरभूत् ॥१२॥
विदुद्रुवुर्जनाः सर्वे गृहेष्वापातितार्गलाः ॥
कोलाहलो महानासीद्‌गेहे गेहे जने जने ॥१३॥
वीर्य्यशौर्य्यबलोपेताः कौरवाश्चक्रवर्तिनः ॥
आसमुद्राः क्षितीशेंद्रा जातास्तेऽप्यतिशंकिताः ॥१४॥
प्रद्युम्नप्रेषितः साक्षादुद्धवो बुद्धिसत्तमः ॥
कौरवेंद्रपुरं प्राप्तो धृतराष्ट्रं ददर्श ह ॥१५॥
मदच्युतामास्य नृपस्य दंतिनां
     कस्तूरिकाकुंकुमगंडशालिनाम् ॥
सिंदूरशुंडास्पदकर्णताडितैः
     षडङ्‌घ्रिभिर्मण्डितमंदिराजिरम् ॥१६॥
यं भीष्मकर्णगुरुशल्यकृपैश्च भूरि-
     बाह्लीकधौम्यशकुनैः सह संजयेन ॥
दुःशासनेन विदुरेण च लक्ष्मणेन
     दुर्योधनेन च कृपीसुतसोमदत्तैः ॥१७॥
श्रीयज्ञकेतुसहितैः सहितं नृपेन्द्रं
     लीलातपत्रसितचामरहेमपीठैः ॥
संसेवितं परिसमेत्य गजाह्वयेशं
     नत्वोद्धवः प्रणत आह कृतांजलिस्तम् ॥१८॥
उद्धव उवाच -
प्रद्युम्नेन प्रकथितं शृणु राजेंद्रसत्तम ॥
उग्रसेनः क्षितीशेंद्रो यादवेंद्रो महाबलः ॥१९॥
विजित्य नृपतीन्सर्वान् राजसूयं करिष्यति ॥
प्रेषितस्तेन सेनाभिः प्रद्युम्नो रुक्मिणीसुतः ॥२०॥
जेतुं महोद्‌भटान् वीराञ्जंबुद्वीपस्थितान्नृपान् ॥
चैद्यशाल्वजरासंधदंतवक्त्रादिभूपतीन् ॥२१॥
विजित्य चागतः कार्ष्णिस्तस्मै यच्छ बलिं बहु ॥
उपायनं च दातव्यं बंधूनामैक्यकाम्यया ॥२२॥
माभूत्कुरूणां वृष्णीनां कलिर्नोचेद्‌भविष्यति ॥
तेनोदितं मे कथितं तत्क्षमस्व नृपेश्वर ॥
दूतस्य हीनदोषस्य त्वयोक्तं यद्वदामि तत् ॥२३॥
श्रीनारद उवाच -
तच्छ्रुत्वा कौरवाः सर्वे राजन्संजातमन्यवः ॥
वीर्य्यशौर्य्यमदोन्नद्धा उचुः प्रस्फुरिताधराः ॥२४॥
कौरवा ऊचुः
दुरत्यया कालगतिरहो चित्रमिदं जगत् ॥
सिंहोपरि प्रधावंति शृगाला दुर्बला वने ॥२५॥
अस्मत्सकाशात्संबंधा अस्मद्दत्तनृपासनाः ॥
दातॄणां प्रतिकूलास्तु दातॄणां फणीनो यथा ॥२६॥
वृष्णयो भीरवः सर्वे युधि विक्लवचेतसः ॥
तथैव शासनं कर्तुं प्रवृत्ता हि गतह्रियः ॥२७॥
उग्रसेनोऽल्पवीर्यश्च जंबूद्वीपस्थितान्नृपान् ॥
विजित्याहो बलिं नीत्वा राजसूयं करिष्यति ॥२८॥
यत्र भीष्मश्च कर्णश्च द्रोणो दुर्योधनादयः ॥
तत्र त्वं प्रेषितो मंत्री प्रद्युम्नेन कुबुद्धिना ॥२९॥
तस्माद्यात पुरीमध्ये यूयं वै जीवनेच्छया ॥
न चेद्यास्यथ वः सर्वान्नयामो यमसादनम् ॥३०॥
श्रीनारद उवाच -
इत्थं श्रीकृष्णविमुखैः कौरवैः परिभाषितम् ॥
श्रुत्वोद्धवः शम्बरारिमेत्य सर्वमुवाच ह ॥३१॥
कौरवोक्तं वचः श्रुत्वा प्रद्युम्नो धन्विनां वरः ॥
प्रतिशार्ङ्‌गं संगृहीत्वा रोषात्प्रस्फुरिताधरः ॥३२॥
प्रद्युम्न उवाच -
कौरवान्घातयिष्यामि बंधूनपि मदोद्धतान् ॥
बाणैस्तीक्ष्णैर्यथा योगी नियमैर्देहजा रुजः ॥३३॥
यदूनां सैन्यचक्रेषु बलिं यो न प्रदास्यति ॥
कौरवेभ्योऽपि स पुमान् पितुर्मातुर्न चौरसः ॥३४॥
श्रीनारद उवाच -
तदैव यादवाः सर्वे भोजवृष्ण्यंधकादयः ॥
गजाह्वयं ययुः सैन्यै राजन्संजातमन्यवः ॥३५॥


कौरव-यादवयुद्धम्

श्रीनारद उवाच -
तदैव कौरवाः सर्वे निर्गता दीप्तमन्यवः ॥
स्वैः स्वैर्बलैः समायुक्ता योद्धुं प्रद्युम्नसंमुखे ॥१॥
विजयध्वजसंयुक्ता रत्‍नकंबलमण्डिताः ॥
गजाः षष्टिसहस्राणि निर्ययुः स्वर्णशृंखलाः ॥२॥
प्रलयाब्धिमहावर्तसंघर्षध्वनिकारिणाम् ॥
गजाः षष्टिसहस्राणि दुंदुभीनां विनिर्गताः ॥३॥
गजा गावो बृहद्‌भल्ला लोहकंचुकमंडिताः ॥
शिरस्रङ्‌‍मौलिसंयुक्ता द्विलक्षाणि विनिर्ययुः ॥४॥
हेमकंकणकेयूरकिरीटवरकुंडलाः ॥
गजस्थाश्च द्विलक्षाणि निर्ययुः स्वर्णकंचुकाः ॥५॥
पीतकंचुकसंयुक्तास्तिर्यगुष्णीषशालिनः ॥
गजस्थाश्च द्विलक्षाणि संग्रामे लब्धकीर्तयः ॥६॥
रक्तांबरधराः केचिद्‌रक्तभूषणभूषिताः ॥
रक्तकंबलसंयुक्तैर्गजैरुच्चैर्विनिर्गताः ॥७॥
कृष्णांबरधरा नागैर्हरिद्‌वस्त्रसमावृताः ॥
केचिच्छुक्लांबराः केचिन्निर्ययुः पाटलांबराः ॥८॥
रथैश्च देवधिष्ण्याभैर्मृगेंद्रध्वजशोभितैः ॥
पतत्पताकैरत्युच्चैर्निर्ययुः कोटिशो नृपाः ॥९॥
आंगैर्बांगैः सैंधवैश्च चंचलैस्तुरगैर्नृपाः ॥
मनोजवैः स्वर्णभूषैर्निर्ययुः शस्त्रसंवृताः ॥१०॥
समंतान्निर्ययुर्वीरा लोहकंचुकण्डीताः ॥
विद्याधरसमा राजन्संकुला युद्धशालिनः ॥११॥
जगुर्यशः कौरवाणां सूतमागधवन्दिनः ॥
भेरीमृदंगैः पटहैरानकैर्युद्धनिःस्वनैः ॥१२॥
मृगेन्द्रध्वजसंयुक्तैः शुक्लवाहनियोजितैः ॥
व्यजनैर्वज्रदण्डैश्च चामरांदोलराजितैः ॥१३॥
चतुर्योजनमात्रेण चंद्रमण्डलचारुणा ॥
छत्रेण मण्डिते राजभिर्दत्तेन मनोहरे ॥१४॥
दुर्योधनो बभौ सैन्ये महति स्यंदने स्थितः ॥
तथाऽन्ये धार्तराष्ट्राश्च स्यन्दने स्यन्दने स्थिताः ॥१५॥
चतुर्योजनमात्रैश्च छत्रैर्मुक्ताविलंबिभिः ॥
सुरथेनातिभीष्मेण कृपेण गुरुणा सह ॥१६॥
बाह्लीककर्णशल्यैश्च सोमदत्तेन धीमता ॥
अश्वत्थाम्ना च धौम्येन लक्ष्मणेन धनुष्मता ॥१७॥
शकुनिना च वीरेण तथा दुःशासनेन च ॥
संजयेन तथा साक्षाद्‍भूरिणा यज्ञकेतुना ॥१८॥
सुयोधनो नृपो रेजे यथा शक्रो मरुद्‌गणैः ॥
इन्द्रप्रस्थात्पांडुपुत्रैः प्रेषितं पृतनाद्वयम् ॥१९॥
तदैव चागतं राजन् कौरवाणां सहायकृत् ॥
अक्षौहिणीभिः षोडशभिः कुरूणां चलतां तदा ॥२०॥
चचाल भूर्दिशो नेदू रजोव्याप्तं नभोऽभवत् ॥
तारकेव बभौ सूर्यो गजाश्वरथरेणूभिः ॥२१॥
अंधकारोऽभवद्‍भूमौ देवाः सर्वेऽपि शंकिताः ॥
यत्र तत्र गजानां च नोदनाभिश्च भूरुहाः ॥२२॥
निपेतुस्तुरगैर्वीरैः क्षणं भूखण्डमण्डलम् ॥
सेना कुरूणां वृष्णीनां युयुधुश्च परस्परम् ॥२३॥
तीक्ष्णैः शस्त्रैर्यथा सप्त समुद्रास्तरलैर्लये ॥
हया हयैरिभाश्चेभै रथिनो रथिभिः सह ॥२४॥
श्येनैः श्येना इव क्रव्ये पत्तयः पत्तिभिर्मृधे ॥
महामात्यैर्महामात्याः सूताः सूतैर्नृपैर्नृपाः ॥२५॥
युयुधुः क्रोधसंयुक्ताः सिंहैः सिंहा इवौजसा ॥
खड्गैः कुंतैः शक्तिभिश्च भल्लैः पट्टिशमुद्‌गरैः ॥२६॥
गदाभिर्मुसलैश्चक्रैस्तोमरैर्भिंदिपालकैः ॥
शतघ्नीभिर्भुशुण्डीभिः कुठारैश्च स्फुरत्प्रभैः ॥२७॥
चिच्छिदुर्बाणपटलैः शिरांसि क्रोधमूर्च्छिताः ॥
बाणांधकारे संजाते प्रद्युम्नो धन्विनां वरः ॥२८॥
दुर्योधनेन युयुधे धनुष्टंकारयन्मुहुः ॥
अनिरुद्धश्च भीष्मेण दीप्तिमांश्च कृपेण वै ॥२९॥
भानुर्द्रोणेन सांबास्तु बाह्लीकेन नृपेश्वरः ॥
मधुः कर्णेन चायुध्यद्‍बृहद्‌भानुः शलेन वै ॥३०॥
चित्रभानुर्हरेः पुत्रः सोमदत्तेन धीमता ॥
अश्वत्थाम्ना वृकश्चैवारुणो धौम्येन मैथिल ॥३१॥
पुष्करो लक्ष्मणेनाशु दुर्योधनसुतेन वै ॥
वेदबाहुः कृष्णसुतः शकुनेन महामृधे ॥३२॥
दुःशासनेन समरे श्रुतदेवो हरेः सुतः ॥
तथा हि युयुधे युद्धे संजयेन सुनंदनः ॥३३॥
विदुरेण गदः साक्षात्कृतवर्मा च भूरिणा ॥
अक्रूरो युयुधे राजन्नाहवे यज्ञकेतुना ॥३४॥
एवं परस्परं युद्धं बभूव तुमुलं महत् ॥
कार्ष्णिर्विलोकयामास दुर्योधनबलं महत् ॥३५॥
बाणसंधेन वाराहो दंष्ट्रया च यथार्णवम् ॥
बाणसंभिन्नकुम्भानां करिणां प्रपतंति खात् ॥३६॥
मुक्ताफलानि रेजुः कौ रात्रौ तारागणा इव ॥
बाणैः संपातयामासू रथिनः सारथीन् रथान् ॥३७॥
महामृधे मैथिलेंद्र वेगैर्वातो यथा तरून् ॥
दुर्योधनस्तदा प्राप्तो धनुष्टंकारयन्मुहुः ॥३८॥
प्रद्युम्नं ताडयामास सायकैर्दशभिर्मृधे ॥
तान्प्रचिच्छेद भगवान् प्रद्युम्नो यादवेश्वरः ॥३९॥
दुर्योधनः पुनस्तस्य कवचे सायकान् दश ॥
निचखान स्वर्णपुंखान् भित्वा वर्म तनौ गताः ॥४०॥
सहस्रैर्बाणपटलैः सहस्राश्वाञ्जघान ह ॥
चिच्छेद बाणशतकैः कोदण्डं सगुणं परम् ॥४१॥
शंबरारेर्महावीरो धृतराष्ट्रसुतो बली ॥
प्रद्युम्नस्तं रथं त्यक्त्वाथान्यमारुह्य सत्वरम् ॥५२॥
कृष्णदत्तं धनुर्नीत्वा सज्जं कृत्वा विधानतः ॥
एकं बाणं समाधाय कर्णांतं तञ्चकर्ष ह ॥४३॥
भुजदण्डस्य वेगेन तद्‌रथे निचकर्ष ह ॥
गृहीत्वा तद्‌रथं बाणो भ्रामयित्वा घटीद्वयम् ॥४४॥
आकाशात्पातयामास कमण्डलुमिवार्भकः ।
पतनेन रथः सद्यश्चूर्णीभूतो बभूव ह ॥४५॥
ससूताश्च हयाः सर्वे पञ्चतां प्रापुरग्रतः ॥
अन्यं रथं समास्थाय धार्तराष्ट्रो महाबलः ॥४६॥
प्रद्युम्नं ताडयामास दशभिः सायकैमृधे ॥
तैस्ताडितो हरेः पुत्रो मालाहत इव द्विपः ॥४७॥
कृष्णदत्ते च कोदण्दे तथैकं बाणमादधे ॥
बाणस्तं सरथं नीत्वा यावत्प्रागान्महांबरे ॥४८॥
तावद्‌बाणो द्वितीयोऽपि तं गृहीत्वा ययौ त्वरम् ॥
तावत्तृतीयः संप्राप्तो नीत्वा तं मंदिराजिरे ॥४९॥
धृतराष्ट्रसमीपे च सरथं साश्वसारथिम् ॥
आकाशात्पातयामास पद्मकोशमिवानिलः ॥५०॥
बाणस्तं पातयित्वा तु रणे कार्ष्णिं समाययौ ॥५१॥
पतनेन विशीर्णोऽभूदंगार इव तद्‌रथः ॥
सुयोधनो मूर्च्छितोऽभूदुद्वमन् रुधिरं मुखात् ॥५२॥


कौरव-सम्मेलनम्

             श्रीनारद उवाच -
दुर्योधने गते तत्र हाहाकारो महानभूत् ॥
तदा देवव्रतो भीष्मो गांगेयः प्रययौ त्वरम् ॥१॥
यदूनां पश्यतां तेषां धनुष्टङ्कारयन्मुहुः ॥
भस्मीकर्तुं यदुबलं वनं वह्निरिव ज्वलन् ॥२॥
सर्वधर्मभृतां श्रेष्ठो महाभागवतः कविः ॥
वीरयूथाग्रणीर्येन रामोऽपि युधि तोषितः ॥३॥
शिरस्त्री मुकुटी गौरः सितश्मश्रुः पितामहः ॥
यथा षोडशवर्षीयो युद्धान्तं विचरन्बलात् ॥४॥
बाणैर्निपातयामासानिरुद्धस्य बलं महत् ॥
करिणश्छिन्नशिरसो हयास्ते भिन्नकंधराः ॥५॥
खड्गहस्ता भिन्नबाणैः पत्तयोऽपि द्विधाभवन् ॥
रथाश्चूर्णीकृता येन हतसूताश्वनायकाः ॥६॥
अधोमुखा ऊर्ध्वमुखाश्छिन्नपादा नृपात्मजाः ॥
खड्गहस्तधनुर्हस्ताः पतिताश्छिन्नबाहवः ॥७॥
केचिद्वै छिन्नकवचा निपेतुर्भूमिमण्डले ॥
अश्वैर्वीरैर्रथैर्नागैः पतितैः स्वर्णभूषितैः ॥८॥
युद्धमण्डलमारेजे वनं वृक्षैर्हतैर्यथा ॥
शस्त्रदंता बाणकेशा ध्वजवस्त्रा करिस्तना ॥९॥
रथांगकुशला राजन्महामारीव भूर्बभौ ॥
क्षतजस्रावसंभूता रथाश्वनरवाहिनी ॥१०॥
आपगाभून्महादुर्गा नरैर्वैतरणी यथा ॥
कूष्माण्डोन्मादवेताला नदन्तो भैरवं स्वनम् ॥११॥
हरमालार्थमागत्य जगृहुर्नृशिरांसि च ॥
रथेनातिपताकेनानिरुद्धो धन्विनां वरः ॥१२॥
स्वबलं पतितं दृष्ट्वा प्रागाद्‌भीष्मं मृधे महान् ॥
प्रलयाब्धिमहावर्तभीमसंघर्षनादिनीम् ॥१३॥
धनुर्ज्यां तस्य चिच्छेद बाणेनैकेन कार्ष्णिजः ॥
तुण्डया तीक्ष्णया राजन् गरुडः सर्पिणीं यथा ॥१४॥
भीष्मोऽन्यद्धनुरादाय सज्जं कृत्वा तदात्मवान् ॥
सर्वेषां पश्यतां तत्र ब्रह्मास्त्रं संदधे मृधे ॥१५॥
ततः प्रादुष्कृतं तेजः प्रचण्डं वीक्ष्य माधवः ॥
स्वबलस्यापि रक्षार्थं ब्रह्मास्त्रं संदधे स्वयम् ॥१६॥
द्वादशादित्यसंकाशे युयुधाते परस्परम् ॥
त्रींल्लोकान्दहती द्वीपेऽनिरुद्धस्तं जहार ह ॥१७॥
गांगेयस्यापि कोदण्डं तडिद्वर्णं यदूत्तमः ॥
चिच्छेद सायकैः सूर्यो नीहारमीव रश्मिभिः ॥१८॥
भीष्मो गृहीत्वाथ गदां लक्षभारमयीं दृढाम् ॥
प्राहिणोदनिरुद्धाय सिंहनादं तदाकरोत् ॥१९॥
गृहीत्वा वामहस्तेन गरुत्मानिव पन्नगीम् ॥
प्रद्युम्नो भगवान्साक्षात्प्राहिणोत्स्वगदां हृदि ॥२०॥
गदाप्रहारव्यथितो मूर्च्छितः पतितो रथात् ॥
बभौ सूर्यो यथाऽऽकाशाद्‌गांगेयो मृधमण्डले ॥२१॥
कृपाचार्योऽपि तत्रैवानिरुद्धाय महात्मने ॥
शक्तिं चिक्षेप सहसा रुषा प्रस्फुरिताधरः ॥२२॥
दीप्तिमान्कृष्णपुत्रस्तु पथि चिच्छेद तां नृप ॥
खड्गेन शितधारेण कुवाक्येनेव मित्रताम् ॥२३॥
द्रोणाचार्यो महाबाहुर्भानूपरि रुषान्वितः ॥
चिक्षेप पार्वतं चास्त्रं धनुष्टङ्कारयन्मुहुः ॥२४॥
पतंतः पर्वता व्योम्नश्चूर्णयंतो द्विषद्‌बलम् ॥
तेषां पातेन राजेन्द्र हाहाकारो महानभूत् ॥२५॥
तदा हरेः सुतो भानुर्वायव्यास्त्रं समादधे ॥
तद्वातेनाद्रयः सर्वे उड्डीता ह्यभवन् रणात् ॥२६॥
बाह्लीकस्तु तदा क्रुद्धो वह्न्यस्त्रं संदधे ततः ॥
भस्मीभूतं बलं जातं वह्निनेव महद्वनम् ॥२७॥
पार्जन्यमाददे तत्र साम्बो जांबवतीसुतः ॥
तेन शांतिं गतो वह्निर्ज्ञानेनेव त्वहंकृतिः ॥२८॥
कर्णस्ततो मधुं हित्वा साम्बोपरि रुषान्वितः ॥
जघान बाणविंशत्या जगर्ज घनवद्‌बली ॥२९॥
तद्‌बाणैः सरथः सांबो बभ्राम घटिकाद्वयम् ॥
क्रोशं पुनः प्रपतितः किंचिद्व्याकुलमानसः ॥३०॥
पुनर्गदां समादाय रथं त्यक्त्वा समेत्य सः ॥
तताड गदया कर्णं सांबो जांबवीसुतः ॥३१॥
गदाप्रहारव्यथितः पतितो धरणीतले ॥
मूर्च्छां प्राप रणे राजन्कर्णो वीरो महाबलः ॥३२॥
साम्बोऽपि स्वधनुर्नीत्वा रथमारुह्य वेगतः ॥
शलं जघान विंशत्या सोमदत्तं च पंचभिः ॥३३॥
द्रौणिं च दशभिर्बाणैर्धौम्यं षोडशभिस्तथा ॥
लक्ष्मणं दशभिस्तत्र शकुनिं पञ्चभिस्तथा ॥३४॥
दुःशासनं च विंशत्या विंशत्या संजयं पृथक् ॥
भूरिं बाणशतै राजन्यज्ञकेतुं शतैः शितैः ॥३५॥
बाणैर्जघान समरे जगर्ज घनवद्‍बली ॥
दशभिर्दशभिर्नेतॄनेकैकेन गजान् हयान् ॥३६॥
पञ्चभिः पञ्चभिर्वीरान् बाणैः सांबस्तताड ह ॥
वीक्ष्य जांबवतीसूनोः सांबस्य करलाघवम् ॥३७॥
स्वे परे सैनिकाः सर्वे विस्मयं परमं गताः ॥
तदा भीष्मः समुत्थाय गृहीत्वा धनुरुत्तमम् ॥३८॥
चिच्छेद दशभिर्बाणैः सांबकोदण्डमुत्तमम् ॥
भीष्मो महाबलो वीरो द्रोणाचार्यश्च सायकैः ॥३९॥
कर्णः सद्यो यदुबलं जघ्नुर्ज्ञानं यथा गुणाः ॥
दुर्योधनः पुनर्योद्धुं रथमारुह्य मानदः ॥४०॥
अक्षौहिणीभिर्दशभिर्नादयन्नाययौ मृधे ॥४१॥
देवौ पुरणौ पुरुषौ तदावि-
     र्बभूवतुर्मैथिल रामकृष्णौ ॥
सुपर्णतालध्वजशालियानौ
     प्रद्योतयन्तौ परितौ हि शस्तौ ॥४२॥
तदा जयारावसमाकुलाः सुरा
     गंधर्वमुख्याश्च जगुर्मनोहरम् ॥
सुरनका दुंदुभयो विनेदुः
     श्रीलाजपुष्पैर्ववृषुः सुरस्त्रियः ॥४३॥
तदैव नेमुर्यदवः परेश्वरौ
     दुर्योधनाद्याः कुरवस्तु सर्वतः ॥
निघाय शस्त्राणि ददुर्बलिं परं
     सर्वे प्रसन्नाः कृतहस्तसंपुटाः ॥४४॥
प्रद्युम्नमुख्यान् स्वसुतान् मदोद्धतान्
     निर्भर्त्स्य वाग्भिः परमेश्वरो हरिः ॥
प्रणम्य देवव्रतमुख्यकौरवान्
     समेत्य दुर्योधनमूचतुः परौ ॥४५॥
श्रीरामकृष्णावूचतुः -
राजन् यदेभिः किल बालबुद्धिभि-
     स्तत्क्षम्यतां मा भव दुर्मनाः स्वतः ॥
यदा तु किंचित्परुषं प्रकीर्तितं
     प्रकीर्ततां नौ भवतां नृपेश्वर ॥४६॥
माभूत्कुरूणां भुवि यादवानां
     कदापि किंचित्कलिरेव राजन् ॥
सम्बन्धिनो ज्ञातय एव सर्वे
     निचौलवस्त्रांतरवत्प्रियार्थाः ॥४७॥
            श्रीनारद उवाच -
पूजितौ कुरुभिः शश्वद्‌रामकृष्णौ सुरेश्वरौ ॥
प्रद्युम्नाद्यैः सयदुभी रेजतुर्मैथिलेश्वर ॥४८॥


भारतजयानन्तरं प्रद्युम्नस्य पूर्वोत्तरदेशगमनम्

श्रीनारद उवाच -
दुर्योधनं शांतयित्वा सानुजैः कुरुभिः सह ॥
जग्मतुः पांडवान्द्रष्टुमिंद्रप्रस्थं यदूत्तमौ ॥१॥
इंद्रप्रस्थात्ततो राजाऽऽजातसत्रुर्युधिष्ठिरः ॥
भ्रातृभिः स्वजनैः सार्द्धं नेतुं कृष्णं समाययौ ॥२॥
शंखदुंदुभिनादेन ब्रह्मघोषेण वेणुभिः ॥
पुष्पवर्षं प्रकुर्वद्‌भिरिंद्रप्रस्थनिवासिभिः ॥
रामकृष्णौ परिष्वज्य दोर्भ्यां राजा युधिष्ठिरः ॥३॥
परमां निर्वृतिं लेभे योगीवानंदसंवृतः ॥
प्रद्युम्नाद्या हरिसुताः प्रणेमुः श्रीयुधिष्ठिरम् ॥४॥
युधिष्ठिरोऽनुजग्राह कराभ्यां तान्कृताशिषः ॥
अर्जुनं भीमसेनं च परिरभ्य हरिः स्वयम् ॥५॥
पप्रच्छ कुशलं तेषां यमाभ्यां चाभिवंदितः ॥
परिपूर्णतमौ साक्षाच्छ्रीकृष्णौ च स्वयं हरिः ॥६॥
असंख्यब्रह्माण्डपती हरिदासेन पूजितौ ॥
प्रस्थाप्य यदुमुख्यांश्च प्रद्युम्नादीन् ससैनिकान् ॥७॥
समग्रां जगतीं जेतुं चाज्ञां दत्त्वा विधानतः ॥
मिलित्वा सानुजं धर्मं सर्वेशौ भक्तवत्सलौ ॥८॥
द्वारकां जग्मतू राजन् गौरश्यामौ मनोहरौ ॥
इत्थं श्रीकृष्णचरितं मया ते कथितं नृप ॥९॥
चतुष्पदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ।
बहुलाश्व उवाच -
कुशस्थलीं गते कृष्णे सबले पुरुषोत्तमे ॥१०॥
ततश्चकार किं साक्षात्प्रद्युम्नो भगवान्हरिः ॥
अद्‌भुतं तस्य चरितं श्रवणीयं मनोहरम् ॥११॥
मुक्तानामपि भक्तानां जिज्ञासूनां पुनः किमु ॥
अर्थार्थिनामर्थदं सदार्तानामर्तिनाशनम् ॥१२॥
चतुर्विधानां जीवानां सर्वेषां पापनाशनम् ॥
कथं दिग्विजयं कृत्वा दिग्जयार्थी हरेः सुतः ॥१३॥
आजगाम पुनः सैन्यैरेतन्मे वद तत्वतः ॥
देवर्षे त्वं ब्रह्मसुतो भगवान्सर्वदर्शनः ॥
श्रीकृष्णस्य मनः पूर्वं तस्मै ते हरये नमः ॥१४॥
श्रीनारद उवाच -
साधु पृष्टं त्वया राजन्धन्यस्त्वं तत्प्रभाववित् ॥
श्रीकृष्णचरितं श्रोतुं पात्रं त्वमसि भूतले ॥१५॥
कृष्णे यातेऽजातशत्रू रक्षार्थं स्नेहतो नृप ॥
शत्रुभ्यः शंकितः कार्ष्णिं प्रायुङ्क्ताशुकिरीटिनम् ॥१६॥
अथ कार्ष्णिर्यदुश्रेष्ठः फाल्गुनेन समं नृप ॥
विकर्षन्महतीं सेनां त्रिगर्तान्प्रययौ त्वरम् ॥१७॥
त्रिगर्ताधीश्वरो धन्वी सुशर्मा तेन शंकितः ॥
उपायनं ददौ तस्मै प्रद्युम्नाय महात्मने ॥१८॥
विराटेन तथा राज्ञा पूजितो यादवेश्वरः ॥
सरस्वतीं नदीं स्नात्वा कुरुक्षेत्रं ददर्श ह ॥१९॥
पृथूदकं बिंदुसरस्त्रितं कूपं सुदर्शनम् ॥
स्नात्वा सरस्वतीं प्रागाद्दत्वा दानान्यनेकशः ॥२०॥
सारस्वताधिपो राजा कुशांबो न ददौ बलिम् ॥
कौशांबीं नगरीमेत्य दुर्योधनवशानुगः ॥२१॥
चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान् ॥
सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः ॥२२॥
चारुचंद्रो विचारुश्च चारुश्च दशमस्तथा ॥
रुक्मिणीनंदना ह्येते प्रद्युम्नेन प्रणोदिताः ॥२३॥
सिंधुदेशहयारूढाः सर्वेषां पश्यतां गताः ॥
कौशांबीं नगरीमेत्य रुरुधुः सर्वतस्तदा ॥२४॥
बाणैः प्रासादशिखरा ध्वजकुंभादितोलिकाः ॥
चूर्णीभूता निपेतुः कौ लंकाट्टाला यथा मृगैः ॥२५॥
बाणांधकारे च कृते रुक्मिणीनंदनैर्यदा ॥
तदोपायनपाणिः सन्कुशांबो निर्गतः पुरात् ॥२६॥
कृतांजलिः शंबरारिं दत्वा नत्वा बलिं बहु ॥
जुगोप नगरीं राजा भयार्तो भयविह्वलः ॥२७॥
तदैव सौवीरपतिः सुदेव
     आभीरनाथोऽपि विचित्रनामा ॥
चित्राङ्गदः सिंधुपतिर्महौजाः
     काश्मीरपो जांगलपः सुमेरुः ॥२८॥
लाक्षेश्वरो धर्मपतिर्बिडौजा
     गांधारमुख्योऽपि सुयोधनस्य ॥
वशे स्थितास्तेऽपि भयात्किलैते
     दत्वा बलिं नेमुरतीव कार्ष्णिम् ॥२९॥
ययौ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥
अर्बुदान्म्लेच्छदेशांश्च जेतुं कल्किरिवोद्‌भटः ॥३०॥
कालस्यापि सुतश्चंडो यवनेंद्रो महाबलः ॥
कार्ष्णिं समागतं श्रुत्वा संमुखात्कोपपूरितः ॥३१॥
पितृहंतुः सुतं हत्वा यास्याम्यपचितिं पितुः ॥
इत्थं विचार्य्य मनसा म्लेच्छानां दशकोटिभिः ॥३२॥
मदच्युतं प्रोन्नदन्तं गजमारुह्य रक्तदृक् ॥
निर्ययौ संमुखे योद्धुं प्रद्युम्नस्य महात्मनः ॥३३॥
आगतां महतीं सेनां शितबाणप्रवर्षिणीम् ॥
चंडप्रणोदितं दृष्ट्वा प्रद्युम्नो वाक्यमब्रवीत् ॥३४॥
प्रद्युम्न उवाच -
सेनां हत्वापि यश्चाण्डं शिरस्त्रसहितं शिरः ॥
आनेष्यते तं स्वबले करिष्यामि ध्वजापतिम् ॥३५॥
श्रीनारद उवाच -
एवं कार्ष्णौ वदत्यारात्फाल्गुनो वानरध्वजः ॥
एको विवेश गांडीवी धनुष्टङ्कारयन्मुहुः ॥३६॥
वीरान् रथान् गजानश्वान्संमुखस्थान्द्विधाकरोत् ॥
गांडीवमुक्तैर्विशिखैर्गांडीवी रणदुर्मदः ॥३७॥
केचिच्छिन्नभुजाः पेतुः शक्तिखड्गर्ष्टिपाणयः ॥
भिन्नपादा भिन्ननखाः केचिद्वीराः सकंचुकाः ॥३८॥
दुद्रुवुः करिणो युद्धे भिन्नकक्षाश्च सक्षताः ॥
गतघंटाः श्लथन्नीडाः पातयंतः करैर्गजान् ॥३९॥
जिष्णुबाणैर्द्विधाभूतैर्गजैरश्वै रणांगणम् ॥
बभौ क्षेत्रं शंकुलया कूष्मांडशकलैरिव ॥४०॥
तदैव दुद्रुवुर्म्लेच्छास्त्यक्त्वा स्वं स्वं रणांगणम् ॥
नभोऽर्करश्मिसंभिन्ना नीहारपटला इव ॥४१॥
गजारूढो म्लेच्छपतिः शक्तिं चिक्षेप जिष्णवे ॥
भ्रामयित्वा मैथिलेंद्र सिंहनादमथाकरोत् ॥४२॥
विद्युल्लतामिवायांतीं बाणैः कृष्णसखो बली ॥
गांडीवमुक्तै राजेंद्र लीलया शतधाच्छिनत् ॥४३॥
य़ावच्चंडो महाम्लेच्छो धनुर्जर्ग्राह रोषतः ॥
तावच्चिच्छेद गांडीवी बाणेनैकेन लीलया ॥४४॥
द्वितीयं धनुरादाय स चण्डश्चण्डविक्रमः ॥
प्रलयाब्धिमहावर्तभीमसंघर्षनादिनीम् ॥४५॥
चिच्छेद सिंजनीं जिष्णोर्गरुत्मानिव पन्नगीम् ॥
बीभत्सुः स्वमसिं नीत्वा स्फुरंतं चर्मणा सह ॥४६॥
जघान तद्‌गजं कुंभे शैलमिंद्रो यथा पविः ॥
अग्निदत्तेन खड्गेन भिन्नकुंभो गजो नदन् ॥४७॥
जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥
चंडः खड्गं गृहीत्वाथ प्राहत्य पांडुनंदनम् ॥४८॥
तत्खड्गं चर्मणोन्नीय प्राहिणोत्तं कुरूद्वहः ॥
सशिरस्त्रं शिरस्तस्य देहाद्‌भिन्नं बभूव ह ॥४९॥
सज्जं कृत्वा धनुर्जिष्णुर्निधाय विशिखे च तत् ॥
आकृष्य पातयामास प्रद्युम्नस्य बले महत् ॥५०॥
तदा दुन्दुभिनादोऽभूज्जयारावसमाकुलः ॥
अर्जुनस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥५१॥
तदैव कार्ष्णिः सबलस्य जिष्णुं
     चकार नाथं विजयध्वजस्य ॥
संवीज्यमानं सितचामराद्यैः
     कपिध्वजं यादववृंदमुख्यैः ॥५२॥
वेगवानर्बुदाधीशः प्रद्युम्नं शरणं गतः ॥
उपायनं ददौ भीरुर्नमस्कृत्य कृतांजलिः ॥५३॥
मौरंगेशो मंदहासो हयानां दशलक्षकम् ॥
दत्वा भीरुर्नमश्चक्रे प्रद्युम्नाय महात्मने ॥५४॥
इत्थं खंडं भारताख्यं जित्वा कार्ष्णिर्यदूत्तमः ॥
हिमाद्रिं दक्षिणीकृत्य प्रागुदीचीं दिशं ययौ ॥५५॥


यक्षदेशयात्रा

श्रीनारद उवाच -
नदा नद्यः समुद्राश्च रथवीथिं ददुर्नृप ॥
धर्षितास्तेजसा तस्मै ससैन्याय महात्मने ॥१॥
कैलासगिरिपार्श्वे च वरवीरश्च मानुषः ॥
बाणस्य शोणितपुरं प्रययौ यादवेश्वरः ॥२॥
बाणासुरोऽतिसंक्रुद्धो यदून् वीक्ष्यागतान्पुनः ॥
अक्षौहिणीभिर्द्वादशभिर्युद्धं कर्तुं मनो दधे ॥३॥
तदेव साक्षात्पुरुषः पुराणो
     महेश्वरो नंदिवृषस्थितोऽसौ ॥
हिमाद्रिपुत्रीसहितस्त्रिशूली
     समेत्य बाणं नृपमाह देवः ॥४॥
शिव उवाच -
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥
असंख्यब्रह्मांडपतिर्गोलोकेशः परात्परः ॥५॥
त्रयो वयं तत्कला हि ब्रह्मविष्णुशिवादयः ॥
मूर्ध्न्याज्ञां यस्य बिभ्रति त्वादृशानां च का कथा ॥६॥
तस्य पौत्रस्त्वया बद्धोऽनिरुद्धो येन तेजसा ॥
छिन्ना भुजा न जानासि संग्रामे तं हरिः स्वयम् ॥७॥
तस्मात्तेषां दानवानां पूजनीया हरेः सुताः ॥
अनिरुद्धः पूजनीयो जामाता ते न संशयः ॥८॥
न ददामि त्वनुज्ञां ते युद्धायासुरपुंगव ॥
न चेद्युद्धं कुरु बलाद्‍वृथा दृष्टं मनस्तव ॥९॥
श्रीनारद उवाच -
शिवप्रबोधितो बाणोऽनिरुद्धं धन्वीनां वरम् ॥
समाहूय च संपूज्य पारिबर्हं ददौ पुनः ॥१०॥
ससैन्यं सादरेणापि प्रद्युम्नं पूज्य बंधुवत् ॥
गजायुतं चाश्वकोटिं रथानां पंचलक्षकम् ॥११॥
ददौ बाणो महाबाहुः प्रद्युम्नाय महात्मने ॥
अथ कार्ष्णिर्महाराज स्वसैन्यैर्यदुभिः सह ॥१२॥
अलकां प्रययौ धन्वी पुरीम् गुह्यकमंडिताम् ॥
श्रीनंदालकनंदाभ्यां गंगाभ्यां परिखीकृता ॥१३॥
रत्‍नसोपानयुक्ताभ्यां यज्ञभिः परिशोभिताम् ॥
विद्याधरीभिः परितः किन्नरीभिर्मनोहराम् ॥१४॥
दिव्याभिर्नागकन्याभिः पुरीं भोगवतीमिव ॥
धनदो न ददौ तस्मै प्रद्युम्नाय बलिं नृपः ॥१५॥
हरेः प्रभवविदपि विष्णोर्मायाबलं त्वहो ॥
लोकपालोऽस्म्यहं नित्यमित्यज्ञानविमोहितः ॥१६॥
नोदितो बलिभिर्यक्षैर्युद्धं कर्तुं मनो दधे ॥
निर्धनो हि धनं प्राप्य तृणवन्मन्यते जगत् ॥१७॥
नवानां तु निधीनां कौ पतीनां किमु वर्णनम् ॥
तदैव हेममुकुटो दूतो धनदनोदितः ॥
कार्ष्णिमेत्य सभामध्ये नत्वेदं प्राह मानदः ॥१८॥
हेममुकुट उवाच -
धनेश्वरो राजराजो लोकपालोऽलकेश्वरः ॥
तेन यत्कथितं राजञ्छृणु त्वं तद्यदूत्तम ॥१९॥
देवराजो यथा शक्रः स्मृतो दिवी यथा प्रभुः ॥
तथैको राजराजोऽहं कथितो भूतले महान् ॥२०॥
मनुष्यधर्मा राजेद्रैः पूजितोऽहं सदा भुवि ॥
उग्रसेनेन दातव्यं मह्यं सोपायनं परम् ॥२१॥
पराक् तस्मै न दास्यामि यदुराजाय भूभृते ॥
न मन्यसे चेत्संग्रामं करिष्यामि न संशयः ॥२२॥
श्रीनारद उवाच -
एवं दूतवचः श्रुत्वा प्रद्युम्नो भगवान्हरिः ॥
चकार कोपं रक्ताक्षो रुषा प्रस्फुरिताधरः ॥२३॥
प्रद्युम्न उवाच -
वृष्णींद्र राजराजेंद्रं राजराजो न वेत्ति तम् ॥
शक्रादीनां तु यः साक्षान्मुकुटैर्घृष्टपादुकः ॥२४॥
सुधर्मां पारिजातं च तस्मा इंद्रो ददौ भयात् ॥
श्यामवर्णान्हयान्पाशी तस्मै दत्वा ननाम ह ॥२५॥
अनेन राजराजेन भीरुणा निधयो नव ॥
प्राप्तास्तं हि न जानाति राजराजो महाबलम् ॥२६॥
वर्तते तत्सभामध्ये परिपूर्णतमो हरिः ॥
असंख्यब्रह्माण्डपतिः श्रीकृष्णो भगवान्स्वयम् ॥२७॥
यस्यैकमूर्ध्नि तिलकं दृश्यते मंडलं भुवः ॥
उग्रसेनसभामध्ये सोऽपि नित्यं विराजते ॥२८॥
उग्रसेनप्रेषितोऽहं कुबेराय महात्मने ॥
नाराचानां बलिं दातुं तत्करिष्यामि साम्प्रतम् ॥२९॥
श्रीनारद उवाच -
एवमुक्त्वा गृहीत्वा स्वं कोदण्डं चण्डविक्रमः ॥
चकार भुजदण्डाभ्यां टङ्कारं वादयन् गुणम् ॥३०॥
प्रत्यंचास्फोटनेनैव मंडितोऽभूत्तडित्स्वनः ॥
ननाद तेन ब्रह्माण्डं सप्तलोकैर्बिलैः सह ॥३१॥
विचेलुर्दिग्गजास्तारा राजन्भूखंडमंडलम् ॥
निषंगाच्छरमाकृष्य प्रद्युम्नो धन्विनां वरः ॥३२॥
प्रतिशार्ङ्‌गे स्वधनुषि बाणमेकं समादधे ॥
द्वादशादित्यसंकाशं द्योतयन्मंडलं दिशाम् ॥३३॥
चिच्छेद गुह्यकेशस्य बाणं छत्रं च चामरे ॥
तदा क्रुद्धो राजराजो दृष्ट्वा चित्रमिदं महत् ॥३४॥
आरुह्य पुष्पकं सैन्यैर्युद्धकामो विनिर्ययौ ॥
घंटानादेन यक्षेण मंत्रिणा पार्श्वमौलिना॥३५॥
नलकूबरमणिग्रीवौ शुशुभाते ध्वजाग्रतः ॥
तुरंगवदनाः केचिन्मृगेंद्रवदनाः परे ॥३६॥
शिशुमारमुखाः केचित्केचिन्नक्रमुखा इव ॥
अर्द्धपिंगा अर्द्धकृष्णा ऊर्ध्वकेशा मदोत्कटाः ॥३७॥
वक्रदंता ललज्जिह्वा बृहद्दंष्ट्रा महाबलाः ॥
करालास्याः सकवचाः खड्गचर्मधराः पराः ॥३८॥
शक्तिहस्ता ऋष्टिहस्ता भुशुंडिपरिघायुधाः ।
धनुर्बाणधरा यक्षाः केचित्परशुपाणयः ॥३९॥
यक्षाणां हस्तिवाहानां रथिनामश्विनां तथा ॥
विरेजुर्निर्गतानां च मंडलानि सहस्रशः ॥४०॥
शंखदुन्दुभिनादैश्च सूतमागधवन्दिभिः ॥
रेजिरे श्रीदवीराः कौ मेघा इव तडित्स्वनैः ॥४१॥
एवं यक्षेषु मत्तेषु कोटिशो निर्गतेषु च ॥
दिव्यान्महायोगमयात्सिद्धक्षेत्राद्विदेहराट् ॥४२॥
आययौ तत्सहायार्थं प्रमथानां बलं महत् ॥
भूताश्च प्रमथाः केचित्करालास्या मदोत्कटाः ॥४३॥
डाकिन्यो यातुधानाश्च वेतालाः सविनायकाः ॥
कूष्मांडोन्मादसंयुक्ताः प्रेता मातृगणाः परे ॥४४॥
निशाचरपिशाचाश्च ब्रह्मराक्षभैरवाः ॥
नदंतो भैरवं नादं छिंधि भिंधीति वादिनः ॥४५॥
इत्थं तु भूतावलयः कोटिशश्चाययुस्तदा ॥
रोदस्याच्छादिते भूता मेघैः सांवर्तकैरिव ॥४६॥
मयूरस्थः कार्तिकेयो मूषकस्थो गणेश्वरः ॥
प्रमथैर्गीयमानौ तौ ढक्कावादित्रनिःस्वनैः ॥४७॥
सर्वेषामग्रतः प्राप्तौ वीरभद्रेण संयुतौ ॥
इत्थं पुण्यजनानां तु गणानां यदुभिः सह ॥४८॥
बभूव तुमुलं युद्धमद्‌भुतं रोमहर्षणम् ॥
रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः ॥४९॥
हया हयैरिभाश्चेभैर्युयुधुस्ते परस्परम् ॥
रथेभाश्वपदातीनां चरणैरुत्थितं रजः ॥५०॥
छादयामास राजेंद्र ससूर्यं व्योममंडलम् ॥५१॥


यक्ष-युद्धम्

श्रीनारद उवाच -
शस्त्रांधकारे संजाते मणिग्रीवो महाबलः ॥
बिभेदारिबलं बाणैः कुवाक्यैर्मित्रतामिव ॥१॥
मणिग्रीवस्य बाणौघैर्गजाश्वरथपत्तयः ॥
निपेतुः सक्षता भूमौ वृक्षा वातहता इव ॥२॥
चंद्रभानुर्हरेः पुत्रो सत्यभामाऽऽत्मजो बली ॥
मणिग्रीवस्य कोदंडं पंचबाणैस्तदाच्छिनत् ॥३॥
दशभीस्तद्‌रथं भित्वा जगर्ज घनवद्‌बली ॥
मणिग्रीवोऽपि चिक्षेप शक्तिं स्वां चन्द्रभानवे ॥४॥
भासयंती दिशः शश्वन्महोल्कामिव मैथिल ॥
अग्रहीच्चंद्रभानुस्तां वामहस्तेन लीलया ॥५॥
तया जघान समरे मणिग्रीवं महाबलम् ॥
पुनर्जगर्ज समरे चंद्रभानुर्महाबलः ॥ ६॥
तत्प्रहारेण पतिते मणिग्रीवे प्रमूर्छिते ॥
चन्द्रभानुं बाणजालैर्नलकूबरनोदिताः ॥७॥
छादयामासुरसुरा वर्षादित्यं यथांबुदाः ॥
दीप्तिमान्कृष्णपुत्रस्तु खड्गमुद्यम्य वेगवान् ॥८॥
विवेश यक्षसेनासु नीहारेषु यथा रविः ॥
तस्य खड्गप्रहारेण केचिद्यक्षा द्विधाभवन् ॥९॥
केचिद्वै छिन्नशिरसश्छिन्नपादांसबाहवः ॥
भिन्नहस्ताश्छिन्नकर्णाश्छिन्नोष्ठाः पेतुराहवे ॥१०॥
तेषां शिरोभिर्बीभत्सैः सकिरीटैः सकुंडलैः ॥
सशिरस्त्रैः स्रवद्‌रक्तैर्महामारीव भूर्बभौ ॥११॥
शेषा विदुद्रुवुर्यक्षाः सक्षता भयविह्वलाः ॥
हाहाकारस्तदा जातो यक्षसेनासु मैथिल ॥१२॥
धनुष्टंकारयन्प्राप्तो दंशितो नलकूबरः ॥
रथेनातिपताकेन मा भैष्टेत्यभयं ददौ ॥१३॥
पंचभिः कृतवर्माणमर्जुनं दशभिः शरैः ॥
दीप्तिमंतं च विंशत्या तताड नलकूबरः ॥१४॥
कृतवर्मा महाबाहुर्जघान नलकूबरम् ॥
पंचभिर्विशिखै राजन्नादयन्मंडलं दिशाम् ॥१५॥
ते बाणाः कवचं भित्वा तनुं भित्वा धरातलम् ॥
विविशुः पश्यतां तेषां वल्मीके फणिनो यथा ॥१६॥
वीक्ष्य तद्‌बाणभिन्नांगं मूर्च्छितं नलकूबरं ॥
अपोवाह रणात्सूतो हेममालीति नामभाक् ॥१७॥
घंटानादः पार्श्वमौलिः कुबेरस्य च मंत्रिणौ ॥
जघ्नतुर्बाणपटलैर्यदूनामुद्‌भटं बलम् ॥१८॥
स्वर्णपुंखैस्तीक्ष्णमुखैर्गृध्रपक्षैर्मनोजवैः ॥
द्योतयद्‌भिर्दिशः सर्वा मार्तंडकिरणैरिव ॥१९॥
ततोऽर्जुनो महावीरः प्रतिबाणान्समादधे ॥
बाणसंघर्षजा युद्धे विस्फुलिंगा सहस्रशः ॥२०॥
विरेजुर्नृप खद्योतचंचलालातचक्रवत् ॥
सर्वं तद्‌बाणपटलं क्षणमात्रेण चाच्छिनत् ॥२१॥
गांडीवमुक्तविशिखैर्गांडीवी रणदुर्मदः ॥
योजनद्वयमात्रेण तद्‌रथो सध्वजो बलात् ॥२२॥
अर्जुनो बाणपटलैश्चकार शरपंजरे ॥
हताविमाविति ज्ञात्वा सर्वे पुण्यजनास्त्वरम् ॥२३॥
दुद्रुवुः स्वं रणं त्यक्त्वा परं हाहेति वादिनः ॥
तदा तु भूतावलयः कोटिशश्चाययुर्मृधे ॥२४॥
डाकिन्यः कोटिशो राजंश्चिक्षिपुर्वारणान्मृधे ॥
भक्षयंत्यो नरानश्वाँश्चर्वयंत्यो रथान्पृथक् ॥२५॥
नरे नरे पृथग्भूता धावंतो दशभिर्दश ॥
प्रमथाः पातयामासुः खट्वांगेन जनान्मुहुः ॥२६॥
यातुधानाश्चर्वयन्तः शिरांसि रणमंडले ॥
वेतालाश्च कपालेन पिबंतो रुधिरं बहु ॥२७॥
विनायकाश्च नृत्यंतः प्रेता गायंत एव हि ॥
कूष्मांडाश्च तथोन्मादाः शिरांसि जगृहुर्मृधे ॥२८॥
शिवस्य मुंडमालार्थं वीराणां स्वर्गगामिनाम् ॥
तथा मातृगणा ब्रह्मराक्षसा भैरवा मृधे ॥२९॥
शिरांसि कंदुकानीव क्षेपयंतो मुहुर्मुहुः ॥
हसंतः प्रहसंतश्च साट्टहासं समाकुलाः ॥३०॥
पिशाचा विकलास्याश्च कूर्दन्तः केऽपि कुत्सितम् ॥
पिशाच्यः क्षतजं तूष्णं पाययंत्यः शिशून्मृधे ॥३१॥
मा रोदीरिति वादिन्यो नेत्राण्यपि ददाम उत् ॥
इत्थं गणबलं दृष्ट्वा बलदेवानुजो बली ॥३२॥
गदो गदां समादाय जगर्ज घनवद्‌बली ॥
लक्षभारभृता मौर्व्या गदया तद्‌बलं महत् ॥३३॥
पोथयामास हि गदो वज्रेणेंद्रो यथा गिरीन् ॥
कूष्मांडोन्मादवेतालाः पिशाचा ब्रह्मराक्षसाः ॥३४॥
निपेतुर्मूर्छिता भूमौ तद्‌गदाभिन्नमस्तकाः ॥
डाकिनीभिन्नदंताश्च प्रमथाभिन्नकंधराः ॥३५॥
यातुधानांश्छिन्नमुखांश्चकार समरे गदः ॥
गदया मर्दिताः प्रेता दुद्रुवुस्ते दिशो दश ॥३६॥
वाराहदंष्ट्रया भग्ना लये दैत्या यथा नृप ॥
पलायिते भूतगणे वीरभद्रः समागतः ॥३७॥
गदं तताड गदया बलदेवानुजं बली ॥
गदोपरि गदां नीत्वा गदः स्वां प्राहीणोद्‌गदाम् ॥३८॥
तयोर्युद्धमभूद्‌घोरं गदाभ्यां मैथिलेश्वर ॥
विस्फुलिंगान् क्षरंत्यो द्वे गदे चूर्णिबभूवतुः ॥३९॥
मल्लयुद्धं तयोरासीन्नोदयंतं परस्परम् ॥
भुजैश्च जानुभिः पादैः पातयंतो गिरीन् बहून् ॥४०॥
करवीरं समुत्पाट्य वीरभद्रो गिरिं बलात् ॥
अट्टहासं तदा कुर्वन् गदोपरि समक्षिपत् ॥४१॥
गदो गिरिं संगृहीत्वा तस्योपरि समाक्षिपत् ॥
गृहीत्वाथ गदं वीरं वीरभद्रो बलाद्‌बली ॥४२॥
चिक्षेप चौजसा राजन्नाकाशे लक्षयोजनम् ॥
गदोऽपि पतितो भूमौ किंचिद्व्याकुलमानसः ॥४३॥
गृहीत्वा वीरभद्राख्यं भ्रामयित्वा महाबलः ॥
ओजसा प्राक्षिपच्छीघ्रमाकाशे लक्षयोजनम् ॥४४॥
वीरभद्रस्तु पतितः कैलासशिखरोपरि ॥
गदाप्रहारव्यथितो मूर्छितो घटिकाद्वयम् ॥४५॥
कार्तिकेयस्तदा प्राप्तः शक्तिमुद्यम्य वेगवान् ॥
अनिरुद्धाय सांबाय शक्तिं चिक्षेप सत्वरम् ॥४६॥
अनिरुद्धरथं भित्वा सांबं सांबरथं पुनः ॥
गजान् रथान्सहस्रं च वीरलक्षं मृधांगणे ॥४७॥
भित्वा नदंती स्फूर्जंती चपलेव दीशो दश ॥
विवेश भूमौ फूत्कारं कुर्वती पन्नगीव सा ॥४८॥
तदा क्रुद्धो महाबाहुः सांबो जाम्बवतीसुतः ॥
कृत्वाथ सिंजिनीघोषं निषंगाद्‌बाणमाददे ॥४९॥
एकोऽपि सद्‍बहिस्तूणाद्दशरूपी बभूव ह ॥
चापे शतं कर्षणे च सहस्रं रूपमादधे ॥५०॥
मोक्षणे लक्षरूपाणि कोटिरूपाणि कोटिषु ॥
अनेकरूपी विशिखः शिखिनं शिखिवाहनम् ॥५१॥
भित्वा बिभेद वीराणां कोटिशः कोटिशो रणे ॥
कार्तिकेये च भिन्नांगे किंचिद्व्याकुलमानसे ॥
गणेश्वरस्तदा प्राप्तो मूषकस्थो गजाननः ॥५२॥
गोमूत्रपत्रमृगनाभिविचित्रकुंभं
     श्रीकुंकुमाकलितसुंदरवक्रतुंडम् ॥
सिंदूरपूरितकपोलमनोहराभं
     कर्पूरधूलिधवलीकृतकर्णवर्णम् ॥५३॥
व्यालोलकर्णहतमत्तमधुव्रतैस्तैः
     श्रीगंडजातमदिरामदविह्वलांगै ॥
संगीततालकुसुमाकरगीतरागैः
     संसेवितं गणपतिं कृतभालचंद्रम् ॥५४॥
बालार्कवर्णममलांगदहेमहार-
     ग्रैवेयमौलिकिरणैः परितः स्फुरंतम् ॥
आखुस्थमेकदशनं गजभव्यमूर्तिं
     पाशांकुशांबुजकुठारचयं दधानम् ॥५५॥
प्रांशुं चतुर्भुजमतीव मृधे प्रवृत्तं
     कांश्चित्प्रगृह्य च करेण धृतांकुशेन ॥
संमर्दयंतमुरुधारपरश्वधेन
     श्रीभार्गवेन्द्रमिव शस्त्रभृतः समस्तान् ॥५६॥
वीरेभवाजिरथसंघबलं निपात्य
     सांबं प्रगृह्य सरथं प्रधनात्क्षिपंतम् ॥
तं वीक्ष्य विस्मितमनाः सगणोऽथ कार्ष्णिः
     पुत्रं सुबुद्धिमनिरुद्धमुवाच सम्यक् ॥५७॥


                " यक्षविजयम्

              प्रद्युम्न उवाच -
श्रीकृष्णस्य कला साक्षाद्‌गणेशोऽयं महाबलः ॥
जेतुं न शक्यो दिविजैर्मनुष्यैस्तु कुतो भुवि ॥१॥
वर्तते यस्य निकटे तस्य नास्ति पराजयः ॥
श्रीकृष्णेन वरो दत्तः पुरास्मै शंकरालये ॥२॥
यद्ययं वर्तते चात्र तदा न स्याज्जयश्च नः ॥
शत्रुपक्षगतोऽ‍यं वै श्रीकृष्णस्य वरोर्जितः ॥३॥
तस्मात्त्वं चंडमार्जरो भूत्वा तं युद्धतो बलात् ॥
विद्रावय महाबुद्धे फूत्कारैश्च दिशौ दश ॥४॥
यावद्‌बलं विजेष्यामि तावदद्विद्रावय त्वरम् ॥
श्रीनारद उवाच -
अथानिरुद्धो भगवांश्चंडमार्जाररूपधृक् ॥५॥
अलक्षितो गणेशेन न ज्ञातो विष्णुमायया ॥
फूत्कारमुत्कटं कुर्वन् संपपाताखुसंमुखे ॥६॥
विदारयन्मुखं राजन्सततं नखरैः खरैः ॥
वीशेषण सहैवाखुर्दृष्ट्वाऽऽशु भयविह्वलः ॥ ७॥
दुद्राव त्वरितं राजन् कंपितो रणमंडलात् ॥
तमन्वगच्छत्कुपितो मार्जारः स्थूलरूपधृक् ॥८॥
मूषकं स्वमपोवाह गणेशोऽपि मुहुर्मुहुः ॥
नाययौ स्वं रणं चाखुश्चंडमार्जारपीडितः ॥९॥
सप्तद्वीपान्सप्तसिंधून् दिशासु विदिशासु च ॥
धावन् वै सप्तलोकेषु न लेभे शर्म मैथिल ॥१०॥
यत्र यत्र गतश्चाखुर्गणेशेन समन्वितः ॥
तत्र तत्र गतो राजन् मार्जारश्चंडविक्रमः ॥११॥
एवं समूषके याते गणेशे विदिशोत्तरम् ॥
विस्मितेषु सपक्षेषु गणेषु प्रमथेषु च ॥१२॥
पुष्पकस्थः कुबेरोऽसौ मायां चक्रेऽथ गौह्यकीम् ॥
गृहीत्वा स्वधनुर्दिव्यं नमस्कृत्य महेश्वरम् ॥१३॥
समंत्रं कवचं धृत्वा बाणसंघं समादधे ॥
तदैव छादितं व्योम मेघैः सांवर्तकैरिव ॥१४॥
तडित्स्वनैर्महाभीमैस्तमोऽभूत्स्तनयित्‍नुभिः ॥
बिंदवो हस्तिसदृशा निपेतुः सोपला मृधे ॥१५॥
धाराभिरतिघोराभिर्ववृषुर्वारिदास्ततः ॥
क्षणेन सिंधवः सर्वे प्लावयंतो धरातलम् ॥१६॥
पर्वतैर्जीवसहितैर्दृश्यन्ते रणमंडले ॥
प्राकृताः प्रलयं मत्वा यादवा भयविह्वलाः ॥१७॥
त्यक्त्त्वा शस्त्राणि तेऽथोचुः श्रीकृष्णेति मुहुर्मुहुः ॥
ज्ञात्वा तां गौह्यकीं मायां प्रद्युम्नो भगवान्हरिः ॥१८॥
सत्वात्मिकां च स्वां विद्यां सर्वमायोपमर्दिनीम् ॥
जप्त्वा कृत्वा कामबीजं बाणमध्ये निधाय तत् ॥१९॥
मुखे च प्रणवं धृत्वा पुंखे श्रीबीजमेव च ॥
आकृष्य कर्णपर्यन्तं कृष्णं स्मृत्वा चतुर्भुजम् ॥२०॥
चिक्षेप विशिखं चापाद्दोर्दंडाभ्यां तडित्स्वनात् ॥
कोदंडमुक्तो विशिखो द्योतयन्मंडलं दिशाम् ॥२१॥
जघान गौह्यकीं मायामंधकारं यथा रविः ॥
भयभीतो राजराजो पुष्पकस्थो रणांगणात् ॥२२॥
पलायमानो यक्षैश्च कंपितः स्वपुरीं ययौ ॥
प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥२३॥
जहसुर्यादवाः सर्वे जयारावसमाकुलाः ॥
तदातिहर्षितो राजन् राजराजः कृतांजलिः ॥२४॥
बलिं नीत्वा ययौ शीघ्रं प्रद्युम्नस्यापि संमुखे ॥
गजेंद्राणां द्विलक्षं च द्विशुंडादंडशालिनाम् ॥२५॥
दद्‌भिश्चतुर्भिर्युक्तानामद्रीन्स्पर्धयतां मदैः ॥
दशलक्षं रथानां च मुक्तातोरणशालिनाम् ॥२६॥
शताश्वयोजितानां च रौक्माणां सूर्यवर्चसाम् ॥
दशार्बुदं तथा राजन्हयानां चन्द्रवर्चसाम् ॥२७॥
शिबिकानां चतुर्लक्षं माणिक्यैरग्रवर्चसाम् ॥
पंजरस्थायिनां राजञ्छार्दूलानां द्विलक्षकम् ॥२८॥
चित्रकाणां मृगाणां च गवयानां तथैव च ॥
मृगयासारमेयानां कोटिकोटिर्विदेहराट् ॥२९॥
शुकानां सारिकाणां च कलकंठप्रवादिनाम् ॥
हंसानां स्वर्णवर्णानामन्येषां चित्रपक्षिणाम् ॥३०॥
पंजरस्थायिनां राजँल्लक्षं लक्षं नृपेश्वर ॥
विमानं विष्णुदत्ताख्यं मुक्तादामविलंबितम् ॥३१॥
अष्टयोजनमुच्चांगं नवयोजनविस्तृतम् ॥
लक्षकुंभध्वजोपेतं निर्मितं विश्वकर्माणा ॥३२॥
कामगं स्वर्णशिखरं सहस्रादित्यसुप्रभम् ॥
सहस्रं कुलवृक्षाणां कामधेनुशतं तथा ॥३३॥
चिंतामणीनां च शतं शतं दिव्याश्मनां तथा ॥
यत्स्पर्शेनापि लोहस्तु हेमत्वं याति मैथिल ॥३४॥
छत्राणां चामराणां च हेमसिंहासनं शतम् ॥
तथाहि दिव्यपद्मानां मालांकिंजल्किनीं शुभाम् ॥३५॥
पीयूषस्य शतं द्रोणं फलानि विविधानि च ॥
खचिद्‌रत्‍नसुवर्णानां भूषणानां तु वाससाम् ॥३६॥
दिव्यानां कंबलानां च कोटीशः पात्रसंचयम् ॥
अमोघानां च शस्त्राणां कोटिसौवर्णशालिनाम् ॥३७॥
गजैर्नरैर्भारवाहैः प्रेरिता निधयो नव ॥
दत्त्वा बलिं राजराजः प्रद्युम्नाय महात्मने ॥३८॥
दक्षिणीकृत्य तं नत्वा प्राहेदं हर्षपूरितः ॥
कुबेर उवाच -
नमस्तुभ्यं भगवते पुरुषाय महात्मने ॥३९॥
अनादये सर्वविदे निर्गुणाय महात्मने ॥
प्रधानपुरुषेशाय प्रत्यग्धाम्ने नमो नमः ॥४०॥
स्वयंज्योतिःस्वरूपाय श्यामलांगाय ते नमः ॥
नमस्ते वासुदेवाय नमः संकर्षणाय च ॥४१॥
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥
मदनाय च माराय कंदर्पाय नमो नमः ॥४२॥
दर्पकाय च कामाय पंचबाणाय ते नमः ॥
अनंगाय नमस्तुभ्यं नमस्ते शम्बरारये ॥४३॥
हे मन्मथ नमस्तुभ्यं नमस्ते मीनकेतन ॥
मनोभवाय देवाय नमस्ते कुसुमेषवे ॥४४॥
अनन्यज नमस्तेऽस्तु रतिभर्त्रे नमो नमः ॥
नमस्ते पुष्पधनुषे मकरध्वज ते नमः ॥४५॥
स्मराय प्रभवे नित्यं जगद्विजयकारिणे ॥
नमो रुक्मवतीभर्त्रे सुंदरीपतये नमः ॥४६॥
इदं करिष्यामि करोमि भूम-
     न्ममेदमस्तीति तवेदमाब्रुवन् ॥
अहं सुखी दुःखयुतः सुहृज्जनो
     लोको ह्यहंकारविमोहितोऽखिलः ॥४७॥
प्रधानकालाशयदेहजैर्गुणैः
     कुर्वन् विकर्माणि जनो निबद्ध्यते ॥
काचेऽर्भकं सैकत एव जीवनं
     गुणे च सर्पं प्रतनोति सोऽक्षिभिः ॥४८॥
कृतं मया हेलनमद्य मौढ्य-
     तस्त्वन्मायया मोहितचेतसा प्रभो ॥
न मन्यसे बालकृतं पितेव हि
     माभूत्पुनर्मे मतिरीदृशी मनाक् ॥४९॥
सदा भवेत्त्वच्चरणारविंदयो-
     र्भक्तिं परां यां च विदुर्गरीयसीम् ॥
ज्ञानं च वैराग्ययुतं शिवास्पदं
     देहि प्रशस्तं निजसाधुसंगमम् ॥५०॥
श्रीनारद उवाच -
प्रद्युम्नस्य शुभं स्तोत्रं प्रातरुत्थाय यः पठेत् ॥
संकटे तस्य सततं सहायः स्याद्धरिः स्वयम् ॥५१॥
इत्युक्तवंतं यक्षेशं प्रद्युम्नो भगवान्हरिः ॥
तथास्तूक्त्वा ददौ राजन्पद्मरागशिरोमणिम् ॥५२॥
मा भैष्टेत्यभयं दत्वा लीलाछत्रं सचामरम् ॥
सिंहासनं मणिमयं प्रादाच्छ्रीयादवेश्वरः ॥५३॥
कार्ष्णिं प्रदक्षिणीकृत्य राजराजो धनेश्वरः ॥
जितं श्रुत्वा राजराजं प्रद्युम्नेन महात्मना ॥५४॥
न केऽपि युयुधुस्तेन राजानश्च बलिं ददुः ॥
अथ कार्ष्णिर्महाबाहु-र्नादयन्दुन्दुभीन्बहून् ॥५५॥
समस्तवाहिनीयुक्तः प्राग्ज्योतिषपुरं ययौ ॥
भौमासुरसुतो नीलो धर्षितस्तस्य तेजसा ॥५६॥
सद्यस्तस्मै बलिं प्रादात्प्रद्युम्नाय महात्मने ॥
प्राग्ज्योतिषपुरद्वारि द्विविदो नाम वानरः ॥५७॥
पुरा प्रद्युम्नबाणेन ताडितो यो महाबलः ॥
समुत्थाय रुषाविष्टो दशनैर्नखरैः खरैः ॥५८॥
विदार्य वीरानश्वांश्च भ्रूभंगैः प्रजगर्ज ह ॥
लांगूलेन रथान्बद्ध्वा प्राक्षिपल्लवणांभसि ॥ ५९॥
गृहीत्वा स गजान्दोर्भ्यां विचिक्षेपांबरे बलात् ॥
शत्रुं ज्ञात्वा कपिं कार्ष्णिः प्रतिशार्ङ्‌गे शरं दधे ॥६०॥
नीत्वा शरस्तं सहसा भ्रामयित्वांबरे बलात् ॥
पूर्ववत्पातयामास किष्किंधायां महाकपिम् ॥६१॥
पुनरागतवान्बाणः प्रद्युम्नस्येषुधौ स्फुरन् ॥६२॥


किंपुरुषखण्ड विजयम्

श्रीनारद उवाच -
अथ कार्ष्णिं परान्देशान्दिव्यद्रुमलताकुलान् ॥
सहस्रपत्रवद्‌भिश्च सरोभिः शोभितान् ययौ ॥१॥
अक्षौहीणीशतयुतः प्रद्युम्नश्चण्डविक्रमः ॥
यक्षैर्दिष्टेन मार्गेण खण्डं किंपुरुषं ययौ ॥२॥
रंगवल्लीपुरं यत्र हेमकूटगिरेरधः ॥
तस्य किंपुरुषा उचुः शंबरारेश्च शृण्वतः ॥३॥
किंपुरुषा ऊचुः -
अहोऽतिधन्या मथुरापुरी वरा
     बभूव यस्यां परमेश्वरो हरिः ॥
अहोऽतिधन्यं सततं यदोः कुलं
     जातो हि यस्मिन्नखिलांडपालकः ॥४॥
धन्यं च तच्छूरसुतस्य मन्दिरं
     गोलोकनाथेन मनोहरं कृतम् ॥
धन्यं परं माथुरमंडलं सुरैः
     सुदुर्लभं यत्र चचार माधवः ॥५॥
महावनं धन्यतमं मनोहरं
     पितुर्गृहाद्यत्र गतो हरिः शिशुः ॥
चचार कृष्णः शिशुना बलेन हि
     यशोदया दुग्धमुखः सुलालितः ॥६॥
वृंदावनं पुण्यतमं परात्पर-
     श्रीकृष्णपादांबुजरेणुराजितम् ॥
गाः पालयन् यत्र चचार बलो
     गोपालबालैः सबलः स्वयं हरिः ॥७॥
यो दानलीलां किल मानलीलां
     श्रीरासलीलां व्रजसुन्दरीभिः ॥
वृन्दावने यत्र चचार कृष्णो
     यस्यापि गायन्ति यशस्त्रिलोकाः ॥८॥
अहोऽतिधन्या वृषभानुनंदिनी
     लीलावती सा निजलोकशालिनी ॥
चचार कृष्णेन कलिन्दनन्दिनी-
     तटे मिलिन्दध्वनिसंकुले वने ॥९॥
अहोऽतिधन्याऽस्ति कलिन्दनंदिनी
     श्रीकृष्णवामांससमुद्‌भवा या ॥
तटे मिलिन्दध्वनिसंकुले वटे
     तत्स्पर्शनाद्याति नरः कृतार्थताम् ॥१०॥
समुद्‌भवो यो हरिवक्षसो गिरि-
     र्गोवर्द्धनो नाम गिरींद्रराजराट् ॥
विराजते स व्रजमंडले परो
     यद्दर्शनाञ्जन्म पुनर्न विद्यते ॥११॥
अहोऽतिधन्या यदुमण्डलीभि-
     र्विराजते भूमितले मनोहरा ॥
वैकुण्ठलीलाधिकृता कुशस्थली
     यथा तडिद्‌भिर्जलदावलिर्दिवि ॥१२॥
यत्रैव साक्षात्पुरुषः परेश्वरो
     धृत्वा चतुर्व्यूहमलं विराजते ॥
यस्तूग्रसेनाय ददौ नृपेशतां
     कृष्णाय तस्मै हरये नमो नमः ॥१३॥
प्रणोदितस्तेन नृपेण धीमता
     जगद्विजेतुं मकरध्वजो महान् ॥
कृत्वाथ तद्दर्शनमद्य दुर्लभं
     वयं कृतार्था हि भवेम सर्वतः ॥१४॥
श्रीनारद उवाच -
इत्थं हरिर्नृपयशो विशदैश्चरित्रै-
     रुद्यत्त्रिलोकमलं विशदीचकार ॥
पूर्णेंदुरश्मिमिलितैस्तरलैः स्फुरद्‌भिः
     प्रोद्यद्‌भिरुद्‌गज इवामलसिंधुदुग्धम् ॥१५॥
इत्थं यशः स्वममलं नृप शंबरारिः
     श्रुत्वातिहर्षिततनुः प्रददौ धनानि ॥
केयुरहारनवरत्‍नमनोहराणि
     तेभ्यः किरीटमणिकुण्डलकंकणानि ॥१६॥
रङ्गवल्लीपुराधीशः सुबाहुश्चन्द्रवंशजः ॥
नत्वा बलिं ददौ सोऽपि प्रद्युम्नाय महात्मने ॥१७॥
तस्मै प्रसन्नो भगवान् प्रद्युम्नो मीनकेतनः ॥
दत्वा चूडामणिं दिव्यं पप्रच्छेदं महामनाः ॥१८॥
श्रीप्रद्युम्न उवाच -
रङ्गवल्लीपुरस्यापि नाम केन प्रकाशितम् ॥
एतद्‍ब्रूहि सुबाहो मे श्रुतं पूर्वं त्वया किल ॥१९॥
सुबाहुरुवाच -
देवासुरैः पुरा राजन्मथितः क्षीरसागरः ॥
विनिर्गतानि मथनाद्‌रत्‍नानि च चतुर्दश ॥२०॥
निःसृतं कलशं तस्मात्सुधापूर्णं मनोहरम् ॥
तं ददर्श हरिः साक्षान्नेत्राभ्यां पुष्करेक्षणः ॥२१॥
तन्नेत्रहर्षबिन्दुश्च कलशे निपपात ह ॥
तस्माद्‍वृक्षः समुद्‍भुतस्तुलसीति प्रकथ्यते ॥२२॥
रङ्गवल्लीति तन्नाम चकार मधुसूदनः ॥
अत्र किंपुरुषे खंडे हेमकूटगिरेरधः ॥२३॥
तस्याश्च रङ्गवल्याः कौ स्थापनां स चकार ह ॥
रङ्गवल्लीमहावृक्षः सदात्रैव विराजते ॥२४॥
तन्नाम्ना प्रसिद्धमभूद्‌रंगवल्लीपुरं त्विदम् ॥
अत्र नित्यं हि हनुमानार्ष्टिषेणेन रागिणा ॥२५॥
दर्शनार्थं समायाति महात्मा रामपूजकः ॥
श्रीनारद उवाच -
इति श्रुत्वा शम्बरारी रङ्गवल्लीं मनोहरम् ॥२६॥
दृष्ट्वा प्रदक्षिणीकृत्य देशानन्याञ्जगाम ह ॥
हेमकूटतटीभूतं वनं प्राप्तं भयङ्करम् ॥२७॥
झिल्लीझंकारसंयुक्तं सिंहचित्रकनादितम् ॥
वन्यैः करींद्रैः संयुक्तं शिवोलूकरुतावृतम् ॥२८॥
कीचकाश्वत्थमन्दार-वटभूर्जसमाकुलम् ॥
कृष्णाहरीतकीवल्ली-बदरैः सघनं वनम् ॥२९॥
तस्माद्विनिर्गतः सर्पो दशयोजनलंबितः ॥
अग्रसद्‌गजवृंदानि फूत्कारं कारयन्मुहुः ॥३०॥
हाहाकारे तदा जाते सेनायां मैथिलेश्वर ॥
प्रचंडगरलैर्वातैर्भस्मीभूते दिशांतरे ॥३१॥
भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा ॥
चंद्रभानुर्बृहद्‌भानुरतिभानुस्तथाऽष्टमः ॥३२॥
श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश ॥
एते जघ्नुः शरैस्तीक्ष्णैः सर्पं रौद्रं मदोत्कटम् ॥३३॥
बाणैः संभिन्नसर्वांगः पतितो धरणीतले ॥
सर्परूपं विहायाशु गंधर्वोऽभूत्स्फुरद्द्युति ॥३४॥
नत्वा श्रीकृष्णपुत्रांस्तान् द्योतयन् मंडलं दिशाम् ॥
पुष्पैर्वर्षत्सु देवेषु विमानेन दिवं ययौ ॥३५॥
बहुलाश्व उवाच -
गंधर्वोऽयं तु कः पूर्वं केन पापेन सर्पताम् ॥
प्राप्तः कथं वद मुने त्वं परावरवित्तमः ॥३६॥
श्रीनारद उवाच -
आर्ष्टिषेणस्य यो भ्राता सुमतिर्नाम सुन्दरः ॥
रामायणं हनुमता पठितुं स समागतः ॥३७॥
हेमकूटे हनुमतः कुर्वतो रामसेवनम् ॥
प्रातःकालात्समारभ्य घटिकाश्च चतुर्दश ॥३८॥
सलक्ष्मणं रामचंद्रं ध्यायतो जानकीपतिम् ॥
फूत्कारैः सर्पवत्तस्य ध्यानभंगं चकार ह ॥३९॥
तदा क्रुद्धो महावीरो हनुमान् वानरेश्वरः ॥
शापं ददौ सुमतये त्वं सर्पो भव दुर्मते ॥ ४०॥
तदैव तस्य चरणौ नत्वा प्राह कृतांजलिः ॥
हे देव पाहि पाहीति दीनं मां शरणं गतम् ॥४१॥
अथ प्रसन्नो भगवान्सुमतिं प्राह धर्मवित् ॥
द्वापारांते शरैस्तीक्ष्णैर्हरिपुत्रधनुश्च्युतैः ॥
भिन्नदेहः स्वां प्रकृतिं यास्यसि त्वं न संशयः ॥४२॥
गंधर्वः सुमतिर्नाम विमुक्तोऽभूद्‌विदेहराट् ॥
सतां शापोऽपि वरवद्‌वरो मोक्षार्थदः किमु ॥४३॥
अथ कार्ष्णिर्महाबाहुश्चैत्रदेशान्मनोहरान् ॥
वसन्तमाधवीवृंदैः शोभीतान्स जगाम ह ॥४४॥
सहस्रदलपद्मानां षट्‍पदध्वनिशालिनाम् ॥
पतन्ति रेणवो यत्र सरःस्वाबीरचूर्णवत् ॥४५॥
एलालवंगलतिका क्षुण्णाः सैन्याङ्‌घ्रिभिः पथि ॥
तेन भृङ्गावली रेजे करिकर्णप्रताडिता ॥४६॥
यत्र वै पुरुषा राजन्नागायुतसमा बले ॥
वलीपलितदौर्गंध्यस्वेदक्लमविवर्जिताः ॥४७॥
त्रेतायुगसमाः कालो वर्तते यत्र नित्यशः ॥
आयुश्चायुतवर्षाणां दिव्यौषधिनदीगुणैः ॥४८॥
पीयूषतुल्यं तोयं च हेमभूमिर्विराजते ॥
मुक्ताविद्रुमवैडूर्य-रत्‍नोत्पत्तिश्च यत्र वै ॥४९॥
सुंदर्यः प्रमदा रामा नित्ययौवनभूषिताः ॥
स्फुरंत्युपवनेष्वारात्सौदामिन्यो घनेष्विव ॥५०॥
यत्र वै नगरी रम्या वसंततिलका शुभा ॥
शृङ्‌गारतिलको नाम राजा यत्र महाबलः ॥५१॥
जैत्रान् वीरान् समाहूय गजमारुह्य दंशितः ॥
योद्धुं विनिर्ययौ यश्च प्रद्युम्नस्यापि संमुखे ॥५२॥
सांबः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् ॥
विजयश्चित्रकेतुश्च वसुमान्द्रविडः क्रतुः ॥५३॥
जांबवत्याः सुता ह्येते चक्रुर्नाराचदुर्दिनम् ॥
पलायितेषु चैतेषु बाणैर्भिन्नेषु मैथिल ॥५४॥
बाणांधकारे संजाते महान्कोलाहलो ह्यभूत् ॥
तदा शृङ्गारतिलको गजारूढो महाबलः ॥५५॥
त्रिशूलेन तद साम्बं हृदि विव्याध रोषतः ।
अन्यान्संपातयामास शरैः कोदंडनिर्गतैः ॥५६॥
एकाकी विचरन् युद्धे वने वैश्वानरो यथा ॥
तदा गदः समागत्य तद्‌गजं सुमदोत्कटम् ॥५७॥
शुंडादंडे संगृहीत्वा पातयामास भूतले ॥
दूरे प्रपतितः शीघ्रं शृङ्गारतिलको नृपः ॥५८॥
सद्यो भयातुरो भूत्वा युद्धे बद्धांजलिः स्वतः ॥
तुरंगाणामर्बुदं च रथानां लक्षमेव च ॥५९॥
गजानामयुतं राजा प्रद्युम्नाय बलिं ददौ ॥
इत्थं किंपुरुषं खंडं जित्वा कार्ष्णिर्महाबलः ॥६०॥
निषाददर्शितैर्मार्गैर्हरिवर्षं ततो ययौ ॥६१॥


            दशार्णदेशविजयम्

            श्रीनारद उवाच -
हरिवर्षं नाम खण्डं सर्वसंपत्तिसंयुतम् ॥
तस्य सीमागिरिः साक्षान्निषधो नाम मैथिल ॥१॥
वीरकोदंडटंकारघोषैर्व्याप्तवनांतरात् ॥
उड्डीतास्तु महागृध्राः क्रोशमात्रवपुर्धराः ॥२॥
तीक्ष्णतुंडाः सगरुडाः सर्वे दीर्घायुषो नृप ॥
अग्रसन्सैनिकान्नगान्हयांस्तेऽपि बुभुक्षिताः ॥३॥
आकाशे पक्षिभिर्व्याप्ते जाते पक्षप्रभंजने ॥
सेनायामंधकारेण हाहाकारो महानभूत् ॥४॥
तदा कार्ष्णिर्महाबाहुस्तार्क्ष्यमस्त्रं समादधे ॥
तद्‌बाणान्निर्गतः साक्षाद्वैनतेनयः खगेश्वरः ॥५॥
सेनायामंधकारेण व्याप्तायां पतगेश्वरः ॥
कांश्चित्तुंडप्रहारेण कांश्चित्पक्षैः स्फुरत्प्रभैः ॥६॥
गृध्रान्कुलिंगान्गरुडो पातयामास भूतले ॥
भग्नदर्पाश्छिन्नपक्षा भक्षिताः पक्षिणश्च ते ॥७॥
भयातुरा दुद्रुवस्ते तार्क्ष्येणापि दिशो दश ॥
ततः कार्ष्णिर्महाबाहुर्दशार्णान् विषयान् ययौ ॥८॥
दशार्णदेशाधिपतिः शुभांगः सूर्यवंशजः ॥
नागायुतसमो युद्धे निष्कौशांबीपुरीपतिः ॥९॥
वेदव्यासमुखाच्छ्रुत्वा प्रद्युम्नं चंडपौरुषम् ॥
दशार्णां तां नदीं दीर्घां समुत्तीर्य समाययौ ॥१०॥
कृतांजलिः शुभांगोऽसौ किरीटेन नताननः ॥
ददौ बलिं सुरत्‍नानां प्रद्युम्नाय महात्मने ॥११॥
प्रद्युम्नो भगवान् साक्षात्सर्वगः सर्वदर्शनः ॥
पप्रच्छेदं शुभांगं तं लोकसंग्रहकाम्यया ॥१२॥
प्रद्युम्न उवाच -
दशार्णोऽयं कथं देशः केन नाम्ना बभूव ह ॥
एतन्मे ब्रूहि हे राजन्निष्कौशांबीपुरीपते ॥१३॥
शुभांग उवाच -
हिरण्यकशिपुं हत्वा नृसिंहो भगवान्पुरा ॥
प्रह्लादेन त्विहागत्य हरिवर्षे स्थितोऽभवत् ॥१४॥
प्रह्लादं भगवान्प्राह नृसिंहो भक्तवत्सलः ॥
नृसिंह उवाच -
शांतस्य तव भक्तस्य मया पुत्र पिता हतः ॥
तस्मान्न घातयिष्यामि वंशं ते हि महामते ॥१५॥
शुभांग उवाच -
इति प्रवदतोऽक्षिभ्यामानंदजलबिंदवः ॥
पतिता कौ च तै राजन् सरोऽभून्मंगलायनम् ॥१६॥
तदा प्राप्तवरो राजन् प्रह्लादो हर्षविह्वलः ॥
नृसिंहं प्राह धर्मात्मा नत्वा भूत्वा कृतांजलिः ॥१७॥
प्रह्लाद उवाच -
मातुः पितुर्मया सेवा न कृता सात्वतांपते ॥
ऋणात्तयोः कथं मुच्ये वदैतत्परमेश्वर ॥१८॥
नृसिंह उवाच -
मन्नेत्रजलसंभूते तीर्थे वै मंगलायने ॥
स्नानं कुरु महाभाग मुच्यसे दशभिर्ऋणैः ॥१९॥
मातुः पितुश्च भार्यायाः सुतानां गुरुदेवयोः ॥
विप्राणां च प्रपन्नानामृषीणां पितृणामृणम् ॥२०॥
यः स्नास्यति महातीर्थे सर्वहेलनतत्परः ॥
ऋणैश्च दशभिः सोऽपि मुच्यते नात्र संशयः ॥२१॥
शुभांग उवाच -
दशार्णमोचने तीर्थे स्नात्वा कायाधवोऽनृणी ॥
भूत्वाद्यापि समायाति स्नातुं तन्निषधाद्‌गिरेः ॥२२॥
दशार्णमोचने तीर्थे दशार्णो देश उच्यते ॥
तत्स्रोतःसु समुद्‌भूता दशार्णेयं नदी स्मृता ॥२३॥
श्रीनारद उवाच -
तच्छ्रुत्वा भगवान्कार्ष्णिः सर्वैः परिचरैः सह ॥
दशार्णमोचने तीर्थे दानं स्नानं चकार ह ॥२४॥
दशार्णमोचनस्यापि कथां यः शृणुयान्नृप ॥
ऋणैश्च दशभिः सोऽपि मुच्यते मुक्तिभाग्भवेत् ॥२५॥

                 श्रीनारद उवाच ।
अथ कार्ष्णिर्महाबाहुः सुमेरोरुत्तरान्कुरून्।।
ययौ शृंगवतः पार्श्वे विचित्रानृद्धिसंवृतान् ।।१।।
भद्रां गंगां ततः स्नात्वा वाराहीं नगरीं ययौ ।।
कुरुखण्डाधिपस्तस्यां चक्रवर्ती गुणाकरः ।। २।।
महासंभृतसंभारो देवर्षिगणसंवृतः ।।
अश्वमेधं समारेभे दशमं स गुणाकरः ।। ३ ।।
तेनोत्सृष्टं हयं श्वेतं श्यामकर्णमनोहरम् ।।
तस्य पुत्रो वीरधन्वा रक्षितुं निर्गतोभवत् ।।४।।
अक्षौहिणीभिर्दशभिर्मंडितश्चंडविक्रमः ।।
विचचार महावीरो वीक्ष्यमाणस्तुरंगमम्।।५।।
वीरश्चंद्रश्च सेनश्च चित्रगुर्वेगवान्नृपः।।
आमः शंकुर्वसुःश्रीमान्कुंतीनाग्नजितेः सुताः।।६।।
सर्वतस्तं हयं शुभ्रं ग्रहीत्वा हर्ष पूरिताः ।।
कस्योत्सृष्टं वदंतस्ते कार्ष्णिसैन्यं समाययुः ।। ७ ।।
प्रद्युम्नस्तद्भालपत्रं पठित्वा विस्मितोभवत् ।।
सर्वे विसिस्मुर्यदवो गृहीतपरमायुधाः ।। ८ ।।
तदैव सेना संप्राप्ता विचिन्वंती हयं नृप ।।
दृष्ट्वा रजोयदुबलाद्दूरे तस्थौ सुविस्मिता ।।९।।
गुणाकरे राजनि चण्डविक्रमे न दस्यवः स्युः कुरुखण्ड मण्डले ।।
गवां न कालो न हि चक्रवातकः कुतो रजःप्राप्तमहोर्कमण्डलम् ।।7.28.१०।।
एवं वदंती परवाहिनीस्वतः कोदंडघोषं दरदस्वनं परम्।।
करींद्रचीत्कार तुरंगहेषणं वादित्रमिश्रं समुपाशृणोत्ततः ।।११।।
तदोद्धवः कृष्णसुतप्रणोदितो बलं समेत्याशु स वीरधन्वनः ।।
प्रणम्य तं प्राह रथास्थितं नृपं गुणाकर- स्यौरसमर्कतेजसम् ।। १२ ।।
उग्रसेनः क्षितीशेंद्रो द्वारकेशो यदूत्तमः ।।
जंबूद्वीपनृपाञ्जित्वा राजसूयं करिष्यति ।। १३ ।।
तेन प्रणोदितो वीरः प्रद्यु- म्नो धन्विनां वरः ।।
जित्वा तं भारतं खण्डं तथा किंपुरुषं नृपः ।।१४।।
हरिवर्षं ततो जित्वा कुरुखण्डं समागतः ।।
प्रदास्यति बलिं सोपि प्रद्युम्नाय महात्मने ।। १५ ।।
अक्षौहिणीदशयुतो धनदेनापि पूजितः ।।
उपायनं त्वया देयं प्रद्युम्नाय महात्मने ।। १६ ।।
तेन नीतं यज्ञपशुमाहर्तुं कः क्षमः क्षितौ ।।
श्रीकृष्णचन्द्रो भगवान्सहायस्तस्य विद्यते।।१७ ।।
शुभं स्याद्दानमानाभ्यां न चेद्युद्धं भविष्यति ।।
वीरधन्वोवाच ।।
गुणाकरो नृपेशो यः शक्रेणापि प्रपूजितः ।। १८ ।।
न दास्यति बलिं सोपि प्रद्युम्ना- य महात्मने ।।
शृंगवत्पर्वते रम्ये वाराहो विद्यते हरिः ।। १९ ।।
यस्य सेवां सदा भूमिः करोति परमादरात् ।।
यस्य क्षेत्रे तपस्तेपे ध्यात्वा देवं गुणाकरः ।। 7.28.२० ।।
वर्षाणामयुते पूर्णे हरिर्वाराहरूपधृक् ।।
सन्तुष्टो नृपतिं भक्तं वरं ब्रूहीत्युवाच ह ।। २१ ।।
राजोवाच हरिं नत्वा रोमांचप्रेमविह्वलः ।।
भगवंस्त्वामृते देवो सुरोन्योपि नरोथ वा ।। २२ ।।
मां जेता न भवेद्भूमावीप्सितोयं वरो मया ।।
तथास्तु चोक्त्वा भगवांस्तत्रैवांतरधीयत ।। २३ ।।
तस्मात्तस्य यशः शीघ्रं कर्तव्यं मोचनं स्वतः ।।
न चेद्भवद्भिश्च कलिं करिष्यामि न संशयः ।।२४ ।।
श्रीनारद उवाच ।।
इत्युक्त उद्धवस्तस्मात्स्वां सेनामेत्य भूपते ।।
शशंस सर्वं यद्भूतं यदूनां सदसि त्वरम् ।। २५ ।।
श्रुतकर्मा वृषो वीरः सुबाहुर्भद्रएकलः ।।
शांतिर्दर्शःपूर्णमासः सोमको वर एव च ।। २६ ।।
कालिन्दीनंदना ह्येते प्रद्युम्नस्य प्रपश्यतः ।।
अक्षौहिणीभिर्दशभिर्वृता योद्धुं समागताः ।।२७ ।।
उत्तरेकुरुभिः सार्द्धं यदूनां चंडविक्र- मैः ।।
बभूव तुमुलं युद्धमब्धीनामब्धिभिर्यथा ।। २८ ।।
स्फुरद्भिर्निशितैः शस्त्रै रेजिरे वरिपुंगवाः ।।
क्षणमात्रेण रुधिरप्रभवा रौद्ररूपिणी ।। २९ ।।
नदी बभूव राजेंद्र शतयोजनविस्तृता ।।
विदुद्रुवुस्तदा शेषा उत्तराकुरवो जनाः ।। 7.28.३० ।।
शरत्काले यथा प्राप्ते मेघसंघा इतस्ततः ।।
पूर्णमासो महावीरः कालिंदीनंदनो बली ।। ३१ ।।
चूर्णयामास बाणौघैः स्यंदनं वीरधन्वनः ।।
वीरधन्वापि विरथो धनुष्टंकारयन्मुहुः ।। ३२ ।।
जघान बाणविंशत्या पूर्णमासं महाबलम् ।।
पूर्णमासः स्वबाणेन मध्यतस्तान्द्विधाऽकरोत् ।।३३।।
वीरधन्वाथ चिच्छेद धनुर्ज्यां तस्य नादिनीम्।।
बाणेनैकेन राजेंद्र कुवाक्येनेव मित्रताम्।।३४।।
लक्षभारमयीं गुर्वी गदामादाय सत्वरम् ।।
जघान वीरधन्वानं पूर्णमासो महाबलः ।।३५।।
गदाप्रहारव्यथितो वीरधन्वा मदोत्कटः ।।
परिघेण जघाना शु पूर्णमासं हरेसुतः ।।३६।।
पूर्णमासः समुत्थाय पवनं नाम पर्वतम् ।।
समुत्पाट्य स्थितो भूत्वा हस्ताभ्यां श्रीहरेसुतः।।३७।।
भ्रामयित्वाथ चिक्षेप वारा- ह्यां पुरि वेगतः ।।३८।।
वीरधन्वा प्रपतितो गुणाकरक्रतुस्थले ।।
मूर्च्छितो भग्नवेगोभूदुद्वमन्रुधिरं मुखात्।। ३९ ।।
हाहाकारो महानासीद्वाराह्यां पुरि- वेगतः ।।
देवदुंदुभयो नेदुर्नरदुंदुभयस्तदा ।।7.28.४०।।
पूर्णमासोपरि सुराः पुष्पवर्षं प्रचक्रिरे।।
यज्ञादुत्थाय नृपतिः पुत्रं दृष्ट्वा च मूर्च्छितम् ।। ४१ ।।
गृहीत्वा दिव्यकोदंडं युद्धं कर्तुं मनो दधे ।।
होता धर्मविदां श्रेष्ठो मुनींद्रः सर्ववित्कविः ।।
गंतुमभ्युत्थितं वीक्ष्य वामदेवस्तमब्रवीत् ।। ४२ ।।
वामदेव उवाच ।।
राजंस्त्वं हि न जानासि परिपूर्णतमं हरिम् ।।
सुराणां महदर्थाय जातं यदुकुले स्वयम् ।।
भुवो भारावताराय भक्तानां रक्षणाय च ।। ४३ ।।
भूत्वा यदुकुले साक्षाद्द्वारकायां विराजते ।।
तेन कृष्णेन पुत्रोयं प्रद्युम्नो यादवेश्वरः ।।
उग्रसेनमखार्थाय जगज्जेतुं प्रणोदितः ।। ४४ ।।
गुणाकर उवाच ।।
परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः ।।
लक्षणं वद मे ब्रह्मंस्त्वं परावरवित्तमः ।। ४५ ।।
।। वामदेव उवाच ।।
यस्मिन्सर्वाणि तेजांसि विलीयंते स्वतेजसि ।।
तं वदंति परं साक्षात्परिपूर्णतमं हरिम् ।। ४६ ।।
अंशांशोंशस्तथावेशः कला पूर्णः प्रकथ्यते ।।
व्यासाद्यैश्च स्मृतः षष्ठः परिपूर्णतमः स्वयम् ।।४७।।
परिपूर्णतमः साक्षाच्छ्रीकृष्णो नान्य एव हि ।।
एककार्यार्थमागत्य कोटिकार्यं चकार ह ।। ४८ ।।
श्रीनारद उवाच ।।
श्रुत्वा कृष्णस्य माहात्म्यं बलिं नीत्वा गुणाकरः ।।
वैरं विसृज्य प्रद्युम्नदर्शनार्थं समाययौ ।। ४९ ।।
कार्ष्णिं प्रदक्षिणीकृत्य नत्वा दत्त्वा बलिं ततः ।।
अश्रुपूर्णमुखो भूत्वा प्राह गद्गदया गिरा ।। 7.28.५० ।।
गुणाकर उवाच ।।
अद्य मे सफलं जन्म कुलं मेद्यदिने शुभम्।।
अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात्।।५१।।
त्वदंघ्रिभक्तिः परमार्थलक्षणा सदा भवेत्सज्जनसंगमात्परा।।
त्वमेव साक्षान्निजभक्तवत्सलः परेशभूमन्परिपाहि पाहि ।। ५२ ।।
प्रद्युम्न उवाच ।।
ज्ञानवैराग्यसंयुक्ता भक्तिस्ते प्रेमलक्षणा ।।
मद्भक्तसंगमो भूयाच्छ्रीः स्याद्भागवतां त्विह ।। ।।५३।।
श्रीनारद उवाच ।।
इत्युक्त्वा भगवान्कार्ष्णिः प्रसन्नो भक्तवत्सलः ।।
ददौ तस्मै नृपतये हयमेधतुरंगमम् ।। ५४ ।।


             हिरण्यखण्डविजयम्

                श्री नारद उवाच -
प्रद्युम्नोऽथ महाबाहुर्जित्वाऽऽरादुत्तरान्कुरुन् ॥
हिरण्मयं नाम खंडं जेतुं कार्ष्णिर्जगाम ह ॥१॥
यत्र सीमागिरिर्दीर्घः स्रोतो नाम स्फुरद्द्युतिः ॥
तत्र कूर्मो हरिः साक्षादर्यमा यस्य देशिकः ॥२॥
पुष्पमालानदीतीरे नाम्ना चित्रवनं महत् ॥
सपुष्पफलभाराढ्यं कन्दमूलनिधिः स्वतः ॥३॥
वानराः संति तत्रापि वंशजा नलनीलयोः ॥
न्यस्ताः श्रीरामचन्द्रेण त्रेतायां मैथिलेश्वर ॥४॥
सैन्यघोषं च तं श्रुत्वा युद्धकामा विनिर्गताः ॥
प्रद्युम्नसैन्ये चोत्पेतुर्भ्रूभंगैः क्रोधमूर्च्छिताः ॥५॥
नखैर्दंतैश्च लांगूलैर्गजानश्वान्नरान्नृप ॥
लांगूलैश्च रथान्बध्वा चिक्षिपुश्चांबरे बलात् ॥६॥
विजयध्वजनाथस्य विजयश्चार्जुनस्य च ॥
रथं बद्ध्वाथ लांगूले केचिदुत्पेतुरंबरे ॥७॥
कपिध्वजध्वजे साक्षात्कपींद्रो भगवान्प्रभुः ॥
क्रोधाढ्यः फाल्गुनसखः समग्रं सर्वतो दिशम् ॥८॥
लांगूलेन च तान्बद्ध्वा पातयामास भूतले ॥
तदा प्रहर्षिताः सर्वे ज्ञात्वा श्रीरामकिंकराः ॥९॥
नेमुस्तं सर्वतो राजन् कृतांजलिपुटाः शनैः ॥
केचिदालिंगनं चक्रुः केचिदुत्पेतुरोजसा ॥१०॥
केचिच्चुचुंबुर्लांगूलं केचित्पादं च वानराः ॥
तानालिंग्य महावीराः स्पृष्ट्वा सत्पाणिना पुनः ॥११॥
दत्वाऽऽशिषं तत्कुशलं पप्रच्छाथांजनीसुतः ॥
नत्वा तं वानराः सर्वे जग्मुश्चित्रवनं नृप ॥१२॥
हनुमानर्जुनस्यापि ध्वजे ह्यंतरधीयत ॥
मकराख्यात्ततो देशात्प्रद्युम्नो मीनकेतनः ॥१३॥
ययौ वृष्णिवरैः सार्द्धं दुन्दुभीन् वादयन्मुहुः ॥
मकरस्य गिरेः पार्श्वे दुन्दुभिध्वनिभिस्ततः ॥१४॥
मधुभक्ष्या मधुकराः कोटिशः प्रोथिताः किल ॥
तैर्दंशितं बलं सर्वं हस्तिचीत्कारसंयुतम् ॥१५॥
तदा कार्ष्णिर्महाबाहुः पवनास्त्रं समादधे ॥
तद्‌वातताडीता राजन्गतास्तेऽपि दिशो दश ॥१६॥
तत्र देशे जना राजन् सर्वे वै मकराननाः ॥
ततस्तु डिंडिभो देशस्तत्र हस्तिमुखा जनाः ॥१७॥
एवं देशांस्ततः पश्यंस्त्रिशृङ्गविषयान्गतः ॥
कार्ष्णिर्ददर्श तत्रापि मनुष्या शृङ्गधारिणः ॥१८॥
त्रिशृङ्गस्य गिरेः पार्श्वे नगरीं स्वर्णचर्चिकाम् ॥
हेमसौधमयीं दिव्यां रत्‍नप्राकारमंडिताम् ॥१९॥
हिरण्यवर्णैः पुरुषैः स्त्रीजनैश्च तडिद्द्युभिः ॥
नागैश्च नागकन्याभिः पुरीं भोगवतीमिव ॥२०॥
चन्द्रकांतानदीतीरे शोभितां मंगलालयाम् ॥
कार्ष्णिः समाययौ राजन् यथा शक्रोऽमरावतीम् ॥२१॥
तत्र राजा महावीरो नाम्ना देवसखो बली ॥
स मन्मुखाद्‌बलं श्रुत्वा बलिं नीत्वा हिरण्मयम् ॥२२॥
प्रद्युम्नं पूजयामास भक्त्या परमया पुनः ॥
तं पप्रच्छ महाबाहुः प्रद्युम्नो भगवान्हरिः ॥२३॥
चन्द्रवत्ते कथं शोभा सर्वेषां च वदाशु मे ॥
देवसखा उवाच -
अर्यम्णा पितृपतिना कूर्मरूपस्य मापतेः ॥२४॥
अङ्घ्रीप्रक्षलितौ तेन वारिणाभून्महानदी ॥
श्वेतपर्वतशृङ्गाच्चावतरंती यदूत्तम ॥२५॥
प्रमेधाख्यो मनुसुतो गोपालो गुरुणा कृतः ॥
जघान कपिलां रात्रावसितां सिंहशंकया ॥२६॥
वसिष्ठेन तदा शप्तः शूद्रत्वं समुपागतः ॥
कुष्ठेन पीडिततनुः पर्यटंस्तीर्थमाचरन् ॥२७॥
अस्यां नद्यां यदा स्नातो गलत्कुष्ठान्मनोः सुतः ॥
मुक्तोऽभूच्चन्द्रवत्तस्य देहशोभा बभूव ह ॥२८॥
चन्द्रकांता नदी चेयं प्रसिद्धाऽभूद्धिरण्मये ॥
तस्यां मुक्तो यतः स्नात्वा गलत्कुष्ठान्मनोः सुतः ॥२९॥
ततः स्नानं च कर्तारो वयं सर्वे नृपोत्तम ॥
रूपेण चन्द्रतुल्याः कौ भवामोऽत्र न संशयः ॥३०॥
श्रीनारद उवाच -
इति श्रुत्वा महाबाहु प्रद्युम्नो यादवैः सह ॥
चन्द्रकांतां नदीं स्नात्वा ददौ दानान्यनेकशः ॥३१॥



              मानवदेशविजयम्

                 श्रीनारद उवाच -
एवं हिरण्मयं खंडं जित्वा कार्ष्णिर्महाबलः ॥
जगाम रम्यकं खंडं देवलोकमिव स्फुरन् ॥१॥
तस्य सीमागिरिः साक्षान्नीलो नाम नगाधिराट् ॥
तत्रोत्तरे कालदेशे नगरी भीमनादिनी ॥२॥
कालनेमिसुतस्तत्र कलंको नाम राक्षसः ॥
त्रेतायुगे रामचन्द्राद्‌भीतो युद्धात्पलायितः ॥३॥
लंकापुर्य्या इहागत्य वासकृद्‌राक्षसैः सह ॥
रक्षसामयुतेनासौ युद्धाय कृतनिश्चयः ॥४॥
खरारूढः कृष्णवर्णो यदूनां बलमाययौ ॥
यदूनां राक्षसानां च घोरं युद्धं बभूव ह ॥५॥
प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्ध्वगः ॥
सह ओजो महाशक्तिरपराजित एव च ॥६॥
लक्ष्मणानंदना ह्येते श्रीकृष्णस्य सुताः शुभाः ॥
सर्वेषामग्रतः प्राप्ता बाणैस्तीक्ष्णैः स्फुरत्प्रभैः ॥७॥
राक्षसानां बलं जघ्नुर्वायुवेगैर्यथा घनम् ॥
बाणौघैश्छिन्नभिन्नांगा राक्षसा रणदुर्मदाः ॥८॥
त्रिशूलानां मुद्‌गराणां वर्षं चक्रुर्मदोत्कटाः ॥
कलंकस्तु तदा प्राप्तश्चर्वयन्वारणान् रथान् ॥९॥
हयान्नरान्सशस्त्रास्त्रान्मुखे चिक्षेप सत्वरम् ॥
गजान्पादेषु चोन्नीय सनीडान् रत्‍नकंबलान् ॥१०॥
घंटानादसमायुक्तान्प्राक्षिपच्चांबरे बलात् ॥
प्रघोषः श्रीहरेः पुत्रः कपींद्रास्त्रं समादधे ॥११॥
तद्‌बाणनिर्गतः साक्षाद्वायुपुत्रो महाबलः ॥
वातस्तूलमिवाकाशे चिक्षेप शतयोजनम् ॥१२॥
हनुमंतं तदा ज्ञात्वा कलंको राक्षसेश्वरः ॥
लक्षभारमयीं गुर्वीं गदां चिक्षेप नादयन् ॥१३॥
उत्पपात कपिर्वेगाद्‌गदा भूमौ पपात ह ॥
ऊत्पतन् वानराधीशो भ्रूभंगं कारयन्मुहुः ॥१४॥
मुष्टिना घातयित्वा तं किरीटं तस्य चाददे ॥
कलंकोऽपि तदा तस्मै त्रिशूलं स्वं समाददे ॥१५॥
उत्पतन्स कपिर्वेगात् पृष्ठिदेशं पपात ह ॥
हनुमांस्तं तदा दोर्भ्यां पातयित्वा महीतले ॥१६॥
वैदूर्यपर्वतं नीत्वा तस्योपरि समाक्षिपत् ॥
गिरिपातेन चूर्णांगो मर्दितः पंचतां ययौ ॥१७॥
तदा जयजयारावः शंखध्वनियुतोऽभवत् ॥
हनुमान् भगवान् साक्षात्तत्रैवांतरधीयत ॥१८॥
प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥
अथ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥१९॥
मनोहरां स्वर्णमयीं मानवीं नगरीं ययौ ॥
नैःश्रेयसवनं तत्र कल्पवृक्षलतावृतम् ॥२०॥
हरिचंदनमंदारपारिजातोपशोभितम् ॥
संतानमोदसंमिश्रवायुभिः सुरभीकृतम् ॥२१॥
केतकीचंपकलताकुटजैः परिसेवितम् ॥
माधवीनां लताजालैः पुष्पितैः सफलैर्वृतम् ॥२२॥
नदद्विहंगालिकुलैर्वैकुंठमिव सुंदरम् ॥
योजनानां पंचशतं लंबितं चारुधिं गिरिम् ॥२३॥
अधोऽधः शोभितं राजञ्छतयोजनविस्तृतम् ॥
पुंस्कोकिलैः कोकिलैश्च मयूरैः सारसैः शुकैः ॥२४॥
चक्रवाकैश्चकोरैश्च हंसैर्दात्यूहकूजितम् ॥
सर्वर्तुपुष्पशोभाढ्यमाक्षिपन्नंदनं वनम् ॥ २५॥
मृगशावा रमंते वै शार्दूलैः सह मैथिल ॥
नकुलाः फणिभिः सार्द्धं यत्र वैरविवर्जिताः ॥२६॥
अयुतं सरसां यत्र भ्रमरध्वनिसंयुतम् ॥
सहस्रपत्रैः कमलैः शतपत्रैः स्फुरत्प्रभैः ॥२७॥
इतस्ततो वर्तमानमानंदमिव मूर्तिमत् ॥
तद्वनं सुंदरं दृष्ट्वा निर्गतान्नगरीजनान् ॥
पप्रच्छ वांछितं साक्षात्प्रद्युम्नः सर्ववित्कविः ॥२८॥
श्रीप्रद्युम्न उवाच -
कस्येयं नगरी रम्या कस्येदं वनमद्‌भुतम् ॥
वदताशु सविस्तारं हे लोकाः पुण्यशासनाः ॥२९॥
जना ऊचुः -
वैवस्वतो मनुर्नाम यो ह्येवं वर्तते नृप ॥
मानवे च गिरौ रम्ये मत्स्यं नारायणं हरिम् ॥३०॥
वर्तमानं सदा नत्वा करोति विपुलं तपः ॥
तस्येयं नगरी रम्या तस्य नैःश्रेयसं वनम् ॥३१॥
वैकुण्ठाच्च समानीता भूमिश्चायं गिरिस्तथा ॥
यूयं सर्वेऽपि राजानस्तस्य वंशभवाः क्षितौ ॥
सूर्यवंशांतरे राजंश्चन्द्रवंशांतरे हि भोः ॥३२॥
श्रीनारद उवाच -
क्षत्रियाणां च सर्वेषां वृद्धं तं प्रपितामहम् ॥
श्राद्धदेवं मनुं ज्ञात्वा विस्मितोऽभूद्धरेः सुतः ॥३३॥
श्रुत्वा वचस्तदा सद्यो भ्रातृभिर्यदुभिर्वृतः ॥
मानवाद्रिं समारुह्य श्राद्धदेवं ददर्श ह ॥३४॥
शतसूर्यप्रभं कांत्या द्योतयंतं दिशो दश ॥
महायोगमयं साक्षाद्‌राजेंद्रं शांतरूपिणम् ॥३५॥
वेदव्यासशुकाद्यैश्च वसिष्ठधिषणादिभिः ॥
परस्परं महाराज शृण्वन्तं श्रीहरेर्यशः ॥३६॥
ननाम कर्ष्णिर्यदुभिः सहैव तं
     कृतांजलिस्तत्र समास्थितोऽभवत् ॥
मनुः समुत्थाय हरेः प्रभाववि-
     द्दत्त्वाऽऽसनं गद्‌गदया गिराब्रवीत् ॥३७॥
मनुरुवाच -
नमस्ते वासुदेवाय नमः संकर्षणाय च ॥
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥३८॥
अनादिरात्मा पुरुषस्त्वमेव
     त्वं निर्गुणोऽसि प्रकृतेः परस्त्वम् ॥
सदा वशीकृत्य बलात्प्रधानं
     गुणैः सृजस्यत्सि च पासि विश्वम् ॥३९॥
ततो विवेकं स विहाय सर्वतो
     मत्वाखिलं चात्र मनोमयं जगत् ॥
मायापरं निर्गुणमादिपूरुषं
     सर्वज्ञमाद्यं पुरुषं सनातनम् ॥४०॥
जागर्ति योऽस्मिञ्छयनं गते सति
     नायं जनो वेद सतः परं तम् ॥
पश्यंतमाद्यं पुरुषं हि यज्जनो
     न पश्यति स्वच्छमलं च तं भजे ॥४१॥
यथा नभोऽग्निः पवनो न सज्जते
     घटे न काष्ठे न रजोभिरावृतैः ॥
तथा भवान्सर्वगुणैश्च निर्मलो
     वर्णैर्यथा स्यात्स्फटिको महोज्ज्वलः ॥४२॥
व्यंगेन वा लक्षणया च वाक्पथै-
     रर्थं पदं स्फोटपरायणैः परम् ॥
न ज्ञायते यद्धनिनोत्तमेन स-
     द्वाच्येन तद्‍ब्रह्म कुतस्तु लौकिकैः ॥४३॥
वदन्ति केचिद्‍भुवि कर्मकतृ य-
     त्कालं च केचित्परयोगमेव तत् ॥
केचिद्विचारं प्रवदन्ति यच्च त-
     द्‍ब्रह्मेति वेदांतविदो वदन्ति ॥४४॥
यं न स्पृशंतीह गुणा न कालजा
     ज्ञानेन्द्रियं चित्तमनो न बुद्धयः ॥
महन्न वेदो वदतीति तत्परं
     विशंति सर्वेऽनलविस्फुलिंगवत् ॥४५॥
हिरण्यगर्भं परमात्मतत्वं
     यद्वासुदेवं प्रवदन्ति संतः ॥
एवंविधं त्वां पुरुषोत्तमोत्तमं
     मत्वा सदाहं विचराम्यसङ्गः ॥४६॥
श्रीनारद उवाच -
मनोर्वाक्यं तदा श्रुत्वा प्रद्युम्नो भगवान्हरिः ॥
मन्दस्मितो मनुं प्राह गीर्भिः संमोहयन्निव ॥४७॥
प्रद्युम्न उवाच -
त्वं नो गुरुः क्षत्रियाणामादिराजः पितामहः ॥
मत्पूजनीयो वृद्धोऽसि श्लाघ्यो धर्मधुरंधरः ॥४८॥
वः प्रजाश्च वयं राजन् रक्ष्याः पाल्याश्च सर्वतः ॥
भवता तप्यते दिव्यं तपस्तेन जगत्सुखम् ॥४९॥
मृग्यस्त्वत्सदृशः साधुः परमात्मा हरिः स्वयम् ॥
नृणामंतस्तमोहारी साधुरेव न भास्करः ॥५०॥
श्रीनारद उवाच -
इत्युक्त्वा भगवान् कार्ष्णिरनुज्ञाप्य प्रणम्य तम् ॥
परिक्रम्य मनुं राजन् स्वयं भूमौ जगाम ह ।५१॥




मन्मथदेशविजयम्

श्रीनारद ऊचुः -
इत्थं तु रम्यकं खंडं जित्वा कार्ष्णिर्महाबलः ॥
सुमेरोः पूर्वदिग्भागे केतुमालं जगाम ह ॥१॥
तस्य सीमागिरिः साक्षान्माल्यवान्नाम मैथिल ॥
चतुर्नाम्नी यत्र गंगा महापातकनाशिनी ॥२॥
गिरेर्माल्यावतः पार्श्वे पुरी मन्मथशालिनी ॥
रत्‍नप्राकारसौधेश्च देवधानीव शोभिता ॥३॥
यत्र वै पुरुषा राजन्कामदेवसमप्रभाः ॥
शारदेन्दीवरश्यामाः पद्मपत्रनिभेक्षणाः ॥४॥
पीतांबरधरा नार्यः पुष्पहारमनोहराः ॥
क्रीडंति कंदुकैर्यत्र कामिन्यो नवयौवनाः ॥५॥
यद्देहामोदपवनो मत्तालिकुलनादितः ॥
गंधीकरोति भूभागं समन्ताच्छतयोजनाम् ॥६॥
तत्पुरीवासिनो लोका निर्गतास्ते बहुश्रुतः ॥
जगुर्यशः श्रीमुरारेः प्रद्युम्नस्यापि शृण्वताः ॥७॥
केतुमालवासिन ऊचुः -
आसीत्तु शेषशयनो जगदार्त्तिहारी
     साक्षात्प्रधानपुरुषेश्वर आदिदेवः ॥
यः प्रार्थितः सुरवरैर्भुवनावनाय
     तस्मै नमो भगवते पुरुषोत्तमाय ॥८॥
जातो गतः पितृगृहात्पितरौ विमोक्ष्य
     नंदालयं शिशुतनुः स तु नंदपत्‍न्या ॥
संलालितः सघृणया बहुमंगलश्रीः
     प्राणप्रहारमकरोत्किल पूतनायाः ॥९॥
बालो बभञ्ज शकटं शयनं प्रकुर्व-
     न्दैत्यं निपात्य महदद्‌भुतकं च पृष्ठे ॥
मात्रे प्रदर्श्य निजरूपमलंकृतोऽभू-
     द्‌गर्गेण संकथितसुंदरभाग्यलक्ष्मीः ॥१०॥
संलालितो व्रजजनैर्नवनीतचौरः
     श्यामो मनोहरवपुर्मृदुलः स बालः ॥
भित्वा जघास दधिपात्रमतीव दध्नो
     वृक्षौ बभंज जननीलघुदामबद्धः ॥११॥
वृंदावने स विचरन् सह वत्सगोपै-
     र्वत्सासुरं च विनिपात्य कपित्थवृक्षैः ॥
सद्यो विगृह्य खरतुण्डपुटे च दोर्भ्यां
     दैत्यं ददार स बकं तृणवत्तटिन्याम् ॥१२॥
संधारयंश्च शिशुभिर्बहुवत्ससंघान्
     वेणुं क्वणन्मदनमोहनवेषभृद्यः ॥
गोपानघासुरमुखे प्रहिताञ्जुगोप
     गोगोपवत्सपवपुः स चकार सद्यः ॥१३॥
क्षेत्रज्ञ आत्मपुरुषो भगवाननंतः
     पूर्णः प्रधानपुरुषेश्वर आदिदेवः ॥
धृत्वा वपुः स विहरन्व्रजबालकेषु
     सम्मोहयन्विधिमजो विचचार कृष्णः ॥१४॥
चिक्षेप धेनुकमसौ बलिनं बलेन
     ताले प्रगृह्य सहसा फणिकालियाख्यम् ॥
बभ्राम वह्निमपिबद्दनुजं प्रलंबं
     सद्यो जघान स बली दृढमुष्टिना च ॥१५॥
संचारयन्व्रजवधूर्मधुरं क्वणन् यो
     वेणुं वने व्रजवधूनिजगीतकीर्तिः ॥
दिव्यांबराणि स जहार वरांगनानां
     विप्रांगनाभिरभितः कृतभक्तभोजः ॥१६॥
देवे च वर्षति पशून्कृपया रिरक्षु-
     र्गोवर्धनं प्रकृतबाल इवोच्छिलींध्रम् ॥
बिभ्रद्‌गिरिं स गजराडिव कंजमेक-
     हस्ते शचीपतिवचोभिरतः स्तुतोऽभूत् ॥१७॥
नन्दं जुगोप वरुणात्स्वजनाय लोकं
     दिव्यं परं च तमसो दिवि दर्शयित्वा ॥
श्रीरासमण्डलगतो व्रजसुन्दरीणां
     रेमे पुलिन्दतटिनीपुलिनेऽङ्‌गनाभिः ॥१८॥
मानं हरन्मदनयौवनमानिनीना-
     मंतर्दधे व्रजवधूनिजगीतकीर्तिः ॥
स्रग्वी मनोहरवपुर्विरहातुराणां
     साक्षाद्धरिर्मदनमोहन आविरासीत् ॥१९॥
वृन्दावने शबरराजवरांगनाभि-
     र्विष्णुर्विभूतिभिरिव द्युभिरादिदेवः ॥
रेमे स्तुतः सुरवरैः स च रासरंगे
     केयूरकुण्डलकिरीटविटंकवेषः ॥२०॥
नंदं विमोक्ष्य फणिने प्रददौ च मोक्षं
     दिव्यं मणिं स च जहार ह शंखचूडात् ॥
गोपस्तुतो वृषभरूपधरं ह्यरिष्टं
     भूमौ निपात्य निजघान करेण शृङ्गे ॥२१॥
कंसः परं भयमवाप च तेन केशी
     संप्रेषितः सघनमेघवपुः प्रचंडः ॥
उत्सृज्य तं च तरसा पुनरापतंतं
     श्रीबाहुना मुखगतेन जघान कृष्णः ॥२२॥
यो नारदेन बहुवर्णितभाग्यलक्ष्मी-
     र्व्योमसुरो व्यसुरकारि परेण येन ॥
अक्रूरवर्णितमहोदय आदिदेवो
     गोपीजनातिविरहातुरचित्तचौरः ॥२३॥
श्वाफल्कये हितकराय निजं स्वरुप-
     मंतर्दधे जलचये स च दर्शयित्वा ॥
स प्राप तत्र मथुरोपवनं परेशो
     गोपालकैश्च सबलो मथुरां ददर्श ॥२४॥
स्वैरं चरन्मधुपुरे रजकं निकृत्य
     कृष्णः प्रदाय च वरानथ वायकाय ॥
मालाकृतं समनुकंप्य चकार कुब्जा-
     मृज्वीं धनुश्च सहसा नमयन्बभंज ॥२५॥
द्वारि द्विपञ्च विनिहत्य नरेन्द्र मल्लौ
     हत्वा प्रगृह्य विनिपात्य स रंगभूमौ ॥
कंसं हरिस्तु पितरावथ मोचयित्वा
     बंधान्नृपं पुरि चकार महोग्रसेनम् ॥२६॥
नंदं प्रसाद्य बहुदानकरो यदूस्ता-
     नाहूय तर्प्य सुधनैश्च निवेदयित्वा ॥
विद्यामधीत्य स ददौ प्रमृतं ह्यपत्यं
     कृत्वा वधं दनुजपञ्चजनस्य कृष्णः ॥२७॥
गोपीजनान्समनुगृह्य स चोद्धवेना-
     क्रूरेण हास्तिनपुरे त्वथ पांडुपुत्रान् ॥
कृष्णो विजित्य बलिनं च जरासुतं च
     भस्मीचकार मुचकुन्ददृशाऽऽत्मकालम् ॥२८॥
निर्माय चाद्‍भुतपुरं स्थितयेऽत्र कृष्णो
     निन्ये च कुण्डिनपुरात्किल भीष्मकन्याम् ॥
पुत्रेण शंबरमरिं निजघान चादाद्‌-
     राज्ञे मणीं युधि विजित्य स ऋक्षराजम् ॥२९॥
भामापतिः स च शिरः शतधन्वनस्तु
     हृत्वा ह्युवाह सवितुश्च सुतां परेशः ॥
आवंत्यराजतनुजां स जहार कृष्णः
     सत्यां स्वयंवरगृहे वृषभान्दमित्वा ॥३०॥
कैकेयराजतनुजां स जहार भद्रां
     श्रीलक्ष्मणामखिलभद्रपते सुतां च ॥
भौमं विजित्य सबलं युधि शस्त्रसंघै-
     र्निन्ये च षोडश-सहस्रवरांगनाश्च ॥३१॥
भामेच्छया सुरतरुं च सभां सुधर्मां
     शक्रं विजित्य स जहार कलत्रमित्रः ॥
यो रुक्मिणं च निजघान बलेन गोष्ठ्यां
     बाणस्य बाहुनिचयं शतधाच्छिनत्सः ॥३२॥
तेनोग्रसेनक्रतवेऽथ जगद्विजेतुं
     संप्रेषितो निजसुतः किल शंबरारिः ॥
योऽत्रागतो भुवि विजित्य नृपान्समस्तान्
     श्रीकेतुमालपतये च नमोऽस्तु तस्मै ॥३३॥
श्रीनारद उवाच -
प्रसन्नः श्रीहरिः कार्ष्णिः कुंडले कटकानि च ॥
हीरान् मणीन् गजानश्वान् ददौ तेभ्यो महामनाः ॥३४॥
पुर्यां मन्मथशालिन्यां व्यतिसंवत्सरो महान् ॥
प्रद्युम्नाय बलिं प्रादान्नमस्कृत्य प्रजापतिः ॥३५॥
अथ कार्ष्णिर्महाबाहुर्दिव्यं कामवनं ययौ ॥
जनैरगम्यं गम्यं च प्रजापतिदुहितृभिः ॥३६॥
सुंदरं मन्मथाक्रीडं वृतं कामास्त्रतेजसा ॥
नारीणां यत्र पतति व्यसुर्गर्भो न वत्सरम् ॥३७॥
तदा परात्कामवनाद्विनिर्गतः
     श्रीपुष्पधन्वा नृप पंचसायकः ॥
पीताम्बरश्यामतनुर्मनोहर-
     स्ततान कोदंडगुणध्वनिं स्मरः ॥३८॥
यद्‌बाणतो यादवपुंगवाः स्वतः
     ससैनिकाः साश्वगजाः पदातिभिः ॥
निपेतुरारात्किल कामविह्वला-
     स्तद्‌बाणवेगस्य न वर्णनं भवेत् ॥३९॥
अथाशु कार्ष्णिर्जगदीश्वरेश्वरः
     प्रलीनतां प्राप जले जलं यथा ॥
सद्यो विसिस्मुर्यदवः ससैनिका
     विज्ञाय पूर्णं नृप रुक्मिणीसुतम् ॥४०॥




हृष्टदैत्यवधम्

श्रीनारद उवाच -
अथ कार्ष्णिर्महाबाहुः केतुमालं विजित्य सः ॥
भद्राश्वं प्रययौ धन्वी खंडं योगसमृद्धिमत् ॥१॥
यस्य सीमागिरिः साक्षाद्‌राजते गन्धमादनः ॥
सीतानाम्नी यत्र गंगा वहंती पापनाशिनी ॥२॥
वेदक्षेत्रे महातीर्थे सर्वपापप्रमोचने ॥
हयग्रीवो महाबाहुर्यत्र संनिहितो हरिः ॥३॥
भद्रश्रवा धर्मसुतस्तस्य सेवां करोति हि ॥
गंगातीरस्य पुलिने प्रद्युम्नस्य महात्मनः ॥
बभूवुः शिबिरव्यूहा हेमांबरमनोहराः ॥४॥
भद्रश्रवा धर्मसुतो महात्मा
     भद्राश्वदेशाधिपतिर्महौजाः ॥
प्रदक्षिणीकृत्य ननाम भक्त्या
     दत्वा बलिं कृष्णसुताय चाह ॥५॥
भद्रश्रवा उवाच -
त्वं साक्षाद्‌भगवान्पूर्णः परिपूर्णतमः स्वयम् ॥
साधूनां रक्षणार्थाय जगज्जेतुं विनिर्गतः ॥६॥
भगवञ्छंबरो नाम दैत्यः पूर्वं जितस्त्वया ॥
तस्य भ्राता महादुष्टः कनीयानुत्कचः स्मृतः ॥७॥
गोकुले कृष्णचंद्रेण मारितः शकटस्थितः ॥
तस्य भ्राता महादुष्टो ज्येष्ठोऽस्ति शकुनिर्बली ॥८॥
जेतुं योग्यस्त्वया देव नान्यैरपि कदाचन ॥
श्रीप्रद्युम्न उवाच -
कस्य वंशे समुद्‍भूतः शकुनिर्नाम दैत्यराट् ॥९॥
कस्मिन्पुरे स्थितिस्तस्य बलं किं वद धर्मज ॥
भद्रश्रवा उवाच -
कश्यपस्य मुनेर्दित्यामादिदैत्यौ बभूवतुः ॥१०॥
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्तथा ॥
हिरण्याक्षस्य तस्यापि बभूवुर्नव पुत्रकाः ॥११॥
शकुनिः शंबरो हृष्टो भूतसंतापनो वृकः ॥
कालनाभो महानाभो हरिश्मश्रुस्तथोत्कचः ॥१२॥
देवकूटाद्दक्षिणे हि जठरस्य गिरेरधः ॥
पुरी चन्द्रावती नाम दैत्यानां दुर्गमंडिता ॥१३॥
शकुनिस्तत्र वसति भ्रातृभिः षड्‌भिरावृतः ॥
यदा यदा हि मुनयो यज्ञारम्भं प्रकुर्वते ॥१४॥
तदा तदा हि तेनापि भंगोऽकारि यदूत्तम ॥
यस्माच्च संति शक्राद्या उद्विग्नाः सात्वतांपते ॥१५॥
जेतुं योग्यस्त्वया देव देवध्रुग्दैत्यपुंगवः ॥
त्वया जितं जगत्सर्वं भक्तानां शांतिकारणात् ॥१६॥
प्रद्युम्नाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः ॥
गोविप्रसुरसाधूनां छंदसां पतये नमः ॥१७॥
श्रीनारद उवाच -
एवं सम्प्रार्थितः साक्षात्प्रद्युम्नो भगवान् हरिः ॥
देवाय भद्रश्रवसे मा भैष्टेत्यभयं ददौ ॥१८॥
अथ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥
पुरीं चंद्रावतीं गन्तुं प्रस्थानमकरोत्तदा ॥१९॥
मन्मुखाच्छकुनिः श्रुत्वा प्रागच्छंतं यदूत्तमम् ॥
दैत्यानां सदसि प्राह शूलमुद्यम्य दैत्यराट् ॥२०॥
शकुनिरुवाच -
दिष्ट्या दिष्ट्या हि शत्रुर्मे प्रद्युम्नोऽत्र समागतः ॥
जेतुं योग्यो मय दैत्या भ्रातुर्मय्यस्ति प्रागृणम् ॥२१॥
भ्राता मे शंबरो नाम येन पूर्वं च मारितः ॥
तस्मात्तं घातयिष्यामि प्रद्युम्नं यदुभिः सह ॥ २२॥
तस्माद्यात बलं तस्य विध्वस्तं कुरुतासुराः ॥
पश्चात्पुरंदराधीशं घातयिष्यामि निर्जरान् ॥२३॥
श्रीनारद उवाच -
इति श्रुत्वा वचस्तस्य दैत्यो हृष्टो महाबलः ॥
आययौ संमुखे योद्धुं दैत्यकोटिसमावृतः ॥२४॥
प्रद्युम्नो भगवान्साक्षाल्लीलामानुषविग्रहः ॥
महत्याः सर्वसेनाया गृध्रव्यूहं चकार ह ॥२५॥
गृध्रचंचौ वर्तमानोऽनिरुद्धो धन्विनां वरः ॥
ग्रीवायामर्जुनः पृष्ठे सांबो जांबवतीसुतः ॥२६॥
पादयोरुभयो राजन्नास्थितौ दीप्तिमद्‍गदौ ॥
कार्ष्णिः साक्षात्तदुदरे पुच्छे भानुर्हरेः सुतः ॥२७॥
बभूव तुमुलं युद्धं सीतागंगातटे नृप ॥
दैत्यानां यदुभिः सार्द्धमब्धीनामब्धिभिर्यथा ॥२८॥
बाणैस्त्रिशूलैर्मुसलैर्मुद्‍गरैस्तोमरर्ष्टिभिः ॥
ववृर्षुर्दानवाः सर्वे धाराभिरिव वारिदाः ॥२९॥
रुरोध सूर्यं चाकाशं सैन्यपादरजो भृशम् ॥
राजन्स्वबाणं च यथा वारिदाः प्रावृडुद्‌भवाः ॥३०॥
वृको हर्षोऽनिलो गृध्रो वर्द्धनोऽन्नाद एव च ॥
महाशः पवनो वह्निः क्षुदिश्च दशमः स्मृतः ॥३१॥
मित्रविंदात्मजा ह्येते युयुधुर्दानवैः सह ॥
बाणांधकारे संजाते वृको नाम हरेः सुतः ॥३२॥
सर्वेषामग्रतः प्राप्तो धनुष्टंकारयन्मुहुः ।
दैत्यान्बिभेद बाणौघैः कुवाक्यैर्मित्रतामिव ॥३३॥
गजान् रथान् हयान् वीरान्पातयामास भूतले ॥
निपेतुश्छिन्नकवचाश्छिन्नचापा रणांगणे ॥३४॥
वृकबाणैर्भिन्नपादा वृक्षा वातहता इव ॥
अधोमुखा ऊर्ध्वमुखा बाणौघैश्छिन्नबाहवः ॥३५॥
रेजू रणांगणे राजन् भांडव्यूहा इवाहताः ॥
द्विधाभूता गजा बाणैः पतिता रणमंडले ॥३६॥
विरेजुश्छुरिकाविद्धाः कूष्मांडशकला इव ॥
तदैव हृष्टः संप्राप्तः सिंहारूढो महाबलः ॥३७॥
बिभेद कवचं तस्य सिंजिनीं दशभिः शरैः ॥
चतुर्भिश्चतुरो वाहान्द्वाभ्यां सूतं ध्वजं तथा ॥३८॥
त्रिभी रथं च बाणानां विंशत्या दनुजाधिपः ॥
छिन्नधन्वा वृको भूत्वा हताश्वो हतसारथिः ॥३९॥
अन्यं रथं समारूढो धनुर्जग्राह रोषतः ॥
तावत्तस्य धनुर्हृष्टश्चिच्छेद समरेऽसुरः ॥४०॥
तदा गदां समादाय वृको यादवपुंगवः ॥
तताड मूर्ध्नि पञ्चास्यं दैत्यं पृष्ठस्थितं पुनः ॥४१॥
मृगेन्द्रः क्रोधसंपूर्णः समुत्पत्य रणांगणे ॥
अनेकान्पातयामास नखैर्दंतैः करैरपि ॥४२॥
हुंकारं भीषणं कृत्वा ललज्जिह्वः स्फुरत्सटः ॥
वृकं संपातयामास रंभादंडं गजो यथा ॥४३॥
गृहीत्वा तु वृको दोर्भ्यां पातयित्वा महीतले ॥
तस्योपरि नदंस्तस्थौ मल्लो मल्लं यथा नृप ॥४४॥
उत्पतंतं पुनः सिंहं चर्वयन्तं तनुं बलात् ॥
तताड मुष्टिना तं वै मित्रविंदात्मजो बली ॥४५॥
तस्य मुष्टिप्रहारेण केसरी पंचतां गतः ॥
तदा क्रुद्धो हृष्टदैत्यः शूलं चिक्षेप सत्वरम् ॥४६॥
शूलं स्फुरन्महोल्काभं चिच्छेद त्वसिना वृकः ॥
तीक्ष्णया तुंडया राजन्फणिनं गरुडो यथा ॥४७॥
हृष्टोऽपि स्वमसिं नीत्वा नादयन् स्वं महाबलम् ॥
जघान तं वृकं मूर्धि कंपयन् वसुधातलम् ॥४८॥
खड्गकोशे ततः खड्गमुपधार्य वृको बली ॥
कंधरे स्वेन खड्गेन तं तताड स्फुरच्छुचम् ॥४९॥
खड्गच्छिन्नं शिरस्तस्य दैतस्य पतितं भुवि ॥
रेजे कमंडलुमिव सकिरीटं सकुंडलम् ॥ ५०॥
हृष्टे मृते तदा दैत्याः शेषा सर्वे पलायिताः ॥
भयातुरा महाराज ययुश्चंद्रावतीं पुरीम् ॥५१॥
देवदुंदुभयो नेदुर्नरदुंदुभयस्तदा ॥
श्रीवृकस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥५२॥


हृष्टदैत्यवधम्

श्रीनारद उवाच -
अथ कार्ष्णिर्महाबाहुः केतुमालं विजित्य सः ॥
भद्राश्वं प्रययौ धन्वी खंडं योगसमृद्धिमत् ॥१॥
यस्य सीमागिरिः साक्षाद्‌राजते गन्धमादनः ॥
सीतानाम्नी यत्र गंगा वहंती पापनाशिनी ॥२॥
वेदक्षेत्रे महातीर्थे सर्वपापप्रमोचने ॥
हयग्रीवो महाबाहुर्यत्र संनिहितो हरिः ॥३॥
भद्रश्रवा धर्मसुतस्तस्य सेवां करोति हि ॥
गंगातीरस्य पुलिने प्रद्युम्नस्य महात्मनः ॥
बभूवुः शिबिरव्यूहा हेमांबरमनोहराः ॥४॥
भद्रश्रवा धर्मसुतो महात्मा
     भद्राश्वदेशाधिपतिर्महौजाः ॥
प्रदक्षिणीकृत्य ननाम भक्त्या
     दत्वा बलिं कृष्णसुताय चाह ॥५॥
भद्रश्रवा उवाच -
त्वं साक्षाद्‌भगवान्पूर्णः परिपूर्णतमः स्वयम् ॥
साधूनां रक्षणार्थाय जगज्जेतुं विनिर्गतः ॥६॥
भगवञ्छंबरो नाम दैत्यः पूर्वं जितस्त्वया ॥
तस्य भ्राता महादुष्टः कनीयानुत्कचः स्मृतः ॥७॥
गोकुले कृष्णचंद्रेण मारितः शकटस्थितः ॥
तस्य भ्राता महादुष्टो ज्येष्ठोऽस्ति शकुनिर्बली ॥८॥
जेतुं योग्यस्त्वया देव नान्यैरपि कदाचन ॥
श्रीप्रद्युम्न उवाच -
कस्य वंशे समुद्‍भूतः शकुनिर्नाम दैत्यराट् ॥९॥
कस्मिन्पुरे स्थितिस्तस्य बलं किं वद धर्मज ॥
भद्रश्रवा उवाच -
कश्यपस्य मुनेर्दित्यामादिदैत्यौ बभूवतुः ॥१०॥
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्तथा ॥
हिरण्याक्षस्य तस्यापि बभूवुर्नव पुत्रकाः ॥११॥
शकुनिः शंबरो हृष्टो भूतसंतापनो वृकः ॥
कालनाभो महानाभो हरिश्मश्रुस्तथोत्कचः ॥१२॥
देवकूटाद्दक्षिणे हि जठरस्य गिरेरधः ॥
पुरी चन्द्रावती नाम दैत्यानां दुर्गमंडिता ॥१३॥
शकुनिस्तत्र वसति भ्रातृभिः षड्‌भिरावृतः ॥
यदा यदा हि मुनयो यज्ञारम्भं प्रकुर्वते ॥१४॥
तदा तदा हि तेनापि भंगोऽकारि यदूत्तम ॥
यस्माच्च संति शक्राद्या उद्विग्नाः सात्वतांपते ॥१५॥
जेतुं योग्यस्त्वया देव देवध्रुग्दैत्यपुंगवः ॥
त्वया जितं जगत्सर्वं भक्तानां शांतिकारणात् ॥१६॥
प्रद्युम्नाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः ॥
गोविप्रसुरसाधूनां छंदसां पतये नमः ॥१७॥
श्रीनारद उवाच -
एवं सम्प्रार्थितः साक्षात्प्रद्युम्नो भगवान् हरिः ॥
देवाय भद्रश्रवसे मा भैष्टेत्यभयं ददौ ॥१८॥
अथ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥
पुरीं चंद्रावतीं गन्तुं प्रस्थानमकरोत्तदा ॥१९॥
मन्मुखाच्छकुनिः श्रुत्वा प्रागच्छंतं यदूत्तमम् ॥
दैत्यानां सदसि प्राह शूलमुद्यम्य दैत्यराट् ॥२०॥
शकुनिरुवाच -
दिष्ट्या दिष्ट्या हि शत्रुर्मे प्रद्युम्नोऽत्र समागतः ॥
जेतुं योग्यो मय दैत्या भ्रातुर्मय्यस्ति प्रागृणम् ॥२१॥
भ्राता मे शंबरो नाम येन पूर्वं च मारितः ॥
तस्मात्तं घातयिष्यामि प्रद्युम्नं यदुभिः सह ॥ २२॥
तस्माद्यात बलं तस्य विध्वस्तं कुरुतासुराः ॥
पश्चात्पुरंदराधीशं घातयिष्यामि निर्जरान् ॥२३॥
श्रीनारद उवाच -
इति श्रुत्वा वचस्तस्य दैत्यो हृष्टो महाबलः ॥
आययौ संमुखे योद्धुं दैत्यकोटिसमावृतः ॥२४॥
प्रद्युम्नो भगवान्साक्षाल्लीलामानुषविग्रहः ॥
महत्याः सर्वसेनाया गृध्रव्यूहं चकार ह ॥२५॥
गृध्रचंचौ वर्तमानोऽनिरुद्धो धन्विनां वरः ॥
ग्रीवायामर्जुनः पृष्ठे सांबो जांबवतीसुतः ॥२६॥
पादयोरुभयो राजन्नास्थितौ दीप्तिमद्‍गदौ ॥
कार्ष्णिः साक्षात्तदुदरे पुच्छे भानुर्हरेः सुतः ॥२७॥
बभूव तुमुलं युद्धं सीतागंगातटे नृप ॥
दैत्यानां यदुभिः सार्द्धमब्धीनामब्धिभिर्यथा ॥२८॥
बाणैस्त्रिशूलैर्मुसलैर्मुद्‍गरैस्तोमरर्ष्टिभिः ॥
ववृर्षुर्दानवाः सर्वे धाराभिरिव वारिदाः ॥२९॥
रुरोध सूर्यं चाकाशं सैन्यपादरजो भृशम् ॥
राजन्स्वबाणं च यथा वारिदाः प्रावृडुद्‌भवाः ॥३०॥
वृको हर्षोऽनिलो गृध्रो वर्द्धनोऽन्नाद एव च ॥
महाशः पवनो वह्निः क्षुदिश्च दशमः स्मृतः ॥३१॥
मित्रविंदात्मजा ह्येते युयुधुर्दानवैः सह ॥
बाणांधकारे संजाते वृको नाम हरेः सुतः ॥३२॥
सर्वेषामग्रतः प्राप्तो धनुष्टंकारयन्मुहुः ।
दैत्यान्बिभेद बाणौघैः कुवाक्यैर्मित्रतामिव ॥३३॥
गजान् रथान् हयान् वीरान्पातयामास भूतले ॥
निपेतुश्छिन्नकवचाश्छिन्नचापा रणांगणे ॥३४॥
वृकबाणैर्भिन्नपादा वृक्षा वातहता इव ॥
अधोमुखा ऊर्ध्वमुखा बाणौघैश्छिन्नबाहवः ॥३५॥
रेजू रणांगणे राजन् भांडव्यूहा इवाहताः ॥
द्विधाभूता गजा बाणैः पतिता रणमंडले ॥३६॥
विरेजुश्छुरिकाविद्धाः कूष्मांडशकला इव ॥
तदैव हृष्टः संप्राप्तः सिंहारूढो महाबलः ॥३७॥
बिभेद कवचं तस्य सिंजिनीं दशभिः शरैः ॥
चतुर्भिश्चतुरो वाहान्द्वाभ्यां सूतं ध्वजं तथा ॥३८॥
त्रिभी रथं च बाणानां विंशत्या दनुजाधिपः ॥
छिन्नधन्वा वृको भूत्वा हताश्वो हतसारथिः ॥३९॥
अन्यं रथं समारूढो धनुर्जग्राह रोषतः ॥
तावत्तस्य धनुर्हृष्टश्चिच्छेद समरेऽसुरः ॥४०॥
तदा गदां समादाय वृको यादवपुंगवः ॥
तताड मूर्ध्नि पञ्चास्यं दैत्यं पृष्ठस्थितं पुनः ॥४१॥
मृगेन्द्रः क्रोधसंपूर्णः समुत्पत्य रणांगणे ॥
अनेकान्पातयामास नखैर्दंतैः करैरपि ॥४२॥
हुंकारं भीषणं कृत्वा ललज्जिह्वः स्फुरत्सटः ॥
वृकं संपातयामास रंभादंडं गजो यथा ॥४३॥
गृहीत्वा तु वृको दोर्भ्यां पातयित्वा महीतले ॥
तस्योपरि नदंस्तस्थौ मल्लो मल्लं यथा नृप ॥४४॥
उत्पतंतं पुनः सिंहं चर्वयन्तं तनुं बलात् ॥
तताड मुष्टिना तं वै मित्रविंदात्मजो बली ॥४५॥
तस्य मुष्टिप्रहारेण केसरी पंचतां गतः ॥
तदा क्रुद्धो हृष्टदैत्यः शूलं चिक्षेप सत्वरम् ॥४६॥
शूलं स्फुरन्महोल्काभं चिच्छेद त्वसिना वृकः ॥
तीक्ष्णया तुंडया राजन्फणिनं गरुडो यथा ॥४७॥
हृष्टोऽपि स्वमसिं नीत्वा नादयन् स्वं महाबलम् ॥
जघान तं वृकं मूर्धि कंपयन् वसुधातलम् ॥४८॥
खड्गकोशे ततः खड्गमुपधार्य वृको बली ॥
कंधरे स्वेन खड्गेन तं तताड स्फुरच्छुचम् ॥४९॥
खड्गच्छिन्नं शिरस्तस्य दैतस्य पतितं भुवि ॥
रेजे कमंडलुमिव सकिरीटं सकुंडलम् ॥ ५०॥
हृष्टे मृते तदा दैत्याः शेषा सर्वे पलायिताः ॥
भयातुरा महाराज ययुश्चंद्रावतीं पुरीम् ॥५१॥
देवदुंदुभयो नेदुर्नरदुंदुभयस्तदा ॥
श्रीवृकस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥५२॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें