★-"इतिहास के बिखरे हुए पन्ने"-★

बुधवार, 23 अगस्त 2023

नारद पुराण में शौचविधि-


    नारदपुराणम्- पूर्वार्द्ध- अध्यायः(66)
   
          नारदपुराणम्- पूर्वार्द्ध-
  1.    सनत्कुमार -उवाच-

ततः श्वासानुसारेण दत्वा पादं महीतले।
समुद्र मेखले देवि पर्वतस्तनमण्डले।1.66.१।

विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे।
इति भूमिं तु सम्प्रार्थ्य विहरेच्च यथाविधि।२।

रक्षः कोणे ततो ग्रामाद्गत्वा मन्त्रमुदीरयेत्।
गच्छन्तु ऋषयो देवाः पिशाचा ये च गुह्यकाः।३।

पितृभूतगणाः सर्वे करिष्ये मलमोचनम्।
इति तालत्रयं दत्वा शिरः प्रावृत्य वाससा।४।

दक्षिणाभिमुखं रात्रौ दिवा स्थित्वा ह्युदङ्मुखः।
मलं विसृज्य शौचं तु मृदाद्भिः समुपाचरेत् ।५।

एका लिङ्गे गुदे तिस्रो दश वामकरे मृदः।
करयोः सप्त वै दद्यात्त्रित्रिवारं च पादयोः।६।

एवं शौचं विधायाथ गण्डूषान्द्वादशैव तु।
कृत्वा वनस्पतिं चाथ प्रार्थयेन्मनुनामुना ।७।

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च।
श्रियं प्रज्ञां च मेधां च त्वं नो देहि वनस्पते।८।

संप्रार्थ्यैवं दन्तकाष्ठं द्वादशाङ्गुलसंमितम्।
गृहीत्वा काममंत्रेण कुर्यान्मन्त्री समाहितः।९।

कामदेवपदं ङेन्तं तथा सर्वजनप्रियम्।
हृदन्तः कामबीजाढ्यं दन्तांश्चानेन शोधयेत् ।१०।

जिह्वोल्लेखो वाग्भवेन मूलेन क्षालयेन्मुखम्।
देवागारं ततो गत्वा निर्माल्यमपसार्य च ।११।

परिधायाम्बरं शुद्धं मङ्गलारार्तिकं चरेत्।
अस्त्रेण पात्रं संप्रोक्ष्य मूलेन ज्वालयेच्च तम् ।१२।

संपूज्य पात्र्रमादायोत्थाय घण्टां च वादयेत्।
सुगोघृतप्रदीपेन भ्रामितेन समन्ततः ।१३।

वाद्यैर्गींतैर्मनोज्ञैश्च देवस्यारार्तिकं भवेत्।
इति नीराजनं कृत्वा प्रार्थयित्वा निजेश्वरम् ।१४।

स्नातुं यायान्निम्नगादौ कीर्तयन्देवतागुणान्।
गत्वा तीर्थं नमस्कृत्य स्नानीयं च निधाय वै ।१५।

मूलाभिमन्त्रितमृदमादाय कटिदेशतः।
विलिप्य पादपर्यन्तं क्षालयेत्तीर्थवारिणा।१६।

ततश्च पञ्चभिः पादौ प्रक्षाल्यान्तर्जले पुनः।
प्रविश्य नाभिमात्रे तु मृदं वामकरस्य च १७।।

मणिबन्धे हस्ततले तदग्रे च तथा पुनः।
कृत्वाङ्गुल्या गाङ्गमृदमादायास्त्रेण तत्पुनः।१८।

निजोपरि च मन्त्रज्ञो भ्रामयित्वा त्यजेत्सुधी।
तलस्थां च षडङ्गेषु तन्मन्त्रैः प्रविलेपयेत् ।१९।

निमज्य क्षालयेत्सम्यग् मलस्नानमितीरितम्।
विभाव्येष्टमयं सर्वमान्तरं स्नानमाचरेत् ।२०।

अनन्तादित्यसङ्काशं निजभूषायुधैर्युतम्।
मन्त्रमूर्तिं प्रभुं स्मृत्वा तत्पादोदकसंभवाम् ।२१।

धारां च ब्रह्मरन्ध्रेण प्रविशन्तीं निजां तनुम्।
तया संक्षालयेत्सर्वमन्तर्द्देहगतं मलम् ।२२।

तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः।
ततः श्रौतोक्तविधिना स्नात्वा मन्त्री समाहितः।२३।

मन्त्रस्नानं ततः कुर्यात्तद्विधानमथोच्यते।
देशकालौ च सङ्कीर्त्य प्राणायामषडङ्गकैः।२४।

कृत्वार्कमन्दलात्तीर्थान्याह्वयेन्मुष्टिमुद्र या।
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः।२५।

तेन सत्येन मे देव देहि तीर्थं दिवाकर २६।

गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन्सन्निधिं कुरु।२७।

इत्यावाह्य जले तानि सुधाबीजेन योजयेत्।
गोमुद्र यामृतीकृत्य कवचेनावगुण्ठ्य च ।२८।

संरक्ष्यास्त्रेण तत्पश्चाच्चक्रमुद्रां प्रदर्शयेत्।
वह्न्यर्केन्दुमण्डलानि तत्र सन्चितयेद्बुधः ।२९।

मन्त्रयेदर्कमन्त्रेण सुधाबीजेन तज्जलम्।
मूलेन चैकादशधा तत्र सम्मन्त्र्य भावयेत् ।३०।

पूजायन्त्रं च तन्मध्ये स्वान्तादावाह्य देवताम्।
स्नापयित्वार्चयेत्तां च मानसैरुपचारकैः ।३१।

सिंहासनस्थां तां नत्वा तज्जलं प्रणमेत्सुधीः।
आधारः सर्वभूतानां विष्णोरतुलतेजसः ।३२।

तद्रू पाश्च ततो जाता आपस्ताः प्रणमाम्यहम्।
इति नत्वा समारुन्ध्य सप्तच्छिद्राणि साधकः।३३।

निमज्य सलिले तस्मिन्मूलं देवाकृतिं स्मरेत्।
निमज्ज्योन्मज्ज्य त्रिश्चैवं सिंचेत्कं कुंभमुद्रया।३४।

त्रिर्मूलेन चतुर्मन्त्रैरभिर्षिञ्चेन्निजां तनुम्।
चत्वारो मनवस्तेऽत्र कथ्यन्ते तान्त्रिका मुने।३५।

सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापतेः।
मातरः सर्वभूतानामापो देव्यः पुनन्तु माम्।३६।

अलक्ष्मीर्मलरूपा या सर्वभूतेषु संस्थिता।
क्षालयन्ति च तां स्पर्शादापो देव्यःपुनन्तुमाम्।३७।

यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि।
ललाटे कर्णयोरक्ष्णोरापस्तद्धन्तु वो नमः।३८।

आयुरारोग्यमैश्वर्यमरिपक्षक्षयं शुभम्।
सन्तोषःक्षान्तिरास्तिक्यं विद्या भवतु वो नमः।३९।

विप्रपादोदकं पीत्वा शालग्रामशिलाजलम्।
पिबेद्विरुद्धं नो कुर्यादेषां तु नियतो विधिः।४०।

पृथिव्यां यानि तीर्थानि दक्षाङ्घ्रौ तानि भूसुरे।
स्वेष्टदेवं समुद्वास्य मन्त्री मार्तण्डमण्डले।४१।

ततस्तीरं समागत्य वस्त्रं संक्षाल्य यत्नतः।
वाससी परिधायाथ कुर्यात्सन्ध्यादिकं सुधीः।४२।

रोगाद्यशक्तो मनुजः कुर्यात्तत्राघमर्षणम्।
अथवा भस्मना स्नातो रजोभिश्चैव वाऽक्षमः।४३।

अथ सन्ध्यादिकं कुर्यात् स्थित्वा चैवासने शुभे।
केशवेन तथा नारायणेन माधवेन च ।४४।

संप्राश्य तोयं गोविन्दविष्णुभ्यां क्षालेत्करौ।
मधुसूदनत्रिविक्रमाभ्यामोष्ठौ च मार्जयेत् ।४५।

वामनश्रीधराभ्यां च मुखं हस्तौ स्पृशेत्ततः।
हृषीकेशपद्मनाभाभ्यां स्पृशेच्चरणौ ततः।४६।

दामोदरेण मूर्द्धानं मुखं सङ्कर्षणेन च।
वासुदेवेन प्रद्युम्नेन स्पृशेन्नासिके ततः।४७।

अनिरुद्धपुरुषोत्तमाभ्यां नेत्रे स्मृशेत्ततः।
अधोक्षजनृसिंहाभ्यां श्रवणे संस्पृशेत्तथा।४८।

नाभिं स्पृशेदच्युतेन जनार्दनेन वक्षसि।
हरिणा विष्णुनांसौ च वैष्णावाचमनं त्विदम् ।४९।

प्रणवाद्यैर्ङेतमोन्तैः केशवादिकनामभिः।
मुखे नसोः प्रदेशिन्याऽनामया नेत्रकर्णयोः 1.66.५०।
कनिष्ठया नाभिदेशं सर्वत्राङ्गुष्ठयोजनम्।
आत्मविद्याशिवैस्तत्त्वैस्वाहान्तैः शैवमीरितम्।५१।

दीर्घत्रयेन्दुयुग्व्योमपूर्वकैश्च पिबेज्जलम्।
आत्मविद्याशिवैरेव शैवं स्वाहावसानिकैः।५२।

वालज्जाश्रीमुखैः प्रोक्तं शाक्तं स्वाहावसानिकैः।
वाग्लज्जाश्रीमुखैः प्रोक्तं द्विजाचमनमर्थदम् ।५३।

तिलकं च ततः कुर्याद्भाले सुष्ठु गदाकृति।
नन्दकं हृदये शखचक्रे चैव भुजद्वये।५४।

शार्ङ्गबाणं मस्तके च विन्यसेत्क्रमशः सुधीः।
कर्णमूले पार्श्वयोश्च पृष्ठे नाभौ ककुद्यपि।५५।

एवं तु वैष्णवः कुर्यान्मृद्भिस्तीर्थोद्भवादिभिः।
अग्निहोत्रोद्भवं भस्म गृहीत्वा त्र्यम्बकेण तु ।५६।

किवाग्निरिति मंत्रैणाभिमन्त्र्य पञ्चमन्त्रकैः।
क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः।५७।

पञ्च कुर्यात्त्रिपुन्ड्राणि भालांसोदरहृत्सु च।
शैवः शाक्तत्त्रिकोणाभं नारीवद्वा समाचरेत् ।५८।

कृत्वा तु वैदिकीं सन्ध्यां तान्त्रिकीं च समाचरेत्।
आचम्य विधिवन्मन्त्री तीर्थान्यावाह्य पूर्ववत् ।५९।

ततस्त्रिवारं दर्भेण भूमौ तोयं विनिःक्षिपेत्।
सप्तधा तज्जलेनाथ मूर्द्धानमभिषेचयेत् ।६०।

ततश्च प्राणानायम्य कृत्वा न्यासं षडङ्गकम्।
आदाय वामहस्तेऽम्बु दक्षेणाच्छाद्य पाणिना।६१।

वियद्वाय्वग्नितोयक्ष्माबीजैः सन्मन्त्र्य मन्त्रवित्।
मूलेन तस्मात् श्चोतद्भिर्बिन्दुभिस्तत्त्वमुद्रया।६२।

स्वशिरः सप्तधा प्रोक्ष्यावशिष्टं तत्पुनर्जलम्।
कृत्वा तदक्षरं मन्त्री नासिकान्तिकमानयेत्।६३।

जलं तेजोमयं तच्चाकृष्यान्तश्चेडया पुनः।
प्रक्षाल्यान्तर्गतं तेन कलमषं तज्जलं पुनः।६४।

कृष्णवर्णं पिङ्गलया रचयेत्स्वाग्रतस्तथा।
क्षिपेदस्त्रेण तत्पश्चात्कल्पिते कुलिशोपले ।६५।

एतद्धि सर्वपापघ्नं प्रोक्तं चैवाघमर्षणम्।
ततश्च हस्तौ प्रक्षाल्य प्राग्वदाचम्य मन्त्रवित्।६६।

समुत्थाय च मन्त्रज्ञस्ताम्रपात्रे सुमादिकम्।
प्रक्षिप्यार्घं प्रदद्याद्वै मूलान्तैर्मन्त्रमुच्चरन्।६७।

रविमंडलसंस्थाय देवायार्घ्यं प्रकल्पयेत्।
दत्वार्घं त्रिरनेनाथ देवं रविगतं स्मरेत् ।६८।

स्वल्पोक्तां च गायत्रीं जपेदष्टोत्तरं शतम्।
अष्टांविंशतिवारं वा गुह्येतिमनुनार्पयेत्।६९।

उद्यदादित्यसंकाशां पुस्तकाक्षकरांबुजाम्।
कृष्णाजिनाम्बरां ब्राह्मीं ध्यायेत्ताराङिकतेऽम्बरे ७०।
मध्याह्ने वरदां देवी पार्वतीं संस्मरेत्पराम्।
शुक्लाम्बरां वृषारूढां त्रिनेत्रां रविबिम्बगाम्।७१।

वरं पाशं च शूलं च दधानां नृकरोटिकाम्।
सायाह्ने रत्नभूषाढ्यां पीतकौशेयवाससाम् ।७२।

श्यामरङ्गां चतुर्हस्तां शङ्खचक्रलसत्कराम्।
गदापद्मधारां देवीं सूर्यासनकृताश्रयाम् ।७३।

ततो देवानृषींश्चैव पितॄश्चापि विधानवित्।
तर्पयित्वा स्वेष्टदेवं तर्पयेत्कल्पमार्गतः।७४।

गुरुपङिक्तं च सन्तर्प्य साङ्गं सावरणं तथा।
सायुधं वैनतेयं सन्तर्पयामीति तर्पयेत्।७५।

नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान्।
विष्वक्सेनं च शैलेयं वैष्णवः परितर्पयेत्।७६।

एवं सन्तर्प्य विप्रेन्द्र दत्त्वार्घ्यं च विवस्वते।
पूजागारं समागत्य प्रक्षाल्यान्घ्री उपस्पृशेत् ।७७।

अग्निहोत्रस्थितानग्नीन् हुत्वोपस्थाय यत्नतः।
पूजास्थलं समागत्य द्वारपूजां समाचरेत् ।७८।

गणेशं चोर्द्धशाखायां महालक्ष्मीं च दक्षिणे।
सरस्वतीं वामभागे दक्षे विघ्नेश्वरं पुनः ।७९।

क्षेत्रपालं तथा वामे दक्षे गङ्गां प्रपूजयेत्।
वामे च यमुनां दक्षे धातारं वामतस्तथा ।८०।

विधातारं शङ्खपद्मनिधींश्च वामदक्षयोः।
द्वारपालांस्ततोऽभ्यर्चेत्तत्तत्कल्पोदितान्सुधीः।८१।

नन्दः सुनन्दश्चंडण्श्च प्रचण्डः प्रचलोबलः।        भद्र:! सुभद्र श्चेत्याद्या वैष्णवा द्वारपालकाः।८२।

नन्दी भृङ्गी रिटीस्कन्दो गणेशोमामहेश्वराः।
वृषभश्च महाकालः शैवा वै द्वारपालकाः।८३।

ब्राह्मयाद्य्रा मातरोऽष्टौ तु शक्तयो द्वाःस्थिताः स्वयम्।
सेन्दुः स्वनामाघर्णाद्या ङेनमोन्ता इमे स्मृताः।८४।

ततः स्थित्वासने धीमानाचम्य प्रयतः शुचिः।
दिव्यान्तरिक्षभौमांश्च विघ्नानुत्सार्य यत्नतः।८५।

केशवाद्यां मातृकां तु न्यसेद्वैष्णवसत्तमः।
केशवः कीर्तिसंयुक्तः कांत्या नारायणस्तथा।८६।

माधवस्तुष्टिसहितो गोविन्दः पुष्टिसंयुतः।
विष्णुस्तु धृतिसंयुक्तः शान्तियुङ्मधुसूदनः।८७।

त्रिविक्रमः क्रियायुक्तो वामनो दयितायुतः।
श्रीधरो मेधया युक्तो हृषीकेशश्च हर्षया ।८८।

पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता।
वासुदेवश्च लक्ष्मीयुक् सङ्कर्षण सरस्वती ।८९।

प्रद्युम्नः प्रीतिसंयुक्तोऽनिरुद्धो रतिसंयुतः।
चक्री जयायुतः पश्चाद्गदी दुर्गासमन्वितः।९०।

शार्ङ्गी तु प्रभया युक्तः खड्गी युक्तस्तु सत्यया।
शङ्खी चण्डासमायुक्तो हली वाणीसमायुतः।९१।

मुसली च विलासिन्या शूली विजययान्वितः।
पाशी विरजया युक्तो कुशी विश्वासमन्वितः ।९२।

मुकुन्दो विनतायुक्तो नन्दजश्च सुनन्दया।
निन्दी स्मृत्या समायुक्तो नरो वृद्ध्या समन्वितः।९३।
समृद्धियुङ्नरकजिच्छुद्धियुक्च हरिः स्मृतः।
कृष्णो बुद्ध्या युतः सत्यो भुक्त्या मुक्त्याथ सात्वतः।९४।

सौरिक्षमे सूररमे उमायुक्तो जनार्दनः।
भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया।९५।

वैकुण्ठो वसुधायुक्तो वसुदः पुरुषोत्तमः।
बली तु परया युक्तो बलानुजपरायणे।९६।

बालसूक्ष्मे बृषघ्नस्तु सन्ध्यायुक्प्रज्ञया वृषः।
हंसःप्रभासमायुक्तो वराहो निशया युतः।९७।

विमलो धारया युक्तो नृसिंहो विद्युता युतः।
केशवादिमातृकाया मुनिर्नारायणो मतः।९८।

अनृताद्या च गायत्री छन्दो विष्णुश्च देवता।
चक्राद्यायुधसंयुक्तं कुम्भादर्शधरं हरिम्।९९।

लक्ष्मीयुतं विद्युदाभं बहुभूषायुतं भजेत्।
एवं ध्यात्वा न्यसेच्छक्तिं श्रीकामपुटिताक्षरम् 1.66.१००।

वदेत्तद्विष्णुशक्तिभ्यां हृदयं प्रणवादिकम्।
त्वगसृङ्माांसमेदोऽस्थिमज्जाशुक्राण्यसून्वदेत्।१०१।

प्राणं क्रोधं तथा मभ्यामन्तान्यादिदशस्वपि।
एक मौलौ मुखे चैक द्विक नेत्रे द्विकं श्रुतौ।१०२।

नसोर्द्वयं कपोले च द्वयं द्वे द्विरदच्छदे।
एकं तु रसनामूले ग्रीवायामेकमेव च।१०३।

कवर्गं दक्षिणे बाहौ चवर्गं वामबाहुके।
टतवर्गौ पादयोस्तु पफौ कुक्षिद्वये न्यसेत् ।१०४।

पृष्ठवंशे वमित्युक्तं नाभौ भं हृदये तु मम्।
यादिसप्तापि धातुस्था हं प्राणे लं तथात्मनि।१०५।

क्षं क्रोधे क्रमतो न्यस्य विष्णुपूजाक्षमो भवेत्।
पूर्णोदर्या तु श्रीकण्ठो ह्यनन्तो विजरान्वितः।१०६।

सूक्ष्मेशः शाल्मलीयुक्तो लोलाक्षीयुक्त्रिमूर्तिकः।
महेश्वरो वर्तुलाक्ष्याधीशो वै दीर्घघोणया।१०७।

दीर्घमुख्या भारभूतिस्तिथीशो गोमुखीयुतः।
स्थावरेशो दीर्घजिह्वायुग्धरः कुडोदरीयुतः।१०८।

उर्द्ध्वकेश्या तु झिण्टीशो भौतिको विकृतास्यया।
सद्यो ज्वालामुखीयुक्तोल्कामुख्यानुग्रहो युतः १०९।
अक्रूर आस्यया युक्तो महासेनो विद्यया युतः।
क्रोधीशश्च महाकाल्या चण्डेशेन सरस्वती।११०।

पञ्चान्तकः सिद्धगौर्या युक्तश्चाथ शिरोत्तमः।
त्रैलोक्यविद्यया युक्तो मन्त्रशक्त्यैकरुद्रकः।१११।

कूर्मेशः कमठीयुक्तो भूतमात्रैकनेत्रकः।
लम्बोदर्या चतुर्वक्त्रो ह्यजेशो द्राविणीयुतः।११२।

सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः।
मर्यादया लाङ्गलीशो दारुकेशेन रूपिणी।११३।

वारुण्या त्वर्द्धनारीशो उमाकान्तो मुनीश्वरः।
काकोदर्या तथाषाढी पूतनासंयुतो मतः।११४।

दण्डीशो भद्रकालीयुगत्रीशो योगिनीयुतः।
मीनेशः शङिखनीयुक्तो मेषेशस्तर्जनीयुतः।११५।

लोहितः कालरात्र्या च शिखीशः कुजनीयुतः।
छलगण्डः कपर्दिन्या द्विरण्डेशश्च वज्रया ।११६।

महाबलो जयायुक्तो बलीशः सुमुखेश्वरी।
भुजङ्गो रेवतीयुक्तः पिनाकी माधवीयुतः।११७।

खड्गीशो वारुणीयुक्तो बकेशो वायवीयुतः।
श्वेतोरस्को विदारिण्या भृगुः सहजया युतः।११८।

लकुलीशश्च लक्ष्मीयुक् शिवेशो व्यापिनीयुतः।
संवर्तके महामाया प्रोक्ता श्रीकण्ठमातृका।११९।

यत्र स्वीशपदं नोक्तं तत्र सर्वत्र योजयेत्।
मुनिस्स्याद्दक्षिणामूर्तिर्गायत्रीछन्द ईरितम् ।१२०।

देवता चार्द्धनारीशो विनियोगोऽखिलाप्तये।
हलो वीजानि चोक्तानि स्वराः शक्तय ईरिताः १२१।
कुर्याद्भृगुस्थाकाशेन षड्दीर्घाढ्येन चाङ्गकम्।
बन्धूकस्वर्णवर्णागं वराक्षाङ्कुशपाशिनम्।१२२।

अर्द्धेन्दुशेखरं त्र्यक्षं देववन्द्यं विचिन्तयेत्।
ध्यात्वैवं शिवशक्तीश्च चतुर्थी हृदयान्तिमे।१२३।

सौबीजमातृकापूर्वे विन्यसेन्मातृका स्थले।
विघ्नेशश्च ह्रिया युक्तो विघ्नराजःश्रिया युतः।१२४।

विनायकस्तथा पुष्ट्या शान्तियुक्तः शिवोत्तमः।
विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती।१२५।

स्वाहया गणनाथश्च एकदन्तः सुमेधया।
कान्त्या युक्तो द्विदन्तस्तु कामिन्या गजवक्रकः।१२६।

निरञ्जनो मोहिनीयुक्कपर्द्दी तु नटीयुतः।
दीर्घजिह्वः पार्वतीयुग्ज्वालिन्या शङ्कुकर्णकः।१२७।

वृषध्वजो नन्दया च सुरेश्या गणनायकः।
गजेन्द्रः कामरूपिण्या शूर्पकर्णस्तथोमया ।१२८।

विरोचनस्तेजोवत्या सत्या लम्बोदरेण च।
महानन्दश्च विघ्नेश्या चतुर्मूर्तिस्वरूपिणी।१२९।

सदाशिवः कामदया ह्यामोदो मदजिह्वया।
दुर्मुखो भूतिसंयुक्तः सुमुखो भौतिकीयुतः।१३०।

प्रमोदः सितया युक्त एकपादो रमायुतः।
द्विजिह्वो महिषीयुक्तो जभिन्याशूरनामकः।१३१।

वीरो विकर्णया युक्तः षण्मुखो भृकुटीयुतः।
वरदो लज्जया वामदेवेशो दीर्घघोणया ।१३२।

धनुर्द्धर्या वक्रतुण्डो द्विरण्डो यामिनीयुतः।
सेनानी रात्रिसंयुक्तः कामान्धो ग्रामणीयुतः।१३३।

मत्तः शशिप्रभायुक्तो विमत्तो लोलनेत्रया।
मत्तवाहश्चञ्चलया जटी दीप्तिसमन्वितः।१३४।

मुण्डी सुभगया युक्तः खड्गी दुर्भगया युतः।
वरेण्यश्च शिवायुक्तो भगया वृषकेतनः ।१३५।

भक्ष्यप्रियो भगिन्या च गणेशो भगिनीयुतः।
मेघनादःसुभगया व्यापी स्यात्कालरात्रियुक्।१३६।

गणेश्वरः कालिकया प्रोक्ता विघ्नेशमातृकाः।
गणेशमातृकायास्तु गणो मुनिभिरीरितः।१३७।

त्रिवृद्गायत्रिकाछन्दो देवः शक्तिगणेश्वरः।
षड्दीर्घाढ्येन बीजेन कृत्वाङ्गानि ततः स्मरेत् १३८।
पांशांकुशाभयवरान्दधानं कज्जहस्तया।
पत्न्याश्लिष्टं रक्ततनुं त्रिनेत्रं गणपे भवेत् ।१३९।

एवं ध्यात्वा न्यसेत्स्वीयबीजपूर्वाक्षरान्वितम्।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथेधिका।१४०।

दीपिका रेचिका चापि मोचिका च पराभिधा।
सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा १४१।
व्यापिनी व्योमरूपा चानन्ता सृष्टिः समृद्धिका।
स्मृतिर्मेधा ततः कान्तिर्लक्ष्मीर्द्धृतिः स्थिरा स्थितिः।१४२।
सिद्धिर्जरा पालिनी च क्षान्तिरीश्वरिका रतिः।
कामिका वरदावाथ ह्लादिनी प्रीतिसंयुता ।१४३।

दीर्घा तीक्ष्णा तथा रौद्रा प्रोक्ता निद्रा च तन्द्रि का।
क्षुधा च क्रोधिनी पश्चात्क्रियाकारी समृत्युका।१४४।

पीता श्वेतारुणा पश्चादसितानन्तया युता।
उक्ता कलामातृकैवं तत्तद्भक्तः समाचरेत् ।१४५।

कलायुङ्मातृकायास्तु मुनिः प्रोक्तः प्रजापतिः।
गायत्रीछन्द आख्यातं देवता शारदाभिधा।१४६।

ह्रस्वदीर्घांतरस्थैश्च तारैः कुर्यात्षडङ्गकम्।
पद्मचक्रगुणैणांश्च दधतीं च त्रिलोचनाम् ।१४७।

पञ्चवक्त्रां भारतीं तां मुक्ताभूषां भजेत्सुधीः।
ध्यात्वैवं तारपूर्वां तां न्यसेन्ङन्तकलान्विताम् १४८।
ततश्च मूलमन्त्रस्य षडङ्गानि समाचरेत्।
हृदयादिचतुर्थ्यन्ते जातीः संयोज्य विन्यसेत्।१४९।

नमः स्वाहा वषट् हुं वौषट् फट् जातय ईरिताः।
ततो ध्यात्वेष्टदेवं तं भूषायुधसमन्वितम् 1.66.१५०।

न्यस्याङ्गषट्कं तन्मूर्तौ ततः पूजनमारभेत् ।१५१।

इति श्री बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे सन्ध्यादिनिरूपणंनाम षट्षष्टिन्तमोऽध्यायः।६६।

प्रस्तुतकर्ता ★-Yadav Yogesh Kumar "Rohi"-★ पर 10:44 am
इसे ईमेल करेंइसे ब्लॉग करें! X पर शेयर करेंFacebook पर शेयर करेंPinterest पर शेयर करें

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नई पोस्ट पुरानी पोस्ट मुख्यपृष्ठ
सदस्यता लें टिप्पणियाँ भेजें (Atom)

यादव योगेश कुमार "रोहि" ग्राम - आज़ादपुर-पत्रालय-पहाड़ीपुर जनपद अलीगढ़---उ०प्र० दूरभाष 807716029

मेरी फ़ोटो
★-Yadav Yogesh Kumar "Rohi"-★
Yadav Yogesh Kumar Rohi village Azadpur post Paharipur district Aligarh U.P. 8077160219
मेरा पूरा प्रोफ़ाइल देखें

ब्लॉग आर्काइव

  • ►  2025 (106)
    • ►  जून (10)
    • ►  मई (8)
    • ►  अप्रैल (14)
    • ►  मार्च (22)
    • ►  फ़रवरी (23)
    • ►  जनवरी (29)
  • ►  2024 (395)
    • ►  दिसंबर (41)
    • ►  नवंबर (53)
    • ►  अक्टूबर (31)
    • ►  सितंबर (21)
    • ►  अगस्त (12)
    • ►  जुलाई (27)
    • ►  जून (31)
    • ►  मई (17)
    • ►  अप्रैल (13)
    • ►  मार्च (46)
    • ►  फ़रवरी (49)
    • ►  जनवरी (54)
  • ▼  2023 (398)
    • ►  दिसंबर (47)
    • ►  नवंबर (30)
    • ►  अक्टूबर (48)
    • ►  सितंबर (34)
    • ▼  अगस्त (30)
      • देशों के पौराणिक नाम-
      • आभीर लोग चातुर्य वर्ण व्यवस्था से अलग वैष्णवी सृष्...
      • हरिवंश पुराण विष्णु पर्व अध्याय -83 से 86 तक यादवो...
      • यादवों की जल विहार क्रीड़ा-
      • कुछ यादव साकाहारी और कुछ मासाँहारी भी थे। जैसा किन...
      • घोष शब्द का इतिहास क्रम-
      • घोष शब्द का इतिहास वैश्विक परिप्रेक्ष्य में"यद्यपि...
      • संस्कृत व हिन्दी वर्णमाला का ध्वनि वैज्ञानिक विवेच...
      • हिन्दी व्याकरण का मानक स्वरूप " संशोधित संस्करण (भ...
      • नारद पुराण में शौचविधि-
      • साबुन शब्द का विकास-
      • स्तूप-
      • कृष्ण देव पूजा अथवा यज्ञ मूलक कर्मकाण्डों के विरोध...
      • एलविस का शब्द का अर्थ - सर्वबुद्धिमान !!
      • गर्गसंहिता विश्वजीत खण्ड - मूल संस्कृत हिन्दी अनुव...
      • कृष्ण देव पूजा के विरोध में क्यों थे ? श्रीकृष्ण स...
      • गर्गसंहिता विश्वजीत खण्ड-
      • पद्म पुराण सृष्टि खण्ड:- अध्याय १२- १८ तक हिन्दी अ...
      • "पश्चिमीय एशिया की संस्कृतियों में ईश्वर वाची शब्द"
      • अश्वमेध का आयोजन-
      • "प्राचीन काल में यज्ञ की अवधारणा -"यज्ञ का अर्थ और...
      • यज्ञ और अग्निहोत्र
      • यज्ञ और हिंसा -
      • वेद में हिंसा विधान
      • मूर्ति पूजा का विधान और मन्दिर की अवधारणा-
      • मन्दिर तीर्थ और धाम-
      • मन्दिर तीर्थ और धाम -
      • भागवतपुराण नवम स्कन्ध प्रथम अध्याय-
      • अहीरों की उत्पत्ति -
      • अहीर जाति की वैष्णव उत्पत्ति-
    • ►  जुलाई (11)
    • ►  जून (19)
    • ►  मई (35)
    • ►  अप्रैल (29)
    • ►  मार्च (39)
    • ►  फ़रवरी (32)
    • ►  जनवरी (44)
  • ►  2022 (166)
    • ►  दिसंबर (34)
    • ►  नवंबर (5)
    • ►  अक्टूबर (14)
    • ►  सितंबर (10)
    • ►  अगस्त (10)
    • ►  जून (3)
    • ►  मई (3)
    • ►  अप्रैल (13)
    • ►  मार्च (23)
    • ►  फ़रवरी (25)
    • ►  जनवरी (26)
  • ►  2021 (267)
    • ►  दिसंबर (15)
    • ►  नवंबर (15)
    • ►  अक्टूबर (20)
    • ►  सितंबर (18)
    • ►  अगस्त (35)
    • ►  जुलाई (17)
    • ►  जून (24)
    • ►  मई (18)
    • ►  अप्रैल (17)
    • ►  मार्च (30)
    • ►  फ़रवरी (27)
    • ►  जनवरी (31)
  • ►  2020 (126)
    • ►  दिसंबर (5)
    • ►  नवंबर (5)
    • ►  अक्टूबर (13)
    • ►  सितंबर (13)
    • ►  अगस्त (3)
    • ►  जुलाई (17)
    • ►  जून (15)
    • ►  मई (16)
    • ►  अप्रैल (16)
    • ►  मार्च (14)
    • ►  फ़रवरी (5)
    • ►  जनवरी (4)
  • ►  2019 (248)
    • ►  दिसंबर (5)
    • ►  नवंबर (8)
    • ►  अक्टूबर (18)
    • ►  सितंबर (17)
    • ►  अगस्त (30)
    • ►  जुलाई (16)
    • ►  जून (22)
    • ►  मई (20)
    • ►  अप्रैल (30)
    • ►  मार्च (22)
    • ►  फ़रवरी (28)
    • ►  जनवरी (32)
  • ►  2018 (393)
    • ►  दिसंबर (38)
    • ►  नवंबर (52)
    • ►  अक्टूबर (33)
    • ►  सितंबर (37)
    • ►  अगस्त (13)
    • ►  जुलाई (15)
    • ►  जून (43)
    • ►  मई (21)
    • ►  अप्रैल (26)
    • ►  मार्च (22)
    • ►  फ़रवरी (19)
    • ►  जनवरी (74)
  • ►  2017 (479)
    • ►  दिसंबर (87)
    • ►  नवंबर (33)
    • ►  अक्टूबर (27)
    • ►  सितंबर (106)
    • ►  अगस्त (49)
    • ►  जुलाई (16)
    • ►  जून (28)
    • ►  मई (16)
    • ►  अप्रैल (90)
    • ►  मार्च (27)
ईथरीयल थीम. Blogger द्वारा संचालित.