पञ्चमपरिच्छेदः
______________________________
परावस्थानिरूपणम्

अथ कृष्णो नर-भ्रातुर् अवतार इति  क्वचित् ।
उपेन्द्रस्येति च क्वापि भ्रातासौ नातिकोविदाम् ॥१॥

यथा स्कान्दे— 
धर्म-पुत्रो हरेर् अंशौ नर-नारायणाभिधौ ।
चन्द्र-वंशम् अनु प्राप्य जातौ कृष्णार्जुनाव् उभौ ॥२॥

श्री-चतुर्थे च (४.१.५९)— 
ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ ।
भार-व्ययाय च भुवः कृष्णौ यदु-कुरूद्वहौ ॥३॥

एतद्-उपोद्बोधकं श्री-दशमे (१०.६९.१६) --
सम्पूज्य देवर्षि-वर्यम् ऋषिः पुराणो
नारायणो नर-सखो विधिनोदितेन ।
वाण्याभिभाष्य मितयामृतम् इष्टया तं
प्राह प्रभो भगवते करवाम हे किम् ॥४॥

उपेन्द्रावतारत्वं च यथा हरिवंशे शक्र-वचने (२.७०.३४)—
ऐन्द्रं वैष्णवम् अस्यैव मुने भागम् अहं ददौ ।
यवीयांसम् अहं प्रेम्ना कृष्णं प्रश्यामि नारद ॥ ५ ॥ इति ।

तद् एतद् उभयत्वं न भवेत् कृष्णे विरोधतः ।
अंशत्वं हि तयोर् उक्तं परावस्थत्वम् अस्य तु ॥६॥

नर-भ्रातुर् इहांशत्वं एते चांशेति वक्ष्यते ।
उपेन्द्रस्य तथात्वं च हरिवंशेपि दृश्यते ॥७॥

तथा हि देवर्षि-वचनम् (२.७१.२१-२३)—

अदित्या तपसा विष्णुर् महात्माराधितः पुरा ।
वरेण च्छन्दिता तेन परितुष्टेन चादितिः ।
तयोक्तस् त्वादृशं पुत्रम् इच्छामीति सुरोत्तम ॥८॥

तेनोक्तं भुवने नास्ति मत्-समः पुरुषो’परः ।
अंशेन तु भविष्यामि पुत्रः खल्व् अहम् एव ते ॥९।इति ।

अथ कृष्णे परावस्थ-भावोग्रे वक्ष्यते स्फुटम् ।
परावस्थश् च् अ सम्पूर्णावस्थः शास्त्रे प्रकीर्तितः ॥
तस्माद्-अंशत्वम् एवास्य विरुद्धं स्फुटम् ईक्षते ॥१०॥

अर्थगत्यन्तरं तेषां वचनानां च दृश्यते ॥११॥

तत्र धर्म-पुत्राव् इत्य् आदौ कारिका—
नर-नारायणौ प्राप्येत्य् आत्म-सात्कृत्य तौ स्वयम् ।
कृष्णार्जुनौ चन्द्र-वंशम् अनु प्रकटतां गतौ ॥१२॥

ताव् इमाव् इत्य् आदि कारिका—
कर्तारौ तौ हरेर् अंशौ नर-नारायणाव् इह ।
द्वापरान्ते कर्म-भूतौ आयातौ कृष्ण-फाल्गुनौ ॥१३॥

सम्पूज्येत्य् आदौ कारिकाः—
सर्वादाव् उपदेष्टृत्वाद् यः पुराणर्षिर् उच्यते ।
नाराणां पुरुषाणां यस् त्रयाणाम् आश्रयः स तु ॥
नरेष् मर्त्य-लोकेषु सहचारी भवन् स्वयम् ।
तद्-धर्मम् अनुकृत्यात्र पूजयामास तं मुनिम् ॥

नारायणाख्येनांशेन कृष्णो यद्यपि तद्-गुरुः ।
नारदं पूजयामास तथापि क्षत्र-लीलया ॥१४॥

ऐन्द्रम् इत्य् आदौ कारिका—
इन्द्रस् तु नातिकौविद्यान्मत्सराच् चोक्तवान् इदम् ।
तस्मात् कृष्णस्य नो तत्-तद्-रूपत्वं घटते क्वचित् ॥१५॥

अथ परावरस्थाः । यथा पाद्मे—
नृसिंह-राम-कृष्णेषु षाड्गुण्यं परिपूरितम् ।
परावस्थास् तु ते तस्य दीपाद्-उत्पन्न-दीपवत् ॥१६॥
___________
तत्र श्री-नृसिंहः (रोम् बहावार्थ-दीपिका १.१.१, १०.८७.१)—
प्रह्लाद-हृदयाह्लादं भक्ताविद्या-विदारणम् ।
शरद्-इन्दु-रुचिं वन्दे पारीन्द्र-वदनं हरिम् ॥१७॥

वागीशा यस्य वदने लक्ष्मीर् यस्य च वक्षसि ।
यस्यास्ते हृदये संवित् तं नृसिंहम् अहं भजे ॥१८॥

गम्भीर-गर्जितारम्भ-स्तम्भिताम्भोज-सम्भवः ।
संरम्भः स्तम्भ-पुत्रस्य मुनिनोज्जृम्भितो नृपे ॥१९॥

यथा श्री-सप्तमे (७.८.३२-३३) --
सटावधूता जलदाः परापतन्
ग्रहाश् च तद्-दृष्टि-विमुष्ट-रोचिषः ।
अम्भोधयः श्वास-हता विचुक्षुभुर्
निर्ह्राद-भीता दिगिभा विचुक्रुशुः ॥२०॥ 

द्यौस् तत्-सटोत्क्षिप्त-विमान-सङ्कुला
प्रोत्सर्पत क्ष्मा च पदाभिपीडिता ।
शैलाः समुत्पेतुर् अमुष्य रंहसा
तत्-तेजसा खं ककुभो न रेजिरे ॥२१॥ इति ।

उग्रो’प्य् अनुग्र एवायं स्वभक्तानां नृकेशरी ।
केशरीव स्वपोतानाम् अन्येषाम् उग्र-विग्रहः ॥२२॥ 

अस्य श्री-दिव्य-सिंहस्य पर्मानन्द-तुन्दिलः ।
श्रीमन्-नृसिंहतापन्यां महिमा प्रकटीकृतः ॥२३॥

नृसिंहस्य भवेद् वासो जन-लोके महात्मनः ।
सर्वोपरिष्टाच् च तथा विष्णुलोके प्रकीर्तितः ॥२४॥

श्री-राघवेन्द्रः—
पूर्वतोप्य् एष निःशेष-माधुर्यामृत-चन्द्रमाः ।
भाति सद्-गुण-सङ्घेन तुङ्गः श्री-रघु-पुङ्गवः ॥२५॥

पाद्मे—
वन्दामहे महेशानं हर-कोदण्ड-खण्डनम् ।
जानकी-हृदयानन्द-चन्दनं रघुनन्दनम् ॥२६॥

अस्य जन्मोत्सवं ब्रूते श्री-रामार्चन-चन्द्रिका ॥२७॥
उच्चस्थे ग्रह-पञ्चके सुर-गुरौ सेन्दौ नवम्यां तिथौ
लग्ने कर्कटके पुनर् वसुमते मेघं गते पूषणि ।
निर्दग्धुं निखिलाः पलाश-समिधो मेध्यादयोध्यारणेर्
आविर्भूतम् अभूद् अपूर्व-विभवं यत् किञ्चिद् एकं महः ॥२८॥

एकादशे (११.५.३४) --
त्यक्त्वा सु-दुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं
धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् ।
माया-मृगं दयितयेप्सितम् अन्वधावद्
वन्दे महा-पुरुष ते चरणारविन्दम् ॥२९॥

श्री-नवमे (९.११.२०-२१)—
नेदं यशो रघुपतेः सुर-याच्ञयात्त-
लीला-तनोर् अधिक-साम्य-विमुक्त-धाम्नः ।
रक्षो-वधो जलधि-बन्धनम् अस्त्र-पूगैः
किं तस्य शत्रु-हनने कपयः सहायाः ॥३०॥

यस्यामलं नृप-सदःसु यशो ऽधुनापि
गायन्त्य् अघ-घ्नम् ऋषयो दिग्-इभेन्द्र-पट्टम्
तं नाकपाल-वसुपाल-किरीट-जुष्ट-
पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥३१॥ इति ।

अत्र कारिका --
आत्ता प्रकटिता लीलातनुर्लीलामयी तनुः ।
येन तस्येति साम्येति स्वार्थे ष्यञ् प्रत्ययो मतः ॥
धाम-स्वरूपं विज्ञेयम् अधिकेन समेन च ।
विमुक्तं धाम यस्येति माहात्म्यं सर्वतो’धिकम् ।
यस्याधिकः समश् चात्र क्वापि नास्तीति निश्चयः ॥३२॥

नाक-पाला महेन्द्राद्या वसुपा वसुधाधिपाः ॥३३॥

वासुदेवादि-रूपाणाम् अवताराः प्रकीर्तिताः ।
विष्णु-धर्मोत्तरे राम-लक्ष्मणाद्याः क्रमादमी ॥३४॥

पाद्मे तु रामो भगवान् नारायण इतीरितः ।
शेषश् चक्रं च शङ्खश् च क्रमात् स्युर् लक्ष्मणादयः ॥३५॥
मध्य-देश-स्थितायोध्या-पुरे ऽस्य वसतिः स्मृता ।
महा-वैकुण्ठलोके च राघवेद्रस्य कीर्तिता ॥३६॥

श्री-कृष्णः । बिल्वमङ्गले—
सन्त्व् अवतारा बहवः पुष्कर-नाभस्य सर्वतोभद्राः ।
कृष्णाद् अन्यः को वा लतास्व् अपि प्रेमदो भवति ॥३७॥

परमैश्वर्य-माधुर्य-पीयूषापूर्व-वारिधिः ।
देवकी-नन्दनस् त्व् एष पुरः परिचरिष्यते ॥३८॥

यस्य वासः पुराणादौ ख्यातः स्थान-चतुष्टये ।
व्रजे मधुपुरे द्वार-वत्यां गोलोक एव च ॥३९॥

ननु सिंहास्य-रामाभ्यां साम्यम् अस्यागतं स्फुटम् ।
इति विष्णुपुराणीय-प्रक्रियात्र विलोक्यते ॥४०॥ 

तत्र मैत्रेय-प्रश्नः चतुर्थे’ंशे (४.१५.१-२)
हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना ।
अवाप निहतो भोगान् अप्राप्यान् अमरैर् अपि ॥४१॥

नालभत् तत्र चैवेह सायुज्यं स कथं पुनः ।
सम्प्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥४२॥

श्रीपराशरोत्तरम् (४.१५.४-१७)—
दैत्येश्वरस्य वधायाखिल-लोकोत्पत्ति-स्थिति-विनाश-कारिणा पूर्वं तनु-ग्रहणं कुर्वता नृसिंह-रूपम् आविष्कृतम् ॥ तत्र च हिरण्यकशिपोर्विष्णुरयम् इत्य् एतन् न मनस्य् अभूत् ॥ निरतिशय-पुण्य-समुद्भूतम् एतत् सत्त्व-जातम् इति । रज-उद्रेक-प्रेरितैकाग्र-मतिस् तद्-भावनायोगात् ततो’वाप्त-वध-हैतुकीं निरतिशयाम् एवाखिल-त्रैलोक्याधिक्य-धारिणीं दशाननत्वे भोग-सम्पदम् अवाप ॥४३॥

न तु स तस्मिन्न् अनादि-निधने पर-ब्रह्म-भूते भगवत्य् अनालम्बिनि कृते मनसस् तल्-लयम् अवाप ॥४४॥

एवं दशाननत्वे’प्य् अनङ्ग-पराधीनतया जानकी-समासक्त-चेतसा भगवता दाशरथि-रूप-धारिणा हतस्य तद्-रूप-दर्शनम् एवासीत् नायम् अच्युत इत्य् आसक्तिर् विपद्यतो’न्तः-करणे मानुष-बुद्धिर् एव केवलम् अस्याभूत् । पुनर् अप्य् अचुतविनिपात-मात्र-फलम् अखिलभूमण्डल-श्लाघ्य-चेदि-राज-कुले जन्म अव्याहतैश्वर्यं शिशुपालत्वे’प्य् अवाप ॥४५॥

तत्र त्व् अखिलानाम् एव स भगवन्-नाम्नां त्वङ्कार-कारणम् अभवत् । 
ततश् च तत्-काल-कृतानां तेषाम् अशेषाणाम् एवाच्युत-नाम्नाम् अनवरतम् अनेक-जन्मसु वर्धित-विद्वेषानुबन्धि-चित्तो विनिन्दन-सन्तर्जनादिषूच्चारणम् अकरोत् । 

तच् च रूपम् उत्फुल्ल-पद्म-दलामलाक्षमत्य्-उज्ज्वल-पीत-वस्त्र-धार्य् अमल-किरीट-केयूर-हार-कटकादि-शोभितम् उदार-चतुर्-बाहु-शङ्ख-चक्र-गदाधरम् अतिप्ररूढ-वैरानुभावाद् अटन-भोजन-स्नानासन-शयनादिष्व् अशेषावस्थान्तरेषु नान्यअत्रोपययाव् अस्य चेतसः ॥४६॥

ततस् तम् एवाक्रोशेषूच्चारयंस् तम् एव हृदयेन धारयन्न् आत्म-वधाय यावद्-भगवद्-धस्त-चक्रांशु-मालोज्ज्वलम् अक्षय-तेजः-स्वरूपं ब्रह्म-भूतम् अपगत-द्वेषादि-दोषं भगवन्तम् अद्राक्षीत् ॥४७॥

तावच् च भगवच्-चक्रेणाशु व्यापादितस् तत्-स्मरण-दग्धाखिलाघ-सञ्चयो भगवतान्तम् उपनीतस् तस्मिन्न् एव लयम् उपययौ ॥४८॥

 एतत् तवाखिलं मयाभिहितम् । अयं हि भगवान् कीर्तितश् च संस्मृतश् च द्वेषानुबन्धेनापि अखिल-सुरासुरादि-दुर्लभं फलं प्रयच्छति किम् उत सम्यग्-भक्तिमताम् इति ॥४९॥

नोक्तं पराशरेणात्र स्थितौ तौ पार्षदाव् इति ।
किन्तूभयोस् तयोर् आसीज् जन्म-त्रयम् इतीरितम् ॥५०॥
अतः सर्वेषु कल्पेषु न तौ पार्षद-जौ मतौ ।
अन्यथा न तयोः पातः प्रति-कल्पं समञ्जसः ॥५१॥

पराशरेण यद् गद्यं मैत्रेयायोत्तरीकृतम् ।
श्लोकीकृत्य तद् एवेदं सङ्क्षेपेण विलिख्यते ॥५२॥

नृसिंह-रूपं हरिणा यद् आविष्कृतम् अद्भुतम् ।
हिरण्यकशिपोर् अस्मिन् विष्णु-बुद्धिर् न निश्चिता ॥५३॥

किन्त्व् एष पुण्य-सम्पन्नः कोपीति कृत-निश्चयः ।
रज-उद्रिक्तता-नुन्न-मतिस् तद्-भाव-योगतः  ॥५४॥

ततो’वाप्त विनाशैक-हेतुकाम् अखिलोत्तमाम् ।
अवाप भोग-सम्पत्तिं रावणत्वे सुदुर्लभाम् ॥५५॥

विष्णुत्वान् निश्चयान् नातिद्वेषान् नावेश-सन्ततिः ।
तां विना च भवेत् द्वेषो नरकायैव वेणवत् ॥५६॥

किन्त्व् अस्य सम्पत्-सम्प्राप्तिस् तत्-करेण मृतेः परम् ।
एवम् आहैव-शब्देन तत्-साद्गुण्यम् अनुस्मरन् ॥५७॥

आवेशाभावतो दोषानाशाच् छुद्धम् अपश्यतः ।
प्रकटे’पि पर-ब्रह्म-रूपे तत्रास्य नो लयः ॥५८॥

रावणत्वे महाकाम-पराधीनीकृतात्मनः ।
तद्वन् मनुष्य-धीर् अस्य श्री-रामे’भून् मृताव् अपि ॥५९॥

अतो’सौ चेदिराजत्वे पुनर् आपोत्तमां श्रियम् ॥६०॥

तत्र कृष्णे समस्तानाम् एव नाम्नां रमापतेः ।
कारणानि प्रवृत्तेस् तु निमित्तान्य् अभवंस् तदा ॥६१॥

तेन निश्चित्य तं विष्णुं स्वस्य द्विर्-मरणं यतः ।
अतिद्वेषान् महावेशात् तानि नामानि सर्वशः ।
जजल्प सततं शश्वन् निन्दा-सन्तर्जनादिषु ॥६२॥

रूपं च तादृशं दृष्ट्वा विष्णुर् एवेति निश्चयात् ।
नामवत् तच् च सर्वत्र सर्वदा चैव संस्मरन् ॥
दग्ध-तद्-द्वेषजाघौधः क्षिप्ते चक्रे च तद्-रुचा ।
अपेत-दैत्य-भावो’न्ते तथा संस्कृत-दृष्टिकः ।
तदा तूज्ज्वलम् अद्राक्षीत् परं ब्रह्म नराकृति ॥६३॥

तदैव चक्र-घातेन दैत्य-देहे विनाशिते ।
तद् एव ब्रह्म परमम् अनुलीनत्वम् आययौ ॥६४॥

इत्य् उक्त्वाप्य् अत्र बक्यादेर् मोक्षम् अप्य् अर्भ-लीलया ।
अमोक्षं कालनेम्यादेर् अन्यत्रापीश-चेष्टया ।
मुनिः स्मृत्वा पुनः प्राख्यत् अयं हि भगवान् इति ॥६५॥ [Vइড়् ४.१५.१७]

हि प्रसिद्धम् अयं कृष्णो भगवान् स्वयम् एव यत् ।
प्रीणतां द्विषतां चातश् चेतांस्य् आकर्षति द्रुतम् ।
तस्मात् कीर्तित इत्य् आदि माहात्म्यम् चित्रम् अत्र न ॥६६॥
इति विज्ञाय गद्यानां हार्दं सौहार्दतः स्फुञम् ।
तस्मात् स एव कैमुत्याद् भजनीयतयेष्यते ॥६७॥

अथाखिलानां नाम्नां च प्रवृत्तौ कारणं शृणु ॥६८॥

लक्ष्मीश-नामान्य् एवात्र प्रवृत्तेर् हेतु-साम्यतः ।
तथैव हेतुभेदाच् च वर्तन्ते यदु-पुङ्गवे ॥६९॥

दैत्यारिः पुण्डरीकाक्षः शार्ङ्गी गरुड-वाहनः ।
पीताम्बरश् चक्र-पाणिः श्रीवत्साङ्कश् चतुर्भुजः ।
इत्य् आदीन्य् अत्र नामानि प्रवृत्तेर् हेतु-साम्यतः ॥७०॥
__________
वसुदेवस्य पुत्रत्वात् वासुदेवो निगद्यते ।
मधु-वंशे यतो जातः कथ्यते माधवस् ततः ॥७१॥

श्री-हरि-वंशे’पि (२.७.३६) —
स च तेनैव नाम्नात्र कृष्णो वै दाम-बन्धनात् ।
गोष्ठे दामोदर इति गोपीभिः परिगीयते ॥७२॥

तत्रैव (१५८.३०-३२) —
अधोनेन शयानेन शकटान्तर-चारिणा ।
राक्षसी निहता रौद्री शकुनी-वेश-धारिणी ॥
पूतना-नाम सा घोरा महाकाया महाबला ।
विष-दिग्धं स्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥७३॥

ददृशुर् निहतां तत्र राक्षसीं वन-गोचराः ।
पुनर् जातो’यम् इत्य् आहुर् उक्तस् तस्माद् अधोक्षजः ॥ इति ॥७४॥

एषो’धः शकटस्याक्षे पुनर् जात इवेत्य् अतः ।
अधोक्षज इति प्राहुर् इति टीका कृतोदितम् ॥७५॥

तत्रैव (२.९.४५)  --
अहं किलेन्द्रो देवानां त्वं गवाम् इन्द्रतां गतः ।
गोविन्द इति लोकास् त्वां गास्यन्ति भुवि शाश्वतम् ॥७६

तत्रैव (२.९.४६)—
ममोपरि यथेन्द्रत्वं स्थापितो गोभिर् ईश्वरः ।
उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः ॥७७॥
________________
श्री-विष्णु-पुराणे (५.१६.२३)— 
यस्मात् त्वयैव दुष्टात्मा हतः केशी जनार्दन ।
तस्मात् केशव-नाम्ना त्वं लोके ज्ञेयो भविष्यसि ॥७८॥ इति । 

इत्य् आदिन्य् अत्र नामानि प्रवृत्तेर् हेतु-भेदतः ।
एषां प्रवृत्तेर् हेतुत्वम् अन्यद् एव रमापतौ ॥७९॥
किं चासुराणां द्विषतां कृष्णम् अप्राप्य नान्यतः ।
कुतो’पि मुक्तिर् इत्य् आख्याद् एव-कार-द्वयेन सः ॥८०॥

तथा हि श्री-गीतायां (१६.१९-२०)
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥८१॥
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।
माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥८२॥ इति ।

मां कृष्ण-रूपिणं यावन् नाप्नुवन्ति मम द्विषः ।
तावद् एवाधमं योनिं प्राप्नुवन्तीति हि स्फुटम् ॥ ८३ ॥

तस्मात् त्रयाणाम् एवायं श्रेष्ठ इत्य् अत्र विस्मयः ।
को वा स्यात् न तथा यस्मात् स्वभावो’न्यत्र दृश्यते ॥८४॥

अतो मन्वक्षर-मनोः कल्पे स्वायम्भुवागमे ।
पूज्यन्ते’स्यावृतित्वेन राम-सिंहाननादयः ॥८५॥
नन्व् इदं श्रूयते शास्त्रे महा-वाराह-वाक्यतः ।

सर्वे नित्याः शाश्वताश् च दहास् तस्य परात्मनः ।
हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् ॥
परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ।
सर्वे सर्व-गुणैः पूर्णा सर्व-दोष-विवर्जिताः ॥८६।

किं च नारद-पञ्चरात्रे— 
मणिर् यथा विभागेन नील-पीतादिभिर् युतः ।
रूप-भेदम् अवाप्नोति ध्यान-भेदात् तथा विभुः ॥८७॥ इति ।

तस्मात् कथं तारतम्यं तेषां व्याख्यायते ।
अत्रोच्यते परेश्वत्वात् पूर्णा यद्यपि ते’खिलाः ।
तथाप्य् अखिल-शक्तीनां प्राकट्यं तत्र नो भवेत् ॥८८॥

अंशत्वं नाम शक्तीनां सदाल्पांश-प्रकाशिता ।
पूर्णत्वं च स्वच्छयैव नाना-शक्ति-प्रकाशिता ॥८९॥

शक्तिर् ऐश्वर्य-माधुर्य-कृपा-तेजो-मुखा गुणाः ।
शक्तेर् व्यक्तिस् तथाव्यक्तिस् तारतम्यस्य कारणम् ॥९०॥

शक्तिः समापि पूर्यादि-दाहे दीपाग्नि-पुञ्जयोः ।
शीताद्य्-आर्ति-क्षयेनाग्नि-पुञ्जाद् एव सुखं भवेत् ॥९१॥

एवम् एव गुणादीनाम् आविष्कारानुसारतः ।
भव-ध्वंसेन सौख्यं स्यात् भक्तादीनां यथायथम् ॥९२॥

एकत्वं च पृथक्त्वं च तथांशत्वम् उतांशिता ।
तस्मिन्न् एकत्र नायुक्तम् अचिन्त्यानन्त-शक्तितः ॥९३॥

तत्रैकत्वे’पि पृथक् प्रकाशिता, यथा श्री-दशमे (१०.६९.२)--
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ ९४ ॥

पृथक्त्वे’प्य् एकरूपतापत्तिः, यथा पाद्मे—
स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः ।
एकीभूय पुनः शेते निर्दोषो हरिर् आदिकृत् ॥ ९५ ॥ इति ।

यथा श्री-दशमे (१०.४०.७)—
यजन्ति त्व-मयास् त्वां वै बहु-मूर्त्य्-एक-मूर्तिकम् ॥ ९६ ॥ इति ।

कौर्मे च --
अस्थूलश् चानणुश् चैव स्थूलो’णुश् चैव सर्वतः ।
अवर्णः सर्वतः प्रोक्तः श्यामो रक्ताक्त-लोचनः ।
ऐश्वर्य-योगाद् भगवान् विरुद्धार्थो’भिधीयते ॥ ९७॥

तथापि दोषाः परमे नैवाहार्यः कथञ्चन ।
गुणा विरुद्धा अप्य् एते समाहार्याः समन्ततः ॥९८॥

श्री-षष्ठ-स्कन्धे [६.९.३३-३५] च मिथो विरुद्धाचिन्त्य-शक्तित्वं यथा गद्येषु—
दुरवबोध इवायं तव विहार-योगो यद् अशरणो’शरीर इदम् अनवेक्षितास्मत्-समवाय आत्मनैवाविक्रियमाणेन स-गुणम् अगुणः सृजसि हरसि पासि ॥९९॥

अथ तत्र भवान् किं देव-दत्तवद् इह गुण-विसर्ग-पतितः पारतन्त्र्येण स्वकृत-कुशलाकुशलं फलम् उपाददाति । अहो स्विद् आत्माराम उपशम-शीलः समञ्जस-दर्शन उपास्ते इति ह वाव न विदामः ॥१००॥

न हि विरोध उभयं भगवत्य् अपरिगणित-गुण-गणे ईश्वरे अनवगाह्य-माहात्म्ये’र्वाचीन-विकल्प-वितर्क-विचार-प्रमाणाभास-कुतर्क-शास्त्र-कलितान्तः-करणाशय-दुरवग्रह-वादिनां विवादानवसरे उपरत-समस्त-माया-मये केवल एवात्म-मायाम् अन्तर्धाय को न्व् अर्थो दुर्घट इव भवति स्वरूप-द्वयाभावात् सम-विषम-मतीनां मतम् अनुसरसि यथा रज्जु-खण्डः सर्पादि-धियाम् ॥१०१॥

विना शरीर-चेष्टत्वं विना भूम्यादि-संश्रयम् ।
विना सहायांस् ते कर्माविक्रियस्य सुदुर्गमम् ॥१०२॥

उक्तो गुण-विसर्गेण देवासुर-रणादिकः ।
तस्मिन् पतित आसक्तः पारतन्त्र्यस् तु तद् भवेत् ।
यदाश्रितेषु देवेषु पारवश्यं कृपाकृतम् ॥१०३॥

तेन स्वकृतम् आत्मीय-कृतं शुभ-शुभेतरत् ।
सुख-दुःखादि-रूपं किं फलं स्वीकुरुते भवान् ॥१०४॥

आत्मारामतया किंवा तत्रोदास्तेतराम् इति ।
न विद्मः किन्तु नैवेदं विरुद्धम् उभयं त्वयि ॥१०५॥

तत्र हेतुर् भगवतीत्य् आदि प्रोक्तं पद-द्वयम् ।
तथैवेश्वर इत्य् आदि-पदानां पञ्चकं मतम् ॥१०६॥

भगवत्त्वेन सार्वज्ञं सद्-गुणत्वं तथान्यतः ।
ब्रह्मत्वं केवलत्वेन लभ्यते तत्र च स्फुटम् ॥१०७॥

यद्यपि ब्रह्मता-हेतोः सर्वत्र स्यात् तटस्थता ।
तथाप्य् आदि-गुण-द्वय्या भवेद् भतानुकूलता ॥१०८॥

नन्व् एकस्य स्वरूपस्य द्वैरूप्यं कथम् एकदा ।
तत्राह अर्वाचीनेति तादृशानां हि वादिनाम् ।
विवादस्यानवसरे तस्य तावद् अगोचरे ॥१०९॥

अतो’चिन्त्यात्म-शक्तिं तां मध्येकृत्यात्र दुर्घटः ।
को न्व् अर्थः स्याद् विरुद्धो’पि तथैवास्या ह्य् अचिन्त्यता 
सा च नानाविरुद्धानां कार्याणाम् आश्रयान् मता ॥११०॥

श्रुतेस् तु शब्द-मूलत्वाद् इति च ब्रह्म-सूत्र-कृत् ।
अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् ।
इति स्कान्द-वचस् तच् च मण्यादिष्व् अपि दृश्यते ॥१११॥

तादृशीं च विना शक्तिं न सिध्येत् परमेशता ।
यतश् चानवगाह्यत्वेनास्य माहात्म्यम् उच्यते ॥११२॥

अज्ञानम् इन्द्र-जालं वा वीक्ष्यते यत्र कुत्रचित् ।
अतो न पारमैश्वर्यं तेन तस्य प्रसिध्यति ॥११३॥

तच् च तस्य न हीत्य् आह स्फुटं चोपरतेत्य् अदः ।
तथा भगवतीत्य् आदि-पदानां षट्-तयस्य च ।
भवेत् प्रयोग-तात्पर्यम् अत्र निष्फलम् एव हि ॥११४॥

तस्मान् न शास्त्र-युक्तिभ्याम् उभयं तद् विरुध्यते ।
तथाप्य् उच्चावच-धियाम् अनेवं-तत्त्व-वेदिनाम् ।
मतानुसारतो भासि रज्जूवत् त्वं तथा तथा ॥११५॥

ननु भोः केवलं ज्ञानं ब्रह्म स्याद् भगवान् पुनः ।
नानाधर्मेति तत्रापि स्वरूप-द्वय्म् ईक्ष्यते ॥
इति प्राह स्वरूपेति तत्-स्वरूपस्य नैव हि ।
कदापि द्वैतम् एकस्य धर्म-द्वयम् इदं ध्रुवम् ॥११६॥

ततो विरोधस् तच्-छक्ति-विलासानां यद् ईक्ष्यते ।
तद् एवाचिन्त्यम् ऐश्वर्यं भूषणं न तु दूषणम् ॥११७॥

इयम् एव विरोधोक्तिस् तृतीये’पि च दृश्यते ॥

कर्माण्य् अनीहस्य भवो ऽभवस्य ते
दुर्गाश्रयो ऽथारि-भयात् पलायनम् ।
कालात्मनो यत् प्रमदा-युताश्रमः
स्वात्मन्-रतेः खिद्यति धीर् विदाम् इह ॥ ११८ ॥ 
(३.४.१६) इति ।

तत् तन् न वास्तवं चेत् स्यात् विद्यां बुद्धि-भ्रमस् तदा ।
न स्याद् एवेत्य् अचिन्त्यैव शक्तिर् लीलासु कारणम् ॥
यथा यथा च तस्येच्छा सा व्यनक्ति तथा तथा ॥११९॥

एवं प्रासङ्गिकं प्रोच्य प्रकृतार्थो निरूप्यते ।
ननु यः प्रकृति-स्वामी यो’न्तर्यामी च पुरुषः ।
ताभ्याम् अधिकता नास्य कंसारेर् उपपद्यते ॥१२०॥

तथा हि श्री-प्रथमे (१.३.१-५) --
जगृहे पौरुषं रूपं भगवान् महद्-आदिभिः ।
सम्भूतं षोडश-कलम् आदौ लोक-सिसृक्षया ॥१२१॥
यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः ।
नाभि-ह्रदाम्बुजाद् आसीद् ब्रह्मा विश्व-सृजां पतिः ॥१२२॥
यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः ।
तद् वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥१२३॥

पश्यन्त्य् अदो रूपम् अदभ्र-चक्षुषा
सहस्र-पादोरु-भुजाननाद्भुतम् ।
सहस्र-मूर्ध-श्रवणाक्षि-नासिकं
सहस्र-मौल्य्-अम्बर-कुण्डलोल्लसत् ॥१२४॥

एतन् नानावताराणां निधानं बीजम् अव्ययम् ।
यस्यांशांशेन सृज्यन्ते देव-तिर्यङ्-नरादयः ॥१२५॥ इति ।

अत्र कारिकाः—
आदौ सर्वावताराग्रे भगवान् पुरुषोत्तमः ।
महत्-तत्त्वादिभिः कृत्वा भुवनानां सिसृक्षया ॥
पौरुषं पुरुषाकारम् अथवा पुरुषाभिधम् ।
रूपम् आनन्द-चिन्-मूर्तिं जगृहे प्रादुराचरत् ॥१२६॥

अर्थः सम्भूत-शब्दस्य सम्यक् सत्यम् इतीरतिः ।
सम्भूतं युक्तम् इति वा भुवनानां सिसृक्षया ।
षोडशैव कला यस्मिंस् तत् षोडश-कलं मतम् ॥१२७॥

ताः षोडश-कलाः प्रोक्ता वैष्णवैः शास्त्र-दर्शनात् ।
शक्तित्वेन च ता भक्ति-विवेकादिषु सम्मताः ॥१२८॥

श्रीर् भूः कीर्तिर् इला लीला कान्तिर् विद्येति सप्तकम् ।
विमलाद्या नवेत्य् एता मुख्याः षोडश शक्तयः ॥१२९॥ इति ।

तद् इदं पौरुषं रूपं त्रिविधं पूर्वम् ईरितम् ।
तत्र प्रोच्य महत्-स्रष्टृ-रूपम् अण्ड-स्थम् उच्यते ॥१३०॥

यस्याजाण्ड-प्रवेशेन शयानस्य तद् अम्भसि ।
नाभिह्रदाम्बुजाद् आसीद् इति सुव्यक्तम् एव हि ॥१३१॥

यस्य नाभि-ह्रदाब्जस्यावयवाः कर्णिकादयः ।
संस्थानान्य् अत्र विद्या-स-विशेषास् तैस् तु कल्पितः ।
लोकानां सर्व-जगतां विस्तारो विततिः किल ॥१३२॥

स शेते येन रूपेण तच् छुद्धं सत्त्वम् ऊर्जितम् ॥१३३॥

पश्यन्तीत्य्-आदि-पद्येन तद् एवेदं विशिष्यते ।
एतद्-रूपं तु नानावताराणाम् उदयास्पदम् ॥१३४॥

यथैकादशे (११.४.३) --
भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानम् 
अवाप नारायण आदिदेवः ॥ १३५ ॥

अत्र सार्ध-कारिका—
नारायणो’त्र परम-व्योमेशानः स आत्मना ।
पुंस्वरूपेण सृष्टैस् तैर् भूतैः सृष्ट्वा विराट्-तनुम् ।
विष्टः स्वांशेन तेनैव सम्प्राप्तः पुरुषाभिधाम् ॥१३६॥

प्रस्तुते तु किम् आयातम् इत्य् आशङ्क्य निगद्यते ।
सो’स्य गर्भोदशय्यस्य विलासो यश् चतुर्भुजः ।
शेते प्रविश्य लोकाब्जं विष्ण्व्-आख्यः क्षीर-वारिधौ ॥१३७॥

अयं च स्थावरान्तानां स्य्रादीनां शरीरिणाम् ।
हृद्य्-अन्तर्यामितां प्राप्तो नाना-रूप इव स्थितः ॥१३८॥
___________
तृतीयं सर्व-भूत-स्थम् इति  विष्णोर् यद् उच्यते ।
रूपं सात्वत-तन्त्रे तद्-विलासो’स्यैव सम्मतः ॥१३९॥

अतः क्षीराम्बुधेस् तीरे कृतोपस्थानकः सुरैः ।
एष एवावतीर्णो’भूत् कृष्णाख्य इति युज्यते ॥१४०॥

अथात्र पूर्व-पक्षे वः सिद्धान्तः प्रतिपद्यते ।
यथा श्री-दशमे तेषु सुरेष्व् एवाशरीरगीः ॥१४१॥

वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः ।
जनिष्यते तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः ॥१४२ ॥ इति (भा.पु. १०.१.२३)

अत्र कारिकाः—
पुरुषस्य परत्वेन साक्षाच् च भगवान् इति ।
एतस्यैव महत्-स्रष्टा सो अंश इत्य् अभिविश्रुतः ॥१४३॥

अत्र श्री-स्वामि-पादानाम् अपि सम्मतिर् ईक्ष्यते ।
यद् अंशभागेनेत्य् अस्य व्याख्यां कुर्वद्भिर् एव तैः ॥
अंशेन भागो मायाया येनेत्य् अंशो’स्य पुरुषः ।
भागो भजनम् इत्य् एवं पूर्णतास्य स्फुटीकृता ॥१४४॥

किं च तत्रैव देवक्या कृते स्तोत्रे निरूपितम् ॥१४५॥

यथा (१०.८५.३१) --
यस्यांशांशांश-भागेन  
विश्वोत्पत्ति-लयोदयाः ।
भवन्ति किल विश्वात्मंस्
तं त्व् आद्याहं गतिं गता ॥ १४६ ॥

अत्र कारिका—
यस्यांशः पुरुषस्य स्याद् अंशः प्रकृतिस् तु सा ।
तस्या अंशा गुणास् तेषां भागेनास्योद्भवादयः ॥१४७॥

किं च तत्रैव (१०.१४.१४)
नारायणस् त्वं न हि सर्व-देहिनाम्
आत्मास्य् अधीशाखिल-लोक-साक्षी ।
नारायणो’ङ्गं नर-भू-जलायनात्
तच् चापि सत्यं न तवैव माया  ॥१४८॥ इति ।

अत्र कारिकाः—
जगत्-त्रयेति पद्येन श्री-नारायणतां वदन् ।
कृष्णस्याथ स्वयं दृष्ट्वा परमैश्वर्यम् अद्भुतम् ॥
पर्याप्त्याजाण्ड-नियुतं स्वयं भीतिभराकुलः ।
नारायणस् त्वं नेत्य् आह सापराध इवात्मभूः ॥१४९॥

हे अधीशेत्य् अजाण्डौघ-स्थितान्तर्यामि-पुरुषाः ।
ईशास् तेभ्यो’धिको’धीशो हि यतः सर्व-देहिनाम् ॥
समष्टीनां सविकुण्ठ-जीवानां त्वं प्रकाशकः ।
तेषाम् अखिल-लोकानां साक्षी द्रष्टाप्य् असि स्वयम् ॥१५०॥

अतो यो नरभू-नीरायणान् नारायणः स्मृतः ।
स ते’ङ्गम् अंशः पूर्णस्य चिनि-माया-शक्ति-वैभवैः ।
चातुष्पादिकम् ऐश्वर्यं तव तस्य तु पादिकम् ॥१५१॥
विष्टभ्याहम् इदं कृत्स्नम् एकांशेनेति ते वचः ।
तच् चांशत्वं भवेत् सत्यं विराड्वन् न तु मायिकम् ॥१५२॥

श्री-ब्रह्म-संहितायां (५.४८)—
यस्यैक निश्वसित कालम् अथावलम्ब्य
जीवन्ति लोम विलजा जगद् अण्ड नाथाः ।
विष्णुर् महान् स इह यस्य कला विशेषो
गोविन्दम् आदि पुरुषं तम् अहं भजामि ॥१५३॥

अतः पुरुष एवास्य कृष्णस्यांशो भवेद् यदि ।
तद्-विलासस् तु नितरां भवेत् क्षीराब्धि-नायकः ॥१५४॥
ननु द्वितीय-स्कन्धे तु यो’वतीर्णो यदोः कुले ।
किं विधात्रा स हि सित-कृष्ण-केशतयोदितः ॥१५५॥

तथा हि (२.७.२६)
भूमेः सुरेतर-वरूथ-विमर्दितायाः
क्लेश-व्ययाय कलया सित-कृष्ण-केशः ।
जातः करिष्यति जनानुपलक्ष्य-मार्गः
कर्माणि चात्म-महिमोपनिबन्धनानि ॥१५६॥ इति ।

मैवं भोः श्रूयताम् अस्य पद्यसार्थो विधीयते ।
कलया शिल्प-नैपुण्य-विशेष-विधिना सिताः ।
बद्धाः कृष्णा अतिश्यामाः केशा येनेति विग्रहः ।
स एवेत्यस्य वैदग्धी-विशेषोत्कर्ष ईरितः ॥१५७॥
किंवा यः कलयांशेन स्यात् सित-श्याम-केशकः ।
स एवात्रावतीर्णो’भूत् श्री-लीला-पुरुषोत्तमः ॥१५८॥

किं च—
मार्कण्डेयेन वज्राय विष्णुधर्मोत्तरे स्फुटम् ।
लयाब्धिस्थो’निरुद्धो’यं पिता ते इति कीर्तितम् ॥१५९॥

तत्र वज्र-प्रश्नः— (१.७९.१)
कस् त्व् असौ बाल-रूपेण कल्पान्तेषु पुनः पुनः ।
दृष्टो यो न त्वया ज्ञातस् तत्र कौतूहलं मम ॥१६०॥

मारकण्डेयोत्तरम्—  (१.७९.२-३)
भूयो भूयस् त्व असौ दृष्टो मया देवो जगत्-पतिः ।
कल्प-क्षये न विज्ञातः स मया मोहितेन वै ॥१६१॥
कल्प-क्षये व्यतीते तु तं तु देवं पितामहात् ।
अनिरुद्धं विजानामि पितरं ते जगत्-पतिम् ॥१६२॥ इति ।

अत्र कारिका --
अन्यथा मुनिवर्षे’यम् अवदिष्यद् इदं तदा ।
तं श्री-कृष्णं विजानामि प्रपितामहम् एव ते ॥१६३॥

अतः केशावतारत्व-भ्रमो’प्य् आरात् पराहतः ॥१६४॥
नन्व् अस्तु पुरुषादिभ्यः श्रैष्ठ्यं तस्याघ-विद्विषः ।
किन्तु श्री-वासुदेवो’त्र सर्वैश्वर्य-निषेवितः ।
त्रिपात्-पाद-विभूत्योश् च नाना-रूप इव स्थितः ॥
उन्मीलद्-बाल-मार्तण्ड-परार्ध-मधुर-द्युतिः ।
क्वचिन् नव-घन-श्यामः क्वचिज् जाम्बुनद-प्रभः ॥
महा-वैकुण्ठ-नाथस्य विलासत्वेन विश्रुतः ।
परमात्मा बल-ज्ञान-वीर्य-तेजोभिर् अन्वितः ॥१६५॥

महावस्थाख्यया ख्यातं यद्-व्यूहानां चतुष्टयम् ।
तस्याद्यो’यम् तथोपास्यश् चित्ते तद्-अधिदैवतम् ।
तथा विशुद्ध-सत्त्वस्य यश् चाधिष्ठानम् उच्यते ॥१६६॥
निजांशो यस्य भगवान् श्री-सङ्कर्षण ईष्यते ।
यस्य सङ्कर्षणो व्यूहो द्वितीय इति सम्मतः ।
जीवश् च स्यात् सर्व-जीव-प्रादुर्भावास्पदत्वतः ॥१६७॥

पूर्ण-शारद-शुभ्रांशु-परार्ध-मधुर-द्युतिः ।
उपास्यो’यम् अहङ्कारे शेष-न्यस्त-निजांशकः ॥
स्मरारातेर् अधर्मस्य सर्पान्तक-सुर-द्विषाम् ।
अन्तर्यामित्वम् आस्थाय जगत्-संहार-कारकः ॥१६८॥

व्यूहस् तृतीयः प्रद्युम्नो विलासो यस्य विश्रुतः ।
यः प्रद्युम्नो बुद्धि-तत्त्वे बुद्धिमद्भिर् उपास्यते ॥
स्तुवत्या च श्रिया देव्या निषेव्यते इलावृते ।
शुद्ध-जाम्बुनद-प्रख्यः क्वचिन् नील-घन-च्छविः ॥
निदानं विश्व-सर्गस्य काम-न्यस्य-निजांशकः ।
विधेः प्रजापतीनां रागिनां च स्मरस्य च ।
अन्तर्यामित्वम् आपन्नः सर्गं सम्यक् करोत्य् असौ ॥१६९॥
व्यूहस् तुर्यो’निरुद्धाख्यो विलासो यस्य शस्यते ।
यो’निरुद्धो मनस्-तत्त्वे मनीषिभिर् उपास्यते ॥
नील-जीमूत-सङ्काशो विश्व-रक्षण-तत्परः ।
धर्मस्यायं मनूनां च देवानां भूभुजां तथा ।
अन्तर्यामित्वम् आस्थाय कुरुते जगतः स्थितिम् ॥१७०॥

मोक्षधर्मे तु मनसः  स्यात् प्रद्युम्नो’धिदैवतम् ।
अनिरुद्धस् त्व् अहङ्कारस्येति तत्रैव कीर्तितम् ॥१७१॥

सर्वेषां पञ्चरात्राणाम् अप्य् एषा प्रक्रिया मता ॥१७२॥

पाद्मे तु परम-व्योम्नः पूर्वाद्ये दिक्-चतुष्टये ।
वासुदेवादयो व्यूहश् चत्वारः कथिताः क्रमात् ॥१७३॥

तथा पाद-विभूतौ च निवसन्ति क्रमादि मे ।
जलावृति-स्थ-वैकुण्ठ-स्थित वेदवती-पुरे ॥
सत्योर्ध्वे वैष्णवे लोके नित्याख्ये द्वारका-पुरे ।
शुद्धोदाद् उत्तरे श्वेत-द्वीपे चैरावती-पुरे ।
क्षीराम्बुधि-स्थितान्ते क्रोड-पर्यङ्क-धामनि ॥१७४॥

सात्वतीये क्वचित् तन्त्रे नव व्यूहाः प्रकीर्तिताः ।
चत्वारो वासुदेवाद्या नारायण-नृसिंहकौ ॥
हयग्रीवो महा-क्रोडो ब्रह्मा चेति नवोदिताः ।
तत्र ब्रह्मा तु विज्ञेयः पूर्वोक्त-विधया हरिः ॥१७५॥

किन्तु व्यूहास् तु चत्वारो राजद्-भुज-चतुष्टयाः ।
अजस्र-परमैश्वर्यम् अर्षादापैर्भूषिताः ॥१७६॥
अत्रापि वासुदेवो’यं सम्पूर्णानन्द-सम्प्लवः ।
ऐश्वर्यादौ निर्विशेषः परम-व्योम-नायकात् ।
आद्यानाम् अपि सर्वेषाम् आदिभूतः सुपर्वणाम् ॥१७७॥

इत्य् आशङ्के स एवायं कृष्णाख्यः सन्न् अवातरत् ।
वासुदेवतया यस्मात् सर्वत्रैष सुविश्रुतः ॥१७८॥
नैवं युक्तं शृणु ततः समाधानं विधीयते ।
आद्य-व्यूहाद् अपि श्रेष्ठः कथ्यते देवकी-सुतः ॥१७९॥

तथा श्री-दशमे—
एते चांशकलाः पुंसः कृष्णस् तु भगवान् स्वयम् ॥१८०॥

अत्र कारिके—
पुं-नाम्नः पुरुषस्यैते श्री-वराह-ऋषादयः ।
अंशाः अत्रावताराः स्युः कुमाराद्याः कला मताः ॥
तु-भिन्नोपक्रमे कृष्णो भगवान् पुरुषोत्तमः ।
स्वयम् इत्य् अपयातास्य वासुदेवावतारता ॥१८१॥

श्री-दशमे चैवम् एवोक्तम् (१०.१४.२)—
अस्यापि देव वपुषो मद्-अनुग्रहाय
स्वेच्छामयस्य न तु भूतमयस्य को’पि ।
नेशे महि त्व् अवसितुं मनसा’न्तरेण
साक्षात् तवैव किम् उतात्म-सुखानुभूतेः  ॥१८२॥ इति ।

अत्र कारिकाः—
देवः स्व-नाम्नि देवेति ख्यातं यस्य वपुः स हि ।
व्यूहानाम् आदिमो वासुदेवो देव-वपुर् मतः ॥
ततो’पि महि माहात्म्यं साक्षाद् एवात्र ते सतः ।
को विधाताप्य् अवसितुं ज्ञातुं नेशे’स्मि न क्षमः ।
किम् उताहो आत्म-सुखानुभूतेर् ब्रह्म-रूपतः ॥१८३॥

एवम् अर्थो’स्य पद्यस्य कैमुत्य-न्याय-संस्थितः ॥१८४॥
न्यूने’धिके च कैमुत्यं तत्र न्यूने भवेद् यथा ।
कौस्तुभस् तु महा-तेजाः सूर्य-कोटि-शताद् अपि ।
अयं किम् उत वक्तव्यं प्रदीपाद् दीप्तिमान् इति ॥१८५॥
अथाधिके यथा ध्वान्तैः शक्यो दीपो’पि नार्दितुम् ।
स तु मार्तण्ड-कोटीभिः सम’य् किम् उत कौस्तुभः ॥१८६॥
अतो न्यूनाद् अपि न्यूने कैमुत्यम् इह तु स्थितम् ॥१८७॥
मय्य् एवानुग्रहो यस्येत्य् अनुग्रह-भरो यतः ।
मय्य् एव विहितो भूयान् अपूर्वाश्चर्य-दर्शनात् ॥१८८॥
स्वेच्छामयस्य भक्तानां कामायाखिल-कर्मणः ।
न तु भूतमयस्येति पुरुषत्वं च खण्डितम् ।
यद् एष सर्व-जीवानां पुरुषः परमाश्रयः ॥१८९॥
आन्तरेण निरुद्धेन मनसेत्य् एकतानता ।
ज्ञातुं स्यान् महिमा शक्यो यद्यप्य् एभिर् विशेषणैः ।
ज्ञातुं तथापि नेशे’स्मीत्य् अचिन्त्यैश्वर्यतोदिता ॥१९०॥
जानता वासुदेवाच् च ब्रह्मतश् चाधिकाधिकम् ।
माहात्म्यं कृष्ण-चन्द्रस्य विरिञ्चेन समर्थितम् ॥१९१॥
अतो मन्व्-अक्षर-मनोर् ध्याने स्वायम्भुवागमे ।
चत्वारो वासुदेवाद्याः कृष्णस्यावृतिर् ईरिताः ॥१९२॥
क्रमादि-दीपिकायां च वस्व्-अक्षर-मनोर् विधौ ।
गोकुलेशावृतित्वेन वासुदेवादयो मताः ॥१९३॥
ननु श्रैष्ठ्यं मुकुन्दस्य ब्रह्मतो युज्यते कथम् ।
यद् ब्रह्म श्रीभागअतोर् ऐक्यम् एव प्रसिध्यते ॥१९४॥
पुरुषं परमात्मा च ब्रह्म च ज्ञानम् इत्य् अपि ।
स एको भगवान् एव शास्त्रेषु बहुधोच्यते ॥१९५॥

तथा च स्कान्दे --
भगवान् परमात्मेति प्रोच्यते’ष्टाङ्ग-योगिभिः ।
ब्रह्मेत्य् उपनिषन्-निष्ठैर् ज्ञानं च ज्ञान-योगिभिः ॥१९६॥

श्री-प्रथमे च (१.२.११)—
वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् ।
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥१९७॥ इति ।

सत्यम् उक्तं शृणु ततस् तृतीये कापिलं वचः ॥१९८॥

यथा (३.३२.३३)—
यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः ।
एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः ॥१९९॥ इति ।

अत्र कारिकाः—
तत् तत् श्री-भगवत्य् एव स्वरूपं भुवि विद्यते ।
उपासनानुसारेण भाति तत्-तद्-उपासके ॥२००॥
यथा रूप-रसादीनां गुणानाम् आश्रयः सदा ।
क्षीरादिर् एक एवार्थो ज्ञायते बहुधेन्द्रियैः ॥२०१॥
दृशा शुक्लो रसनया मधुरो भगवांस् तथा ।
उपासनाभिर् बहुधा स एको’पि प्रतीयते ॥२०२॥
जिह्वयैव यथा ग्राह्यं माधुर्यं तस्य नापरैः ।
यथा चक्षुर्-आदीनि गृह्णन्त्य् अर्थं निजं निजम् ॥२०३॥
तथान्या बाह्य-करण-स्थानीयोपासनाखिला ।
भक्तिस् तु चेतः-स्थानीया तत्-तत्-सर्वार्थ-लाभतः ॥२०४॥
इति प्रवर-शास्त्रेषु तस्य ब्रह्म-स्वरूपतः ।
माधुर्यादि-गुणाधिक्यात् कृष्णस्य श्रेष्ठतोच्यते ॥२०५॥

तथा च श्री-दशमे (१०.१४.६-७)

तथापि भूमन् महिमा-गुणस्य ते 
विबोद्धुम् अर्हत्य् अमलान्तर्-आत्मभिः 
अविक्रिया स्वानुभवाद् अरूपतो 
ह्य् अनन्य-बोध्यात्मतया न चान्यथा ॥२०६॥।

गुणात्मनस् ते ऽपि गुणान् विमातुं॑ 
हितावतीर्णस्य क ईशिरे ऽस्य ।
कालेन यैर् वा विमिताः सुकल्पैर्॑ 
भू-पांशवः खे मिहिका द्युभासः  ॥२०७॥ इति ।

ननु प्राकृत-रूपत्वान् मृग-तृष्णोपमा-जुषाम् ।
गुणानां गणना न स्याद् इति कात्र विचित्रता ॥ २०८ ॥
मैवं गुणानाम् एतस्य प्राकृतत्वं न विद्यते ।
तेषां स्वरूप-भूतत्वात् सुखरूपत्वम् एव हि ॥२०९॥

तथा च ब्रह्म-तर्के—
गुणैः स्वरूप-भूतैस् तु गुण्य् असौ हरिर् ईश्वरः ।
न विष्णोर् न च मुक्तानां क्वापि भिन्नो गुणो मतः ॥२१०॥

श्री-विष्णु-पुराणे (१.९.४३)
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥२११॥

तथा च तत्रैव (६.५.७९)
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥२१२॥

पाद्मे च (६.२५५.३९-४०)—
यो’सौ निर्गुण इत्य् उक्तः शास्त्रेषु जगद्-ईश्वरः ।
प्राकृतैर् हेय-संयुक्तैर् गुणैर् हीनत्वम् उच्यते ॥२१३॥

प्रथमे च (१.१६.३०) --
एते चान्ये च भगवन् नित्या यत्र महा-गुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥ २१४ ॥ इति ।

अतः कृष्णो’प्राकृतानां गुणानां नियुतायुतैः ।
विशिष्टो’यं महाशक्तिः पूर्णानन्द-घनाकृतिः ॥२१५॥
ब्रह्म-निधर्मकं वस्तु निर्विशेषम् अमूर्तिकम् ।
इति सूर्योपमस्यास्य कथ्यते तत् प्रभोपमम् ॥२१६॥

तथा च श्री-गीतासु (१४.२६-२७)—
मां च यो ऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥२१७॥
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥२१८॥ इति ।

अत्र कारिकाः—
स ब्रह्म-भावम् आसाद्य लीलाविग्रहम् आश्रयम् ।
मानानन्द-घनं प्रेम्णा भजेद् इत्य् अयम् आश्रयः ॥२१९॥
भक्तेर् अव्यभिचारायाः प्रेम-सेवैव यत् फलम् ।
केवलं ब्रह्म-भावस् तु विद्वेषेणापि लभ्यते ॥२२०॥
ननु ते यादवस्यास्य भजनाद् ब्रह्मता कथम् ।
इत्य् आह ब्रह्मणो हीति हि यतो’हं पुरस् तव ॥
स्थितो’यं विविधानन्द-पूर्ण-चिद्-घन-विग्रहः ।
ब्रह्मणश् चित्-स्वरूपस्य प्रतिष्ठा परमाश्रयः ।
रविस् तेजो-घनाकारः करौघस्य यथा भवेत् ॥२२१॥
अव्ययेनामृतेनेह नित्य-मुक्तिर् उदीर्यते ।
शाश्वतेन तु धर्मेण भगवद्-धर्म उच्यते ॥२२२॥
ऐकान्तिक-सुखेनात्र प्रेम-भक्ति-रसोत्सवः ।
येन मोक्ष-सुखस्यापि तिरस्कारो विधीयते ॥२२३॥

किं च ब्रह्म-संहितायाम् (५.४०)—
यस्य प्रभा प्रभवतो जगद् अण्ड कोटि 
कोटिष्व् अशेष वसुधादि विभूति भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष भूतं
गोविन्दम् आदि पुरुषं तम् अहं भजामि ॥२२४॥ इति ।

अत्र कारिके—
निष्कलादि-स्वरूपं तत् ब्रह्माण्डार्बुद-कोटिषु ।
विभूतिभिर् धराद्याभिर् भिन्नं भेदम् उपागतम् ॥
सदा प्रभाव-युक्तस्य ब्रह्म यस्य प्रभा भवेत् ।
तं गोविन्दं भजामीति पद्यस्यार्थः स्फुटीकृतः ॥२२५॥
ननु भोस् तव भावो’यं ज्ञात एव मया ध्रुवम् ।
परव्योम-पतेः शौरिर् अवतारस् तयोच्यते ॥२२६॥
जन्मादि-लीला-प्राकट्यात् अवतारतयाप्य् असौ ।
प्रोक्तो विलास एव स्यात् सर्वोत्कर्षातिभूमतः ॥२२७॥
यः पर-व्योम-नाथः स्याद् असमानोर्ध-वैभवः ।
श्रुति-स्मृति-महातन्त्र-वर्णितोत्कर्ष-सौष्ठवः ।
लोक-सृष्टेः पुरा ब्राह्मे कल्पे यः परमेष्ठिने ।
महावैकुण्ठ-लोकस्थं स्वम् आत्मानम् अदर्शयत् ॥२२८॥

तथा हि श्री-द्वितीय-स्कन्धे (२.९.९-१६) --

तस्मै स्व-लोकं भगवान् सभाजितः
सन्दर्शयाम् आस परं न यत्-परम्
व्यपेत-सङ्क्लेश-विमोह-साध्वसं
स्व-दृष्टवद्भिर् पुरुषैर् अभिष्टुतम् ॥२२९॥

प्रवर्तते यत्र रजस् तमस् तयोः
सत्त्वं च मिश्रं न च काल-विक्रमः ।
न यत्र माया किम् उतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः ॥२३०॥

श्यामावदाताः शत-पत्र-लोचनाः
पिशङ्ग-वस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्-बाहव उन्मिषन्-मणि-
प्रवेक-निष्काभरणाः सुवर्चसः ।
प्रवाल-वैदूर्य-मृणाल-वर्चसः
परिस्फुरत्-कुण्डल-मौलि-मालिनः ॥२३१॥

भ्राजिष्णुभिर् यः परितो विराजते 
लसद्-विमानावलिभिर् महात्मनाम् ।
विद्योतमानः प्रमदोत्तमाद्युभिः 
सविद्युद् अभ्रावलिभिर् यथा नभः ॥२३२॥

श्रीर् यत्र रूपिण्य् उरुगाय-पादयोः
करोति मानं बहुधा विभूतिभिः ।
प्रेङ्खं श्रिता या कुसुमाकरानुगैर्
विगीयमाना प्रिय-कर्म गायती ॥२३३॥

ददर्श तत्राखिल-सात्वतां पतिं
श्रियः पतिं यज्ञ-पतिं जगत्-पतिम् ।
सुनन्द-नन्द-प्रबलार्हणादिभिः
स्व-पार्षदाग्रैः परिसेवितं विभुम् ॥

भृत्य-प्रसादाभिमुखं दृग्-आसवं
प्रसन्न-हासारुण-लोचनाननम् ।
किरीटिनं कुण्डलिनं चतुर्-भुजं
पीतांशुकं वक्षसि लक्षितं श्रिया ॥

अध्यर्हणीयासनम् आस्थितं परं 
वृतं चतुः-षोडश-पञ्च-शक्तिभिः ।
युक्तं भगैः स्वैर् इतरत्र चाध्रुवैः 
स्व एव धामन् रममाणम् ईश्वरम् ॥२३४॥ इति ।

अत्र कारिकाः—  
यद् यतः परम् उत्कृष्टं पदम् अन्यन् न हि क्वचित् ।
सङ्क्लेशाः पञ्चविद्याद्या विमोहो निर्विवेकता ॥
साध्वसं पाततो भीतिर् न सन्त्य् एतानि यत्र तम् ।
स्व-दृष्टम् आत्मनः साक्षात् कारस् तद्वद्भिर् ईडितम् ॥२३५॥

रजस् तमश् च नो यत्र सत्त्वं सध्र्यक् तयोर् न च ।
गुणा यत्र प्रकृतिजा न सत्नीति प्रदर्शितम् ॥
न काल-विक्रमो यत्र सर्व-विध्वंस-कारिता ।
परं मूलम् अनर्थानां यत्र मायैव नास्ति हि ॥
अपरे तत्र किम् उत विकारा महद्-आदयः ।
अतो वैकुण्ठ-लोकस्य कथिता नित्य-सिद्धता ॥२३६॥

हरेर् अनुव्रता यत्र श्यामारुण-हरित्-सिताः ।
तत्-तद्-वर्णम् उपास्येशं तत्-सारूप्यम् उपागताः ।
अथवा नित्य-सिद्धत्वात् तद्-रुचाम् अप्य् अनादिता ॥२३७॥

श्रीः सम्पद्-रूपिणी मूर्ता यत्र पद्मांश-सम्भवा ।
मानं सेवां रचयति विविधाभिर् विभूतिभिः ॥
कुसुमाकार-शब्देन ऋतूनाम् अधिपो मतः ।
तेन तस्यानुगैर् ग्रीष्म-वर्षाद्यैर् ऋतुभिश् च या ॥
विशेषाद् गीयमानापि प्रियकर्मैव गायती ।
शत्रन्तेन पदेनात्र तिङ्-अन्ता लक्षिता क्रिया ॥२३८॥

तत्रेश्वरं ददर्शासौ कथम्भूतं दृग्-आसवम् ।
सान्द्रानन्दैर् दृशां सुष्ठु मादकत्वात् स आसवः ॥२३९॥
पीतांशुक-पदेनास्य ध्वन्यते श्याम-वर्णता ॥२४०॥
अध्यर्हणीय-शब्देन महा-योगाख्य-पीठकम् ।
श्री-पाद्मोत्तर-खण्डोक्तम् अत्रैवाग्रे प्रवक्ष्यते ॥२४१॥

चतस्रो ह्लादिनी-कीर्ति-करुणा-तुष्टयः स्मृताः ।
शक्तयः षोडशात्रैव पूर्यम् एव प्रदर्शिताः ॥२४२॥
विद्यायाः पञ्च-पर्वाणि साङ्ख्यादीन्य् अत्र पञ्च च ॥२४३॥

तानि पञ्चरात्रे --
साङ्ख्य-योगौ तु वैराग्यं तपो भक्तिश् च केशवे ।
पञ्च-पर्वेति विद्येयं यया विद्वान् हरिं विशेत् ॥२४४॥ इति ।

इत्य् एताभिर् वृतं पञ्च-विंशत्या शक्तिभिः सदा ।
भगैर् ऐश्वर्य-धर्माद्यैः स्वैर-साधारणोदयैः ॥
इतरत्र विरिञ्च्य्-आदाव् अध्रुवैर् अस्स्थिरैः कृशैः ।
स्व एव धाम्नि वैकुण्ठे रतिं विदधतं सदा ।
किं वा स्वरूप-भूतत्वात् श्रियस् तस्याः स्वधामता ॥२४५॥

तथा च भार्गव-तन्त्रे—
शक्ति-शक्तिमतोश् चापि न विभेदः कथञ्चन ।
अविभिन्नापि स्वेच्छादि-शब्दैर् अपि विभाष्यते ॥ इति ॥२४६॥

किं च पाद्मोत्तर-खण्डे (६.२५५.५७-६४) 

प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी ।
वेदाङ्ग-स्वेद-जनित-तोयैः प्रस्राविता शुभा ॥२४७॥
तस्याः पारे पर-व्योम्नि त्रिपाद्-भूतं सनातनम् ।
अमृतं शाश्वतं नित्यम् अनन्तं परं पदम् ॥
शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् ॥
अनेक-कोटि-सूर्याग्नि-तुल्य-वर्चसम् अव्ययम् ॥
सर्व-वेदमयं शुभ्रं सर्व-प्रलय-वर्जितम् ।
हिरण्मयं मोक्षपदं ब्रह्मानन्द-सुखाह्वयम् ॥
समानाधिक्य-रहितम् आद्य्-अन्त-रहितं शुभम् ॥
तेजसात्य्-अद्भुतं रम्यं नित्यम् आनन्द-सागरम् ।
एवम् आदि-गुणोपेतं तद् विष्णोः परमं पदम् ॥
न तद् भासयते सूर्यो न शशाङ्को न पावकः ।
यद् गत्वा न निवर्तन्ते तद् धाम परमं हरेः ॥२४८॥
तद् विष्णोः परमं धाम शाश्वतं नित्यम् अच्युतम् ।
न हि वर्णयितुं शक्यं कल्प-कोटि-शतैर् अपि ॥२४९॥

तत्रैवाग्रे (६.२५६.९-२१)—
श्री-शार्ङ्गि-भक्ति-सेवैक-रसभोग-विवर्धिताः ।
महात्मनो महाभागा भगवत्-पाद-सेवकाः ॥
तद् विष्णोः परमं धाम यान्ति प्रेम-सुख-प्रदम् ॥
नाना-जनपदाकीर्णं वैकुण्ठं तद् धरेः पदम् ।
प्रकारैश् च विमानैश् च सौधै रत्नमयैर् वृतम् ॥२५१॥
तन् मध्ये नगरी दिव्या सायोन्ध्येति प्रकीर्तिता ।
मणि-काञ्चन-चित्राढ्य-प्राकारैस् तोरणैर् वृता ।
चतुर्द्वार-समायुक्ता रत्न-गोपुर-संवृता ॥२५२॥
चण्डादि-द्वार-पालैश् च कुमुदाद्यैः सुरक्षिता ।
चण्ड-प्रचण्डौ प्राग्-द्वारे याम्ये भद्र-सुभद्रकौ ।
वारुण्यां जय-विजयौ सौम्ये धातृ-विधातरौ ॥२५३॥
कुमुदः कुमुदाक्षश् च पुण्डरीको’थ वामनः ।
शङ्कु-कर्णः सर्व-नेत्रः सुमुखः सुप्रतिष्ठितः ।
एते दिक्-पतयः प्रोक्ताः पूर्याम् अत्र शुभानने ॥२५४॥
कोटि-वैश्वानर-प्रख्य-गृह-पङ्क्तिर्भिर् आवृता ।
आरूढ-यौवनैर् नित्यैर् दिव्य-नारी-नरैर् युता ॥२५५॥
अन्तःपुरस् तु देवस्य मध्ये पूर्या मनोहरम् ।
मणि-प्राकार-संयुक्तं वर-तोरण-शोभितम् ।
विमानैर् गृहमुख्यैश् च प्रासादैर् बहुभिर् वृतम् ।
दिव्यापसरोगणैः स्त्रीभिः सर्वतः समलङ्कृतम् ॥२५६॥
मध्ये तु मण्डपं दिव्यं राजस्थानं महोत्सवम् ।
माणिक्य-स्तम्भ-सहस्र-जुष्टं रत्न-मयं शुभम् ।
नित्य-मुक्तैः समाकीर्णं साम-गानोपशोभितम् ॥२५७॥
मध्ये सिंहासनं रम्यं सर्व-वेद-मयं शुभम् ।
धर्मादिदैवतैर् नित्यैर् वृतं वेदमयात्मकैः ।
धर्म-ज्ञान-महैश्वर्य-वैराग्यैः पाद-विग्रहैः ॥२५८॥

तत्रैव (६.२५६.२३-५४)—
वसन्ति मध्यमे तत्र वह्नि-सूर्य-सुधांशवः ।
कूर्मश् च नागराजश् च वैनतेयस् त्रयीश्वरः ॥
छन्दांसि सर्व-मन्त्राश् च  पीठ-रूपत्वम् आस्थिताः ।
सर्वाक्षरमयं दिव्यं योग-पीठम् इति स्मृतम् ॥२५९॥
तन्-मध्ये’ष्ट-दलं पद्मम् उदयार्क-सम-प्रभम् ।
तन्-मध्ये कर्णिकायां तु सावित्र्यां शुभ-दर्शने ।
ईश्वर्या सह देवेशस् तत्रासीनः परः पुमान् ॥२६०॥
इन्दीवर-दल-श्यामं सूर्य-कोटि-सम-प्रभः ।
युवा कुमारः स्निग्धाङ्गः कोमलावयवैर् युतः ॥२६१॥
फुल्ल-रक्ताम्बुज-निभ-कोमलाङ्घ्रि-कराब्जवान् ।
प्रबुद्ध-पुण्डरीकाक्षः सुभ्रू-लतायुगाङ्कितः ॥२६२॥
सुनासः सुकपोलाढ्यः सुशोभ-मुख-पङ्कजः ।
मुक्ताफलाभदस्ताढ्यः सुस्मिताधर-विद्रुमः ॥२६३॥
परिपूर्णेन्दु-सङ्काश-सुस्मितानन-पङ्कजः ।
तरुणादित्य-वर्णाभ्यां कुण्डलाभ्यां विराजितः ॥२६४॥
सुस्निग्ध-नील-कुटिल-कुन्तलैर् उपशोभितः ।
मन्दार-पारिजाताढ्यः—कवरी-कृत-केशवान् ॥२६५॥
प्रातर् उद्यत्-सहस्रांशु-निभ-कौस्तुभ-शोभितः ।
हार-स्वर्ण-स्रगासक्त-कम्बु-ग्रीव-विराजितः ॥२६६॥
सिंह-स्कन्ध-निभैः प्रोच्चैः पीनैर् अंसैर् विराजितः ।
पीन-वृत्तायत-भुजैश् चतुर्भिर् उपशोभितः ॥२६७॥ 
अङ्गुलीयैश् च कटकैः केयूरैर् उपशोभितः ।
बालार्क-कोटि-सङ्काशैः कौस्तुभाद्यैः सुभूषणैः ।
विराजित-महा-वक्षा वन-माला-विभूषितः ॥२६८॥
विधातुर् जनन-स्थान-नाभि-पङ्कज-शोभितः ।
बालातप-निभ-श्लक्ष्ण-पीत-वस्त्र-समन्वितः ॥२६९॥
नाना-रत्न-विचित्राङ्घ्रि-कटकाभ्यां विराजितः ।
सज्योत्स्न-चन्द्र-प्रतिम-नख-पङ्क्तिभिर् आवृतः ॥२७०॥
कोटि-कन्दर्प-लावण्यः सौन्दर्य-निधिर् अच्युतः ।
दिव्य-चन्दन-लिप्ताङ्गो वन-माला-विभूषितः ॥
शङ्ख-चक्र-गृहीताभ्याम् उद्बाहुभ्यां विराजितः ।
वरदाभय-हस्ताभ्याम् इतराभ्यां तथैव च ॥२७१॥
वामाङ्क-संस्थिता देवी महा-लक्ष्मीर् महेश्वरी ।
हिरण्य-वर्णा हरिणी सुवर्ण-रजत-स्रजा ॥२७२॥
सर्व-लक्षण-सम्पन्ना यौवनारम्भ-विग्रहा ।
रत्न-कुण्डल-संयुक्ता नीलाकुञ्चित-शीर्षजा ॥२७३॥
दिव्य-चन्दन-लिप्ताङ्गी दिव्य-पुष्पोपशोभिता ।
मन्दार-केतकी-जाती-पुष्पाञ्चित-सुकुन्तला ॥२७४॥
सुभ्रूः सुनासा सुश्रोणी पीनोन्नत-पयोधरा ।
परिपूर्णेन्दु-सङ्काश-सुस्मितानन-पङ्कजा ॥२७५॥
तरुणादित्य-वर्णाभ्यां कुण्डलाभ्यां विराजिता ।
तप्त-काञ्चन-वर्णाभा तप्त-काञ्चन-भूषणा ॥२७६॥
हस्तैश् चतुर्भिः संयुक्ता कनकाम्बुज-भूषिता ।
नाना-रत्न-विचित्राढ्य-कनकाम्बुज-मालया ।
हार-केयूर-कटकैर् अङ्गुरीयैश् च भूषिता ॥२७७॥
भुज-युग्म-धृतोदग्र-पद्म-युग्म-विराजिता ।
गृहीत-मातुलुङ्गाख्य-जाम्बूनद-कराञ्चिता ॥२७८॥
एवं नित्यानपायिन्या महालक्ष्म्या महेश्वरः ।
मोदते परम-व्योम्नि शाश्वते सर्वदा प्रभुः ॥२७९॥
पार्श्वयोर् अवनी-लीले समासीने शुभानने ।
अष्ट-दिक्षु दलाग्रेषु विमलाद्याश् च शक्तयः ॥२८०॥
विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च    ।
प्रह्वी सत्या तथेशाना महिष्यः परमात्मनः ॥
गृहीत्वा चामरान् दिव्यान् सुधाकर-सम-प्रभान् ।
सर्व-लक्षण-सम्पन्ना मोदन्ते पतिम् अच्युतम् ॥२८१॥
दिव्याप्सरोगणाः पञ्च-शत-सङ्ख्याश् च योषितः ।
अन्तःपुर-निवासिन्यः सर्वाभरण-भूषिताः ॥
पद्म-हस्ताश् च ताः सर्वाः कोटि-वैश्वानर-प्रभाः ।
सर्व-लक्षण-सम्पन्नाः शीतांशु-सदृशाननाः ।
ताभिः परिवृतो राजा शुशुभे परमः पुमान् ॥२८२॥
अनन्त-विहगाधीश-सेनान्य्-आद्यैः सुरेश्वरैः ।
अन्यैः परिजनैर् नित्यैर् मुक्तैश् च परिसंवृतः ।
मोदते रमया सार्धं भोगैश्वर्यैः परः पुमान् ॥२८३॥

अत्र कारिकाः—
अर्थतः शब्दतश् चात्र यत् पुनः पुनर् उच्यते ।
तद्-असम्भाय-वस्तुत्वात् प्रतीत्यै हेतुवादिनाम् ॥२८४॥
श्रीश-निश्वास-रूपाणां वेदानां तत्र मूर्तता ।
ततस् तद्-अङ्गतो जाताः स्वेदाः परम-पावनाः ॥२८५॥
त्रिपाद्-विभूतेर् धामत्वात् त्रिपाद्भूतं तु तत् पदम् ।
विभूतिर् मायिकी सर्वा प्रोक्ता पादात्मिका यतः ॥२८६॥
अमृतं सुष्ठु मधुरं शाश्वतस् तु मुहुर् नवम् ।
शुद्ध-सत्त्वस् तु तत् प्रोक्तं सत्त्वम् अप्राकृतं तु तत् ।
नित्याक्षरादि-शब्दैस् तु षड्-भाव-परिवर्जनम् ॥२८७॥

किं चानुत्थापितानाम् अपि कारिकाः—
आद्यम् आवरणं दिक्षु पूर्वादिषु किलाष्टसु ।
व्यूहैर् लक्ष्म्यादि-सहितैर् वासुदेवादिभिर् मतम् ॥२८८॥
पूर्यो लक्ष्म्याः सरस्वत्या रतेः कान्तेर् अनुक्रमात् ।
विदिक्षु परम-व्योम्न आग्नेय्यादिषु कीर्तिताः ॥२८९॥
केशवाद्यैर् इह चतुर्विंशत्या तु द्वितीयकम् ।
अष्टासु किल काष्ठासु तेषां ज्ञेयं त्रयं त्रयम् ॥२९०॥
दशभिर् मत्स्य-कूर्माद्यैर् दश-दिक्षु तृतीयकम् ॥२९१॥
सत्याच्युतानन्त-दुर्गा-विष्वक्सेन-गजाननैः ।
शङ्ख-पद्म-निधिभ्यां च तुर्यम् अष्टासु दिक्ष्व् इदम् ॥२९२॥
ऋग्-वेदादि-चतुष्केण सावित्र्या गरुडेन च ।
तथाधर्म-सखाभ्यां च पञ्चमं पूर्ववन् मतम् ॥२९३॥
शङ्ख-चक्र-गदा-पद्म-खड्ग-शार्ङ्ग-हलैस् तथा ।
मूषलेण च षष्ठं स्याद् इन्द्राद्यै सप्तमं तथा ॥२९४॥

साध्या मरुद्-गणैस् चैव विश्वदेवास् तथैव च ।
नित्याः सर्वे परे धाम्नि ये चान्ये त्रिदिवौकसः ।
ते वै प्राकृतनाके’स्मिन् न नित्यास् त्रिदिवेश्वराः ॥२९५॥

वासुदेवादि-मूर्तीनां सप्ततेस् तु चतुर्युजः ।
लोकास् तु तावत्-सङ्ख्याकाः परे धाम्नि चकासति ॥२९६॥
त्रिषु पुंसो’वतारेषु रुद्रात् पद्मभवात् तथा ।
भृग्वादिकृतनिर्धाराद् विष्णुर् एव महत्तमः ॥
किं पुनः पुरुषस् तत्र वासुदेवो’त्र किन्तराम् ।
तत्रापि किन्तमां सो’यं महा-वैकुण्ठनायकः ॥२९७॥
सदाशिवाख्यो यः शम्भुः स चैशान्यावृतिर् मता ॥२९८॥
अतो ब्रुवे’नयोः प्रायो वैलक्षण्यं द्वयोर् न हि ।
दीपोत्थ-दीप-तुल्यत्वात् स्याद् विलास-विलासिनोः ॥२९९॥

मैवं वादीर् महावादिन् अधुना त्वम् अपेशलः ।
गहनैश्वर्य-विज्ञान-रसास्वादयोर् असि ॥३००॥
सर्व-वेदान्ततः सारं वेद-कल्पतरोः फलम् ।
श्री-भागवतम् एवात्र प्रमाणं सर्वतो वरम् ॥३०१॥

तथा हि श्री-तृतीये (३.२.२१)

स्वयं त्व् असाम्यातिशयस् त्र्यधीशः
स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः ।
बलिं हरद्भिश् चिर-लोक-पालैः
किरीट-कोट्य्-एडित-पाद-पीठः ॥३०२॥ इति ।

अत्र कारिकाः—
विद्येते नान्यसाम्यातिशयौ यत्रेति विग्रहे ।
सर्वेभ्यस् तत्-स्वरूपेभ्यः कृष्णोत्कर्ष-निरूपणात् ।
आधिक्यं परम-व्योम-नाथाद् अप्य् अस्य दर्शितम् ॥३०३॥
स्वयं-पदेन चास्यान्य-नैरपेक्षम् उदीरितम् ॥३०४॥
रामो’प्य् अधिक-साम्याभ्यां मुक्त-धामेत्य् अवादि यत् ।
तत्र स्वयं-पदाभावात् कृषेएनैक्येन तस्य तत् ।
नर-लीलादि-साधर्म्यात् प्रेष्ठं रूपं तद् अस्य यत् ॥३०५॥

तथा हि ब्रह्माण्डे श्री-कृष्ण-वाक्यम्—
अन्तरङ्ग-स्वरूपा मे मत्स्य-कूर्मादयस् त्व् अमी ।
सर्वात्मनायम् अत्रापि श्रीमद्-दशरथात्मजः ॥३०६॥ इति ।

स्वयं त्व् असाम्यातिशयः कृष्णस् तु भगवान् स्वयम् ।
इत्य् अस्य परमैश्वर्य-विशेषस्यानुवर्णने ।
पदस्य स्वयम् इत्य् अस्य द्विरुक्तिर् बोधयत्य् असौ ।
कृष्णस्यान्य-स्वरूपैक्यात् आधिक्यं नेति सर्वथा ॥३०७॥
त्र्य्-अधीश इति गोलोक-मथुरा-द्वारकाभिधम् ।
यत् पद-त्रितयं तस्य सो’धिपत्वाद् अधीश्वरः ।
प्रकृतीश-विराड्-अन्तर्यामि-क्षीराब्धि-शायिनाम् ।
त्रयाणाम् उपरीशो’यं त्र्य्-अधीश इति वा स्मृतः ॥३०८॥

स्वाराज्य-लक्ष्म्या तत्रापि प्राप्त-सर्व-समीहितः ।
स्वेनात्मना स्वया वाङ्-भूतया शक्ति-वर्यया ।
राजतीति स्वराट् तस्य भावः स्वाराज्यम् उच्यते ॥
तद् एव लक्ष्मीः सर्वातिशायिनी सम्पद् एतया ।
आप्ताः समस्ताः कामा यं कामाः प्रेष्ठार्थ-सिद्धयः ॥३०९॥
चिरेति तु चिरायुष्का लोकपाः पद्मजादयः ।
तेषां किरीट-कोटीभिर् मुकुटानां शतार्बुधैः ।
ईडिते संस्तुते पाद-पीठे यस्येति विग्रहः ॥३१०॥
हीरादि-रत्न-मुकुटैः पाद-पीटाभिघटनात् ।
जनितेन स्वनौघेन बाढम् उत्प्रेक्षिता स्तुतिः ॥३११॥
स्व-स्व-कर्मण्य् अवस्थित्या तैस् तैर् ब्रह्मादि-लोकपैः ।
आज्ञापालनम् एवास्य बलेर् हरणम् उच्यते ॥३१२॥
अथात्र प्रक्रिया ख्याता परुआण्य् एषा विलिख्यते ॥३१३॥
ब्रह्माण्डानाम् अनन्तानां प्रायो नानाविधात्मनाम् ।
वृन्दानि भगवच्-छक्तौ विचित्राणि चकासति ॥३१४॥
शत-कोटि-प्रमाणानि योजनानां तु कानिचित् ।
अजाण्डानि विराजन्ते शक्ति-वैचित्र्यतो हरेः ॥३१५॥
कानिचिच् च निखर्वेण तेषां पद्मायुतेन च ।
तत्-परार्ध-शतेनापि विस्तृतानि तु कानिचित् ॥३१६॥
मध्ये तेषाम् अजाण्डेषु केषुचिद् विंशतिः कृता ।
भुवनानां च पञ्चाशत् कुत्रचित् सपततिस् तथा ।
शतं सहस्रम् अयुतं लक्षं क्वचन राजति ॥३१७॥
ब्रह्माद्या लोकपास् तेषु नाना-रूपाश् चकासति ।
परमर्धि-सहस्रेण सेव्यमानाः समन्ततः ॥
क्वचिद् इन्द्रादयस् तेषु महाकल्प-शतायुषः ।
महाकल्प-परार्धायुर्-भाजो ब्रह्मादयस् तथा ॥३१८॥
ते ते ब्रह्म-सुरेशाद्याः कथिताश् चिरलोकपाः ।
स्तुताङ्घ्रि-पीठः कृष्णो’यं तेषां मुकुट-कोटिभिः ॥३१९।
एकदा द्वारका-पुर्यां सुधर्मायां मुरान्तके ।
विराजति तम् आगत्य द्वाराध्यक्षो न्यवेदयत् ।
दिदृक्ष्र् देव-पादाब्जं ब्रह्मा द्वारे’वतिष्ठते ॥३२०॥
आगतः कतमो ब्रह्मा द्वारीति परिपृच्छ तम् ।
इत्य् अच्युत-गिरं शृण्वन् एत्य द्वाराधिपः पुनः ॥
पृष्ट्वा ब्रह्मानम् आगत्य कृष्णाग्रे च तम् अब्रवीत् ।
आगतः सनकादीनां जनकश् चतुराननः ॥३२१॥
आनयेति हरेर् वाचा तेन ब्रह्मा प्रवेशितः ।
प्रणमन् दण्डवत् पृष्टः कृष्णेन किम् इहागतः ।
त्वम् इति प्राह तं ब्रह्मा देवागमन-कारणम् ।
वक्ष्ये पश्चाद् यदात्थाद्य ब्रह्मा करम इत्य् अदः ।
ज्ञातुम् इच्छामि तन् नाथ ब्रह्मा नान्यो’स्ति मद् यतः ॥३२२॥
अथ स्मित्वा मुकुन्देन द्वारवत्यां द्रुतं तदा ।
स्मृत्वा ब्रह्माण्ड-कोटिभ्यो लोक-पालाः समागताः ।
अष्टवक्राश् चतुःषष्ठि-वक्त्राः शत-मुखास् तथा ।
सहस्र-वक्त्रा लक्षास्याः कोटि-वक्त्रा विरिञ्चयः ।
रुद्राश् च विंशति-मुखास् तथा पञ्चाशद्-आननाः ।
शत-वक्त्राः सहस्रास्या लक्ष-बाहु-शिरो-भृतः ॥
पुरन्दराश् च लक्षालक्षा नियुताक्षास् तथापरे ।
अपरे लोक-पालाश् च विविधाकृति-भूषणाः ॥
कृष्णस्य पुरतः प्राप्ताः पाद-पीठम् अवानमन् ।
तान् दृष्ट्वा विस्मयात् तस्मिन् उन्ममाद चतुर्मुखः ॥३२३॥

किं च—
विष्णु-धर्मोत्तरे प्रोक्तं सर्वे ब्रह्माण्ड-मण्डलाः ।
देशतो जीवतश् चापि तुल्य-रूप भवन्त्य् अमी ॥३२४॥

तथा हि—
एक-रूपास् तथैवाण्डाः सर्व एव नरेश्वर ।
तुल्य-देश-विभागाश् च तुल्यजन्तव एव च ॥ ३२५॥ इति ।

विरोधे’त्र समुत्पन्ने समाधानं विधीयते ॥३२६॥

यतः श्री-कौर्मे—
विरोधो वाक्ययोर् यत्र नाप्रामाण्यं तद् इष्यते ।
यथाविरुद्धता च स्यात् तथार्थः कल्प्यते तयोः ॥३२७॥ इति ।

युगपत् सकलाण्डानि जातु संहरते हरिः ॥३२८॥

तथा हि श्री-विष्णु-धर्मोत्तरे (१.७७.९)— 
अनन्तानि तवोक्तानि यान्य् अण्डानि मया पुरा ।
सर्वाणि तानि संहृत्य सम-कालं जगत्-पतिः ।
प्रकृतौ तिष्ठति तदा सा रात्रिस् तस्य कीर्तिता ॥३२९॥ इति ।

अतः संहृत्य सर्वाणि पुनर् अण्डान्य् असौ सृजन् ।
विषमाणि सृजेज् जातु कदाचिच् च समान्य् अपि ॥३३०॥
इत्य् औपोद्घातिकं प्रोच्य प्रकृतं परिलिख्यते ॥३३१॥

किं च तत्रैव (३.२.१२)—
यन् मर्त्य-लीलौपयिकं स्व-योग-
माया-बलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः
परं पदं भूषण-भूषणाङ्गम् ॥३३२॥ इति ।

अत्र कारिकाः—
यद् बिम्बं मर्त्य-लीलानां भवेद् औपायिकं परम् ।
पूर्व-पद्य-स्थितं बिम्बं यत्-पदेनानुकृष्यते ॥३३३॥
विविधाश्चर्य-माधुर्य-वीर्यैश्वर्यादि-सम्भवात् ।
स्वस्य देवादि-लीलाभ्यो मर्त्य-लीला मनोहराः ॥३३४॥
ध्वन्यते बिम्ब-शब्देन सद्-गुणावलि-शालिनाम् ।
सकल-स्व-स्व-रूपाणां मूलत्वं तस्य सर्वथा ॥३३५॥
अतस् तद् एव निःशेष-गुण-रूपास्पदत्वः ।
विचित्र-नर-लीलानाम् अतियोग्यम् उदीर्यते ॥३३६॥
स्वयोगमाया चिच्-छक्तिर् बलं तस्याः समर्थता ।
एतद्-दर्शयता साक्षात्-कुर्वता प्रकटीकृतम् ॥
अहो मदीय-चिच्-छक्तेः प्रभावं पश्यताद्भुतम् ।
दिव्यातिदिव्य-लोकेषु यद्-गन्धो’पि न सम्भवेत् ।
तज्-जगन्-मोहनं रूपं ययाविष्कृतम् ईदृशम् ।
स्व-योग-मायेत्य् आद्यस्य भावो’यम् इति गम्यते ॥३३७॥
स्वस्यात्मनो’पि परम-व्योमेशाद्यात्म-दर्शिनः ।
विस्मापनं नअवोद्दाम-चमत्कृतिकरं परम् ॥३३८॥
सौभगर्धिर् महाश्चर्य-सौन्दर्य-परमावधिः ।
तस्याः परं पदं नित्योत्कर्ष-सम्पद्-वरास्पदम् ॥३३९॥
यत् तु कौस्तुभ-मीनेन्द्र-कुण्डलाद्यं हि भूषणम् ।
तस्यापि भूषणान्य् अङ्गान्य् अस्येति सति विग्रहे ।
तस्य श्री-विग्रहस्येदम् असमोर्धत्वम् ईरितम् ॥३४०॥
सच्-चिद्-आनन्द-सान्द्रत्वात् द्वयोर् एवाविशेषतः ।
औपचारिक एवात्र भेदो’यं देह-देहिनोः ॥३४१॥

तथा च श्री-कौर्मे—
देह-देहि-भिदा चात्र नेश्वरे विद्यते क्वचित् ॥३४२॥ इति ।

किं च श्री-दशमे श्री-पुर-स्त्रीणाम् उक्तौ (१०.४४.१४)—

गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं
लावण्य-सारम् असमोर्धम् अनन्य-सिद्धम् ।
दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम्
एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥३४३॥ इति ।

तथा हि श्री-बलदेवं प्रति श्री-कृष्णोक्तौ (१०.१५.८)—

धन्येयम् अद्य धरणी तृण-वीरुधस् त्वत्-
पाद-स्पृशो द्रुमलताः करजाभिमृष्टाः ।
नद्यो’द्रयः खग-मृगाः सदयावलोकैर्
गोप्यो’न्तरेण भुजयोर् अपि यत्-स्पृहा श्रीः ॥३४४॥ इति ।

अत्र कारिकाः -- 
श्री-वृन्दावन-तद्-वासि-माधुर्योल्लोल-चेतसा ।
तत्-स्तवे हरिणारब्धे निजोकर्षावसायिनम् ।
तम् आलोच्य ततो रामम् अपदिश्य व्यधायि सः ॥३४५॥
अतो’त्र नैव तात्पर्यं रामोत्कर्षानुवर्णने ।
सख्य-भावात् तदा रामे नर्मणैवेदम् ईरितम् ॥३४६॥
भुजान्तरं तु वक्षस् ते तेन धन्या व्रजाञ्गनाः ।
यत्-स्पृहा वक्षसे यस्मै श्रीर् अप्य् आचरति स्पृहाम् ॥३४७॥
यत्-स्पृहैव परं तस्या न तु तत्-प्राप्ति-योग्यता ॥३४८॥
सदा वक्षः-स्थलस्थापि वैकुण्टेशितुर् इन्दिरा ।
कृष्णोरः-स्पृहयास्यैव रूपं विवृणुते’धिकम् ॥३४९॥
पौराणिकम् उपाख्यानम् अत्र सङ्क्षिप्य लिख्यते ॥३५०॥
श्रीः प्रेक्ष्य कृष्ण-सौन्दर्यं तत्र लुब्धा ततस् तपः ।
कुर्वतीं प्राह तां कृष्णः किं ते तपसि कारणम् ॥
विजिहीर्षे त्वया गोष्ठे गोपी-रूपेति साब्रवीत् ।
तद् दुर्लभम् इति प्रोक्ता लक्ष्मीस् तं पुनर् अब्रवीत् ॥
स्वर्ण-रेखेव ते नाथ वस्तुम् इच्छामि वक्षसि ।
एवम् अस्त्व् इति सा तस्य तद्-रूपा वक्षसि स्थिता ॥३५१॥

यथोक्तं श्री-दशमे नागपत्नीभिः (१०.१६.३६)—
यद्-वाञ्छया श्रीर् ललनाचरत् तपो
विहाय कामान् सुचिरं धृत-व्रता ॥३५२॥ इति ।

नाम्नो’पि महिमेतस्य सर्वतो’धिक ईर्यते ॥३५३॥

यथा श्री-ब्रह्माण्डे—

सहस्र-नाम्नां पुण्यानां त्रिर् आवृत्य तु यत् फलम् ।
एकावृत्त्या तु कृष्णस्य  नामैकं तत् प्रयच्छति ॥३५४॥

स्कान्दे च—
मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां
सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् ।
सकृद् अपि परिगीतं श्रद्धया हेलया वा 
भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥ इति ॥३५५॥

अतः स्वयं-पदादिभ्यो भगवान् कृष्ण एव हि ।
स्वयं-रूप इति व्यक्तं श्रीमद्-भागवतादिषु ॥३५६॥

यथोक्तं श्री-ब्रह्म-संहितायां (५.१, ५.३९)
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥३५७॥

रामादि मूर्तिषु कला नियमेन तिष्ठन्
नानावतारम् अकरोद् भुवनेषु किन्तु
कृष्णः स्वयं समभवत् परमः पुमान् यो
गोविन्दम् आदि पुरुषं तम् अहं भजामि ॥३५८॥ इति ।

तस्मात् परम-वैकुण्ठ-नाथो’प्य् अस्य विलासकः ॥३५९॥
अतो मिलित्वा श्रुतिभिः स्व-सारो यः स्तवः कृतः ।
तत् तात्पर्य-कृती कृष्णम् एव देवर्षिर् आनमत् ॥३६०॥
नमस् तस्मै भगवते कृष्णाय इत्यादि ॥३६१॥ (१०.८७.४६)

नन्व् एष द्वापरस्यान्ते प्रादुर्भूतो यदूद्वहः ।
स वैकुण्ठेश्वरो’हादिस् तद्-विलासः कथं भवेत् ॥३६२॥

मैवम् अस्यादि-शून्यस्य जन्म-लीलाप्य् अनादिका ।
स्वच्छन्दतो मुकुन्देन प्राकट्यं नीयते मुहुः ॥३६३॥

तथा च श्री-तृतीये (३.२.१५)
स्व-शान्त-रूपेष्व् इतरैः स्व-रूपैर्
अभ्यर्द्यमानेष्व् अनुकम्पितात्मा ।
परावरेशो महद्-अंश-युक्तो
ह्य् अजो ऽपि जातो भगवान् यथाग्निः ॥३६४॥ इति ।

अत्र कारिकाः—
स्वे भक्ताः स्वे च ते शान्त-रूपाश् चेत्य् अत्र विग्रहः ।
शान्तिस् तन्-निष्ठता बुद्धेः शान्तास् तन्-निष्ठ-बुद्धयः ॥३६५॥
________
तेषु सूर-सुताद्येषु नन्दादिषु च साधुषु ।
इतरैस् तद्-विरुद्धैस् तु कंसाद्यैर् असुरादिभिः ॥
स्वरूपैः सुष्ठ्व् अरूपैर् इत्य् अरूपत्वं विरूपता ।
घोरातिविकटाकारैर् इत्य् अर्थः स्फुटम् ईरितः ॥३६६॥

अभ्यर्द्यमानेष्व् अभितः क्रियमाणमहारित्षु ।
अनुकम्पायुतमनाः परे मायान्वयोज्झिताः ।
गोलोकमुख्या अवरे मायिकाजाण्ड-मण्डलाः ।
परेषाम् अवरेषां च तेषाम् ईशो’धिनायकः ॥३६७॥
स्युर् महान्तो’तिपरम-महत्तमतया स्मृताः ।
ते परव्योम-नाथश् च व्यूहाश् च वसु-सङ्ख्यकाः ॥३६८॥

वासुदेवादयो व्यूहाः परव्योमेश्वरस्य ये ।
तेभ्यो’प्य् उत्कर्षभाजो’मी कृष्ण-व्यूहाः सतां मताः ॥
इत्य् एते परम-व्योम-नाथ-व्यूहैः सहैकताम् ।
स्वविलासैर् इहाभ्येत्य प्रादुर्भावम् उपागताः ॥३६९॥

अंशास् तस्यावतारा ये प्रसिद्धाः पुरुषादयः ।
तथा श्री-जानकी-नाथ-नृषिंह-क्रोड-वामनाः ।
नारायणो नर-सखा हयशीर्षाजितादयः ॥३७०॥
एभिर् युक्तः सदा योगम् अवाप्ययन् अवस्थितः ॥३७१॥
अतो वृन्दावने तत्-तल्-लीला-प्रकटतेक्षते ॥३७२॥
वैकुण्ठेश्वर-लीलात्र दर्शिता या विरिञ्चये ।
सेश्वराणाम् अजाण्डानां कोटिर् वृन्दावने’द्भुता ।
सैव ज्ञेया यतः स्वांश-द्वारैवासौ प्रकाशिता ॥३७३॥
वासुदेवादि-लीलास् तु मथुरा द्वारकादिषु ।
तत्-तद्-रूपैर् व्रजान्तस् तु बाल्येहाभिश् च दर्शिताः ।
यथा श्री-दाम्नि तार्क्ष्यत्वं प्राप्ते सो’पि चतुर्भुजः ।
आदित्येष्व् अथ लब्धेषु बभौ द्वादशभिर् भुजैः ॥३७४॥
तथा साङ्कर्षणी लीला दैत्य-संहारकापि च ।
मूर्तयो माथुरे भान्ति श्री-प्रद्युम्नानिरुद्धयोः ।
याः श्री-गोपाल-तापन्यां वाराहादिषु च श्रुतः ॥३७५॥
एवं पुरुष-लीलानां प्राकट्यम् इह माथुरे ।
अनन्त-शायि-रूपाभिः क्रियते सुष्ठु मूर्तिभिः ॥३७६॥
यदा यदा च सा लीला कृष्णेन प्रकटीकृता ।
भव्वेत् तत्-तद्-उपाख्यानं पुराणेष्व् इति विश्रुतम् ॥३७७॥
यानि रामादि-रूपाणि प्रादुश्चक्रे स्वकेलिषु ।
तान्य् आधिष्ठान-रूपेण राजन्ते’द्यापि माथुरे ॥३७८॥
गो-परार्ध-पयः-पूरैर् जनितः क्षीर-वारिधिः ।
ममन्थाजितरूपस् तं गोपैर् देवासुरीकृतैः ॥३७९॥

अतेव ब्रह्माण्डे— 
यो वैकुण्ठे चतुर्बाहुर् भगवान् पुरुषोत्तमः
य एव श्वेतद्वीपेशो नरो नारायणश् च यः ।
स एव वृन्दावन-भू-विहारी नन्द-नन्दनः ॥३८०॥
एतस्यैवापरे’नन्ता अवतारा मनोहराः ।
महाग्नेर् इह यद्वत् स्युर् उल्काः शत-सहस्रशः ।
तत्रैव लीना एकत्वं व्रजेयुस् ते हरौ तथा ॥३८१॥ इति ।

इति सिद्धा प्रभोर् अस्य महद्-अंशैस् तु युक्तता ॥३८२॥
अत एव पुराणादौ केचिन् नर-सख्यात्मताम् ।
महेन्द्रानुजतां केचित् केचित् क्षीराब्धि-शायिताम् ।
सहस्र-शीर्षतां केचित् केचिद् वैकुण्ठ-नाथताम् ।
ब्रूयुः कृष्णस्य मुनयस् तत्-तद्-वृत्तान्त-गामिनः ॥३८३॥

उपोद्घातं समाप्याथ प्रकृतं लिख्यते पुनः ॥३८४।
अजो जन्म-विहीनो’पि जातो जन्माविराचरत् ॥३८५॥ 

नन्व् एकस्य किलाजत्वं जन्मित्वं च विरुध्यते ।
इत्य् आशङ्क्याह भगवान् अचिन्त्यैश्वर्य-वैभवः ॥३८६॥

तत्र तत्र यथा वह्निस् तेजो-रूपेण सन्न् अपि ।
जायते मणि-काष्ठादेर् हेतुं कञ्चिद् अवाप्य सः ॥
अनादिम् एव जन्मादि-लीलाम् एव तथाद्भुतम् ।
हेतुना केनचित् कृष्णः प्रादुष्कुर्यात् कदाचन ॥३८७॥
स्व-लीला-कीर्ति-विस्तारात् लोकेष्व् अनुजिघृक्षुता ।
अस्य जन्मादि-लीलानां प्राकट्ये हेतुर् उत्तमः ॥३८८॥
तथा भयङ्करतरैः पीड्यमानेषु दानवैः  ।
प्रियेषु करुणाप्य् अत्र हेतुर् इत्य् उत्तमेव हि ॥३८९॥
भूमि-भाआपहाराय ब्रह्माद्यैस् त्रिदशेश्वरैः ।
अभ्यर्थनं तु यत् तस्य तद् भवेद् आनुषङ्गिकम् ॥३९०॥
चेद् अद्यापि दिदृक्षेरन् उत्कण्ठार्ता निज-प्रियाः ।
तां तां लीलां ततः कृष्णो दर्शयेत् तान् कृपा-निधिः ॥३९१॥
कैर् अपि प्रेम-वैवश्य-भाग्भिर् भागवतोत्तमैः ।
अद्यापि दृश्यते कृष्णः क्रीडन् वृन्दावनान्तरे ॥३९२॥

किं चास्य पार्षदादीनाम् अप्य् उक्ता नित्य-मूर्तिता ।
तस्येश्वरेशितुर् नित्य्-मूर्तित्वे का विचित्रता ॥३९३॥

तथापि शुष्क-वादैक-निष्ठानां हेतु-वादिनाम् ।
तुष्णीम्भावाय वचनं पुराणादेर् विलिख्यते ॥३९४॥

तथा हि, श्री-भागवते ब्रह्म-स्तुतौ (१०.१४.२२)—
त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते 
मायात् उद्यद् अपि यत् सद् इवावभाति ॥३९५॥

श्री-ब्रह्माण्डे च—
अनादेयम् अहेयं च रूपं भगवतो हरेः ।
आविर्भाव-तिरोभावाव् अस्योक्ते ग्रह-मोचने ॥३९६॥

श्री-बृहद्-वैष्णवे—
नित्यावतारो भगवान् नित्य्-मूर्तिर् जगत्-पतिः ।
नित्य-रूपो नित्य-गन्धो नित्यैश्वर्य-सुखानुभूः ॥३९७॥

पाद्मे श्री-व्यासाम्बरीष-संवादे श्री-कृष्णं प्रति श्री-व्यास-वचनम् (४.७३.१२-३)—
त्वाम् अहं द्रष्टुम् इच्छामि चक्षुर्भ्यां मधुसूदन ।
यत् तत् सत्यं परं ब्रह्म जगद्-योनिं जगत्-पतिम् ।
वदन्ति वेद-शिरसश् चक्षुषं नाथ मे’स्तु तत् ॥३९८॥

श्री-कृष्ण-वाक्यम्— (प.पु. ४.७३.१७-१९)—
पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-गोपितम् ।
ततो’पश्यम् अहं भूप बालं कालाम्बुद-प्रभम् ।
गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः ।
कदम्ब-मूल आसीनं पीत-वाससम् अच्युतम् ॥३९९॥

तत्रैवाग्रे (४.७३.२३-२५)—
ततो माम् आह भगवान् वृन्दावन-चरः स्वयम् ।
यद् इदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ।
निष्कलं निष्क्रियं शान्तं सच्-चिद्-आनन्द-विग्रहम् ।
पूर्णं पद्म-पलाशाक्षं नातः परतरं मम ॥४००॥

इदम् एव वदन्य् एते वेदाः कारण-कारणम् ।
सत्यं व्यापि परानन्दं चिद्-घनं शाश्वतं शिवम् ॥४०१॥

श्री-वासुदेवोपनिषदि (३.५)—
मद्-रूपम् अद्वयं ब्रह्म मध्याद्य्-अन्त-विवर्जितम् ।
स्व-प्रभं सच्-चिद्-आनन्दं भक्त्या जानाति चाव्ययम् ॥४०२॥ इति ।

नन्व् अरूपः कृष्णो दृश्यो मायिक-रूपतः ॥४०३॥

तथापि मोक्ष-धर्मे श्री-भगवद्-वचनं यथा (ंBह् १२.३२६.४२-३)
एतत् त्वया न विज्ञेयं रूपवान् इति दृश्यते ।
इच्छन् मुहूर्तान् नश्येयम् ईशो ऽहं जगतो गुरुः ॥४०४॥
माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद ।
सर्वभूतगुणैर् युक्तं नैवं त्वं ज्ञातुम् अर्हसि ॥४०५॥ इति ।

तथा च पाद्मे—
अनाम-रूप एवायं भगवान् हरिर् ईश्वरः ।
अकर्तेति च यो वेदैः स्मृतिभिश् चाभिधीयते ॥४०६॥ इति ।

अत्र समाधानं यथा श्री-वासुदेवाध्यात्मे—
अप्रसिद्धेस् तद्-गुणानाम् अनामासौ प्रकीर्तितः ।
अप्राकृतत्वाद् अरूपस्याप्य् अरूपो’साव् उदीर्यते ॥
सम्बन्धेन प्रधानस्य हरेर् नास्त्य् एव कर्तृता ।
अकर्तारम् अतः प्राहुः पुराणं तं पुराविदः ॥४०७॥ इति ।

अतश् च मोक्षधर्मीय-वचनं योग्यम् एव तत् ॥४०८॥

तथा हि—
रूपीति हेतोर् दृश्येत यथैव प्राकृतो जनः ।
तथासौ दृश्यत इति त्वया मा स्म विचार्यताम् ॥४०९॥
इत्य् उक्त्वा स्वस्य रूपित्वे’प्य् अदृश्यत्वम् उदीरितम् ।
ततो निज-स्वरूपस्याप्राकृतत्वं च दर्शितम् ॥४१०॥
तद्-दर्शने त्व् अकुण्ठात्मा ममेच्छैव च कारणम् ।
इत्य् आहेच्छन् मुहूर्ताद् इत्य् अर्ध-पद्यं स्वयं पुनः ।
नश्येयम् इत्य् अदृश्यः स्यां यतो नशिर-दर्शने ॥४११॥
तथापि भूत-गुणवत्त्वेन मां त्वं यद्-ईक्षसे ।
एषा माया मया सृष्टा नैवं त्वं ज्ञातुम् अर्हसि ॥४१२॥
माया-शब्देन कुत्रापि चिच्-छक्तिर् अभिधीयते ॥४२३॥

चतुर्वेद-शिखायां—
स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः ।
अतो मायामयं विष्णुं प्रवदन्ति सनातनम् ॥
इत्य् एषा दर्शिता मध्वाचार्यैर् भाष्ये निजे श्रुतिः ॥४१४॥

तत्र स्वेच्छैक-प्रकाशत्वं मोक्ष-धर्मे (ंBह् १२.३२३.११, १३, १५-१६, १८)  एव 
प्रीतस् ततो ऽस्य भगवान् देवदेवः पुरातनः ।
साक्षात् तं दर्शयाम् आस सो ऽदृश्यो ऽन्येन केन चित् ॥४१५॥
बृहस्पतिस् ततः क्रुद्धः स्रुवम् उद्यम्य वेगितः
आकाशं घ्नन् स्रुवः पातै रोषाद् अश्रूण्य् अवर्तयत् ॥४१६॥
उद्यता यज्ञभागा हि साक्षात् प्राप्ताः सुरैर् इह ।
किमर्थम् इह न प्राप्तो दर्शनं स हरिर् विभुः ॥
ततः स तं समुद्धूतं भूमिपालो महान् विभुः ।
प्रसादयाम् आस मुनिं सदस्यास् ते च सर्वशः ॥४१८॥
अरोषणो ह्य् असौ देवो यस्य भागो ऽयम् उद्यतः ।
न स शक्यस् त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते ।
यस्य प्रसादं कुरुते स वै तं द्रष्टुम् अर्हति ॥४१९॥ 

तत्रैकतद्वित-त्रित-वाक्यं (ंभ् १२.३३८.२५-२७ ओर् ३२३.२३) --
अथ व्रतस्यावभृते वाग् उवाचाशरीरिणी ।
स्निग्ध-गम्भीरया वाचा प्रहर्षण-करी विभोः ॥ 
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् ॥४२०॥

ततः स्वयं प्रकाशत्व-शक्त्या स्वेच्छा-प्रकाशया ।
सो’भिव्यक्तो भवेत् नेत्रे न नेत्र-विषयत्वतः ॥४२१॥

यथा, श्री-नारायणाध्यात्मे—
नित्याव्यक्तो’पि भगवान् ईक्ष्यते निज-शक्तितः ।
ताम् ऋते परमात्मानं कः पश्येताम् इतं प्रभुम् ॥४२२॥

पाद्मे च—
सच्चिदानन्द-रूपत्वात् स्यात् कृष्णो’धोक्षजो’प्य् असौ ।
निज-शक्तेः प्रभावेन स्वं भक्तान् दर्शयेत् प्रभुः ॥४२३॥

य एव विग्रहो व्यापी परिच्छिन्नः स एव हि ।
एकस्यैवैकदा चास्य द्विरूपत्वं विराजते ॥४२४॥

यथा श्री-दशमे (१०.९.१३-१४)—
न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् ।
पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ॥
तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् ।
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥४२५॥

अनेन पद्य-युग्मेन व्रज-राज-सुतस्य हि ।
दाम-बन्धन-बेलायाम् एव व्यक्ता द्विरूपता ॥४२६॥
तथैव च पुराणेषु श्रीमद्-भागवतादिषु ।
श्रूयते कृष्ण-लीलानां नित्यता स्फुटम् एव हि ॥४२७॥

यथा च, श्री-प्रथमे श्री-द्वारका-वासि-वचनम् (१.१०.२६)—
अहो अलं श्लाघ्यतमं यदोः कुलम्
अहो अलं पुण्यतमं मधोर् वनम् ।
यद् एष पुंसाम् ऋषभः श्रियः पतिः
स्व-जन्मना चङ्क्रमणेन चाञ्चति ॥४२८॥

अञ्चतीति पदं वर्तमान-कालोपपादकम् ।
द्वारका-वासिनाम् उक्तौ लीलानां वक्ति नित्यताम् ॥४२९॥

श्री-दशमे श्री-शुकोक्तौ (१०.९०.४८)—
जयति जननिवासो देवकी-जन्म-वादो
यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् ।
स्थिर-चर-वृजिन-घ्नः सुस्मित-श्री-मुखेन
व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ ४३० ॥

श्री-स्कान्दे श्री-मथुरा-खण्डे श्री-युधिष्ठिरं प्रति श्री-नारद-वाक्यम्—
वत्सैर् वत्सतरीभिश् च साकं क्रीडति माधवः ।
वृन्दावनान्तरगतः सरामो बालकैर् वृतः ॥४३१॥

यद्-आनयोस् तु संवादो द्वारवत्यां हरिस् तदा ।
तथापि वर्तमानत्वेनोक्तिस् तन् नैत्य् अवाचिका ॥४३२॥

पाद्मे पाताल-खण्डे श्री-पार्वतीं प्रति श्री-रुद्र-वाक्यम्—
अहो मधु-पुरी धन्या यत्र तिष्ठति कंसहा ।
तत्र देवा मुनिः सर्वे वासम् इच्छन्ति सर्वदा ॥४३३॥

लीला-परिकरा गोष्ठ-जनाः स्युर् यादवास् तथा ।
देवाश् च ब्रह्म-जम्भारि-कुवेर-तनयादयः ।
नारदाद्याश् च दनुज-नाग-यक्षादयश् च ते ॥४३४॥
प्रकटाप्रकटा चेति लीला सेयं द्विधोच्यते ॥४३५॥

तथा हि—
सदानन्तैः प्रकाशैः स्वैर् लीलाभिश् च स दीव्यति ।
तत्रैकेन प्रकाशेन कदाचित् जगद्-अन्तरे ।
सहैव स्व-परीवारैर् जन्मादि कुरुते हरिः ॥४३६॥
कृष्ण-भावानुसारेण लीलाख्या शक्तिर् एव सा ।
तेषां परिकराणां च तं तं भावं विभावयेत् ॥४३७॥
प्रपञ्च-गोचरत्वेन सा लीला प्रकटा स्मृता ।
अन्यास् त्व् अप्रकटा भान्ति तादृश्यस् तद्-अगोचराः ॥४३८॥
तत्र प्रकट-लीलायाम् एव स्यातां गमागमौ ।
गोकुले मथुरायां च द्वारवत्यां च शार्ङ्गिणः ॥४३९॥
यास् तत्र तत्राप्रकटास् तत्र तत्रैव सन्ति ताः ।
इत्य् आह जयतीत्य्-आदि-पद्यादिकम् अभीक्ष्णशः ॥४४०॥
देवाद्य्-अंशावतरणे प्रवृत्ते पद्मजाज्ञया ।
वसुदेवादिकानां ये स्वर्गे’ंशाः कश्यपादयः ॥
नित्य-लीलान्तर-स्थैस् ते वसुदेवादिभिर् गताः ।
सायुज्यम् अंशिभिस् तत्र जायन्ते शूर-मुख्यतः ॥४४१॥
यद्-विलासो महा-श्रीशः स लीला-पुरुषोत्तमः ।
आविर्बुभूषुर् अत्राविष्कृत्य सङ्कर्षणं पुरः ।
अन्तस्थिताविष्कर्तव्य-तद्-अन्य-व्यूह ईश्वरः ।
हृदये प्रकटस् तस्य भवत्य् आनकदुन्दुभेः ॥४४२॥

भूमि-भार-निरासाय देवानाम् अभियाच्ञया ।
द्वारपस्यावसाने’स्मिन् अष्टाविंशे चतुर्युगे ।
क्षीराब्धि-शायि-यद्-रूपम् अनिरुद्धतया स्मृतम् ।
तद् इदं हृदयस्थेन रूपेणानकदुन्दुभेः ।
ऐक्यं प्राप्य ततो गच्छेत् प्राकट्यं देवकी-हृदि ॥४४३॥

प्रेमानन्दामृतैस् तस्या वात्सल्यैक-स्वरूपिभिः ।
लाल्यमानो हरिस् तत्र वधते चन्द्रमा इव ॥४४४॥
अथ भाद्रपदाष्टम्याम् असितायां महा-निशि ।
तस्या हृदस् तिरोभूयः कारायां सूति-सद्मनि ।
देवकी-शयने तत्र कृष्णः प्रादुर्भवत्य् असौ ॥४४५॥
जनयित्री-प्रभृतिभिस् ताभिर् इत्य् अवगम्यते ।
लौकिकेन प्रकारेण सुखं शिशुर् अजायत ॥४४६॥
अयं चतुर्भुजत्वे’पि द्विभुजत्वे’पि कृष्णताम् ।
न त्यजत्य् एव तद्-भाव-गुण-रूपात्म-वृत्तितः ॥४४७॥
तथापि द्विभुजत्वस्य कृष्णे प्राधान्यम् उच्यते ।
गूढत्वाद् एव च क्वापि गौणत्वम् इव कीर्त्यते ।
गूढं परं ब्रह्म मनुष्य-लिङ्गम् इति हि प्रथा ॥४४८॥

अथ व्रजेश्वरी-गेहे विशन्न् आनकदुम्दुभिः ।
तत्र न्यस्य सुतं तस्याः सुताम् आदाय निःसरेत् ॥४४९॥
सो’यं नित्य-सुतत्वेन तस्या राजय् अनादितः ।
कृष्णः प्रकट-लीलायां तद्-द्वारेणाप्य् अभूत् तथा ॥४५०॥
अथ प्रकटतां लब्धे व्रजेन्द्र-विहिते महे ।
तत्र प्रकटयत्य् एष लीला बाल्यादिका क्रमात् ।
करोति याः प्रकाशेषु कोटिशो’प्रकटेष्व् अपि ॥४५१॥
प्रेष्ठानन्दैर् व्रजे तैस् तैर् आत्मनो’पि विमोहनैः ।
लीलोल्लासैर् विलसति श्री-लीला-पुरुषोत्तमः ॥४५२॥
असमोर्धेन भगवान् वात्सल्येन व्रजेशयोः ।
सुतत्वेनैव स तयोर् आत्मानं वेत्ति सर्वदा ॥४५३॥
केचिद् भागवताः प्राहुर् एवम् अत्र पुरातनाः ।
व्यूहः प्रादुर्भवेद् आद्यो गृहेष्व् आनकदुन्दुभेः ।
गोष्ठे तु मायया सार्धं श्री-लीला-पुरुषोत्तमः ॥४५४॥

गत्वा यदुवरो गोष्ठं तत्र सूती-गृहं विशन् ।
कन्याम् एव परं वीक्ष्य ताम् आदायाव्रजत् पुरम् ।
प्राविशद् वासुदेवस् तु श्री-लीला-पुरुषोत्तमम् ॥४५५॥

एतच् चातिरहस्यत्वात् नोक्तं तत्र कथा-क्रमे ।
किन्तु क्वचित् प्रसङ्गेन सूच्यते श्री-शुकादिभिः ॥४५६॥

यथा श्री-दशमे (१०.५.१) --
नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः ॥४५७॥

यथा तत्रैव (१०.६.४३)—
नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः ॥४५८॥

तथा च— (१०.९.२१) 
नायं सुखापो भगवान् देहिनां गोपिका-सुतः ॥४५९॥

तथा च तत्र श्री-ब्रह्म-स्तवे (१०.१४.१)—
वन्य-स्रजे कवल-वेत्र-विषाण-वेणु-
लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय ॥४६०॥

तथा श्री-यामल-वचनं समुदाहरन्ति—
कृष्णो’न्यो यदु-सम्भूतो यः पूर्णः सो’स्त्य् अतः परम् ।
वृन्दावनं परित्यज्य स क्वचित् नैव गच्छति ॥४६१॥
द्विभुजं सर्वदा सो’त्र न कदाचित् चतुर्भुजः ।
गोप्यैकया युतस् तत्र परिक्रीडति नित्यदा ॥४६२॥ इति ।

अथ प्रकट-रूपेण कृष्णो यदु-पुरीं व्रजेत् ।
व्रजेशजत्वम् आच्छाद्य स्वां व्यञ्जन् वासुदेवताम् ।
यो वासुदेवो द्विभुजस् तथा भाति चतुर्भुजः ॥४६३॥

तास् ता मधु-पुरे लीलाः प्रकटय्य यदूद्वहः ।
द्वारवत्यां तथा याति ताम् तां लीलां प्रकाशकः ॥४६४॥

तत्राविष्कुरुते व्यूहं प्रद्य्म्नाख्यं तृतीयकम् ।
यतो व्यूहे’निरुद्धाख्यस् तुर्यः प्रकटतां व्रजेत् ॥४६५॥

इति व्यूह-चतुष्कस्य लोकोत्तर-चमत्क्रियाः ।
विवाहाद्याश् च बहुधा लीलास् तत्रैव वर्णिताह् ॥४६६॥

व्रजे प्रकट-लीलायां त्रीन् मासान् विरहो’मुना ।
अत्राप्य् अजनि विस्फूर्तिः प्रादुर्भावोपमा हरेः ।
त्रि-मास्याः परतस् तेषां साक्षात् कृष्णेन सङ्गतिः ॥४६७॥

आविर्भावागतिभ्यां सा द्वि-प्रकारास्य सम्भवेत् ॥४६८॥
वैशेषिक-क्लमोद्रेक-विवशीकृत-चेतसाम् ।
प्रेष्ठानाआं सहसैवाग्रे व्यग्रः प्रादुर्भवेद् असौ ॥४६९॥
उद्धवात् कृष्ण-सन्देश एभिर् यद्-अवधि श्रुतः ।
प्रादुर्भावस् तद्-अवधि स्याद् व्रजे वन-मालिनः ॥४७०॥
व्रजे द्वारवती-स्थस्य प्रादुर्भावो मुरद्विषः ।
बृहद्-विष्णु-पुराणादाव् आसकृद् बहुधोच्यते ॥४७१॥
व्रजे विहर-माणे’स्मिन् प्रादुर्भूय हरौ तदा ।
भवेत् तस्य पुरे यात्रा स्वप्नवद् व्रज-वासिनाम् ॥४७२॥
प्रेम सन्दर्शयन् स्वेषु स्व-वचः-सत्यतां च सः ।
पुनः प्रियं हरिर् गोष्ठम् आगच्छति रथादिना ॥४७३॥

स्व-वचः, यथा श्री-दशमे (१०.३९.३५) --
तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः ।
सान्त्वयामास सप्रेमैर् आयास्य इति द्यौतकैः ॥४७४॥

तथा (१०.४५.२३)—
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥४७५ ॥ इति ।

निइज-प्रियतमस्यापि वचसा यदु-मन्त्रिणः ।
एतदे एव वचः स्वीयं पुनस् तनोज्ज्वलीकृतम् ॥४७६॥

यथा तत्रैव (१०.४६.३५)—
हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥४७७॥

यथा श्री-प्रथमे— (१.११.९) 
यर्ह्य् अम्बुजाक्षापससार भो भवान्
कुरून् मधून् वाथ सुहृद्-दिदृक्षया ।
तत्राब्द-कोटि-प्रतिमः क्षणो भवेद्
रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥४७९॥

अत्र कारिके—
भो अम्बुजाक्ष सुहृदां नन्दादीनां दिदृक्षया ।
भवान् अपससारास्मान् अपहाय गतो मधून् ।
मथुराम् इति विस्पष्टं मथुरा-मण्डले व्रजम् ।
तदानीं सुहृदां तत्र मधुपुर्याम् अभावतः ॥४८०॥

किं च—
रथेन मथुरां गत्वा दन्तवक्रं निहत्य च 
स्पष्टं पाद्मे पुराणे’स्य कृष्णस्योक्ता व्रजागतिः ॥४८१॥

तद्-गद्यं पद्यं च यथा (प.पु. ६.२७९.२४-२६)—
कृष्णो’पि तं हत्वा यमुनाम् उत्तीर्य नन्द-व्रजं गत्वा सोत्कण्ठौ पितराव् अभिवाद्याश्वास्य ताभ्यां साश्रु-सेकम् आलिङ्गितः सकल-गोप-वृद्धान् प्रणम्य् आश्वास्य बहु-रत्न-वज्राभरणादिभिस् तत्रस्थान् सर्वान् सन्तरायामास ॥४८२॥

कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समाचिते ।
गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥
रम्य-केलि-सुखेनैव गोप-वेश-धरः प्रभुः ।
बहु-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ इति ॥ ४८३॥

अत्र कारिकाः—
यद् उत्तीर्येत्य् उत्तरणं तद्-आप्लवनम् उच्यते ।
दुष्टं हत्वा व्रजे यानं स्नान-पूर्वम् इहोचितम् ॥४८४॥
अतः प्रकट-लीलायाम् अप्य् अयोगो’ल्प एव हि ।
इति धाम-त्रये कृष्णो विहरत्य् एव सर्वदा ॥४८५॥
व्रजागमन-काले च पाद्मोक्ते’न्यच् च वर्तते ॥ ४८६ ॥

यथा (प.पु. ६.२७९.२७)—
अथ तत्रस्था नन्द-गोपादयः सर्वे जनाः पुत्र-दारादि-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूपधरा विमानम् आरूढाः परमं वैकुण्ठ-लोकम् अवापुः ॥ इति ।४८७॥

अत्र कारिके—
व्रजेशादेर् अंश-भूता ये द्रोणाद्या अवातरन् ।
कृष्णस् तान् एव वैकुण्ठे प्राहिणोद् इति साम्प्रतम् ॥४८८॥
प्रेष्ठेभ्यो’पि प्रियतमैर् जनैर् गोकुल-वासिभिः ।
वृन्दारण्ये सदैवासौ विहारं कुरुते हरिः ॥४८९॥
स्कान्दायोध्या-महिमनि सौमित्रेः श्रूयते यथा ॥ ४९०॥

तथा हि—
ततः शेषात्मतां यातं लक्ष्मणं सत्य-सङ्गरम् ।
उवाच मधुरं शक्रः सर्वस्वं च स पश्यतः ॥४९१॥
इन्द्र उवाच—
लक्ष्मणोत्तिष्ठ शीघ्रं त्वम् आरोहस्व पदं स्वकम् ।
देव-कार्यं कृतं वीर त्वया रिपु-निसूदन ।
वैष्णवं परमं स्थानं प्राप्नुहि स्वं सनातनम् ।
भवन्-मूर्तिः समायाता शेषो’पि विलसत्-फणः ॥४९२॥
ततश् च—
इत्य् उक्त्वा सुर-राजेन्द्रो लक्ष्मणं सुर-सङ्गतः ।
शेषं प्रस्थाप्य पाताले भू-भार-धरण-क्षमम् ।
लक्ष्मणं यानम् आरोप्य प्रतस्थे दिवम् आदरात् ॥४९३॥ इति ।

लीलां चाप्रकटां तत्र द्वारवत्यां चिकीर्षुणा ।
स्वयं प्रकाश्यते तेन मुनि-शापादि-कैतवम् ॥४९४॥ 

देवाद्य्-अंशावतरणे ये तु वृष्णिष्व् अवातरन् ।
क्षीराब्धि-शायि-रूपस् तैः सार्धं स्वपदम् आप्नुयात् ॥४९५॥
नित्य-लीला-परिकरा ये स्युर् यदुवरादयः ।
तैः सार्धं भगवान् कृष्णो द्वार्वत्याम् एव दीव्यति ॥४९६॥

धामास्य द्विविधं प्रोक्तं माथुरं द्वार्वती तथा ।
माथुरं च द्विधा प्राहुर् गोकुलं पुरम् एव च ॥४९७॥

यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम् ।
स गोलोको यथा ब्रह्म-संहितायाम् इह श्रुतः ॥४९८॥

गोलोक नाम्नि निज धाम्नि तले च तस्य
देवि महेश हरि धामसु तेषु तेषु ।
ते ते प्रभाव निचया विहिताश् च येन
गोविन्दम् आदि पुरुषं तम् अहं भजामि ॥४९९॥ [Bरह्मष् ५.४३]

तथा चाग्रे (Bरह्मष् ५.५६)

श्रियः कान्ताः कान्तः परम पुरुषः कल्प तरवो
द्रुमा भूमिश् चिन्तामणि गण मयि तोयम् अमृतम् ।
कथा गानं नाट्यं गमनम् अपि वंशी प्रिय सखि
चिद् आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥५००॥

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु महान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षिति विरल चाराः कतिपये ॥५०१॥ इति ।

तद्-आत्म-वैभवत्वं च तस्य तन्-महिमोन्नतेः ॥५०२॥

यथा पाताल-खण्डे—
अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी ।
दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥५०३॥
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारवती चैव सप्तैता मोक्ष-दायिकाः ॥५०४॥
एवं सप्त-पुरीणां तु सर्वोत्कृष्टं तु माथुरम् ।
श्रूयतां महिमा देवि वैकुण्ठ-भुवनोत्तमः ॥५०५॥ इति ।

नित्य-लीलास्पदत्वं च पूर्वम् एव प्रदर्शितम् ।
अतेवास्य पाद्मे च श्रूयते नित्य-रूपता ॥५०६॥

नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा 
यमुनां गोप-कन्याश् च तथा गोपाल-बालकान् ॥५०७॥ इति ।

स तु मथुरा-भू-रूपः परिच्छन्नो’प्य् अथाद्भुतः ।
स्फारः सङ्कुचितश् च स्यात् कृष्ण-लीलानुसारतः ॥५०८॥
अत्रैवाजाण्डमालापि पर्याप्तिम् उपगच्छति ।
वृन्दावन-प्रतीके’पि यानुभूतैव वेधसा ॥५०९॥
इत्य् अतो रास-लीलायां पुलिने तत्र यामुने ।
प्रदआशत-कोट्यो’पि ममूर् यत् तत् किम् अद्भुतम् ॥५१०॥
स्वैः स्वैर् लीला-परिकरैर् जनैर् दृश्यानि नापरैः ।
तत्-तल्-लीलाद्य्-अवसरे प्रादुर्भावोचितानि हि ॥५११॥
आश्चर्यम् एकदैकत्र वर्तमानान्य् अपि ध्रुवम् ।
परम्परम् असंपृक्त-स्वरूपाण्य् एव सर्वथा ॥५१२॥
कृष्ण-बाल्यादि-लीलाभिर् भूषितानि समन्ततः ।
शैल-गोष्ठ-वनादीनां सन्ति रूपाण्य् अनेकशः ॥५१३॥
लीलाढ्यो’पि प्रदेशो’स्य कदाचित् किल कैश्चन ।
शून्य एवेक्षते दृष्टि-योग्यैर् अप्य् अपरैर् अपि ॥५१४॥
अतः प्रभोः प्रियाणां च धाम्नश् च समयस्य च ।
अविचिन्त्य-प्रभावत्वाद् अत्र किं च न दुर्घटम् ॥५१५॥
एवम् एव द्वारकायां ज्ञेयं सर्वं विचक्षणैः ॥५१६॥

यथैकादशान्ते (११.३१.२३-२४)
द्वारकां हरिणा त्यक्तां समुद्रो’प्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् ॥
स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् ।
नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ॥५१७॥ इति ।

अथान्यद् वैभवं तस्य व्यक्तं श्री-नारदेक्षया ।
यत्रैकत्रैकदा नाना-रूपावसर-चित्रता ॥ ५१८॥

तथा च सम्मोहन-तन्त्रे—
सन्ति तस्य महा-भागा अवताराः सहस्रशः ।
तेषां मध्ये’वताराणां बालत्वम् अति-दुर्लभम् ॥५२१॥ इति ।

अत्र कारिका—
त्रिधा भवेद् वयो बाल्यं यौवनं वृद्धतेत्य् अपि ।
वर्षाद् आ-षोडशाद् बाल्यम् इति लोके महान्तरम् ॥५२२॥

तथा च ब्रह्माण्डे—
सन्ति भूरीणि रूपाणि मम पूर्णानि षड्-गुणैः ।
भवेयुस् तानि तुल्यानि न मया गोप-रूपिणा ॥५२३॥ इति ।

इत्य् अत्रैव महामन्त्राः महा-माहात्म्य-मण्डिताः ।
दशार्णाष्टादशार्णाद्या बहुतन्त्रेषु कीर्तिताः ॥५२४॥
सर्व-प्रमाणतः श्रेष्ठा तथा गोपाल-तापनी ।
स्वयम् आदौ विधात्रे या प्रोक्ता गोपाल-रूपिणा ॥५२५॥
चतुर्धा माधुरी तस्य व्रज एव विराजते ।
ऐश्वर्य-क्रीडयोर् वेणोस् तथा श्री-विग्रहस्य च ॥५२६॥

तत्र ऐश्वर्यस्य—
कुत्राप्य् अश्रुत-पूर्वेण मधुरैश्वर्य-राशिना ।
सेव्यमानो हरिस् तत्र विहारं कुरुते व्रजे ॥५२७॥
यत्र पद्मज-रुद्रआद्यैः स्तूयमानो’पि साध्वसात् ।
दृग्-अन्त-पातम् अप्य् एषु कुरुते न तु केशवः ॥५२८॥

यथा श्री-ब्रह्माण्डे श्री-नारद-वाक्यम् --
ये दैत्या दुःशकं हन्तुं चक्रेणापि रथाङ्गिना ।
ते त्वया निहताः कृष्ण नव्यया बाल्य-लीलया ॥
सार्धं मित्रैर् हरे क्रीडन् भ्रू-भङ्गं कुरुषे यदि ।
स-शङ्का ब्रह्म-रुद्राद्याः कम्पते ख-स्थितास् तदा ॥५२९॥ इति ।

यथा श्री-दशमे (१०.३५.१४)—
विविध-गोप-चरणेषु विदग्धो
वेणु-वाद्य उरुधा निज-शिक्षाः ।
तव सुतः सति यदाधर-बिम्बे
दत्त-वेणुर् अनयत् स्वर-जातीः ॥५३५॥

क्रीडायाः, यथा पाद्मे—
चरितं कृष्ण-देवस्य सर्वम् एवाद्भुतं भवेत् ।
गोपाल-लीला तत्रापि सर्वतो’तिमनोहरा ॥५३०॥

श्री-बृहद्-वामने—
सन्ति यद्यपि मे प्राज्या लीलास् तास् ता मनोहराः ।
न हि जाने स्मृते रासे मनो मे कीदृशं भवेत् ॥५३१॥ इति ।

वेणोः यथा—
यावती निखिले लोके नादानाम् अस्ति माधुरी ।
तावती वंशिका-नाद-परमानौ निमज्जति 
चर-स्थावरयोः सान्द्र-परमानन्द-मग्नयोः ।
भवेद् धर्म-विपर्यासो यस्मिन् ध्वनति मोहने ॥५३३॥
मोहनः को’पि मन्त्रो वा पदार्थो वाद्भुतः परः ।
श्रुति-पेयो’यम् इत्य् उक्त्वा यत्रामुह्यन् शिवादयः ॥५३४॥

सवनशस् तद्-उपधार्य सुरेशाः
शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवय आनत-कन्धर-चित्ताः 
कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥५३६॥ इति । (भा.पु. १०.३५.१५)

एकविंशे तथा पञ्चत्रिंशे चाध्याय ईडिता ।
माधुरी व्रज-देवीभिर् वेणोर् एव महाद्भुता ॥५३७॥

श्री-विग्रहस्य, यथा—
असमानोर्ध-माधुर्य-तरङ्गामृत-वारिधिः ।
जङ्गम-स्थावरोल्लासि-रूपो गोपेन्द्र-नन्दनः ॥५३८॥

यथा तन्त्रे—
कन्दर्प-कोट्य्-अर्बुद-रूप-शोभा-
नीराज्य-पादाब्ज-नखाञ्चलस्य ।
कुत्राप्य् अदृष्ट-श्रुत-रम्य-कान्तेर्
ध्यानं परं नन्दसुतस्य वक्ष्ये ॥ ५३९ ॥

श्री-दशमे च (१०.२९.४०)—
का स्त्र्य् अङ्ग ते कल-पदायत-मूर्च्छितेन 
सम्मोहिता ऽर्यपदवीं न चलेत् त्रिलोक्याम्  ।
त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं 
यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत्  ॥५४०॥