रविवार, 13 जून 2021

ऋग्वेद में देव संस्कृति के विरुद्ध कृष्ण-

← सूक्तं ८.९५ ऋग्वेदः - मण्डल ८
सूक्तं ८.९६
तिरश्चीराङ्गिरसो, द्युतानो वा मारुतः। सूक्तं ८.९७ →
दे. इन्द्रः, १४ इन्द्रामरुतः, १५ इन्द्राबृहस्पती। त्रिष्टुप्, ४ विराट्, २१ पुरस्ताज्ज्योतिः।

अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः ।
अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः ॥१॥
अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् ।
न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥२॥
इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः ।
शीर्षन्निन्द्रस्य क्रतवो निरेक आसन्नेषन्त श्रुत्या उपाके ॥३॥
मन्ये त्वा यज्ञियं यज्ञियानां मन्ये त्वा च्यवनमच्युतानाम् ।
मन्ये त्वा सत्वनामिन्द्र केतुं मन्ये त्वा वृषभं चर्षणीनाम् ॥४॥
आ यद्वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवा उ ।
प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥५॥
तमु ष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मात् ।
इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्वृषभं विशेम ॥६॥
वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः ।
मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥७॥
त्रिः षष्टिस्त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः ।
उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥८॥
तिग्ममायुधं मरुतामनीकं कस्त इन्द्र प्रति वज्रं दधर्ष ।
अनायुधासो असुरा अदेवाश्चक्रेण ताँ अप वप ऋजीषिन् ॥९॥
मह उग्राय तवसे सुवृक्तिं प्रेरय शिवतमाय पश्वः ।
गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङ्ग वेदत् ॥१०॥
उक्थवाहसे विभ्वे मनीषां द्रुणा न पारमीरया नदीनाम् ।
नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविदङ्ग वेदत् ॥११॥
तद्विविड्ढि यत्त इन्द्रो जुजोषत्स्तुहि सुष्टुतिं नमसा विवास ।
उप भूष जरितर्मा रुवण्यः श्रावया वाचं कुविदङ्ग वेदत् ॥१२॥
अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥१३॥
अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥१३॥

द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥१४॥
_________

अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥१५॥
_______________________

त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१६॥

त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ ।
त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥१७॥

त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ ।
त्वं सिन्धूँरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः ॥१८॥

स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान् ।
य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः ॥१९॥

स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम ।
स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥२०॥

स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव ।
कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥२१॥

ऋग्वेद अष्टम मण्डल का 95 वाँ सूक्त की 13-14-15-16-17-18-19-20-21-तक की ऋचाऐं 


इनमें भी देखें पन्द्रह वीं ऋचा जिसमें कृष्ण को अदेव लिखा है ।

पद-पाठ
अध । द्रप्सः । अंशुऽमत्याः । उपऽस्थे । अधारयत् । तन्वम् । तित्विषाणः ।

विशः । अदेवीः । अभि । आऽचरन्तीः । बृहस्पतिना । युजा । इन्द्रः । ससहे ॥१५।।



सायण भाष्य-
“अध= अथ “द्रप्सः =द्रुतगामी  /प्रस्रवणशील जल। कृष्णः “अंशुमत्याः नद्याः “उपस्थे=यमुनाया: नद्या: समीपे  “तित्विषाणः =दीप्यमानः। सन् “तन्वम् =आत्मीयं शरीरम् “अधारयत् । परैरहिंस्यत्वेन बिभर्ति । यद्वा । बलप्राप्त्यर्थं स्वशरीरमाहारादिभिरपोषयत् । तत्र “इन्द्रः गत्वा “बृहस्पतिना एतन्नामकेन देवेन “युजा =सहायेन “अदेव = देवस्य संस्कृते: विरोधिन:। ई:=विषाद:। अद्योतमानाः=  अदेवमाना: । कृष्णरूपा इत्यर्थः ।
विषादः । अनुकम्पा । इति मेदिनी ॥ 
ई:= क्रोधः । दुःखभावनं । प्रत्यक्षं । सन्निधिः । इति हेमचन्द्रः ॥ (सम्बोधनम् ।)

 यद्वा । पापयुक्तत्वादस्तुत्याः । “आचरन्तीः आगच्छन्तीः  तेन स: ग्रासं चरन्ती:  “विशः= असुरसेनाः "अभि "ससहे जघान । तमवधीदित्यर्थः प्रसङ्गादवगम्यते ॥ ॥ ३४ ॥ ।।


द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥१४॥

अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥१५॥

त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१६॥

त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ ।
त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥१७॥

त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ ।
त्वं सिन्धूँरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः ॥१८॥

स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान् ।
य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः ॥१९॥

स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम ।
स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥२०॥

स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव ।
कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥२१॥

सायणभाष्यम्

‘ अस्मै ' इत्येकविंशत्यृचं तृतीयं सूक्तम् । अत्रानुक्रम्यते- अस्मै सैका द्युतानो वा मारुतस्त्रैष्टुभं चतुर्थी विराळिष्यामीति मारुतः पादः परैन्द्राबार्हस्पत्या' इति । द्युतानाख्यो मरुतां पुत्र ऋषिस्तिरश्चीर्नामाङ्गिरसो वा । चतुर्थी विराट् । शिष्टास्त्रिष्टुभः । इन्द्रो देवता । इष्यामि वो मरुतः' इति पादो मरुद्देवत्यः। ‘अध द्रप्सः' इत्येषा त्विन्द्राबृहस्पतिदेवताका । सूक्तविनियोगो लिङ्गादवगन्तव्यः ॥


अ॒स्मा उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा॑य॒ नक्त॒मूर्म्या॑ः सु॒वाच॑ः ।

अ॒स्मा आपो॑ मा॒तर॑ः स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिन्ध॑वः सुपा॒राः ॥१

अ॒स्मै । उ॒षसः॑ । आ । अ॒ति॒र॒न्त॒ । याम॑म् । इन्द्रा॑य । नक्त॑म् । ऊर्म्याः॑ । सु॒ऽवाचः॑ ।

अ॒स्मै । आपः॑ । मा॒तरः॑ । स॒प्त । त॒स्थुः॒ । नृऽभ्यः॑ । तरा॑य । सिन्ध॑वः । सु॒ऽपा॒राः ॥१

अस्मै । उषसः । आ । अतिरन्त । यामम् । इन्द्राय । नक्तम् । ऊर्म्याः । सुऽवाचः ।

अस्मै । आपः । मातरः । सप्त । तस्थुः । नृऽभ्यः । तराय । सिन्धवः । सुऽपाराः ॥१

इन्द्रसामर्थ्याद्भीताः “उषसः उषःकालाः “अस्मै पूर्वोक्तगुणोपेताय “इन्द्राय "यामं स्वस्वगमनम्। “आतिरन्त । तिरतिर्वर्धनकम । समन्तादवर्धयन्त । यथा पूर्वमुद्यन्ति तथेदानीमप्यस्मा उद्गता अभवन् । तथा “ऊर्म्याः । रात्रिनामैतत् । 'ऋ गतिप्रापणयोः'। “अर्तेरू च' (उ. सू. ४. ४८४) इति मिप्रत्ययः । भवे छन्दसि ' इति यत् । सर्वैरभिगन्तव्याः । रात्रौ हि सर्वे स्वनिवासं गच्छन्ति । स्वनिलयप्राप्तिहेतुभूता रात्रयः। “नक्तम् अपररात्रिकाले “सुवाचः शोभनवाचो भवन्ति । तस्मिन् काले हि सर्वे वेदाध्ययनादीनि कुर्वन्ति । तस्मात् कल्याणवाचोऽभवन् । इन्द्रेऽनुशासति वेदाद्यनुमाने निरता अभवन् । तथा “आपः । ‘ अप्लृ व्याप्तौ । सर्वतो व्याप्ताः “मातरः जगतां निर्मात्र्यः “सप्त सप्तसंख्याकाः “सिन्धवः स्यन्दमाना गङ्गाद्या नद्यः । यद्वा । सप्त सर्पणशीलाः सिन्धवः सरितः । तासामावरकस्याहेर्हननोत्पादकत्वात् “अस्मै इन्द्राय “नृभ्यस्तराय मनुष्याणां सुखेन तरणार्थं "सुपाराः शोभनपाराः सुखेन तर्तुं योग्या अभवन्नित्यर्थः ॥


अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णाम् ।

न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥२

अति॑ऽविद्धा । वि॒थु॒रेण॑ । चि॒त् । अस्त्रा॑ । त्रिः । स॒प्त । सानु॑ । सम्ऽहि॑ता । गि॒री॒णाम् ।

न । तत् । दे॒वः । न । मर्त्यः॑ । तु॒तु॒र्या॒त् । यानि॑ । प्रऽवृ॑द्धः । वृ॒ष॒भः । च॒कार॑ ॥२

अतिऽविद्धा । विथुरेण । चित् । अस्त्रा । त्रिः । सप्त । सानु । सम्ऽहिता । गिरीणाम् ।

न । तत् । देवः । न । मर्त्यः । तुतुर्यात् । यानि । प्रऽवृद्धः । वृषभः । चकार ॥२

"विथुरेण । वर्णव्यत्ययः । "चित् अप्यर्थे । विधुरेणासहायेनापि “अस्त्रा। असु क्षेपणे ' । ताच्छीलिकस्तृन् । शत्रुक्षेपणशीलेनेन्द्रेण । यद्वा । अस्त्रास्त्रेण वज्रेण । “त्रिः “सप्त एकविंशतिसंख्यानि "संहिता संहितान्येकत्र संघीभूतानि “गिरीणां सप्तानां पर्वतानां “सानु सानूनि “अतिविद्धा अतिविद्धानि । अतीत्य ताडितानि । तेन मुक्तो वज्रपातस्तानि भित्त्वागमदित्यर्थः । अत्र तैत्तिरीयकं ब्राह्मणं - दर्भपिञ्जूलमुद्धत्य सप्त गिरीन् भित्वा तमहन्' (तै. सं. ६. २. ४. ३) इत्यादि । तस्येन्द्रस्य “तत् तानि सानुभेदनादीनि कर्माणि “देवः इन्द्राद्व्यतिरिक्तो देवः “मर्त्यः मनुष्यो वा “न "तुतुर्यात् न तरेत्। तथा कर्तुं न शक्नोतीत्यर्थः ॥ ‘तॄ प्लवनतरणयोः । लिङि छान्दसः शपः श्लुः। ‘बहुलं छन्दसि' इत्युत्वम् । यद्वा ।' तुर त्वरणे'। जौहोत्यादिकः । “प्रवृद्धः सोमपानेन बलेन व प्रवृद्धः “वृषभः कामानामुदकानां वा वर्षक इन्द्रः “यानि कर्माणि “चकार कृतवान् तानि देवो मनुष्यो वा न तथा कर्तुं शक्नोतीत्यर्थः ॥


इन्द्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इन्द्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोज॑ः ।

शी॒र्षन्निन्द्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेष॑न्त॒ श्रुत्या॑ उपा॒के ॥३

इन्द्र॑स्य । वज्रः॑ । आ॒य॒सः । निऽमि॑श्लः । इन्द्र॑स्य । बा॒ह्वोः । भूयि॑ष्ठम् । ओजः॑ ।

शी॒र्षन् । इन्द्र॑स्य । क्रत॑वः । नि॒रे॒के । आ॒सन् । आ । ई॒ष॒न्त॒ । श्रुत्यै॑ । उ॒पा॒के ॥३

इन्द्रस्य । वज्रः । आयसः । निऽमिश्लः । इन्द्रस्य । बाह्वोः । भूयिष्ठम् । ओजः ।

शीर्षन् । इन्द्रस्य । क्रतवः । निरेके । आसन् । आ । ईषन्त । श्रुत्यै । उपाके ॥३

उक्तगुणस्य “इन्द्रस्य “वज्र “आयसः अयसा निर्मितः । अयोमय इत्यर्थः। स वज्रः इन्द्रेण स्वहस्ते “निमिश्लः संमिश्रः अत्यन्तं संबद्धः कृतः । अत एव “इन्द्रस्य “बाह्वोः भुजयोः “भूयिष्ठं बहुतमम् "ओजः वीर्यमस्ति । तथा “निरेके। निपूर्वाद्रिच्यतेर्वा निस्पूर्वादेतेर्वेति संदेहादनवग्रहः । निर्गमने यदा युद्धार्थमिन्द्रो निर्गच्छति तदानीम् “इन्द्रस्य “शीर्षन् शिरसि “क्रतवः कर्माणि शिरस्त्राणनिधानादीनि । यद्वा । शिर इति गलप्रभृत्यूर्ध्वमङ्गमुच्यते । तत्रत्याभ्यामक्षिभ्यां दर्शनप्रेरणादीनि कर्माणि भवन्ति । तथा “आसन् । आस्यस्यासन्नादेशः । आस्ये च यानि कर्माणि युद्धार्थं वाजिनो गजान् संनाहयतेत्यादीनि भवन्ति । किंच “श्रुत्यै संग्रामाय निर्गच्छतोऽनुशासित इन्द्रस्य वाक्यश्रवणार्थं सर्वं उपजीविनो भृत्याः “उपाके अन्तिके “एषन्त । अयमिन्द्रोऽस्मान् कुत्र कुत्र कार्ये नियोक्ष्यतीत्येतेन मनसा तदन्तिके समन्तादागच्छन्ति । ईष गतिहिंसादर्शनेषु' । भौवादिकः ॥


मन्ये॑ त्वा य॒ज्ञियं॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ च्यव॑न॒मच्यु॑तानाम् ।

मन्ये॑ त्वा॒ सत्व॑नामिन्द्र के॒तुं मन्ये॑ त्वा वृष॒भं च॑र्षणी॒नाम् ॥४

मन्ये॑ । त्वा॒ । य॒ज्ञिय॑म् । य॒ज्ञिया॑नाम् । मन्ये॑ । त्वा॒ । च्यव॑नम् । अच्यु॑तानाम् ।

मन्ये॑ । त्वा॒ । सत्व॑नाम् । इ॒न्द्र॒ । के॒तुम् । मन्ये॑ । त्वा॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥४

मन्ये । त्वा । यज्ञियम् । यज्ञियानाम् । मन्ये । त्वा । च्यवनम् । अच्युतानाम् ।

मन्ये । त्वा । सत्वनाम् । इन्द्र । केतुम् । मन्ये । त्वा । वृषभम् । चर्षणीनाम् ॥४

एतदादयः प्रत्यक्षाः । हे इन्द्र “त्वा त्वां “यज्ञियानां यज्ञार्हाणां देवानामपि “यज्ञियं पुरस्तादेव यज्ञार्हमिति “मन्ये अवबुध्ये। तथा “त्वा त्वाम् “अच्युतानां च्युतिरहितानामपि पर्वतानां “च्यवनं च्यावयितारं वज्रेण विभेदकमिति “मन्ये जानामि । यद्वा । अच्युतानां बलेन च्यावयितुमशक्यानां बलिनां वीराणामपि स्वबलेन विद्रावयितारमिति' जाने । किंच हे "इन्द्र “सत्वनाम्। 'षण संभक्तौ'। क्वनिप् । संभजमानानां भटानां “केतुम् उच्छ्रितमिति “मन्ये । यद्वा । सत्वनां स्तुतिभिः हविर्भिर्वा संभक्तॄणां यष्टॄणां केतुमात्मनः प्रज्ञापकं तेषां पूजनीयमिति वा मन्ये । तथा “त्वा त्वां “चर्षणीनां मनुष्याणां “वृषभम् अभिमतफलवर्षकमिति “मन्ये जानामि ॥


आ यद्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ धत्से॑ मद॒च्युत॒मह॑ये॒ हन्त॒वा उ॑ ।

प्र पर्व॑ता॒ अन॑वन्त॒ प्र गाव॒ः प्र ब्र॒ह्माणो॑ अभि॒नक्ष॑न्त॒ इन्द्र॑म् ॥५

आ । यत् । वज्र॑म् । बा॒ह्वोः । इ॒न्द्र॒ । धत्से॑ । म॒द॒ऽच्युत॑म् । अह॑ये । हन्त॒वै । ऊं॒ इति॑ ।

प्र । पर्व॑ताः । अन॑वन्त । प्र । गावः॑ । प्र । ब्र॒ह्माणः॑ । अ॒भि॒ऽनक्ष॑न्तः । इन्द्र॑म् ॥५

आ । यत् । वज्रम् । बाह्वोः । इन्द्र । धत्से । मदऽच्युतम् । अहये । हन्तवै । ऊं इति ।

प्र । पर्वताः । अनवन्त । प्र । गावः । प्र । ब्रह्माणः । अभिऽनक्षन्तः । इन्द्रम् ॥५

हे “इन्द्र “बाह्वोः “वज्रम् आयुधम् । कीदृशम् । “मदच्युतं शत्रूणां मदस्य च्यावयितारं “यत् यदा “आ “धत्से आदधासि । किमर्थम् । “अहये अहिनामानमसुरं मेघं वा “हन्तवै । "उ इत्यवधारणे । हन्तुमेव । किंच यदा वेन्द्रेणाहिनामकेऽसुरे हते सति “पर्वताः जगदापूरका मेघाः “प्र “अनवन्त । ‘नु शब्दे । प्रकर्षेणाशब्दयन् । यदा वा “गावः तत्स्थान्युदकानि च प्रकर्षेण ध्वनिमकुर्वन् । उदकान्यध्वनयन्नित्यत्र याजुषो निगमः- ‘ यददः संप्रयतीरहावनदता हते तस्मादा नद्यो नाम स्थ' (तै. सं. ५. ६. १. २; अ. सं. ३. १३. १ ) इति । तुरीयः पादः परोक्षः । तदानीम् “अभिनक्षन्तः अभित इन्द्रं स्तुतिभिर्हविर्भिर्गच्छन्तः “ब्रह्माणः ब्राह्मणाः “इन्द्रं पर्यचरन् । यद्वा । ब्रह्माणः । ‘ बृह वृद्धौ'। प्रवृद्धाः पर्वतादय इन्द्रमस्तुवन्निति ॥ ॥ ३२ ॥


तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् ।

इन्द्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥६

तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । यः । इ॒मा । ज॒जान॑ । विश्वा॑ । जा॒तानि॑ । अव॑राणि । अ॒स्मा॒त् ।

इन्द्रे॑ण । मि॒त्रम् । दि॒धि॒षे॒म॒ । गीः॒ऽभिः । उपो॒ इति॑ । नमः॑ऽभिः । वृ॒ष॒भम् । वि॒शे॒म॒ ॥६

तम् । ऊं इति । स्तवाम । यः । इमा । जजान । विश्वा । जातानि । अवराणि । अस्मात् ।

इन्द्रेण । मित्रम् । दिधिषेम । गीःऽभिः । उपो इति । नमःऽभिः । वृषभम् । विशेम ॥६

परस्परं स्तोतार आहुः । “तमु तमेवेन्द्रं वयं संहत्य "स्तवाम स्तोत्रं करवाम । “यः इन्द्रः “इमा इमानि भूतानि “जजान जनयामास । तस्मात् “अस्मात् इन्द्रादेव “विश्वा विश्वानि सर्वाणि वस्तुजातानि सर्वाणि जगन्ति वा “अवराणि अवरकालीनानि पश्चाद्भवानि भवन्ति । तेनानेन “इन्द्रेण वयं “गीर्भिः स्तुतिभिः “मित्रम् । लुप्तभावप्रत्ययेन निर्देशः । मैत्रीं “दिधिषेम धारयेम । ‘धिष धारणे इति धातुं केचिद्वदन्ति । यद्वा । मित्रम् । छान्दसमेकवचनम् । वयमिन्द्रेण सह मित्राणि सुहृदो भवामेति गीर्भिरिन्द्रं शब्दयेम । ‘ धिष शब्दे । जौहोत्यादिकः । अत्र व्यत्ययेन द्विविकरणता श्लुश्च शश्च। ततः “नमोभिः क्रियमाणैर्नमस्कारैर्दीयमानैर्हविर्भिर्वा “वृषभं कामानां वर्षकमिन्द्रम् “उपो "विशेम अस्मदभिमुखमेव कुर्याम ॥


वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः ।

म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वा॒ः पृत॑ना जयासि ॥७

वृ॒त्रस्य॑ । त्वा॒ । श्व॒सथा॑त् । ईष॑माणाः । विश्वे॑ । दे॒वाः । अ॒ज॒हुः॒ । ये । सखा॑यः ।

म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । स॒ख्यम् । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒सि॒ ॥७

वृत्रस्य । त्वा । श्वसथात् । ईषमाणाः । विश्वे । देवाः । अजहुः । ये । सखायः ।

मरुत्ऽभिः । इन्द्र । सख्यम् । ते । अस्तु । अथ । इमाः । विश्वाः । पृतनाः । जयासि ॥७

हे इन्द्र तव "ये "विश्वे “देवाः प्राक् “सखायः संग्रामे सखित्वं कुर्यामेति' मित्राण्यभवन ते सर्वे देवाः "वृत्रस्य वृत्रासुरस्य “श्वसथात् । श्वसेरौणादिकोऽथप्रत्ययः । सर्वानागच्छतो दृष्ट्वा तेषां भीत्युत्पादनाय वृत्रासुरः श्वासमकार्षीत् । श्वासाद्भीताः सन्तः अत एव “ईषमाणाः सर्वतः पलायमानाः “त्वा त्वाम् “अजहुः संग्रामे त्यक्तवन्तः । एवं सति हे “इन्द्र “मरुद्भिः सह "सख्यं सखिभावः “ते तव “अस्तु । ये मरुतस्त्वां न परित्यजन्ति तैः सहेति । “अथ अनन्तरम् “इमाः “विश्वाः “पृतनाः शत्रुसेनाः "जयासि स्वबलेनाभिभवसि । अनेन वृत्रं घ्नन्तमिन्द्रमाह । अत्र ‘इन्द्रो वै वृत्रं हनिष्यन्' (ऐ. ब्रा. ३. २०) इत्यादि ब्राह्मणमनुसंधेयम् ॥


त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः ।

उप॒ त्वेम॑ः कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥८

त्रिः । ष॒ष्टिः । त्वा॒ । म॒रुतः॑ । व॒वृ॒धा॒नाः । उ॒स्राःऽइ॑व । रा॒शयः॑ । य॒ज्ञिया॑सः ।

उप॑ । त्वा॒ । आ । इ॒मः॒ । कृ॒धि । नः॒ । भा॒ग॒ऽधेय॑म् । शुष्म॑म् । ते॒ । ए॒ना । ह॒विषा॑ । वि॒धे॒म॒ ॥८

त्रिः । षष्टिः । त्वा । मरुतः । ववृधानाः । उस्राःऽइव । राशयः । यज्ञियासः ।

उप । त्वा । आ । इमः । कृधि । नः । भागऽधेयम् । शुष्मम् । ते । एना । हविषा । विधेम ॥८

प्रसङ्गादेतावन्तो मरुतः सहाया अभवन्नित्याह। हे इन्द्र “त्रिः त्रयः । जसः ‘सुपां सुलुक्' इति सुः । षष्टित्र्युत्तरसंख्याका मरुतः । ते च तैत्तिरीयके 'ईदृङ्चान्यादृङ्च' (तै. सं. ४. ६.५. ५) इत्यादिना नवसु गणेषु सप्त सप्त प्रतिपादिताः। तत्रादितः पञ्च गणाः संहितायामाम्नायन्ते । स्वतवांश्च प्रघासी च सांतपनश्च गृहमेधी च क्रीडी च शाकी चोज्जेषी ' ( वा. सं. १७. ८५) इति खैलिकः षष्ठो गणः । ततो ‘धुनिश्च ध्वान्तश्च' (तै. आ. ४. २४) इत्याद्यास्त्रयोऽरण्येऽनुवाक्याः । इत्थं त्रयःषष्टिसंख्याकाः “उस्राइव “राशयः गाव इव संघीभूतास्ते त्वां “वावृधानाः स्वबलेन वर्धितवन्तः । ते “मरुतः “यज्ञियासः यज्ञार्हा अभवन् । तं मरुत्सहायमिन्द्रं “त्वा त्वां वयम् “एमः उपगच्छामः । ततस्त्वं “नः अस्मभ्यं “भागधेयं भजनीयं धनं “कृधि कुरु । पश्चाद्वयमपि “एना एनेन सोमलक्षणेन “हविषा “ते तुभ्यं “शुष्मं शत्रूणां शोषकं बलं “विधेम । ‘विध विधाने'। विदध्म । कुर्म इत्यर्थः ॥


ति॒ग्ममायु॑धं म॒रुता॒मनी॑कं॒ कस्त॑ इन्द्र॒ प्रति॒ वज्रं॑ दधर्ष ।

अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ॥९

ति॒ग्मम् । आयु॑धम् । म॒रुता॑म् । अनी॑कम् । कः । ते॒ । इ॒न्द्र॒ । प्रति॑ । वज्र॑म् । द॒ध॒र्ष॒ ।

अ॒ना॒यु॒धासः॑ । असु॑राः । अ॒दे॒वाः । च॒क्रेण॑ । तान् । अप॑ । व॒प॒ । ऋ॒जी॒षि॒न् ॥९

तिग्मम् । आयुधम् । मरुताम् । अनीकम् । कः । ते । इन्द्र । प्रति । वज्रम् । दधर्ष ।

अनायुधासः । असुराः । अदेवाः । चक्रेण । तान् । अप । वप । ऋजीषिन् ॥९

हे "इन्द्र “ते तव स्वभूतं “तिग्मं तीक्ष्णम् “आयुधम् । आयुध्यतेऽनेनेत्यायुधं धनुः । तत्र “मरुतां त्रयःषष्टिसंख्याकानां त्वत्सहायानाम् “अनीकं संघं च त्वदीयं “वज्रं च "कः को वा देवो मनुष्यो वा “प्रति “दधर्ष प्रतिकूलमभिभवति । अभिभावुको नास्तीत्यर्थः । ‘ धृष प्रसहने । आ धृषाद्वा' इति विभाषितणिच् । तदभावे लिटि रूपम् । अत एव “अनायुधासः धनुराद्यायुधवर्जिताः “अदेवाः देववर्जिता देवद्विषो ये “असुराः सन्ति हे “ऋजीषिन् । अपार्जितोऽभिषुतः सोम ऋजीषः । तद्वन्निन्द्र “तान् असुरान् “चक्रेण चक्रसमानवीर्येण चक्ररूपेण वज्रेण वा “अप “वप अपगतान् कुरु । अपनुदेत्यर्थः ॥


म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः ।

गिर्वा॑हसे॒ गिर॒ इन्द्रा॑य पू॒र्वीर्धे॒हि त॒न्वे॑ कु॒विद॒ङ्ग वेद॑त् ॥१०

म॒हे । उ॒ग्राय॑ । त॒वसे॑ । सु॒ऽवृ॒क्तिम् । प्र । ई॒र॒य॒ । शि॒वऽत॑माय । प॒श्वः ।

गिर्वा॑हसे । गिरः॑ । इन्द्रा॑य । पू॒र्वीः । धे॒हि । त॒न्वे॑ । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥१०

महे । उग्राय । तवसे । सुऽवृक्तिम् । प्र । ईरय । शिवऽतमाय । पश्वः ।

गिर्वाहसे । गिरः । इन्द्राय । पूर्वीः । धेहि । तन्वे । कुवित् । अङ्ग । वेदत् ॥१०

हे स्तोतः “महे महते गुणैः "उग्राय बलेनोद्गूर्णाय “तवसे । तु इति धातुर्वृद्ध्यर्थः । प्रवृद्धाय “शिवतमाय कल्याणतमायेन्द्राय "सुवृक्तिं शोभनां स्तुतिं "प्रेरय चोदय । कुरु। किमर्थम् ।"पश्वः पशोः। द्विपाच्चतुष्पाच्च । पशोर्ममास्मदीयाय गवे वा । यद्वा पशोरतीन्द्रियार्थं द्रष्टुर्मम धनादिकं दातुं गवे सुखादिकं प्रदातुमिन्द्राय स्तुतिं प्रेरय । एतदेवाह । हे स्तोतः “गिर्वाहसे गीर्भिः स्तुतिभिरुह्यमानाय “इन्द्राय "पूर्वीः बह्वीः “गिरः स्तुतीः “धेहि कुरु । ततः स इन्द्रः “तन्वे । तनोति कुलमिति तनूस्तनयः । तस्मै पुत्राय स्वशरीरयात्मने वा “कुवित् । बहुनामैतत् । बहु धनम् “अङ्ग क्षिप्रं “वेदत् लम्भयतु ददातु ।' विद्लृ लाभे ' । लेट्यडागमः । कुविच्छब्दयोगादनिघातः ॥ ॥ ३३ ॥


उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीना॑म् ।

नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विद॒ङ्ग वेद॑त् ॥११

उ॒क्थऽवा॑हसे । वि॒ऽभ्वे॑ । म॒नी॒षाम् । द्रुणा॑ । न । पा॒रम् । ई॒र॒य॒ । न॒दीना॑म् ।

नि । स्पृ॒श॒ । धि॒या । त॒न्वि॑ । श्रु॒तस्य॑ । जुष्ट॑ऽतरस्य । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥११

उक्थऽवाहसे । विऽभ्वे । मनीषाम् । द्रुणा । न । पारम् । ईरय । नदीनाम् ।

नि । स्पृश । धिया । तन्वि । श्रुतस्य । जुष्टऽतरस्य । कुवित् । अङ्ग । वेदत् ॥११

हे स्तोतः “उक्थवाहसे उक्थैः स्तोत्रशस्त्रादिभिरुह्यमानाय अत एव “विभ्वे महते यद्वा शत्रूणामभिभवित्र इन्द्रायेन्द्रार्थं “मनीषां मनस ईषां स्तुतिम् “ईरय प्रेरय । तत्र दृष्टान्तः । “द्रुणा “न यथा नाविकः “नदीनां नदमानानां सरितां “पारं तीरं प्रति पथिकं द्रुणा नावा प्रापयति तद्वदिन्द्रं प्रति स्तुतिं गमयेति । किंच “नि “स्पृश नितरां धनं स्पर्शय गमय “तन्वि आत्मनि पुत्रे वा । कीदृशम् । “श्रुतस्य सर्वत्र विश्रुतस्य प्रसिद्धस्य “जुष्टतरस्य अत्यर्थं प्रीणयितुरिन्द्रस्य स्वभूतम् । धनं “धिया त्वदीयया स्तुत्या कर्मणा वात्मानं गमय । ततस्त्वयाभिष्टुत इन्द्रः “कुवित् बहु धनं क्षिप्रं “वेदत् लम्भयतु ददातु ॥


तद्वि॑विड्ढि॒ यत्त॒ इन्द्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास ।

उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विद॒ङ्ग वेद॑त् ॥१२

तत् । वि॒वि॒ड्ढि॒ । यत् । ते॒ । इन्द्रः॑ । जुजो॑षत् । स्तु॒हि । सु॒ऽस्तु॒तिम् । नम॑सा । आ । वि॒वा॒स॒ ।

उप॑ । भू॒ष॒ । ज॒रि॒तः॒ । मा । रु॒व॒ण्यः॒ । श्र॒वय॑ । वाच॑म् । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥१२

तत् । विविड्ढि । यत् । ते । इन्द्रः । जुजोषत् । स्तुहि । सुऽस्तुतिम् । नमसा । आ । विवास ।

उप । भूष । जरितः । मा । रुवण्यः । श्रवय । वाचम् । कुवित् । अङ्ग । वेदत् ॥१२

हे ऋत्विक् “तत् सोमादिहविः स्तोत्रं वा “विविड्ढि व्यापय । तानीन्द्रार्थं कुर्वित्यर्थः । “ते तव स्वभूतं “यत् हविः स्तोत्रं वा "इन्द्रः "जुजोषत् स्वीकुर्यात् तस्कुरु । ‘जुषी प्रीतिसेवनयोः । लेटि शपः श्लुः । अडागमः । छान्दसत्वात् ' नाभ्यस्तस्य' इति गुणप्रतिषेधाभावः । हे स्तोतः “सुष्टुतिं सुस्तुतिम् । शोभना स्तुतिर्यस्य स तथोक्तः । तादृशमिन्द्रं “स्तुहि । तथा “नमसा स्तोत्रेण हविषा वा “आ “विवास इन्द्रमाभिमुख्येन परिचर । विवासतिः परिचरणकर्मा । लोटि रूपम् । हे “जरितः स्तोतः “उप “भूष।‘भूष अलंकारे'। अलंकृतो भव। “मा रुवण्यः धनाभावात् मा ध्वनयः । मा रोदीरित्यर्थः। धनागमने कारणमाह। हे स्तोतः “वाचं स्तुतिमिन्द्रं “श्रावय ज्ञापय । ततस्त्वया स्तुत इन्द्रस्तुभ्यं “कुवित् बहु धनं क्षिप्रं प्रयच्छतु ॥


पृष्ठ्यषडहगतेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे ‘अव द्रप्सः' इति तृचः । सूत्रितं च -- ‘ अव द्रप्सो अंशुमतीमतिष्ठदिति तिस्रोऽच्छा म इन्द्रमिति नित्यमैकाहिकम्' (आश्व. श्रौ. ८. ३ ) इति ॥

अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभि॑ः स॒हस्रै॑ः ।

आव॒त्तमिन्द्र॒ः शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥१३

अव॑ । द्र॒प्सः । अं॒शु॒ऽमती॑म् । अ॒ति॒ष्ठ॒त् । इ॒या॒नः । कृ॒ष्णः । द॒शऽभिः॑ । स॒हस्रैः॑ ।

आव॑त् । तम् । इन्द्रः॑ । शच्या॑ । धम॑न्तम् । अप॑ । स्नेहि॑तीः । नृ॒ऽमनाः॑ । अ॒ध॒त्त॒ ॥१३

अव । द्रप्सः । अंशुऽमतीम् । अतिष्ठत् । इयानः । कृष्णः । दशऽभिः । सहस्रैः ।

आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नेहितीः । नृऽमनाः । अधत्त ॥१३

अत्रेतिहासमाचक्षते किल । कृष्णो नामासुरो दशसहस्रसंख्यैरसुरैः परिवृतः सन्नंशुमतीनामधेयाया नद्यास्तीरेऽतिष्ठत् । तत्र तं कृष्णमुदकमध्ये स्थितमिन्द्रो बृहस्पतिना सहागच्छत् । आगत्य तं कृष्णं तस्यानुचरांश्च बृहस्पतिसहायो जघानेति । केचिदन्यथा वदन्ति । तेषां कथा हेतुः । द्रप्स इत्युदककणोऽभिधीयते स तु सोमो ‘द्रप्सश्चस्कन्द ' (ऋ. सं. १०. १७. ११ ) इत्यादिषु सोमपरत्वेनोक्तत्वात् । एतत्पदमाश्रित्याहुः- ‘ अपक्रय तु देवेभ्यः सोमो वृत्रभयार्दितः ॥ नदीमंशुमतीं नामाभ्यतिष्ठत् कुरून प्रति । तं बृहस्पतिनैकेन सोऽभ्ययाद्वृत्रहा सह ॥ योत्स्यमानः सुसंहृष्टैर्मरुद्भिर्विविधायुधैः। दृष्ट्वा तानायतः सोमः स्वबलेन व्यवस्थितः ॥ मन्वानो वृत्रमायान्तं जिघांसुमरिसेनया । व्यवस्थितं धनुष्मन्तं तमुवाच बृहस्पतिः ॥ मरुत्पतिरयं सोम प्रेहि देवान् पुनर्विभो । सोऽब्रवीन्नेति तं शक्रः स्वर्ग एव बलाद्बली । इयाय देवानादाय तं पपुर्विधिवत्सुराः ॥ जघ्नुः पीत्वा च दैत्यानां समरे नवतीर्नव । तदव द्रप्स इत्यस्मिन् तृचे सर्वं निगद्यते' (बृहद्दे. ६. १०९-११५ ) । एतदनार्षत्वेनानादरणीयं भवति । एषोऽर्थः क्रमेणर्क्षु वक्ष्यते । तथा चास्या ऋचोsयमर्थः । “द्रप्सः । द्रुतं सरति गच्छतीति द्रप्सः । पृषोदरादिः । द्रुतं गच्छन् "दशभिः “सहसैः दशसहस्रसंख्यैरसुरैः “इयानः “कृष्णः एतन्नामकोऽसुरः "अंशुमतीं नाम नदीम् “अव “अतिष्ठत् अवतिष्ठते । ततः “शच्या कर्मणा प्रज्ञानेन वा “धमन्तम् उदकस्यान्तरुच्छ्वसन्तं यद्वा जगद्भीतिकरं शब्दं कुर्वन्तं “तं कृष्णमसुरम् “इन्द्रः मरुद्भिः सह “आवत् प्राप्नोत् । पश्चात्तं कृष्णमसुरं तस्यानुचरांश्च हतवानिति वदति । “नृमणाः नृषु मनो यस्य सः । यद्वा । कर्मनेतृष्वृत्विक्ष्वेकविधं मनो यस्य स तथोक्तः । तादृशः सन् “स्नेहितीः । स्नेहतिर्वधकर्मसु पठितः । सर्वस्य हिंसित्रीस्तस्य सेनाः “अप “अधत्त । अपधानं हननम् । अवधीदित्यर्थः । ‘ अप स्नीहितिं नृमणा अधद्राः' (सा. सं. १. ४. १.४.१) इति छन्दोगाः पठन्ति । तस्यानुचरान् हत्वा तं द्रुतं गच्छन्तमसुरमपाधत्त । हतवान् ॥


द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्या॑ः ।

नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥१४

द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ ।

नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥१४

द्रप्सम् । अपश्यम् । विषुणे । चरन्तम् । उपऽह्वरे । नद्यः । अंशुऽमत्याः ।

नभः । न । कृष्णम् । अवतस्थिऽवांसम् । इष्यामि । वः । वृषणः । युध्यत । आजौ ॥१४

तुरीयपादो मारुतः । मरुतः प्रति यद्वाक्यमिन्द्र उवाच तदत्र कीर्त्यते । हे मरुतः “द्रप्सं द्रुतगामिनं कृष्णमहम् “अपश्यम् अदर्शम् । कुत्र वर्तमानम् । “विषुणे विष्वगञ्चने सर्वतो विस्तृते देशे । यद्वा । विषुणो विषमः । विषमे परैरदृश्ये गुहारूपे देशे। “चरन्तं परितो गच्छन्तम् । किंच “अंशुमत्याः एतन्नामिकायाः “नद्यः नद्याः “उपह्वरे अत्यन्तं गूढे स्थाने “नभो “न नभसि यथादित्यो दीप्यते तद्वत्तत्र दीप्यमानम् “अवतस्थिवांसम् उदकस्यान्तरवस्थितं “कृष्णम् एतन्नामकमसुरमपश्यम् । तस्मिन् दृष्टे सति हे “वृषणः कामानामुदकानां वा सेक्तारो मरुतः “वः युष्मान् युद्धार्थम् “इष्यामि अहमिच्छामि । ततो यूयं तमिमं कृष्णम् "आजौ । अजन्ति गच्छन्त्यत्र योद्धार आयुधानि प्रक्षेपयन्तीति वाजिः संग्रामः । तस्मिन् "युध्यत संहरत । वाक्यभेदादनिघातः । केचित् इष्यामि वो मरुतः इति पठन्ति । तत्र हे मरुतः वो युष्मानिच्छामीत्यर्थो भवति ॥


अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः ।

विशो॒ अदे॑वीर॒भ्या॒३॒॑चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्र॑ः ससाहे ॥१५

अध॑ । द्र॒प्सः । अं॒शु॒ऽमत्याः॑ । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्व॑म् । ति॒त्वि॒षा॒णः ।

विशः॑ । अदे॑वीः । अ॒भि । आ॒ऽचर॑न्तीः । बृह॒स्पति॑ना । यु॒जा । इन्द्रः॑ । स॒स॒हे॒ ॥१५

अध । द्रप्सः । अंशुऽमत्याः । उपऽस्थे । अधारयत् । तन्वम् । तित्विषाणः ।

विशः । अदेवीः । अभि । आऽचरन्तीः । बृहस्पतिना । युजा । इन्द्रः । ससहे ॥१५

“अध अथ “द्रप्सः द्रुतगामी कृष्णः “अंशुमत्याः नद्याः “उपस्थे समीपे “तित्विषाणः दीप्यमानः सन् “तन्वम् आत्मीयं शरीरम् “अधारयत् । परैरहिंस्यत्वेन बिभर्ति । यद्वा । बलप्राप्त्यर्थं स्वशरीरमाहारादिभिरपोषयत् । तत्र “इन्द्रः गत्वा “बृहस्पतिना एतन्नामकेन देवेन “युजा सहायेन “अदेवीः अद्योतमानाः । कृष्णरूपा इत्यर्थः । यद्वा । पापयुक्तत्वादस्तुत्याः । “आचरन्तीः आगच्छन्तीः “विशः असुरसेनाः "अभि "ससहे जघान । तमवधीदित्यर्थः प्रसङ्गादवगम्यते ॥ ॥ ३४ ॥ ।।


त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभव॒ः शत्रु॑रिन्द्र ।

गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥१६

त्वम् । ह॒ । त्यत् । स॒प्तऽभ्यः॑ । जाय॑मानः । अ॒श॒त्रुऽभ्यः॑ । अ॒भ॒वः॒ । शत्रुः॑ । इ॒न्द्र॒ ।

गू॒ळ्हे इति॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । अ॒वि॒न्दः॒ । वि॒भु॒मत्ऽभ्यः॑ । भुव॑नेभ्यः । रण॑म् । धाः॒ ॥१६

त्वम् । ह । त्यत् । सप्तऽभ्यः । जायमानः । अशत्रुऽभ्यः । अभवः । शत्रुः । इन्द्र ।

गूळ्हे इति । द्यावापृथिवी इति । अनु । अविन्दः । विभुमत्ऽभ्यः । भुवनेभ्यः । रणम् । धाः ॥१६

हे “इन्द्र “त्वं खलु “त्यत् तत् कर्म कृतवानसि। किं तत् उच्यते । "जायमानः त्वं प्रादुर्भवन्नेव । “अशत्रुभ्यः स्तुरहितेभ्यः “सप्तभ्यः कृष्णवृत्रनमुचिशम्बरादिसप्तभ्यो बलवद्भ्यः शत्रुभ्यः तदर्थं “शत्रुः “अभवः । यद्वा । सप्तभ्यः । ससैवाङ्गिरसः । सप्तभ्योङ्गिरोभ्यो गवानयनार्थं प्रादुर्भवन्नेवाशत्रुभ्यो बलवद्भ्यः पणिभ्यः शत्रुरभवः । किंच हे इन्द्र त्वं “गूळ्हे तमसा गूढे संवृते “द्यावापृथिवी द्यावापृथिव्यौ सूर्यात्मना ते प्रकाश्यानुक्रमेण "अविन्दः अलभथाः । तथा “विभुमद्भ्यः महत्त्वयुक्तेभ्यः "भुवनेभ्यः लोकेभ्यः "रणं रमणं “धाः धारयसि । विदधासीत्यर्थः ॥


त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ ।

त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥१७

त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओजः॑ । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒तः । ज॒घ॒न्थ॒ ।

त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒रः॒ । वध॑त्रैः । त्वम् । गाः । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्दः॒ ॥१७

त्वम् । ह । त्यत् । अप्रतिऽमानम् । ओजः । वज्रेण । वज्रिन् । धृषितः । जघन्थ ।

त्वम् । शुष्णस्य । अव । अतिरः । वधत्रैः । त्वम् । गाः । इन्द्र । शच्या । इत् । अविन्दः ॥१७

हे इन्द्र त्वं “ह “त्वं खलु “त्यत् एतत् कर्माकार्षीः। किं तत् अभिधीयते । हे “वज्रिन् वज्रवन्निन्द्र “धृषितः धृष्टः संग्रामेषु शत्रुहनने कुशलः सन्। यद्वा। धृष्टो धीरः सन् "अप्रतिमानम् । प्रतिमानमुपमा। निरुपमम्। अस्य सदृशमन्यदीयं वीर्यं नास्तीत्यर्थः। तादृशं “शुष्णस्य “ओजः बलं “वज्रेण आयुधेन “जघन्थ हतवानसि। ‘अभ्यासाच्च' इति इन्तेर्घत्वम् । पूर्वं शुष्णस्य बलं विनाश्येदानीं शुष्णमपि हतवानित्याह । “त्वं “वधत्रैः हननसाधनैरायुधैः “शुष्णस्य । ‘क्रियाग्रहणं कर्तव्यम्' इति संप्रदानसंज्ञा। चतुर्थ्यर्थे बहुलम्' इति षष्ठी। शुष्णम् “अवातिरः । कुत्साय राजर्षयेऽवाङ्मुखं कृत्वावधीः । तथा च निगमः-- कुत्साय शुष्णमशुषं नि बर्हीः' (ऋ. सं. ४. १६. १२) इति । तथा हे “इन्द्र “त्वं “शच्या स्वकीयया प्रज्ञया कर्मणा वा “गाः शत्रून् हत्वा तेषां गाः “अविन्दः अलभथाः । यद्वा । अङ्गिरसां गाः पणीन् संप्रहृत्य लब्धवानसि ॥


त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां॑ तवि॒षो ब॑भूथ ।

त्वं सिन्धूँ॑रसृजस्तस्तभा॒नान्त्वम॒पो अ॑जयो दा॒सप॑त्नीः ॥१८

त्वम् । ह॒ । त्यत् । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् । घ॒नः । वृ॒त्राणा॑म् । त॒वि॒षः । ब॒भू॒थ॒ ।

त्वम् । सिन्धू॑न् । अ॒सृ॒जः॒ । त॒स्त॒भा॒नान् । त्वम् । अ॒पः । अ॒ज॒यः॒ । दा॒सऽप॑त्नीः ॥१८

त्वम् । ह । त्यत् । वृषभ । चर्षणीनाम् । घनः । वृत्राणाम् । तविषः । बभूथ ।

त्वम् । सिन्धून् । असृजः । तस्तभानान् । त्वम् । अपः । अजयः । दासऽपत्नीः ॥१८

“त्वं खलु तत् कर्म कृतवानसि । किं तत् । हे “वृषभ कामानां वर्षितरिन्द्र “चर्षणीनां यष्टॄणां मनुष्याणां भावितानां “वृत्राणाम् उपद्रवाणां “घनः हन्ता । अमूर्त्यर्थेऽपि छन्दोविषयत्वान्निपातनम् । तादृशस्त्वं “तविषः प्रवृद्धो बलवान् वा “बभूथ बभूविथ । बभूथा ततन्थ° ' इतीडभावो निपात्यते । ततः “त्वं “तस्तभानान् असुरैर्विरुध्यमानाः “सिन्धून् सप्त गङ्गाद्याः नदीः सरणाय “असृजः। पश्चात् “त्वं “दासपत्नीः । दासा उपक्षपयितारः शत्रवः । ते पतयः स्वामिनो यासां ताः । ‘ नित्यं सपत्न्यादिषु' (पा. सू. ४. १. ३५) इत्यत्र ‘दासाञ्च' इत्युपसंख्यानात् ङीप् । असुरस्वामिकाः “अपः “अजयः जितवानसि । तानसुराञ्जित्वोदकानि च प्रासृज इत्यर्थः ॥


स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे॑व रे॒वान् ।

य एक॒ इन्नर्यपां॑सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा॑हुः ॥१९

सः । सु॒ऽक्रतुः॑ । रणि॑ता । यः । सु॒तेषु॑ । अनु॑त्तऽमन्युः । यः । अहा॑ऽइव । रे॒वान् ।

यः । एकः॑ । इत् । नरि॑ । अपां॑सि । कर्ता॑ । सः । वृ॒त्र॒ऽहा । प्रति॑ । इत् । अ॒न्यम् । आ॒हुः॒ ॥१९

सः । सुऽक्रतुः । रणिता । यः । सुतेषु । अनुत्तऽमन्युः । यः । अहाऽइव । रेवान् ।

यः । एकः । इत् । नरि । अपांसि । कर्ता । सः । वृत्रऽहा । प्रति । इत् । अन्यम् । आहुः ॥१९

अथ परोक्षकृताः । “सः इन्द्रः “सुक्रतुः शोभनप्रज्ञः शोभनकर्मा भवति “यः “सुतेषु अभिषुतेषु सोमेषु “रणिता तत्पानार्थं रमणशीलः किंच “अनुत्तमन्युः परैरनुन्नक्रोधः शत्रुभिर्नोत्तुमशक्यः तादृशः “यः इन्द्रः “रेवान धनवान् । तत्र दृष्टान्तः । “अहेव । यथा अहानि दिवसा धनवन्तः। दिवसेषु हि धनानि प्रादुर्भवन्ति न रात्रिषु । तद्वत् । तथा “यः इन्द्रः “एक “इत् असहाय एव “नरि कर्मनेतरि मनुष्ये "अपांसि कर्माणि “कर्ता कर्तुशीलो भवति । ताच्छीलिकस्तृन् । अत एव षष्ठीप्रतिषेधः । “सः पूर्वोक्तगुणोपेत इन्द्रः “वृत्रहा । अपामावरकस्यासुरस्य उपद्रवस्य वा हन्तृत्वाद्वृत्रहेति सर्वैः श्रूयते । तमेवेन्द्रम् “अन्यं “प्रति । “इत् अवधारणे । अन्यं प्रत्येव “आहुः । इन्द्रः सर्वमन्यं शत्रुसंघं प्रति भवति । अभिभवत्येवेति वदन्ति ॥


स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम ।

स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥२०

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽधृत् । तम् । सु॒ऽस्तु॒त्या । हव्य॑म् । हु॒वे॒म॒ ।

सः । प्र॒ऽअ॒वि॒ता । म॒घऽवा॑ । नः॒ । अ॒धि॒ऽव॒क्ता । सः । वाज॑स्य । श्र॒व॒स्य॑स्य । दा॒ता ॥२०

सः । वृत्रऽहा । इन्द्रः । चर्षणिऽधृत् । तम् । सुऽस्तुत्या । हव्यम् । हुवेम ।

सः । प्रऽअविता । मघऽवा । नः । अधिऽवक्ता । सः । वाजस्य । श्रवस्यस्य । दाता ॥२०

"वृत्रहा वृत्रस्य हन्ता “सः “इन्द्रः “चर्षणीधृत् मनुष्याणां धनादिदानेन पोषको भवति । “तम् इन्द्रं वयं “सुष्टुत्या शोभनया स्तुत्या “हुवेम अस्मद्यज्ञेष्वाह्वयामः । किमर्थं यूयमाह्वयथेति चेत् कारणं ब्रूमः । “सः इन्द्रः “प्राविता प्रकर्षेणास्माकं रक्षिता भवति । किंच “मघवा धनवानिन्द्रः “नः अस्माकम् “अधिवक्ता अधिकं वक्ता बहुमानेन वक्ता भवति । यद्वा । धनदानेनास्मानधिकं वक्तुमर्हति । अर्हे कृत्यतृचश्च' (पा. सू. ३. ३. १६९ ) इति तृच् । किंच “सः एवेन्द्रः “श्रवस्यस्य श्रवसः कीर्तेर्निमित्तस्य “वाजस्य अन्नस्य । यद्वा । श्रवसोऽन्नस्य हिताय वाजस्य बलस्य । “दाता भवति खलु । तस्मादेवंगुणमिन्द्रं वयमाह्वयामः ॥


स वृ॑त्र॒हेन्द्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव ।

कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्य॒ः सखि॑भ्यः ॥२१

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । ऋ॒भु॒क्षाः । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भू॒व॒ ।

कृ॒ण्वन् । अपां॑सि । नर्या॑ । पु॒रूणि॑ । सोमः॑ । न । पी॒तः । हव्यः॑ । सखि॑ऽभ्यः ॥२१

सः । वृत्रऽहा । इन्द्रः । ऋभुक्षाः । सद्यः । जज्ञानः । हव्यः । बभूव ।

कृण्वन् । अपांसि । नर्या । पुरूणि । सोमः । न । पीतः । हव्यः । सखिऽभ्यः ॥२१

“ऋभुक्षाः महान् । यद्वा । ऋभुशब्देनर्भ्वादयस्त्रयो गृह्यन्ते । ऋभुभिः सह क्षियति निवसतीति तादृशः। “वृत्रहा "सः “इन्द्रः “सद्यः तदानीमेव “जज्ञानः प्रादुर्भवन् “हव्यः सर्वैः स्तोतृभिः यष्टॄभिराह्वातव्यो "बभूव । किंच “नर्या नर्याणि । नरा मनुष्याः कर्मनेतारः । तेभ्यो हितानि “पुरूणि बहूनि “अपांसि कर्माणि “कृण्वन् कुर्वन् “सखिभ्यः हविष्प्रदानेनोपकारकत्वान्मित्रेभ्य ऋत्विग्भ्यः “हव्यः आह्वातव्यो हवनयोग्यो वाभूत् । तत्र दृष्टान्तः। “सोमो “न यथा “पीतः सोमो यष्टृभ्यः स्वर्गादिफलानि कुर्वन् देवैराह्वातव्यो भवति तद्वत् ॥ ॥ ३५ 






 Lord Krishna is part and parcel of a Hindu daily life. All puraanic texts are full in the glory of Krishna. Traditionally, it is considered that puraanic stories have been fabricated to explain mystical vedic mantras and these stories should not be taken in historical sense. Here is an attempt to find out the origin and real meaning of word Krishna in vedic and puraanic texts. This task becomes all the more easier at the present age of modern scientific knowledge. It seems that the whole Hindu mythology is based on – how to decrease the entropy. All sins have been considered as merely increase in entropy of an individual and there are various means to rectify this. The hardest of the path is that of hell. Krishna can be considered a state having the lowest entropy. As has been stated elsewhere also((see for example here), increase in entropy means that though the quantity of energy has remained the same, but this energy has become so much disordered that no useful work can be taken from it. The famous example being given is that of a steam engine where work from steam can be taken only until the steam is enclosed in the piston system. The word meaning of Krishna is where nothing has been left to attract, to plough, all the scattered part of our consciousness have been bound together with a center. Does this concept fit in the framework of puraanic stories ? The answer is yes. The divine play of Krishna and his consorts is called RAASA and this raasa is nothing but to sequentially derive systems of lower entropies from systems of higher entropies. In vedic literature, it has been stated that wherever the fire goes in the forest, it makes the path Krishna/dark. This is a fact of spiritual life. Fire is the essence of our gross body. We sense fire in the form of hunger. In yogic practices, this fire is made to circulate through all the body and wherever this fire goes, it purifies the body. All sins are burnt.

          Vedic literature goes one step further. It contemplates a pair of Krishna and Arjuna, dark and white. It has been stated that the actual place of   dark is in heaven and the place of white is on earth. This type of riddles are yet to be solved. One proposition may be that the system which could not be derived to a lower entropy is the white part. But vedic texts warn that the places of dark and white can go in reverse also. And these texts interpret dark and white in terms of the mantras of Rigveda and Samaveda. It will be more appropriate if this riddle is solved in terms of  combinations of dark earth – white sun and white sun – dark moon. It is worth mentioning here that in mythology, moon is supposed to be situated higher above sun. Another interpretation may be that dark is the state of trance and white is coming down from trance.  

 

First published : 2005AD(Vikrama 2062)

कृष्ण

टिप्पणी कृष्ण के विषय में इस टिप्पणी का आधार ऋग्वेद .५८..१४०.-  -..-.....१०..६०.१०...२३.१९१०.२१. आदि का यह सार्वत्रिक कथन है कि अग्नि वन में जहां जहां भी जाती हैवहीं वहीं कृष्ण या काला कर देती हैअर्थात् अग्नि मार्ग में आने वाली वनस्पतियों को जला कर कृष्ण कर देती है  इन कथनों को इस प्रकार समझा जा सकता है कि पृथिवी हमारी यह देह है और अग्नि इस भौतिक देह की दीप्ति  इस देह के कण - कण में एक काम विद्यमान हैद्रकाम शब्द पर टिप्पणी जो बिखरा हुआ है  यदि इस काम को भौतिक देह में एकत्रित किया जा सकेएक इकाई बनाया जा सके तो यह अग्नि का, ज्योvति का रूप धारण कर सकता है  इसी समस्या का दूसरा पक्ष यह है कि यदि किसी प्रकार अपनी देह में स्थित अग्नियों में से किसी एक को भीउदाहरण के लिए जठराग्नि या मन को हीविस्तृत करके विभिन्न अङ्गों पर केन्द्रित किया जा सके तो देह के यह अङ्ग अपने काम वाले अंश का मोचन कर देते हैं और काम एक रस के रूप मेंएक मेघ के रूप में परिणत हो जाता है  जहां जहां यह अग्नि जाएगीवहीं कृष्ण स्थिति होती चली जाएगी  हमारी जठराग्नि हमारे जठर से नीचे नहीं उतर पातीअतः देह का अधोभाग कामयुक्त बना रहता है  लेकिन मानव समाज नेविशेषकर भारतीय समाज नेइस समस्या के हल भी निकाले हैं जो अलग से एक व्यावहारिक विषय है  कृष्ण शब्द का विज्ञान की दृष्टि से अर्थ होगा जहां अव्यवस्था न्यूनतम हो  जो ऊर्जा अव्यवस्था उत्पन्न कर रही थीउसे निकाल दिया गया है  लगता है कि पुराणों में उपरोक्त तथ्य को देवकी से उत्पन्न उन  पुत्रों के रूप में प्रदर्शित किया गया है जिन्हें कंस ने मार डाला था  इन पुत्रों को षड्-गर्भ की संज्ञा दी जाती है  भागवत पुराण १०.८५ में इनके नाम स्मरउद्गीथपतङ्गपरिष्वङ्गक्षुद्रभृद् और घृणि आए हैंलेकिन पुराण - पुराण में नामों में अन्तर है  यह  पहले मरीचि  ऊर्णा के पुत्र थे जो शापवश कालनेमि के पुत्र बने  फिर कालनेमि के पिता हिरण्यकशिपु ने इन्हें सोते रहने और अपने पिता के हाथों मारे जाने का शाप दिया  द्वापर में यह  देवकी - पुत्रों के रूप में उत्पन्न हुए जिन्हें कालनेमि के अवतार कंस ने मारा  इन  पुत्रों में प्रथम स्मर या काम है  दूसरा उद्गगीथ जिसके लिए उद्गीथ पर टिप्पणी द्रष्टव्य है  यह भक्ति की एक अवस्था है जिसमें मनप्राण और वाक् तीनों का समावेश रहता है  तीसरा पतङ्गआकाश में ऊपर की ओर उडने वाला पक्षी है  ऋग्वेद आदि में सूर्य को भी पतङ्ग की संज्ञा दी गई है  परिष्वङ्ग आलिङ्गन को कहते हैं  ऋग्वेद की एक ऋचा में  सुपर्ण पक्षी एक ही वृक्ष का परिष्वङ्ग किए रहते हैं द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते  इससे अगली अवस्थाएं क्षुद्रभृत्क्षुद्र का भरण करने वाली और घृणिदीप्ति कही गई हैं  कालनेमि के पुत्रों के रूप में तो यह अवस्थाएं सोती ही रहती हैंजाग्रत अवस्था में कभी नहीं  पातीऔर यदि किसी  प्रकार से वे देवकी के गर्भ से जन्म लेकर प्रस्फुटित होती भी हैं तो कंस उन्हें मार देता हैविकसित नहीं होने देता  डाफतहसिंह के अनुसार कंस शब्द कम् धातु कामना करने से बना है  उसकी पत्नियों का नाम है अस्ति  प्राप्तिजितना हैउससे और अधिक की कामना करना  सातवी अवस्था बलराम कीशेष कीऊर्ध्वमुखी ऊर्जा के आवश्यकता से अधिक संचित हो जाने की है और आठवीं अवस्था में कृष्ण का जन्म होता है  अब प्रश्न यह है कि क्या वैदिक साहित्य में इन  अवस्थाओं के संकेत मिलते हैं यहां यह कहना होगा कि कुछ अवस्थाओं के तो स्पष्ट संकेत मिलते हैं लेकिन पुराणकारों की दृष्टि हमारी दृष्टि से कहीं अधिक पैनी है और उन्होंने षड्-गर्भ के रूप में जो संकेत दिए हैंवह निराधार नहीं हो सकते 

          अब हम कृष्ण को समझने के लिए उस मार्ग का अनुसरण करते हैं जो वैदिक साहित्य में प्रत्यक्ष दृष्टिगोचर होता है  वैदिक साहित्य में सार्वत्रिक रूप से ऋग्वेद .७३.ऐतरेय ब्राह्मण .२७तैत्तिरीय ब्राह्मण ...तैत्तिरीय संहिता ...शतपथ ब्राह्मण ...१८ कहा गया है कि पृथिवी का जो सर्वोत्कृष्ट यज्ञीय भाग थाजिसे कृष्ण कहते हैंउसे द्युलोक में स्थापित कर  दिया गया  वही चन्द्रमा का कृष्ण भाग है और द्युलोक का जो सर्वोत्कृष्ट शुक्ल भाग ऊषा थाउसे पृथिवी में स्थापित कर दिया गया  लगता है कि वैदिक साहित्य में दर्श - पूर्णमास यज्ञ के रूप में और पौराणिक साहित्य में पूर्णिमा व्रत के रूप में उसी चन्द्रमा केकृष्ण के विकास की प्रक्रिया की जाती है  कहा गया है कि चन्द्रमा जितना विकसित होता जाएगाभूख - प्यास आदि उतनी ही कम होती जाएंगी  उपरोक्त कथन का अर्थ यह भी हो सकता है कि काम को कृष्ण बनाने की जो प्रक्रिया पार्थिव स्तर पर आरम्भ हुई थीउसे चन्द्रमा के स्तर तक ले जाना है  मन को चन्द्रमा का प्रतीक कहा जाता है  मन से कोई विचार तक भी बाहर  निकल पाएसब का कर्षण हो जाए यह अपेक्षित है  आधुनिक खगोल पिण्ड विज्ञान में ब्लैक होल ऐसे ही पिण्ड समझे जाते हैं जिनसे कोई तरङ्ग बाहर नहीं निकल पाती  ब्लैक होलों का निर्माण ऐसे सूर्यों से होता है जो अपनी सारी ऊर्जा विकिरण के रूप में खो देते हैं  उनके पास ऊर्जा का कोई अतिरिक्त स्रोत नहीं रहता 

          पुराणों में जो कृष्ण की लीलाओं का वर्णन किया गया हैउसकी व्याख्या के लिए वैदिक साहित्य के इस सार्वत्रिक कथन शतपथ ब्राह्मण ...तैत्तिरीय ब्राह्मण ............ ) का आश्रय लेना होगा कि यज्ञ कृष्ण मृग का रूप धारण करके भाग गया  तब देवों ने उसकी शुक्ल  कृष्ण लोम वाली त्वचा को उखाड लिया और वही यज्ञ में प्रयुक्त कृष्णाजिन है  यहां यह अन्तर्निहित है कि लोम क्या हैं  शतपथ ब्राह्मण ... आदि का कथन है  कि छन्द लोम हैं  यह माना जा सकता है कि लोम रोमाञ्च की स्थिति हैं  शतपथ ब्राह्मण ...तैत्तिरीय संहिता ...जैमिनीय ब्राह्मण .६२.६३.६६ का कहना है कि शुक्ल  कृष्ण लोम क्रमशः ऋक्  साम के प्रतीक हैं  लेकिन यह भी कहा गया है कि इसका उल्टा भी हो सकता है  शुक्ल  कृष्ण लोमों का यह प्रसंग प्रायः १२ दिनों के द्वादशाह कहलाने वाले यज्ञ के संदर्भ में है  इस यज्ञ में पहले छह दिनों तक आसुरी प्रवृत्तियों से युद्ध चलता रहता है  सातवें दिन से लेकर ९वें दिन तक के  दिन छन्दोमआनन्द के दिन कहलाते हैं और १०वां दिन अविवाक्य होता हैआनन्द का वर्णन करने में असमर्थता  अतः यह कहा जा सकता है कि प्रथम  दिनों को शुक्ल तथा ऋक् का रूप कहा गया है ऋक् का अर्थ है अपने पूर्व सञ्चित कर्मों का क्षय करना  छन्दोमों को कृष्ण या साम रूप कहा गया है  यह विचारणीय है कि यदि उल्टा हो तो क्या स्थिति होगी  लगता है कि वर्तमान स्थिति में कृष्ण और शुक्ल पृथिवीसूर्य और चन्द्रमा के सापेक्ष हैं  शुक्ल सूर्य के सापेक्ष कृष्ण चन्द्रमा साम की स्थिति है और कृष्णा पृथिवी के सापेक्ष शुक्ल सूर्य साम की स्थिति है  पुराणों में हो सकता है कि सूर्य और चन्द्रमा की स्थिति को बलराम/शेष  कृष्ण द्वारा दिखाया गया हो  ऋग्वेद .. तथा की ऋचाओं में अहश्च कृष्णमहरर्जुनं  कहा गया है और ऐतरेय ब्राह्मण .१५  शाङ्खायन ब्राह्मण २३. में इस ऋचा का विनियोग द्वादशाह के छठे दिन के लिए किया गया है जिसमें कृष्ण  अर्जुन दोनों स्थितियां होती हैं  छठा दिन युद्ध की दृष्टि से सर्वाधिक महत्त्वपूर्ण होता है  उस दिन वृत्र का वध होता है  सातवें दिन केवल कृष्ण स्थिति ही रह जाएगी  अतः ऐसा प्रतीत होता है कि पुराणों में शुक्ल ऋक् और कृष्ण साम के द्वन्द्व को प्रदर्शित करने के लिए अर्जुन और कृष्ण के सखाभाव को चुना गया है  जैसा कि अर्जुन शब्द की टिप्पणी में कहा जा चुका हैअर्जुन श्वेत को कहते हैं अन्य दृष्टिकोण सेमेघों से पूर्ण आकाश को कृष्णनील कहते हैंजबकि वर्षण को अर्जुन कीघर्ममेघ समाधि की स्थिति कहते हैं  पुराणों में कृष्ण यमलार्जुन का उद्धार उखा/उषा द्वारा करते हैं और यह विचारणीय है कि क्या अर्जुनउषा  कृष्ण क्रमिक स्थितियां हैं ?

वैदिक साहित्य में शुक्ल और कृष्ण के द्वन्द्व के अतिरिक्त त्रिवृत्अवस्था के भी सार्वत्रिक रूप से उल्लेख हैं  ऐतरेय ब्राह्मण .२२ के अनुसार जो चक्षु या अक्षि का श्वेत भाग हैवह पृष्ठ~य षडह (यज्ञ के पहले छह दिन की भांति हैजो अक्षि का अंश कृष्ण भाग हैवह छन्दोम दिनों की भांति है और जो अक्षि में कनीनका हैवह दशम दिन की भांति है  शतपथ ब्राह्मण १०... तथा जैमिनीय ब्राह्मण .३२४ के अनुसार जो सूर्य का बाहर का मण्डल हैवह शुक्ल अक्षि की भांति हैजो सूर्य की अर्चि वाला कृष्ण भाग हैवह कृष्ण अक्षि तथा जो मण्डल में हिरण्य पुरुष हैवह अक्षि में विद्यमान पुरुष की भांति है  शतपथ ब्राह्मण १४... में त्रिवृत्अवस्था का वर्णन थोडा भिन्न प्रकार से है  ऐसा लगता है कि वैदिक साहित्य की कृष्ण और पुरुष की अवस्थाओं को मिलाकर पुराणों में एक कृष्ण पुरुष को प्रस्तुत किया गया है  तैत्तिरीय ब्राह्मण ...  ...शतपथ ब्राह्मण ...  तैत्तिरीय संहिता ..११. में कृष्णोऽस्याखरेष्ठो अग्नये स्वाहा इत्यादि यजु का उल्लेख है जिसके संदर्भ में कहा गया है कि अग्नि कृष्ण मृग ) का रूप धारण कर वनस्पतियों में विलीन हो गया  अतः कृष्ण इध्म के रूप में वनस्पतियों को पुनः अग्नि में डाल कर अग्नि का अग्नि से मिलन कराया जाता है  इस यजु में आखर मृग के व्रज को कहते हैं  यहां आखरेष्ठ शब्द है अपने को केवल आखर तक सीमित रखने वालों में श्रेष्ठतम  यह विचारणीय है कि क्या यह स्थिति कृष्ण पुरुष की ओर संकेत हो सकती है  यह उल्लेखनीय है कि इस यजु में कृष्ण शब्द में कृ अक्षर उदात्त है  ऋग्वेद की ऋचाओं में प्रायः कृष्ण शब्द में कृ अक्षर अनुदात्त और  उदात्त रूप में आया है  केवल कृष्ण आङ्गिरस ऋषि के सूक्त .८५. में कृष्ण शब्द में कृ अक्षर उदात्त आया है  अन्यत्र वैदिक साहित्य में जहां यज्ञ कृष्ण मृग बनकर भागावहां प्रायः कृष्ण शब्द में कृ उदात्त आया है शतपथ ब्राह्मण ...तैत्तिरीय ब्राह्मण ......शतपथ ब्राह्मण ...२८  तैत्तिरीय संहिता ..११. में वरुण राजा के लिए कृष्ण पशु के आलभन के निर्देश में कृष्ण में कृ उदात्त है  तैत्तिरीय संहिता ... में शंयु बार्हस्पत्य मेधा की प्राप्ति हेतु कृष्ण होकर अग्नि में प्रवेश  करता है  यहां भी कृष्ण शब्द में कृ उदात्त है  क्या यह कहा जा सकता है कि कृ उदात्त वाली अवस्था कृष्ण के एकान्तिक पुरुष की अवस्था से और कृ अनुदात्त वाली अवस्था कृष्ण के साम वालीनृत्य वालीरास वाली अवस्था से सम्बन्धित है ?

          जैमिनीय ब्राह्मण .२८.२९  .६० में संवत्सर के संदर्भ में सूर्य  चन्द्रमा की स्थितियों  को दर्शाया गया है  कहा गया है कि जो सूर्य का श्वेत भाग हैवह संवत् और जो कृष्ण भाग हैवह सर है  इससे अगली स्थिति वह है जहां सूर्य संवत् है और चन्द्रमा सर है क्योंकि सूर्य सायंकाल चन्द्रमा में ही सरता है  यह उल्लेख पुराणों में कृष्ण की रास की स्थिति की व्याख्या करने में उपयोगी हो सकता है क्योंकि सर शब्द रस का उल्टा है 

          पुराणों में कृष्ण के राधा के साथ रास का वैदिक साहित्य में प्रत्यक्ष रूप में तो कोई प्रमाण नहीं मिलता है  लेकिन पुराणों में राधा को षोडशी कला का प्रतीक कहा गया है जिसके कारण चन्द्रमा का क्षय नहीं होता  चन्द्रमा की अन्य १५ कलाएं चन्द्रमा के क्षय - वृद्धि रूप से सम्बद्ध हैं  तैत्तिरीय संहिता ... में वृष्टिकामी के लिए प्राजापत्य कृष्ण पशु के आलभन का निर्देश है  प्रजापति की स्थिति १७वी होती है  वृष्टि को आनन्द की वृष्टि मान सकते हैं  अतः यह कहा जा सकता है कि पुराणों में प्राजापत्य कृष्ण का राधा से रास चित्रित किया गया है  लेकिन यह उल्लेखनीय है कि प्रजापति प्रजा की सृष्टि करते हैंजबकि राधा  कृष्ण के रास से आनन्द के अतिरिक्त और कोई सृष्टि नहीं होती 

          ऋग्वेद .. की ऋचा आदस्य वातो अनु वाति शोचि अध स्म ते व्रजनं कृष्णमस्ति का विनियोग शतपथ ब्राह्मण ...१२तैत्तिरीय संहिता ...  जैमिनीय ब्राह्मण .२०७ में किया गया है  इस ऋचा के अनुसार जब वायु का प्रवाह होता है तो अग्नि का गमनव्रजन कृष्ण बन  जाता है  यह ऋचा पुराणों में कृष्ण के व्रज का मूल समझने में सहायक हो सकती है  व्यावहारिक दृष्टि से भी यह ऋचा उल्लेखनीय है क्योंकि अग्नि के प्रवाह में वायु का प्रवाह बहुत महत्त्वपूर्ण है 

          जैसा कि ऊपर आरम्भ में कहा जा चुका हैद्यौ का जो श्रेष्ठतम यज्ञीय रूप थावह पृथिवी पर  स्थापित करने पर शुक्ल ऊष बना तथा जो पृथिवी का श्रेष्ठतम यज्ञीय भाग थावह द्युलोक में स्थापित करने पर चन्द्रमा का कृष्ण बना  यह विचारणीय है कि क्या यह कृष्ण और अर्जुन के रूप हैं  तैत्तिरीय ब्राह्मण ... में उल्लेख है कि कृष्ण ऊष की रक्षा करे और ऊष कृष्ण की 

           ऋग्वेद .३५..३५९ आदि में कृष्ण रजसों का एक वचन  बहुवचन में उल्लेख आता है  इन कृष्ण रजसों या लोकों का प्रकाशन सूर्य करता है  पुराणों में इन रजसों का क्या तुल्य रूप है,  यह अन्वेषणीय है 

          ऋग्वेद .८५ से .८७ तक के सूक्तों के ऋषि कृष्ण आङ्गिरस तथा देवता अश्विनौ हैं  अश्विनौ प्रातः संधिकाल के देवता हैं जब उषा का आविर्भाव होता है  ऋग्वेद १०.४२ से १०.४४ तक के सूक्तों के ऋषि कृष्ण आङ्गिरस तथा देवता इन्द्र हैं  इन तीन सूक्तों में अन्तिम  ऋचाओं की पुनरावृत्ति की गई है जिनमें गायों द्वारा अमति को तरनेयव द्वारा विश्वा क्षुधा को तरनेव्रजन द्वारा शत्रुको जीतने की कामना है  इसके अतिरिक्त बृहस्पति  इन्द्र से विभिन्न दिशाओं में रक्षा की प्रार्थना की गई है 

          ऐसा प्रतीत होता है कि दिव्य कृष्ण पुरुष की अपेक्षा पुराणों में पापयुक्त कृष्ण पुरुष की उपेक्षा कर दी गई है  वैदिक साहित्य में दोनों प्रकार की अवस्थाओं के उल्लेख मिलते हैं 

          कृष्ण के वासुदेव नाम की व्याख्या के संदर्भ में प्रतीत होता है कि कृष्ण से पूर्व की अवस्था  वसुओं को देवत्व प्रदान करने की है  मत्स्य पुराण .२० में  वसुओं के नाम आपःध्रुवसोमधरअनिलअनलप्रत्यूष  प्रभास तथा उनके पुत्रों  पत्नियों के नाम आए हैं  शतपथ ब्राह्मण ११... के अनुसार अग्निपृथिवीवायुअन्तरिक्षआदित्यद्यौचन्द्रमानक्षत्र  वसु हैं  वासुदेव शब्द की व्याख्या के पूर्व वसु शब्द को समझना अपेक्षित है  यह भी हो सकता है कि  वसुओं का सम्बन्ध षड्-गर्भ से भी हो 

          कृष्ण पर श्री मोतीलाल शास्त्री द्वारा लिखित पुस्तक 'परमेष्ठी कृष्ण का रहस्यपठनीय है 

प्रथम लेखनः- ९.३.२००१ई., २०.१.२००५ई.

कृष्ण की १६ कलाएं कौन सी हो सकती हैं, इस संदर्भ में श्री शार्ङ्गदेव-कृत संगीत रत्नाकर के निम्नलिखित श्लोक उद्धृत किए जा सकते हैं-

ततोऽपि षोडशदलं सोमचक्रमितीरितम्। दलेषु षोडशेष्वस्य कलाः षोडश संस्थिताः॥

कृपा क्षमाऽऽर्जवं धैर्यं वैराग्यधृतिसंमदाः। हास्यं रोमाञ्चनिचयो ध्यानाश्रुस्थिरता ततः॥

गाम्भीर्यमुद्यमोछ्रत्वमौदार्यैकाग्रते क्रमात्। फलान्युद्यन्ति जीवस्य पूर्वादिदलगामिनः॥ - संगीतरत्नाकर १.२.१३५

१९-२-२०१२ई.(फाल्गुन कृष्ण त्रयोदशी, विक्रम संवत् २०६८)

 

संदर्भ

*आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च। हिरण्ययेन सविता रथेनाऽऽ देवो याति भुवनानि पश्यन् ॥ - ऋग्वेद १.३५.२

*अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम्। आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥ - ऋ. १.३५.४

*हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते। अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥ - ऋ. १.३५.९

*वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः। तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥ - ऋ. १.५८.४

*सनाद् दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः। कृष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या ॥ सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः। आमासु चिद् दधिषे पक्वमन्तः पयः कृष्णासु रुशद् रोहिणीषु ॥ - ऋ. १.६२.८-९

*त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः। नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः ॥ - ऋ. १.७३.७

*आ ते सुपर्णा अमिनन्तँ एवैः कृष्णो नोनाव वृषभो यदीदम्। शिवाभिर्न स्मयमानाभिरागात् पतन्ति मिहः स्तनयन्त्यभ्रा ॥ - ऋ. १.७९.२

*प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम्। स्वरुं न पेशो विदथेष्वञ्जञ् चित्रं दिवो दुहिता भानुमश्रेत् ॥ - ऋ. १.९२.५

*प्र मन्दिने पितुमदर्चतो वचो यः कृष्णगर्भा निरहन्नृजिश्वना। अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥ - ऋ. १.१०१.१

*रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः। समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ - ऋ. १.११३.२

*व्यञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः। प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥ - ऋ. १.११३.१४

*तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे। अनन्तमन्यद्रुशदस्य पाजः

कृष्णमन्यद्धरितः सं भरन्ति ॥ - ऋ. १.११५.५

*अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः। पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥ - ऋ. १.११६.२३

*युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय। घोषायै चित् पितृpषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥ - ऋ. १.११७.७

*पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः। कृष्णादुदस्थादर्या विहाया श्चिकित्सन्ती मानुषाय क्षयाय ॥ - ऋ. १.१२३.१

*जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची। ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥ - ऋ. १.१२३.९

*इन्द्रः समत्सु यजमानमार्यं प्रावद् विश्वेषु शतमूतिराजिषु स्वर्मीह्ळेष्वाजिषु। मनवे शासदव्रतान् त्वचं कृष्णामरन्धयत्। दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥ - ऋ. १.१३०.८

*कृष्णप्रुतौ वेविज अस्य सक्षिता उभा तरेते अभि मातरा शिशुम्। प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥ मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतासु ऊ जुवः। असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥ आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः। यत् सीं महीमवनिं प्राभि मर्मशदभिश्वसन् त्स्तनयन्नेति नानदत् ॥ - ऋ. १.१४०.३-५

*वि यदस्थाद् यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः। तस्य पत्मन् दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥ रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते। आदस्य ते कृष्णासो दक्षिसूरयः शूरस्येव त्वेषथादीषते वयः ॥ - ऋ. १.१४१.७-८

*कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति। त आववृत्रन् त्सदनादृतस्यादिद् घृतेन पृथिवी व्युद्यते ॥ - ऋ. १.१६४.४७

*आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत्। कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः ॥ स यो व्यस्थादभि दक्षदुर्वीं पशुनैrति स्वयुरगोपाः। अग्निः शोचिष्माँ अतसान्युष्णन् कृष्णव्यथिरस्वदयन्न भूम ॥ - ऋ. २.४.६-७

*स वृत्रहेन्द्रः कृष्णयोनीः पुरंदरो दासीरैरयद्वि। अजनयन् मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत् ॥ - ऋ. २.२०.७

*त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि। वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ ॥ -ऋ. ३.१५.३

*अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णाअरुषैर्धामभिर्गात्। प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः ॥ - ऋ. ३.३१.२१

*नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत्। श्यावी च यदरुषी च स्वसारौ महद् देवानामसुरत्वमेकम् ॥ - ऋ. ३.५५.११

*ऋतेन ऋतं नियतमीळ आगोरामा सचा मधुमत् पक्वमग्ने। कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥ - ऋ. ४.३.९

*कृष्णं त एम रुशतः पुरो भाश्चरिष्ण्वर्चिर्वपुषामिदेकम्। यदप्रवीता दधते ह गर्भं सद्यश्चिज्जातो भवसीदु दूतः॥ - ऋ. ४.७.९

*त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वाने वैदथिनाय रन्धीः। पञ्चाशत् कृष्णा नि वपः सहस्रा ऽत्कं न पुरो जरिमा वि दर्दः ॥ - ऋ. ४.१६.१३

*अयं चक्रमिषणत् सूर्यस्य न्येतशं रीरमत् ससृमाणम्। आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ। असिक्न्यां यजमानो न होता ॥ - ऋ. ४.१७.१४

*प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः। वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥ - ऋ. ६.६.१

*अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः। वैश्वानरो जायमानो न राजा ऽवातिरज्ज्योतिषाग्निस्तमांसि ॥ - ऋ. ६.९.१

*आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा। अध बहु चित् तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥ - ऋ. ६.१०.४

*दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः। अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥ - ऋ. ६.४७.२१

*तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत्। कृष्णा करोति जिह्वया ॥ - ऋ. ६.६०.१०

*प्रोथदश्वो न यवसेऽविष्यन् यदा महः संवरणाद् व्यस्थात्। आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥ - ऋ. ७.३.२

*अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः। वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥ - ऋ. ७.८.२

*अप स्वसुरुषसो नग्जिहीते रिणक्ति कृष्णीररुषाय पन्थाम्। अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद् युयोतम् ॥ - ऋ. ७.७१.१

*इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः। पावकं कृष्णवर्तनिं विहायसम् ॥ - ऋ. ८.२३.१९

*यः श्वेताँ अधिनिर्णिजश्चक्रे कृष्णाअनु व्रता। स धाम पूर्व्यं ममे यः स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे ॥ - ऋ. ८.४१.१०

*कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः। अग्निर्यद् रोधति क्षमि ॥ - ऋ. ८.४३.६

*अयं वां कृष्णो अश्विना हवते वाजिनीवसू। मध्वः सोमस्य पीतये ॥ (ऋषिः कृष्ण आङ्गिरसःदे.अश्विनौ) - ऋ. ८.८५.३

*शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा। मध्वः सोमस्य पीतये ॥ छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा। मध्वः सोमस्य पीतये ॥ - ऋ. ८.८५.४-५

*त्वमेतदधारयः कृष्णासु रोहिणीषु च। परुष्णीषु रुशत् पयः ॥ - ऋ. ८.९३.१३

*अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः। आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥ द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः। नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥ - ऋ. ८.९६.१३-१४

*प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः। घ्नन्तः कृष्णामप त्वचम् ॥ - ऋ. ९.४१.१

*पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत्। कृष्णा तमांसि जङ्घनत् ॥ - ऋ. ९.६६.२४

*कृष्णां यदेनीमभि वर्पसा भूज्जनयन् योषां बृहतः पितुर्जाम्। ऊर्ध्वं भानुं सूर्यस्य स्तभायन् दिवो वसुभिररतिर्वि भाति ॥ - ऋ. १०.३.२

*यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः। अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणाँ आविवेश ॥ - ऋ. १०.१६.६

*कृष्णः श्वेतोऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान्। हिरण्यरूपं जनिता जजान ॥ - ऋ. १०.२०.९

*त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव। कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥। - ऋ. १०.२१.३

*उत कण्वं नृषदः पुत्रमाहुरुत श्यावो धनमादत्त वाजी। प्र कृष्णाय रुशदपिन्वतोधर्ऋतमत्र नकिरस्मा अपीपेत् ॥ - ऋ. १०.३१.११

*अस्तेव सु प्रतरं लायमस्यन् भूषन्निव प्र भरा स्तोममस्मै। वाचा विप्रास्तरत वाचमर्यो नि रामय जरितःसोम इन्द्रम् ॥ (ऋषिः कृष्ण आङ्गिरसःदेवता इन्द्रः) - ऋ. १०.४२.१

*कृष्णा यद्गोष्वरुणीषु सीदद् दिवो नपाताश्विना हुवे वाम्। वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसा नेषमस्मृतध्रू ॥ - ऋ. १०.६१.४

*स सूर्यः पर्युरू वरांस्येन्द्रो ववृत्याद्रथ्येव चक्रा। अतिष्ठन्तमपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥ - ऋ. १०.८९.२

* उप मा पेपिशत् तमः कृष्णं व्यक्तमस्थित। उष ऋणेव यातय ॥ - ऋ. १०.१२७.७

*द्यावापृथिवी सहाऽऽस्ताम्। ते वियती अब्रूताम्। अस्त्वेव नौ सह यज्ञियमिति। यदमुष्या यज्ञियमासीत्। तदस्यामदधात्। त ऊषा अभवन्। यदस्या यज्ञियमासीत्। तदमुष्यामदधात्। तददश्चन्द्रमसि कृष्णम्। - तैत्तिरीय ब्राह्मण १.१.३.२

*यदिदं दिवो यददः पृथिव्याः। संजज्ञाने रोदसी संबभूवतुः। ऊषान्कृष्णमवतु कृष्णमूषाः। इहोभयोर्यज्ञियमागमिष्ठाः ॥ - तै.ब्रा. १.२.१.२

*कृष्णलं कृष्णलं वाजसृद्भ्यः प्रयच्छति। यमेव ते वाजं लोकमुज्जयन्ति। तं परिक्रीयावरुन्धे ॥ - तै.ब्रा.१.३.६.७

*अन्तत एव निर्ऋतिं निरवदयते। कृष्णं वासः कृष्णतूषं दक्षिणा। एतद्वै निर्ऋत्यै रूपम्। - तै.ब्रा. १.६.१.४

*नैर्ऋतं चरुं परिवृक्त्यै गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नम्। पाप्मानमेव निर्ऋतिं निरवदयते। कृष्णाकूटा दक्षिणा समृद्ध्यै। - तै.ब्रा. १.७.३.४

*- - - - सो (प्रजापतिः) ऽन्तर्वानभवत्। स हरितः श्यावोऽभवत्। - - -स विजायमानो गर्भेणाताम्यत्। स तान्तः कृष्णः श्यावोऽभवत्। तस्मात्तान्तः कृष्णः श्यावो भवति। - - - - तै.ब्रा. २.३.८.१

*नक्तं जाताऽस्योषधे। रामे कृष्णे असिक्नि च। इदँ रजनि रजय। किलासं पलितं च यत् ॥ - तै.ब्रा.२.४.४.१

*त्वे अग्ने सुमतिं भिक्षमाणाः। दिवि श्रवो दधिरे यज्ञियासः। नक्ता च चक्रुरुषसा विरूपे। कृष्णं च वर्णमरुणं च सं धुः ॥ - तै.ब्रा. २.७.१२.५

*अभीवृतं कृशनैर्विश्वरूपम्। हिरण्यशम्यं यजतो बृहन्तम्। आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसिं तविषीं दधानः ॥ - तै.ब्रा. २.८.६.१

*तन्मित्रस्य वरुणस्याभिचक्षे। सूर्यो रूपं कृणुते द्योरुपस्थे। अनन्तमन्यद्द्रुशदस्य पाजः। कृष्णमन्यद्धरितः संभरन्ति ॥ - तै.ब्रा. २.८.७.२

*इन्द्रो वा अकामयत। दृढोऽशिथिलः स्यामिति। स एतं वरुणाय शतभिषजे भेषजेभ्यः पुरोडाशं दशकपालं निरवपत्कृष्णानां व्रीहीणाम्। - तै.ब्रा. ३.१.५.९

*- - - - - त एतमहोरात्राभ्यां चरुं निरवपताम्। द्वयानां व्रीहीणाम्। शुक्लानां च कृष्णानां च। सवात्योर्दुग्धे। श्वेतायै च कृष्णायै च। ततो वै ते अत्यहोरात्रे अमुच्येते। - तै.ब्रा. ३.१.६.२

*दर्शपूर्णमासेष्टि विधिः :- यज्ञो देवेभ्यो निलायत। कृष्णो रूपं कृत्वा। यत्कृष्णाजिने हविरध्यवहन्ति। यज्ञादेव तद्यज्ञं प्रयुङ्क्ते। - तै.ब्रा. ३.२.५.६

*यज्ञो देवेभ्यो निलायत। कृष्णो रूपं कृत्वा। यत्कृष्णाजिने हविरधिपिनष्टि। यज्ञादेव तद्यज्ञं प्रयुङ्क्ते। - तै.ब्रा. ३.२.६.१

*अग्निर्देवेभ्यो निलायत। कृष्णो रूपं कृत्वा। स वनस्पतीन्प्राविशत्। कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहेत्याह। - तै.ब्रा. ३.३.६.२

*अह्ने शुक्लं पिङ्गलम्। रात्रियै कृष्णं पिङ्गाक्षम्। - तै.ब्रा. ३.४.१७.१

*इध्म सम्भरण मन्त्र : यत्कृष्णो रूपं कृत्वा। प्राविशस्त्वं वनस्पतीन्। ततस्त्वामेकविँशतिधा। संभरामि सुसंभृता। - तै.ब्रा. ३.७.४.८

*अञ्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यश्वरूपाणि जुहोति। रूपैरेवैनं समर्धयति। - तै.ब्रा.३.८.१७. ४

*आग्नेयं कृष्णग्रीवं पुरस्ताल्ललाटे। पूर्वाग्निमेव तं कुरुते। - तै.ब्रा. ३.८.२३.१

*चतुर्थपञ्चमपश्वोर्नियोजनं : आग्नेयौ कृष्णग्रीवौ बाहुवोः। बाहुवोरेव वीर्यं धत्ते। तस्माद्राजन्यो बाहुबली भावुकः। - तै.ब्रा. ३.८.२३.२

*यावत्कृष्णायसं सर्वम्। देवत्रा यच्च मानुषम्। सर्वास्ताः। - तै.ब्रा. ३.१२.६.५

*अव द्रप्सो अंशुमतीमतिष्ठत्। इयानः कृष्णो दशभिः सहस्रैः। आवर्तमिन्द्रः शच्या धमन्तम्। उप स्नुहि तं नृमणामथद्रामिति। - तैत्तिरीय आरण्यक १.६.३

*अत्रिणा त्वा क्रिमे हन्मि - - - - - - अथो कृष्णा अथो श्वेताः - तै.आ. ४.३६.१

*यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः। आग्निष्टद्विश्वादनृणं कृणोतु सोमश्च यो ब्राह्मणमाविवेश। - तै.आ. ६.४.२

*मृत्तिकाभिमन्त्रणमन्त्र : उद्धृताऽसि वराहेण कृष्णेन शतबाहुना। भूमिर्धेनुर्धरणी लोकधारिणी। - तै.आ. १०.१.८

*ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्। ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः। - तै.आ. १०.१२.१

*तिलाः कृष्णास्तिलाः श्वेतास्तिलाः सौम्या वशानुगाः। तिलाः पुनन्तु मे पापं यत्किंचिद्दुरितं मयि स्वाहा। - तै.आ. १०.६४.१

*पुरोडाशकरणम् : यज्ञो देवेभ्योऽपचक्रामस कृष्णो भूत्वा चचार। तस्य देवा अनुविद्य त्वचमेवावच्छायाऽऽजह्रुः। तस्य यानि शुक्लानि च कृष्णानि च लोमानि - तान्यृचां च साम्नां च रूपम्। यानि शुक्लानि तानि साम्नां रूपम्यानि कृष्णानि तान्यृचाम्। यदि वेतरथा - यान्येव कृष्णानि तानि साम्नां रूपम्यानि शुक्लानि तान्यृचाम्। यान्येव बभ्रूणीव हरीणि तानि यजुषां रूपम्। - शतपथ ब्राह्मण १.१.४.१

*स यदस्यै पृथिव्या अनामृतं देवयजनमासीत्तच्चन्द्रमसि न्यदधत। तदेतच्चन्द्रमसि कृष्णम्। - श.ब्रा. १.२.५.१८

*प्रोक्षणीरध्वर्युरादत्ते। स इध्ममेवाग्रे प्रोक्षति - कृष्णोऽस्याखरेष्ठोऽग्नये त्वा जुष्टं प्रोक्षामि इति। तन्मेध्यमेवैतदग्नये करोति। - श.ब्रा. १.३.३.१

*पूर्णमासोपचारः :- ते वा एते अग्नीषोमयोरेव रूपमन्वायत्ते। यत् शुक्लम् - तद् आग्नेयम् यत् कृष्णं तत् सौम्यम्। यदि वेतरथा - यदेव कृष्णं तदाग्नेयम् यत् शुक्लं तत् सौम्यम्। - - - - -- श.ब्रा. १.६.३.४१

*अग्निहोत्र ब्राह्मणम् : - - - - तस्मादेतदामायां गवि सत्यां शृतम्अग्निर्हि रेतः। तस्माद्यदि कृष्णायाम्यदि रोहिण्याम्शुक्लमेव भवति अग्निसङ्काशम्अग्नेर्हि रेतः - श.ब्रा. २.२.४.१५

*कृष्णाजिन दीक्षा : यानि शुक्लानि तानि दिवो रूपम्। यानि कृष्णानि तान्यस्यै। यदि वेतरथा यान्येव कृष्णानि - तानि दिवो रूपम्। यानि शुक्लानि तान्यस्यै। यान्येव बभ्रूणीव हरीणि - तान्यन्तरिक्षस्य रूपम्। - श.ब्रा. ३.२.१.१

*अथ जघनेन कृष्णाजिने पश्चात् प्राङ् जान्वाक्न उपविशति। स यत्र शुक्लानां च कृष्णानां च सन्धिर्भवति - तदेवमभिमृश्य जपति - ऋक्सामयोः शिल्पे स्थः इति। यद्वै प्रतिरूपम् - तच्छिल्पम्। - श.ब्रा. ३.२.१.५

*शर्मासि शर्म मे यच्छ इति। चर्म वा एतत् कृष्णस्य तदस्य तन्मानुषम्। शर्म देवत्रा। - श.ब्रा. ३.२.१.८

*यज्ञो हि कृष्णः। स यः स यज्ञः - तत्कृष्णाजिनम्। योषा योनि सा कृष्णविषाणा। - श.ब्रा. ३.२.१.२८

*एषा वा एतस्य स्वा योनिर्भवति - यत्कृष्णविषाणा। तथो हैनमेषा न हिनस्ति। तस्माद्दीक्षितः

कृष्णविषाणयैव कण्डूयेत नान्येन कृष्णविषाणायाः। - श.ब्रा. ३.२.१.३१

*दीक्षित धर्मा: :-अथ यत्र मेक्ष्यन्भवति - तत् कृष्णविषाणया लोष्टं वाकिंचिद्वोपहन्ति। इयं ते यज्ञिया तनूः इति। - - - श.ब्रा. ३.२.२.२०

*सोमानयनम् : अथानड्वाहावाजति। तौ यदि कृष्णौ स्याताम् - अन्यतरो वा कृष्णः। तत्र विद्याद्वर्षिष्यत्यैषमः पर्जन्यः। - श.ब्रा. ३.३.४.११

*स(अग्नीषोमीयः पशुः) द्विरूपो भवति। द्विदेवत्यो हि भवति। देवतयोरसमदे। कृष्णसारंगःस्यादित्याहुः। तद्ध्येनयो रूपतममिवेति। यदि कृष्णसारङ्गं न विन्देदथोऽअपि लोहितसारंगः स्यात्। - श.ब्रा. ३.३.४.२३

*प्रवर्ग्यकर्मणि तानूनप्त्रम् : न ह वाऽएषोऽग्रे तताप - यथा हैवेदमन्यत्कृष्णमेवं हैवास। तेनैवैतद्वीर्येण तपति। - श.ब्रा. ३.४.२.१५

*सर्वे श्यामाः। द्वे वै श्यामस्य रूपे - शुक्लं चैव लोमकृष्णं च। द्वन्द्वं वै मिथुनं प्रजननम्। - श.ब्रा.५.१.३.९५.२.५.८

*त्रिषंयुक्तादियागाः :- कृष्णं वासो वारुणस्य। तद्धि वारुणं - यत् कृष्णम्। यदि कृष्णं न विन्देद् - अपि  यदेव किञ्च वासः स्यात्। - श.ब्रा. ५.२.५.१७

*रत्नयागाः :- स कृष्णानां व्रीहीणां नखैर्निर्भिद्यतण्डुलान्नैर्ऋतं चरुं श्रपयति। - - - - - तस्य दक्षिणा - कृष्णा गौः परिमूर्णी पर्यारिणी। सा ह्यपि निर्ऋतिर्गृहीता। - श.ब्रा. ५.३.१.१३

*अथैतमभिषेकं कृष्णविषाणयाऽनुविमृष्टे। - श.ब्रा. ५.४.२.४

*श्यामो भवति। द्वयानि वै श्यामस्य लोमानि - शुक्लानि च कृष्णानि च। द्वन्द्वं मिथुनं प्रजननम्। - श.ब्रा. ६.२.२.२

*अभि शुक्लानि च कृष्णानि च लोमानि निष्यूतो भवति। ऋक्सामयोर्हैते रूपे। - - - - श.ब्रा. ६.७.१.७

*नैर्ऋतीष्टकाचयनम् : कृष्णा भवन्ति। कृष्णं हि तत्तम आसीत्। अथो कृष्णा वै निर्ऋतिः। - श.ब्रा. ७.२.१.७

*सोमक्रयणसोमकाग्निक व्यतिषजनम् : द्वे वाऽअहोरात्रे - शुक्लं च कृष्णं च। द्वे सिकते - शुक्ला च कृष्णा च। एवमु हास्यैता अहोरात्राभ्यामुपहिता भवन्ति। - श.ब्रा. ७.३.१.३८

*लोगेष्टकोपधानम् : तदाहुः - कैतासामसङ्यख्यातानां सङ्ख्येति। द्वेऽइति ब्रूयात्। द्वे हि सिकते - शुक्ला च कृष्णा च। अथो सप्तविंशतिशतानीति ब्रूयात्। - - - श.ब्रा. ७.३.१.४३

*लोकम्पृणेष्टकोपधानम् : न भिन्नां न कृष्णामुपदध्यात्। आर्च्छति वा एषा - या भिद्यते। आर्तम्वेतद्रूपं -  यत्कृष्णम्। - श.ब्रा. ८.७.२.१६

*प्रोथदश्वो न यवसेऽविष्यन् यदा महः संवरणाद् व्यस्थात्। आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति इति। यदा वा एतस्य वातोऽनुवाति शोचिरथैतस्य व्रजनं कृष्णं भवति। - श.ब्रा. ८.७.३.१२

*- - - - तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणात्येतयाऽऽहुत्या। कृष्णायै शुक्लवत्सायै पयसा। रात्रिर्वै कृष्णा शुक्लवत्सा। तस्या असावादित्यो वत्सः। - श.ब्रा. ९.२.३.३०

*मण्डलपुरुषोपासनं ब्राह्मणम् : अथाध्यात्मम्।यदेतन्मण्डलं तपतियश्चैष रुक्मः - इदं तच्छुक्लमक्षन्। अथ यदेतदर्चिर्दीप्यतेयच्चैतत्पुष्करपर्णम् - इदं तत्कृष्णमक्षन्। अथ य एष एतस्मिन्मण्डले पुरुषःयश्चैष हिरण्मयः पुरुषः। अयमेव स योऽयं दक्षिणऽक्षन्पुरुषः। - श.ब्रा. १०.५.२.७

*अग्निहोत्रम् : स ह तत एवैतयोः पूर्वयोरुत्तरमन्ववांतरदेशं प्रवव्राजैदु स्त्रियौ कल्याणीं चातिकल्याणीं च। ते अंतरेण पुरुषः कृष्णः पिङ्गाक्षो दण्डपाणिस्तस्थौ। - - - - - -अथ य एते सोऽन्तरेण पुरुषः कृष्णः पिंगाक्षो दंडपाणिरस्थात्। क्रोधो वै सोऽभूत्। स यत् स्रुच्यप आनीय यन्निनयति। तेन क्रोधमवरुन्धे। - श.ब्रा. ११.६.१.१३

*अध्यात्मविद्ब्राह्मणम् : पुरुषो वै संवत्सरः। तस्य पादावेव प्रायणीयोऽतिरात्रः। पादाभ्यां हि प्रयन्ति। तयोर्यच्छुक्लं तदह्नो रूपम्। यत्कृष्णं तद्रात्रेः। नखान्येवौषधिवनस्पतीनां रूपम्। - श.ब्रा. १२.१.४.१

*हस्तावेवोदयनीयोऽतिरात्रः। हस्ताभ्यां ह्युद्यति। तयोर्यच्छुक्लं तदह्नो रूपम्। यत्कृष्णं तद्रात्रेः। नखान्येव नक्षत्राणां रूपम्। - श.ब्रा. १२.१.४.३

*गवामयनीय संवत्सरस्य पुरुषविधोपासनम् : यदिदमक्ष्णः शुक्लम्। स प्रथमः स्वरसामा। यत् कृष्णंस द्वितीयः। यन्मण्डलंस तृतीयः। नासिके विषुवान्। यदिदमक्ष्णो मण्डलम्। स प्रथमोऽर्वाक्सामा। यत् कृष्णंस द्वितीयः। यत् शुक्लंस तृतीयः। - श.ब्रा. १२.२.४.१५

*सौत्रामण्यां सोमसम्पत्तिः :- त्रय आश्विनं भक्षयन्ति। अध्वर्युः प्रतिप्रस्थाताऽऽग्नीध्रः। त्रिवृद्वा इदं चक्षुः। शुक्लं कृष्णं कनीनका। यथारूपमेवास्मिन् चक्षुर्दधति। - श.ब्रा. १२.८.२.२६

*सौत्रामणी यज्ञात् पुरुषोत्पत्तिः :-तद्यौ ह वा इमौ पुरुषाविवाक्ष्योः। एतावेवाश्विनौ। अथ यत् कृष्णम्। तत्सारस्वतम्। यच्छुक्लम्। तदैन्द्रम्। - श.ब्रा. १२.९.१.१२

*कृष्णग्रीवमाग्नेयं रराटे पुरस्तात्। पूर्वाग्निमेव तं कुरुते। तस्माद्राज्ञः पूर्वाग्निर्भावुकः। - श.ब्रा. १३.२.२.३

*सौर्ययामौ श्वेतं च कृष्णं च पार्श्वयोः। कवचे एव ते कुरुते। - श.ब्रा. १३.२.२.७

*द्विरूप एवैषोऽश्वः स्यात्कृष्णसारङ्गः। प्रजापतेर्वा एषोऽक्ष्णः समभवत्। द्विरूपं वा इदं चक्षुः - शुक्लं चैव कृष्णं च तदेनं स्वेन रूपेण समर्धयतीति। अथ होवाच सात्ययज्ञिः। त्रिरूप एवैषोऽश्वः स्यात्। तस्य कृष्णः पूर्वार्धः। शुक्लोऽपरार्द्धः। कृत्तिकांजिः पुरस्तात्। तद्यत् कृष्णः पूर्वार्द्धो भवति। यदेवेदं कृष्णमक्ष्णः। तदस्य तत्। अथ यत् शुक्लोऽपरार्द्धः। यदेवेदं शुक्लमक्ष्णः। तदस्य तत्। अथ यत् कृत्तिकांजिः पुरस्तात्। सा कनीनका। स एव रूपसमृद्धः। - श.ब्रा. १३.४.२.४

*एष वै घर्मः। य एष तपति। - - - - अनृतं स्त्री शूद्रः श्वा कृष्णः शकुनिः। तानि न प्रेक्षेत। - श.ब्रा. १४.१.१.३१

*सर्वान्नब्राह्मणं वा शिशुब्राह्मणम् : तद्या इमा अक्षँल्लोहिन्यो राजयः। ताभिरेनं रुद्रोऽन्वायत्तः। अथ या अक्षन्नापः। ताभिः पर्जन्यः। या कनीनका। तया आदित्यः। यत् शुक्लंतेनाग्निः। यत् कृष्णंतेनेन्द्रः। - श.ब्रा. १४.५.२.३

*इध्मसंनहनार्था मन्त्राः :- (अथेध्मं विस्रस्य प्रोक्षति) कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहा वेदिरसि बर्हिषे त्वा स्वाहा - - - - तैत्तिरीय संहिता १.१.१०.१

*राजसूयविषयनैर्ऋतमन्त्राणां अभिधानम् : ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतमेककपालं कृष्णं वासः कृष्णतूषं दक्षिणा - तै.सं. १.८.१.१

*नैर्ऋतं चरुं परिवृक्त्यै गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटा दक्षिणा - तै.सं. १.८.९.१

*राजसूयविषयाणां देवसुवां हविषामभिधानम् : अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति कृष्णानां व्रीहीणां - - - - तै.सं. १.८.१०.१

*वरुणगृहीतादिपशुविधानम् : प्रजापतिः प्रजा असृजत ता अस्मात्सृष्टाः पराचीरायन्ता वरुणमगच्छन्ता अन्वैत्ताः पुनरयाचत ता अस्मै न पुनरदात्सोऽब्रवीद्वरं वृणीष्वाथ मे पुनर्देहीति तासां वरमाऽलभत स कृष्ण  एकशितिपादभवद्यो वरुणगृहीतः स्यात्स एतं वारुणं कृष्णमेकशितिपादमालभेत - तै.सं. २.१.२.१

*असावादित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्मा एता मह्ला आऽलभन्ताऽऽग्नेयी कृष्णग्रीवीं संहितामैन्द्रीं श्वेतां बार्हस्पत्यां - - - यो ब्रह्मवर्चसकामः स्यात्तस्मा एता मह्ला आ लभेत - - - - -तै.सं. २.१.२.४

*वसन्ता प्रातराग्नेयी कृष्णग्रीवीमालभेत ग्रीष्मे मध्यंदिने संहितामैन्द्रीं शरद्यपराह्णे श्वेतां बार्हस्पत्यां - - - तै.सं. २.१.२.५

*आग्नेयं कृष्णग्रीवमालभेत सौम्यं बभ्रुं - - - - - - यदाग्नेयो भवति तेज एवास्मिन्तेन दधाति यत्सोम्यो  ब्रह्मवर्चसं तेन कृष्णग्रीव आग्नेयो भवति तम एवास्मादप हन्ति श्वेतो भवति रुचमेवास्मिन्दधाति बभ्रुः सौम्यो भवति ब्रह्मवर्चसमेवास्मिन्त्विषिं दधाति - - - - - तै.सं. २.१.२.७

*ब्रह्मवर्चसकामादीनां पशुविधिः :-  यः पाप्मना गृहीतः स्यात्स आग्नेयं कृष्णग्रीवमा लभेतैन्द्रमृषभम् - तै.सं. २.१.४.६

*प्राजापत्यं कृष्णमा लभेत वृष्टिकामः प्रजापतिर्वै वृष्ट्या ईशे - - - - स एवास्मै पर्जन्यं वर्षयति कृष्णो भवत्येतद्वै वृष्ट्यै रूपं रूपेणैव वृष्टिमव रुन्धे - तै.सं. २.१.८.५

*अन्नाद्यकामादीनां पशुविधिः :- वरुणं सुषुवाणमन्नाद्यं नोपानमत्स एतां वारुणीं कृष्णां वशामपश्यत्तां स्वायै देवताया आऽलभत - - - स एतां वारुणीं कृष्णां वशामा लभेत -- - - - -कृष्णा भवति वारुणी ह्येषा देवतया समृद्ध्यै मैत्रं श्वेतमा लभेत वारुणं कृष्णमपां चौषधीनां च संधावन्नकामो - - - तै.सं. २.१.९.१

*भूतिकामादीनामादित्यचर्वादीष्टिविधिः :- यः परस्ताद्ग्राम्यवादी स्यात्तस्य गृहाद ~व्रीहीनाहरेच्छुक्लांश्च कृष्णांश्च वि चिनुयाद्ये शुक्ला: स्युस्तमादित्यं चरुं निवपेदादित्या वै देवतया विड् - - - ये कृष्णाः स्युस्तं वारुणं चरुं निर्वपेद् वारुणं वै राष्ट्रमुभे एव विशं च राष्ट्रं चाव गच्छति - तै.सं. २.३.१.३

*कारीरीष्टिमन्त्रव्याख्यानम् : मारुतमसि मरुतामोज इति कृष्णं वासः कृष्णतूषं परि धत्त एतद्वै वृष्ट्यै रूपं सरूप एव भूत्वा पर्जन्यं वर्षयति - - - - - वृषा वा अश्वो वृषा पर्जन्यः कृष्ण इव खलु वै भूत्वा वर्षति रूपेणैवैनं समर्धयाति - तै.सं. २.४.९.१

*कासांचित्पुरोनुवाक्यानामभिधानम् : आ ते सुपर्णा अमिनन्त एवैः कृष्णो नोनाव वृषभो यदीदम्। - तै.सं. ३.१.११.५

*पृषदाज्याभिधानम् : यत्कृष्णशकुनः पृषदाज्यमवमृशेच्छूद्रा अस्य प्रमायुकाः स्युः - तै.सं. ३.२.६.२

*चोडाख्येष्टकाभिधानम् : आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति - तै.सं. ४.४.३.३

*सावित्राहुत्यभ्रिस्वीकारयोरभिधानम् : सुषिराऽभ्रिर्भवति सयोनित्वाय स यत्रयत्रावसत्त त्कृष्णमभवत्कल्माषी भवति रूपसमृद्ध्या - तै.सं. ५.१.१.४

*गार्हपत्यचयनम् : द्यावापृथिवीसहास्तां ते वियति अब्रूतामस्त्वेव नौ सह यज्ञियमिति यदमुष्या यज्ञियमासीत्तदस्यामदधात्त ऊषा अभवन्यदस्या यज्ञियमासीत्तदमुष्यामदधात्तददश्चन्द्रमसि कृष्णम् - तै.सं. ५.२.३.३

*उख्याग्निसंवपनम् : नैर्ऋतीः कृष्णास्तिस्रस्तुषपक्वा भवन्ति निर्ऋत्यै वा एतद्भागधेयं यत्तुषा निर्ऋत्यै रूपं कृष्णं रूपेणैव निर्ऋतिं निरवदयत - तै.सं. ५.२.४.२

*क्षेत्रे सिकतावापः :- शंयुं बार्हस्पत्यं मेधा नापानमत्साऽग्निं प्राविशत् सोऽग्ने कृष्णो रूपं कृत्वोदायत - - - - - तै.सं. ५.२.६.५

*स्वयमातृण्णाद्यभिधानम् : चतस्रः पुरस्तादुप दधाति तस्माच्चत्वारि चक्षुषो रूपाणि द्वे शुक्ले द्वे कृष्णे - तै.सं. ५.३.१.४

*परिषेचनाद्यभिधानम् : मृत्युर्वा एष यदग्निर्ब्रह्मण एतद्रूपं यत्कृष्णाजिनं कार्ष्णी उपानहावुप मुञ्चते ब्रह्मणैव मृत्योरन्तर्धत्ते - तै.सं. ५.४.४.४

*अश्वमेधशेषभूतप्रथमपशुसंघविधिः :- इन्द्राय राज्ञे सूकरो वरुणाय राज्ञे कृष्णो यमाय राज्ञ ऋश्य - - - - तै.ब्रा. ५.५.११.१

*- - - - एण्यह्ने कृष्णो रात्रियै - तै.सं. ५.५.१५.१

*शार्ङ्गस्तरक्षुः कृष्णः श्वा चतुरक्षो गर्दभस्त इतरजनानाम् - तै.सं. ५.५.१९.१

*आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः - - - तै.सं. ५.५.२२.१

*पिशङ्गौ तूपरौ मारुतः कल्माष आग्नेयः कृष्णोऽजः सारस्वती मेषी वारुणः कृष्ण एकशितिपात्पेत्वः। - तै.सं. ५.५.२४.१

*ब्रह्म वै छन्दांसि ब्रह्मण एतद्रूपं यत्कृष्णाजिनं कार्ष्णी उपानहावुपमुञ्चते छन्दोभिरेवाऽऽत्मानं छादयित्वाऽग्निमुप चरत्यात्मनोऽहिंसायै - तै.सं. ५.६.६.१

*तिस्रः कृष्णा वशा वारुण्यस्तिस्रः श्वेता वशाः सौर्यो - तै.सं. ५.६.११.१

*आग्नेन्द्राः कृष्णललामास्तूपराः - तै.सं. ५.६.१७.१

*वारुणी कृष्णे वशे अराड्यौ दिव्यावृषभौ परिमरौ - तै.सं. ५.६.२१.१

*चितिस्पर्शाद्यभिधानम् : अश्वावभितस्तिष्ठेतां कृष्ण उत्तरतः श्वेतो दक्षिणतस्तावालभ्येष्टका उप दध्यादेतद्वै प्रजापते रूपं प्राजापत्योऽश्वः - - - - - - - - एतद्वा अह्नो रूपं यच्छ्वेतोऽश्वो रात्रियै कृष्ण एतदह्नः रूपं यदिष्टका रात्रियै पुरीषमिष्टका उपधास्यञ्छ~वेतमश्वम् अभिमृशेत्पुरीषमुपधास्यन् कृष्णमहोरात्राभ्यामेवैनं चिनुते - तै.सं. ५.७.१.२

*पुनः परीन्धनाद्यभिधानम् : तमो वा एतं गृह्णाति यस्याग्निरुख्य उद्वायति मृत्युस्तमः कृष्णं वासः कृष्णा धेनुर्दक्षिणा - तै.सं. ५.७.५.१

*कृष्णाजिनादिभिर्दीक्षाकरणाभिधानम् : तामेष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनस्यैष साम्नो यत्कृष्णमृक्सामयोः शिल्पे स्थ इत्याहर्क्सामे एवाव रुन्ध एषः वा अह्नो वर्णो यच्छुक्लं कृष्णाजिनस्यैष रात्रिया यत्कृष्णं - तै.सं. ६.१.३.१

*ताँ (सूतवशां) हस्ते न्यवेष्टयत तां मृगेषु न्यदधात्सा कृष्णविषाणाऽभवदिन्द्रस्य योनिरसि मा मा हिंसीरिति कृष्णविषाणां प्र यच्छति - तै.सं. ६.१.३.७

*कृष्णविषाणया कण्डूयतेऽपिगृह्य स्मयते प्रजानां गोपीथाय न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामव चृतेद्यत्पुरा - - - - - - - नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति योनिर्वै यज्ञस्य चात्वालं योनिः कृष्णविषाणा - तै.सं. ६.१.३.८

*अश्वमेधगतमन्त्रकथनम् : कृष्णाय स्वाहा श्वेताय स्वाहा पिशङ्गाय स्वाहा - - - तै.सं. ७.३.१८.१

*य आसां कृष्णे लक्ष्मणि सर्दिगृदिं परावधीत्। - तै.सं. ७.४.१९.२

*- - - - सा या लोहितकुल्यास तां कृष्णो नग्नः पुरुषो मुसली जुगोप। अथ या घृतकुल्या तस्यै हिरण्मयाः पुरुषा हिरण्मयैश् चमसैस् सर्वान् कामान् उदचिरे। - जैमिनीय ब्राह्मण १.४२

*सा या लोहितकुल्याभूत् तां कृष्णो नग्नः पुरुषो मुसली जुगोप। - - - - - अथ य एनां कृष्णो नग्नः पुरुषो मुसल्य् अजुगुपत् क्रोधस् स तस्यो तद् एवान्नम् इति। तस्य का निष्कृतिर् इति। यद् एवैतत् स्रुचा प्राश्नाति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति। - जै.ब्रा.१.४४

*स यत् प्रथमम् अपाहन् सा कृष्णाविर् अभवत्। यद्द्वितीयम् अपाहन् सा धूम्राविर् अभवत्। यत् तृतीयम् अपाहन् सा फाल्गुन्य् अविर् अभवत्। स यं कामयेत पापीयान् स्याद् इति कृष्णम् अस्य पवित्रे ऽप्यस्येत् पापीयान् एव भवति। - - - - जै.ब्रा. १.८१

*- - - -स एतत् पौष्कलं सामापश्यत्। तेनैषां रूपाणि व्यकरोत् ते नानारूपा अभवन् श्वेतो रोहितः कृष्णः। एकरूपा ह वाव। - जै.ब्रा. १.१६०

*अथ ह स्माह श्वेतकेतुर् आरुणेयो यथाश्वस्य श्वेतस्य कृष्णकर्णस्येत्थादानीतस्य रूपं स्याद् एवम् एवाहम् एतस्य स्तोमस्य रूपं वेद। तावद् दृशेन्यं तावद् वपुषेण्यम्। तस्माद् आत्मा। - जै.ब्रा. १.२४९

*अथोष्णिह्मùकुभौ। चक्षुषी ते। - - - - त्रिपदोर् ऋचोर् भवतः। तस्मात् त्रिवृच् चक्षुश् शुक्लं कृष्णं कनीनिका। - जै.ब्रा. १.२५४

*अथ यस्मात् पृष्ठोक्थैर् नानारूपा असुराः। नानादेवत्यासु स्तुवते। तस्माद् उ प्रजा नानारूपाश् श्वेतो रोहितः कृष्णः। - जै.ब्रा. १.२७८

*तस्य त्रिः प्ररोहति। त्रैष्टुभो वा असाव् आदित्यश् शुक्लं कृष्णं पुरुषः। त्रैष्टुभम् इदं चक्षुश् शुक्लं कृष्णं पुरुषः। - जै.ब्रा. १.३२४

*अथाध्यात्मम्। अयम् एव संवत्सरो यो ऽयं चक्षुषि पुरुषः। तस्य यच् छुक्लं तत् संवद्येन मध्ये कृष्णं मण्डलं तत् सरः। - - - - - स ब्रूयात् त्रय्य् एव विद्या संवत्। तां हि सर्वे देवास् संवान्ताः। अहोरात्रे एव सरः। ते हीदं सर्वं सरतः। आदित्य एवायनम्। - - - - अन्नम् एव संवत्तद् धीदं सर्वं संवान्तम्। वाग् एव सरः। वाचा हि पुरुषस् सरति। - जै.ब्रा. २.२८-२९

*आदित्य एव संवत्सरः। - - - तस्य यद् भाति तत् संवद्यन् मध्ये कृष्णं मण्डलं तत् सर इत्य् अधिदेवतम्। अथाध्यात्मम्। अयम् एव संवत्सरो यो ऽयं चक्षुषि पुरुषः। तस्य यच् छुक्लं तत् संवद्यन् मध्यं कृष्णं मण्डलं तत् सरः। अथो आहुर् - आदित्य एव संवच्चन्द्रमास् सरः। तम एष सरति। तं पौर्णमास्याम् आप्नोvतीति।। तद् उ वा आहुः - प्राण एव संवद् वाक् सरः। एताभ्यां हि समश्नुत इति। - जै.ब्रा. २.६०

*अहोरात्रे एव कृष्णाजिनस्य रूपम्। अहर् एव शुक्लस्य रूपंरात्रिः कृष्णस्य। अथ यद् एतन् मण्डलं ता आपस् तद् अन्नं तद् अमृतम्। - जै.ब्रा. २२.६२

*अयम् एव दीक्षितो यो ऽयं चक्षुषि पुरुषः। तस्य यान्य् अर्वाञ्चि पक्षाणि तानि श्मश्रूणियान्य् ऊर्ध्वानि ते केशाः। यद् एव शुक्लं च कृष्णं च तत् कृष्णाजिनस्य रूपम्। शुक्लम् एव शुक्लस्य रूपंकृष्णं कृष्णस्य। - जै.ब्रा. २.६३

*कृष्णाजिनम् वाव दीक्षितयशसम्। एतद् धि सर्वेषां वेदानां रूपम्। यानि शुक्लानि तानि साम्नां रूपंयानि कृष्णानि तान्य् ऋचाम्। यदि वेतरथा यान्य् एव बभ्रूणीव हरीणि तानि यजुषाम्। - जै.ब्रा. २.६६

*ऋषभो वृष्णिर् अवीनाम्। ऋषभः कृष्ण एणीनाम्। ऋषभ ऋष्यो रोहिताम्। - जै.ब्रा. २.८७

*एतद् वै केशानां रूपं यद् अतिरात्रः। ये शुक्ला अह्नस् ते रूपंय कृष्णा रात्र्यै ते। जै.ब्रा. २.२०४

*- - - - तौ ह कृष्णपिशंगे संपादयांचक्रतुः। यस्य श्वेतस्य सतः कृष्णम् अस्तिकृष्णस्य वा सत श्वेतंस एव सः प्रजापतिन्यंगः। प्रजापतेर् अक्ष्य् अश्वयत्। तत् परापतत्। तद् अपः प्राविशत्। ततो ऽश्वस् समभवत्। यद् अश्वयत् तस्माद् अश्वः। यच् छ~वेथो समभवत्तस्मात् पूतिर्। यद् अपः प्राविशत् तस्माच् छ~वेतनः। श्वेतस्य वा वै सतो ऽक्ष्णः कृष्णम् अस्तिकृष्णस्य वा सत श्वेतम्। - जै.ब्रा. २.२६८

*अथैता एण्य एककृष्णाः। एण्यो ह वै नामैता रात्रयः। तासु कृष्णो ऽपि मिथुनत्वाय प्रजननाय। - जै.ब्रा. २.३६९

*अयम् एव लोकः प्रायणीयो ऽतिरात्रः। तस्य यच् छुक्लं तद् अह्नो रूपंयत् कृष्णं तद् रात्रेश्चित्राण्य् एव नक्षत्राणाम्। - जै.ब्रा. २.४२९

*- - - -प्रायणीयं ह्य् एतद् अहः। त्वेषा अयासो अक्रमुर् घ्नन्तः कृष्णाम् अप त्वचम् इति पाप्मा वै कृष्णा त्वक्। ताम् एवैतेनापघ्नते। - जै.ब्रा. ३.६०

*कृष्णसर्प उ हैवैनां प्रत्युत्तस्थौ। - जै.ब्रा. ३.१२३

*अथो भूमा वै पशवः। भूमा सूक्तम्। - - - - -तस्मात् पशवो नानारूपाञ् जनयन्त्य् - उत श्वेता कृष्णं जनयन्त्य्उत कृष्णा श्वेतम् उत रोहिणी कल्माषम्उत कल्माषी रोहितम्। - जै.ब्रा. ३.१७५३.२०६३.२४१

*आद् अस्य वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्तीति। यदा वा अग्निं वात उपवाजयत्य् अथ स महद् दीप्यते। तद् एतद् दीप्तिर् एव ब्रह्मवर्चसस्य रूपम्। - जै.ब्रा. ३.२०७

*ये ऽभितप्यमानाद् असृज्यन्त ते ऽरुणाः। ये ऽभितप्ताद् असृज्यन्त ते बभ्रवः। ये दह्यमानाद् असृज्यन्त ते श्वेताश् च कृष्णाश् च। तस्माद् व् अयम् एवाग्निर् दहति श्वेतं चैव कृष्णं च। - जै.ब्रा. ३.२६३

*तद् यत् पर्जन्यस्य वर्षिष्यतः कृष्णं तन् नीलम्। अथ यद् अप्स्व् अन्तर् विद्योतते तत् सुवर्णम्। ताभ्यो ऽवर्षत्। तत् ओदनो ऽजायत। - - - - जै.ब्रा. ३.३४६

*अधिद्युर् नाम लोको यज्ञे विष्टआदित्या गोप्तारोवरुणो ऽधिपतिर्नीलं रूपं यत् पर्जन्यस्य वर्षिष्यतः कृष्णं तन् नीलंयद्वा कार्तस्वरस्य मणेर्अनृते प्रतिष्ठितः। - जै.ब्रा. ३.३४८

*उत्तरा द्वितीयंसममेषस् तृतीयंशुक्लं चतुर्थंकृष्णं पञ्चमंकनीनिका षष्ठम्। य एवैष पुरुषस् तस्य ये प्राणास् तान्य् उत्तराण्य् अहानि। प्राण एव सप्तमम् अहश्चक्षुर् अष्टमम्श्रोत्रं नवमंवाग् एव दशमम् अहः। - जै.ब्रा. ३.३७९

*तम अस्याम् ऊर्ध्वायां दिशि मरुतो ऽन्वैच्छन्न ईशानमुखाः। ते ऽन्वविन्दन् यत् श्वेतं रूपं तत्। तद् एवास्य त उपासते। तम् एतस्मिन् परे लोके साध्याश् चाप्त्याश् चान्वैच्छन् सवितृमुखाः। ते ऽन्वविन्दन् यद् कृष्णं रूपं तत्। - - - - - जै.ब्रा. ३.३८२

*तं पशवो ऽन्वैच्छन् धातृमुखाः। ते ऽन्वविन्दन् हिरण्यशृङ्गो हिरण्यशफः कृष्ण ऋषभ इति। - - - - स य एतद् एवं वेद ऋषभ एव स्वानां भवति। - जै.ब्रा. ३.३८३

*विश्वमिव हि रूपं रराट्याः शुक्लमिव च कृष्णमिव च। - ऐतरेय ब्राह्मण १.२९

*पशुसृष्टिः :- यानि परिक्षाणान्यासंस्ते कृष्णाः पशवो वन्या लोहिनी मृत्तिका ते रोहिता अथ यद्भस्माऽसीत्तत्पुरुष्यं व्यसर्पद्गौरो गवय उष्ट्रो गर्दभ इति ये चैतेऽरुणा पशवस्ते च इति। - ऐतरेय ब्राह्मण ३.३४

*एतद्वा इयममुष्यां देवयजनमदधाद्यदेतच्चन्द्रमसि कृष्णमिव। - ऐ.ब्रा. ४.२७

*तदेनं समाकुर्वाणं पुरुषः कृष्णशवास्युत्तरत उपोत्थायाब्रवीन्मम वा इदं मम वै वास्तुहमिति - - - ऐ.ब्रा.५.१४

*आग्निमारुतशस्त्रस्य प्रतिपत्सूक्तं : अहश्च कृष्णमहरर्जुनं चेत्याग्निमारुतस्य प्रतिपदहश्चाहश्चेति पुनरावृत्तं पुनर्निनृत्तं षष्ठेऽहनि षष्ठस्याह्नो रूपम् इति - ऐ.ब्रा. ५.१५

*यथा वा अक्ष्येवं पृष्ठ्यः षळहस्तद्यथाऽन्तरमक्ष्णः कृष्णमेवं छन्दोमा अथ यैव कनीनिका येन पश्यति तद्दशममहः इति - ऐ.ब्रा. ५.२२

*त्रिवृद्वै चक्षुः शुक्लं कृष्णं लोहितमिति तौ न पशौ न सोमे करोति पशुना वै चक्षुष्मानध्वरो - शाङ्खायन ब्राह्मण ३.५

*तमाहुर्विरूपः स्याच्छुक्लं च कृष्णं चाहोरात्रयोरूपेण शुक्लं वाऽथ लोहितं वाऽग्नीषोमयोरूपेणेति - शां.ब्रा. १०.३

*अहश्च कृष्णमहरर्जुनं चेति वैश्वानरीयमहरर्जुनं चेति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति - शां.ब्रा. २३.८

*द्विस्तावद्यावन्मैत्रावरुणस्य कार्ष्णोऽहरहः पर्यासो भवति कृष्णो हैतदाङ्गिरसो ब्राह्मणाच्छंसीयायै तृतीयसवनं ददर्श तस्मात्कार्ष्णोऽहरहः पर्यासो भवति - शां.ब्रा. ३०.९

*तत्सत्यं सदिति प्राणस्तीत्यन्नं यमित्यसावादित्यस्तदेतत्त्रिवृत्त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिकेति । - ऐतरेय आरण्यक २.१.५

*अथ स्वप्नाः। पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति - - - ऐ.आ. ३.२.४

 

अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः। आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥


द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः। नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥


अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः। विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥


त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र। गूढे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥


त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ। त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥




कोई टिप्पणी नहीं:

एक टिप्पणी भेजें