शुक्रवार, 19 मार्च 2021

ऋग्वेदस्य-खिलसूक्तानि


              (ऋग्वेदस्य खिलसूक्तानि) 

ऋग्वेद केखिलसूक्त। ऋग्वेदस्य-खिलसूक्तानि--

__________________________________________
--अथ खिलानि सूक्तानि प्रथम अध्याय-

अथ खिलानि सूक्तानि प्रथम अध्याय- 

______________________________________
ओम् नमो विष्णवे । अथ खिलेषु सूक्त प्रतीकाद्युक्तम् प्रयोजनम् शतर्च्य् आदीनाम् अधिदैवता लक्षणानि च ।
 
कृतिः प्रकृतिर् आकृतिर् विकृतिस् संकृतिर् अभिकृतिर् उत्कृतिर् इत्य् अशीत्य् अक्षरादीनि चतुर् उत्तराण्य् एव यजूंषि संख्यानुवर्तनादि तुल्यम् ऋषीणाम् च तुल्यानाम् गोत्रम् अनादेशे खिलान्य् अन्तरम् मन्त्रोक्ता अन्य् एव संख्यादीनि सम्भवेत् ॥

( खिल ई ईन्त्रोद् )


< सम् > तृचम् < शश्वत् > षळूना तार्क्ष्यस् सुपर्णाश्विनम् वै तत् सप्तम्य् आग्नेयी परा ऐन्द्री एकादशी वा नवमी लिङ्गोक्ता देवताष्टम्य् आदि विराड् रूपास् चतस्रो जगत्त्य उरो बृहती < प्र > सप्त ब्राह्म्यो निषद् उपनिषदौ द्वितीया जगती षष्ठी विराट् स्थाना < ज्योतिष्मन्तम् > दश भारद्वाजो ज्योतिष्माम् षष्ठ्य् आद्या लिङ्गोक्त देवताम् आनुष्टुम् नवम्य् अन्त्ये च < कृश > एकादशाश्विनः कृशाद्याष् षड् लिङ्गोक्त देवतानुष्टुभम् < इमानि > सप्तापुनर् दोषाइन्द्र्
आवरुणम् जागतम् < अयम् > षड् रेतागङ्ग्यो < यदा > तृचम् यामुनिः प्रणेता । < यम् > यज्ञ वत्सो < यम् > चतुष्कम् गौरीवीतिर् < इदम् > अष्टौ चक्षुषी < आश्विना > अपदोषष् षष्ठी जगत्य् अत्रानुक्त गोत्रास् सौपर्णाः ॥
 ( प् ५३ )

________________________________________

           

अथ खिलानि सूक्तानि प्रथम अध्याय- प्रथम सूक्त प्रथम ऋचा-

१,१ १ समैक्षिष्योर्ध्व महसादित्येन सहियसा ।
१,१ १ अहम् यशस्विनाम् यशो विश्वा रूपाण्य् आददे ।
१,१ २ उद्यन्न् अद्य वि नो भज पिता पुत्रेभ्यो यथा ।
१,१ २ दीर्घायुत्वस्य हेशिषे तस्य नो धेहि सूर्य ।
१,१ ३ उद्यन्तम् त्वा मित्रमहारोहन्तम् विचक्षण ।
१,१ ३ पश्येम शरदश् शतम् जीवेम शरदश् शतम् ।
१,१ ४ अभि त्यम् मेशम् पुरु हूतम् ऋग्मियम् ।१
______________________________________

 द्वितीय-सूक्त की ऋचाऐं।

१,२ १ शश्वन् नासत्या युवयोर् महित्वम् गावो अर्चन्ति सदम् इत् पुरुक्षू ।
१,२ १ यद् ऊहथुर् अश्विना भुज्युम् अस्तम् अनारम्भणेऽध्वनि तौग्र्यम् अस्तम् ।
१,२ २ यद् अश्वम् श्वेतम् दधतो अभिघ्नन् नासत्या भुज्यू सुमताय पेरवे ।
१,२ २ तम् व्याम् रतिम् विदथेषु विप्रा रेभन्तो दस्राव् अगमन् मनस्युम् ।
_______________________________________
१,२ ३ आ नो विपन्यू सवनम् जुषेथाम् आ वाम् हंसास् सुयुजो वहन्तु ।
१,२ ३ युवाम् स्तोमासो जनयो न मर्योशन्तो दस्रा वृषणा सचन्ते । ( प् ५४ )
________________________________________
१,२ ४ आ नो यातम् तृवृता ( त्रिवृता ) सोम पेयम् रथेन द्युक्षा सवनम् मदाय ।
१,२ ४ स्तीर्णम् वाम् बह्रिस् सुषुता मधूनि युक्ता होतारो रथिनास् सुहस्ताः ।
__________________________________________

१,२ ५ वासात्यौ चित्रौ जगतो निधानौ द्यावा भूमी शृणुतम् रोदसी मे ।
१,२ ५ ताव् अश्विना रासभाश्वा हवम् मे शुभस्पत्यागतम् सूर्यया सह ।२।
___________________________________
१,२ ६ पेर्षस् सन्तु मधुनो घृतस्य तीव्रम् सोमम् हि वपन्तु शुष्मिणः ।
१,२ ६ एवम् तथा युवत्य् अश्विनौ बाहूर्जम् दुहतु मधुना घृतेन ।
___________________________________
१,२ ७ अग्ने मदन्तु यातयस् स्तोमाः प्र णु त्यम् दिवम् यान्ति घर्मम् ।
१,२ ७ चतुर्दशम् त्रिदिवम् युवानम् ओजो मिमातु द्रविणम् सुमेके ।
___________________________________


_______________________________    
१,२ ८ -हरिम् हिनोमि दयमानो अंशु पुरु मीढर्षभम् जयान् ।
१,२ ८ हर्यश्वम् हरितस् सप्ताश्वम् युक्ता नेमिम् त्रिनाभिम् वरुणम् प्रगाथस् स्वस्तये ।
_______________________________
१,२ ९ सोमो वैष्णवम् महिमानम् ओजस् सप्तर्षयस् सुवीरा नराः प्रीणयन्ति ।
१,२ ९ सौधन्वनासस् सुहस्तास् शमीभिस् त्वष्टम् आङ्गिरसम् ऋभवम् स्वस्तये ।
_______________________________
१,२ १० इहैह ( इहैह ) वो मघवन् निदधामि ध्रुवम् तीव्रम् च तम् हृदियन्तम् बृहस्पतिम् ।
१,२ १० सते दधामि द्रविणम् हविष्मते घर्मश् चित् तप्तः प्रवृजे वहन्ति ।३।
_______________________________
१,२ ११ शश्वत् सौपर्णौ विषित स्तुकम् वायसम् विश्व भुजः पथिरक्षी नृ चक्षसौ ।
१,२ ११ इयम् हित्वा दयमानम् पृचद्भिर् माम् वायसो दोषाद् दयमानो अबुबुधत् ।
_______________________________
१,२ १२ तम् एक नेमिम् त्रिवृतम् षोडशारम् शतावारम् विंशति प्रत्यराभिः ।
१,२ १२ अष्टकैष् षड्भिर् विश्व रूपैक पाशम् त्रिमार्ग भेदम् द्वि निमित्तैक मोहम् ।
_______________________________
१,२ १३ सदम् सदम् एकमकम् तस्थुषः पञ्च त्रिंशाद् दश परम् ।
१,२ १३ त्रिंशतम् शिवम् नव गुह्यम् यज्ञम् अष्ट षष्ठम् विदत् ।
_______________________________
१,२ १४ अतिष्ठद् वज्रम् वृषणम् सुवीरम् दधन्वम् देवाम् हरिम् इन्द्र केशम् ।
१,२ १४ आयम् इन्द्रष् षोडशी शर्म यच्छन्तु षड् वर्मिणम् एकम् ध्रुवन् ति साकम् ॥४ ( प् ५५ )
_______________________________
१,३ १ प्र धारा यन्तु मधुनो घृतस्य यद् आविन्दतम् सूर्युस्रियायाम् ।
१,३ १ मित्रा वरुणौ भुवनस्य कारू ता मेऽश्विना जुषताम् सवना ।
_______________________________
१,३ २ सुखम् रथम् शत यावानम् आशुम् प्रातर् यावानम् सुषदम् हिरण्ययम् ।
१,३ २ आतिष्ठद् यत्र दुहिता विवस्वतस् तम् एवार्वाञ्चम् अवसे करामहे ।
_______________________________
१,३ ३ ये वाम् अश्वासो रथिरा विपश्चितो वात ध्राजिषस् सुयुजो घृत श्चुतः ।
१,३ ३ येभिर् यथोप सूर्याम् वरेयम् तेभिर् नो दस्रा वर्धतम् समत्सु ।
_______________________________
१,३ ४ यद् वाम् रेतो अश्विना पोषयित्नु यद् रासभो वध्रिमत्यैस् सुदानू ।
१,३ ४ यस्माज् जज्ञे देव कामस् सुदक्षस् तद् अस्यै दत्तम् भिषजाव् अभिद्यु ।
_______________________________
१,३ ५ यन् नासत्या भेषजम् चित्र भानू येनावथुस् तोक कामाम् उ नु घोषाम् ।
१,३ ५ तद् अस्यै दत्तम् त्रिषु पुंसु वध्वै येनाविन्दतु नयम् सा सुहस्त्यम् ।
_______________________________
१,३ ६ वषड् वाम् दस्राव् अस्मिन् सुते नासत्या होता कृणोतु वेधाः ।
१,३ ६ सिस्रतान् नार्य् ऋत प्रजाता वि पर्वाणि जिहताम् सूतवो ।
_______________________________
१,३ ७ एवा निषच् चोपनिषच् च विप्रा युवाम् रेभत्यौ सयुजा सुपर्ण्यौ ।
१,३ ७ ब्रह्माण्य क्रतुर् विदथेषु शक्रा धत्तम् तयोस् तनयन् तोकम् अग्र्यम् ॥५ ( प् ५७ )
_______________________________
१,४ १ ज्योतिष्मन्तम् केतुमन्तम् त्रिचक्रम् सुखम् रथम् सुषदम् भूरि मायम् ।
१,४ १ चित्रामघा यस्य योगे धि जज्ञे तम् वाम् हुवेऽतिरिक्तम् ( अति रिक्तम् ) पिबध्यै ।
_______________________________
१,४ २ युवम् देवा क्रतुना पूर्व्येण युक्ता रथेन तविषम् यजत्रा ।
१,४ २ आगच्छतम् नासत्या शचीभिर् इदम् तृतीयम् शवनम् पिबाथः ।
_______________________________
१,४ ३ युवाम् देवास् त्रयैकादशासस् सत्या सत्यस्य दधिरे पुरस्तात् ।
१,४ ३ अस्माकम् यज्ञम् सवनम् जुषाणा पातम् सोमम् अश्विना दीद्यग्नी ।
_______________________________
१,४ ४ पनायम् तद् अश्विनाकृतम् वाम् वृषभो दिवो रजसः पृथ्व्याः ।
१,४ ४ सहस्रम् शंसोत ये गविष्ठौ सर्वाम् इत् ताम् उप यातम् पिबध्यै ।
_______________________________
१,४ ५ अयम् वाम् भागो निहितो यजत्रेमा गिरो नासत्योप यातम् ।
१,४ ५ पिबन्तम् सोमम् मधुमन्तम् अश्विना प्र दाश्वांसम् अवतम् शचीभिह् ॥६।
_______________________________
१,४ ६ ज्योतिष्मन्तम् सुप्रतीकम् अजस्रेण भानुना दीद्यग्नी ।
१,४ ६ शिवम् प्रजानाम् कृणुष्व मा हिंसीः पुरुषम् जगत् ।
_______________________________
१,४ ७ धाता रातिस् सवितेदम् जुषन्ताम् त्वष्टा यद् दूतो अभवद् विवस्वतः ।
१,४ ७ सम् वाम् अश्विभ्याम् उषसा सजूस् तम् ऊर्वम् गव्यम् महि गृणानेन्द्र ।
_______________________________
१,४ ८ भरद्वाजस्य सुन्वतो यविष्ठा याह्य् अग्ने मधुमत्तमस् सुतः । ( प् ५८ )
१,४ ८ सोमस्य मा तवसो दीध्यानाच्छा कोशम् जनयित्वावतो भुवत् ।
_______________________________
१,४ ९ अग्निः पृथुर् ब्रह्मणस्पतिस् सोमो देवेष्व्आयमत् ।
१,४ ९ इन्द्रस्याधिपत्य मे बृहस्पते हवींसि ते ।
_______________________________
१,४ १० रुचम् ब्राह्म्यम् जनयन्तो देवाग्रे यद् अब्रुवन् ।
१,४ १० यस् त्वेदम् ब्राह्मणो विद्यात् तस्य देवासन् वशे॥७
_______________________________
१,५ १ कृशस् त्वम् भुवनस् पते पाति देवानाम् अद्भुतः ।
१,५ १ अश्विना पातम् अस्मयू नासत्या तिरो अह्न्यम् ।
_______________________________
१,५ २ त्वम् तम् सुपर्णा भर दिवस् पुत्रा निषेदिरे ।
१,५ २ अग्निः प्रजानाम् अभवज् जातवेदो विचर्षणे ।
_______________________________
१,५ ३ अग्निर् होता विभू वसुर् देवानाम् उत्तमम् यशः ॥
१,५ ३ पुनर् अग्निः प्रजापतिर् वैश्वानरो हिरण्ययः ।        ( प् ५९ )
_______________________________
१,५ ४ अग्निस् त्राता शिवो भवद् वरूथ्यो विश्वदेव्योः ।
१,५ ४ द्रविणम् पाहि विश्वातस् सोमपाभयम् करः ।
_______________________________
१,५ ५ अग्ने नि जहि मर्माण्य् अरातीनाम् च मर्मणाम् ।
१,५ ५ दीर्घायुत्वस्य हेशिषे तस्य नो धेहि सूर्य ।
_______________________________
१,५ ६ उद्यन्तम् त्वा मित्रमहारोहन्तम् विचक्षण ।
१,५ ६ पश्येम शरदश् शतम् जीवेम शरदश् शतम् ॥८।
_______________________________

ऋग्वेखिल-सू 

१/५/७-कृशम् च्यवानम् ऋषिम् अन्धम् अश्विना जुजुर्वांसम् कृणुथः कर्वरेभिः ।।

१/५/७-अक्षण्वन्तम् स्थूल वपुष्कम् उग्रा पुनर् युवानम् पतिम् इत् कनीनाम् ।।

_______________________________________
१,५ ७ कृशम् च्यवानम् ऋषिम् अन्धम् अश्विना जुजुर्वांसम् कृणुथः कर्वरेभिः ।
१,५ ७ अक्षण्वन्तम् स्थूल वपुष्कम् उग्रा पुनर् युवानम् पतिम् इत् कनीनाम् ।
_______________________________
१,५ ८ यो वाम् सोमैर् हविषा यो घृतेन वेदेन यो मनसा वाश शक्रा ।
१,५ ८ स धत्ते रत्नम् द्युमद् इन्द्रवन्तम् पुरु स्पृहम् पृतनाज्यम् सुवीरम् ।
_______________________________
१,५ ९ प्र वाम् नरा सप्तवध्रिर् मनीषा गिरम् हिन्वत् प्रतिवाभ्याम् इदानीम् ।
१,५ ९ वृक्षा समुद्धम् उशना युवानम् अथ तम् कृणुत मा विरप्सिनम् ।
_______________________________
१,५ १० अजोहवीत् सप्तवध्रिस् सुहस्त द्रुणि बद्धो अर्य समानः ककुद्मान् ।
१,५ १० अरूरुजतम् युवम् अस्य वृक्षम् अद्रिम् न वज्री सुवृषायमानः ।
_______________________________
१,५ ११ एका कृशश् चकमानम् अना स्सुहवा राति सूरः ।
१,५ ११ ब्रह्म चक्रे युवयोर् वर्धनानि धत्तम् तस्मै सदम् अराति दब्धिम् ॥९ ( प् ६० )
_______________________________
१,६ १ इमानि वाम् भाग धेयानि सिस्रतेन्द्रा वरुणा प्र महे सुतेषु वाम् ।
१,६ १ यज्ञे यज्ञे हि सवना भुरण्यथो यत् सुन्वते यजमानाय शिक्षथः ।
_______________________________
१,६ २ निष्षिध्वरीर् ओषधीर् आपाभ्याम् इन्द्रा वरुणा महिमानम् आशत ।
१,६ २ या तस्थतू रजसस् पारेऽध्वनो ययोश् शत्रुर् नकिर् आदेवौहते ।
_______________________________
१,६ ३ सत्यम् तद् इन्द्रा वरुणा घृत श्चुतम् मध्वोर्मिम् दुहते सप्त वाणीः ।
१,६ ३ ताभिर् दाश्वांसम् अवतम् शुभस्पती यो गाम् अदब्धो अभिपाति चित्तिभिः ।
_______________________________

१,६ ४ घृत प्रुषस् सौम्या जीर धानवस् सप्त स्वसारस् सदनर्तस्य । 

( प् ६१ )
१,६ ४ या ह वाम् इन्द्रा वरुणा घृत श्चुता ताभिर् दक्षम् यजमानाय शिक्षतम् ।


१,६ ४ घृत प्रुषस् सौम्या जीर धानवस् सप्त स्वसारस् सदनर्तस्य । ( प् ६१ )
१,६ ४ या ह वाम् इन्द्रा वरुणा घृत श्चुता ताभिर् दक्षम् यजमानाय शिक्षतम् ।
_______________________________
१,६ ५ अवोचाम महते सौभगाय सत्यम् त्वेशाभ्याम् ( त्वेशाभ्याम् ) महिमानम् इन्द्रियम् ।
१,६ ५ अस्मान् स्व् इन्द्रा वरुणा घृत श्चुता त्रिभिस् सप्तेभिर् अवतम् शुभस्पती ।
_______________________________
१,६ ६ इन्द्रा वरुणा यद् ऋषिभ्यो मनीषा वाचो मतिम् श्रुतम् अधत्तम् अग्रे ।
१,६ ६ तानि छन्दांस्य् असृजन्त धीरा यज्ञम् तन्वानास् तपसाभ्य् अपश्यन् ।
_______________________________
१,६ ७ इन्द्रा वरुणा सौमनसम् अदृप्तम् रायस् पोषम् यजमानेषु धत्तम् ।
१,६ ७ प्रजाम् पुष्टिम् रयिम् अस्मासु धत्तम् दीर्घायुत्वाय प्रतिरतम् नायुः ॥१०
_______________________________
१,७ १ अयम् सोमस् सुशम्यद्रि बुध्नः परिष्कृतो मतिभिर् उक्थ शस्तः ।
१,७ १ गोभिश् श्रीतो मत्सरस् साम गीतो मक्षू पर्वाते परि वाम् सुशिप्रा ।
_______________________________
१,७ २ अस्य पाजसः पिबतम् सुतस्य वारेष्ठाव्याः परिपूतय वृष्णः ।
१,७ २ ताव् अश्विना जठरम् आपृणेथाम् अथा मनो वसुधेयाय धत्तम् । ( प् ६२ )
_______________________________
१,७ ३ एह यातम् तन्वा शाशदाना मधूनि नश् चकमानो नु मेधा ।
१,७ ३ वि सुआ ( वि स्वा ) मन्द्रा पुरु रेजमाना युवायती हवते वाम् मनीषा ।
_______________________________
१,७ ४ सुखम् नासत्या रथम् अंशुमन्तम् स्योनम् सुवह्निम् अधितिष्ठतम् युवम् ।
१,७ ४ यम् वाम् वहन्ति हरितो वहिष्ठा शतम् अश्वा यदि वा सप्त देवा ।
_______________________________
१,७ ५ यम् वेनन् तागच्छतम् मानवस्य शार्यातस्य सदनम् शस्यमाना ।
१,७ ५ अबीभयुस् सधमादम् चकानश् च्यवनो देवान् युवयोस् सैषः ।
_______________________________
१,७ ६ आ नो अश्विना त्रिवृता रथेनार्वाञ्चम् रयिम् वहतम् सुवीरम् ।
१,७ ६ सृण्वन्ता वाम् अवसे जोहवीमि वृधे च नो भवतम् वाज सातौ ॥११
_______________________________
१,८ १ यदा युञ्जाथे मघवानम् आशुम् पुरु स्पृहम् पृतनाज्यम् सुवीरम् ।
१,८ १ स्वश्स्वम् दस्रा रथम् आ हवेषु तदा युतीर् येति रसन् तनूनाम् ।
_______________________________
१,८ २ भन्दिष्ठेमे कवयश् चरन्ति भरेषु न ग्रथिता तुर्वशासः ।
१,८ २ वाचम् हिन्वानाः पुरु पेशसम् वा हविष्मती सवने मन्दयध्यै । ( प् ६३ )
_______________________________
१,८ ३ श्रुतम् हवम् तर्पयतम् मखस्युम् कामम् एषाम् आ वहथो हवींसि ।
१,८ ३ अध स्तोतॄन् यजमानम् च पातम् ऊतिभिर् नृपती याभीके ॥१२
_______________________________
१,९ १ यम् गच्छतस् सुतपा देववन्तम् हविष् कृतम् वृषणा रात हव्यम् ।
१,९ १ स पुष्यत्य् अन्नम् शतम् आविर् उक्थ्य मना पिबन् प्रयतम् आदयित्नु ।
_______________________________
१,९ २ य दांसांसि जरिता दुष्टरा वाम् या शंसन्ति जरिताअस् सुतेषु ।
१,९ २ यानीह पुष्यन्तु विधा जनेषु येर् अश्नथो विदथे सोम पेयम् ।
_______________________________
१,९ ३ यद् उशन्ता वृषणा या दधीचे शिरो भिषजा समधत्तम् अर्वाक् ।
१,९ ३ तद् वाम् मती मधुना तम् युवाना वषत् कृतम् भसथो मन्दसाना ।
_______________________________
१,९ ४ मा वोचाथर्वण यद् ब्रवीमि मधु तेऽन्यैर् वीरतरैर् अचित्तम् ।
१,९ ४ यद् अन्व् अशासन् मघवा दधीचम् तद् वाम् अवक्षत् शिरसा हयस्य ।
_______________________________
१,९ ५ यद् आगच्छाद् वीडितो वज्र बाहुर् धत्ते पितृभ्या मधु नो दधीचा ।
१,९ ५ आतिरेयम् दुश्शुते मा वदेति यदा वदत् सा युवयोस् सुकीर्तिः ।
_______________________________
१,९ ६ याभिश् शचीभिर् वृषणा दधीचम् याभिस् तुरम् कावशेयम् मखस्य ।
१,९ ६ याभिर् धियम् जिन्वथाके निपाना ताभिर् नो अवतम् विदथे गभीरा ॥१३ ( प् ६४ )
_______________________________
१,१० १ अयम् सोमो देवया वाम् सुमेधा हृदिस्पृग् याति धिषणाम् मियानः ।
१,१० १ स्वाधिष्ठो हव्यान् मधुनो घृताद् वा नूत्नो वाम् स्तोमो अश्विनाहम् एमि ।
_______________________________
१,१० २ प्र वाम् मही मन्दते देव कामा ययैर् अयासो वयुनानि विश्वा ।
१,१० २ ताव् आश्विना पुरु भुजा सुशस्त्यृषि हिता मन्हतम् विश्वधेनाम् ।
_______________________________
१,१० ३ यो वाम् गोमान् अश्ववान् सूनृतावान् पुरुश्चन्द्र स्पार्हाणि स्पार्हयिष्णुः ।
१,१० ३ यम् जोहवीमि रथिरो गविष्ठौ तम् अह्वे रथम् आ विश्व रूपम् ।
_______________________________
१,१० ४ सुवृद् रथो वाम् वृषणा सुवह्निः पुरु स्पृहो वसुविद् यो वयोधाः ।
१,१० ४ येन वाजान् वहतम् स्पार्हवीरान् उरु श्रियश् शुरुधोश्वांश् च ( शुरुधोश्वांश् च ) माध्वी ॥१४ ( प् ६५ )
_______________________________
१,११ १ इदम् देवा भाग धेयम् पुराणम् यद् आशिरे हृषिता यज्ञियासः ।
१,११ १ एषस्य घर्मः परिपूतर्ग्भिस् तम् बप्सथो रथिरा विद्रवन्ता ।
_______________________________
१,११ २ वृक्णम् शिरो वृषणा यन् मखस्य शिरो भिषजा समधत्तम् अर्वाक् ।
१,११ २ तद् वाम् नरस् सरीरम् चारु चित्रम् सदा गृणन्ति कवयस् सुतेषु ।
_______________________________
१,११ ३ येन देवाघ्नत सम् रपांसि येनासहन्त पृतनादेवीः 
१,११ ३ येनाभवन्न् अमृतास् सोमधानन् तम् अर्पयतम् शिरसा हयस्य ।
_______________________________
१,११ ४ पुरा विशीर्णा विदथेन देवा नावशिषो अरुन्धत नापि नाकम् ।
१,११ ४ ईजाना बह्वीर् उ समा यदास्य शिरो दत्तम् समधान्वारुहन् स्वः ॥१५।
_______________________________
१,११ ५ यद् वाम् मातोपातिष्ठद् उग्रम् सुवृद्रथान् अव्यथेयम् सरण्यूः ।
१,११ ५ तत्र वाम् माध्वी मध्वाहितम् सुनीथम् प्रत्नम् अश्विना मयो भु ।
_______________________________
१,११ ६ युवम् स्त्रिभिश् चितयथो अपि नाकम् युवम् पयांसि शक्वरीषु धत्तम् ।
१,११ ६ युवम् वीरुद्भिस् सृजतम् महीमम् युवम् सर्तवे सृजतम् वि सिन्धून् ।
_______________________________
१,११ ७ युवम् माध्वी मधुभिस् सारघेभिर् युवम् भेषजा स्थो भिषजा सुपाणी ।
१,११ ७ युवम् रथेभी रथिरै स्थोग्रा सुमङ्गलाव् अमीव चातनेभिः ।
_______________________________
१,११ ८ तन् मे दत्तम् चक्षुर् अक्ष्णोर् विचक्षे पश्यामो येन स्वर् इमा दिशश् च ।
१,११ ८ येनाभिख्याय विधवाम शक्रम् दुर्हणाद् वाम् अश्विना शूर सातौ ॥१६ ( प् ६६ )
_______________________________
१,१२ १ आश्विन वहतम् पीवरीस् स्वधाश्वावतीर् दास पत्नीर् ईरवतीः ।
१,१२ १ युवोर् दानासो दिवि नादितेयो युवोः पयांसि रुरुचिरे सुशुक्रा ।
_______________________________
१,१२ २ यद् रेभम् दस्रा विनिगूढम् अप्सु युवायन्तम् वाजयन्तम् ऋबीषात् ।
१,१२ २ उन्निन्यथुर् अश्विना वध्रिम् आशुम् तद् वाम् व्रतम् महयन्त्य् उक्थ शासः ।
_______________________________
१,१२ ३ या वाम् नु शरीरे या पृथिव्याम् या वीरुत्सु ग्रावसु यान्तरिक्षे ।
१,१२ ३ या वीरेषु सूरिषु यापि नाके ताभिर् नश् शर्म यत् शतम् युवाना ।
_______________________________
१,१२ ४ यो वाम् भरित्रा स्तुवतो मघानि प्रयन्त्रीणि द्विषतो बर्हणानि ।
१,१२ ४ त्रात्रीणि शश्वताम् सातपन्ति ताभिर् नश् शर्म यत् शतम् युवाना ॥१७।
_______________________________
१,१२ ५ यो वाम् त्रिचक्रस् सुपविस् सुशप्तिस् त्रिवन्धुरः केतुमान् वात रंहाः ।
१,१२ ५ योगे यस्य वितनोत्य् अभीशुम् विभावरीस् सदथो यन् मयो भू । ( प् ६७ )
_______________________________
१,१२ ६ युवम् ऊहथुर् विमदाय जायाम् युवम् वशाम् शयवे धेनुम् अक्रताम् ।
१,१२ ६ युवम् आयुषा तारयतम् प्र बन्धनम् अत्रिम् अमुक्तम् युवम् अंहसो वि ।
_______________________________
१,१२ ७ हवन्तम् मेषान् वृक्ये शिवायै पिता चकारर्षिम् अन्धम् अश्विना ।
१,१२ ७ तस्मिन्न् ऋज्राश्वे चक्षुष्यधत्तम् आविष् कृणुतम् पुनर् अस्य लोकम् ।
_______________________________
१,१२ ८ यद् वाम् चक्षुर् दिवि यत् सुपर्णो येन पश्यथो भुवनान्य् अमर्त्याः ।
१,१२ ८ तन् मे दत्तम् चक्षुषी देव बन्धू नमस्याम् विन्देथ पुरुधा चकानाम् पुप्रयन्तो अध्वरम् ॥१८ ( प् ६८ )


______________________________________

ऋग्वेदः खिलसूक्तानि-अध्यायः (२)



< ऋग्वेदः खिलसूक्तानि
ईई आध्याय ओं मैका भद्रं पञ्चानुष्टुभो जागर्ष्येका जातवेदस्यं स्वस्त्ययनं द्वे वर्षन्त्वेका हिरण्यवर्णामेकोना श्रीर्भार्गवी श्रीरलक्ष्मीघ्नं श्रैय्यमानुष्टुभं वै शक्वर्यन्तं हिंसाग्नेयी चतुर्थी प्रस्तारपङ्क्तिस्त्रिष्टुभौ पञ्चदश्युपरिष्टाद्बृहती श्रीः पुत्राः परे षट् चिक्लीतः पञ्चानन्दकर्दमौ वैश्वदेवं मयि श्लेषः श्लेषो रूपो जातवेदस्यं बृहत्यादि सं स्रवन्त्विति संस्रवान् वैश्वदेवं द्वितीयादि त्रिष्टुभौ आ ते सप्त प्रजावान् गर्भार्थाशीस्तुतिः प्रजापतिरैन्द्रवायव्यौ चतुर्थी बृहती पञ्चमी प्रस्तारपङ्क्तिरग्निः पञ्च जीवपुत्र आग्निवारुणमतिजगत्यानुष्टुप् त्रिष्टुबन्तं चक्षुरेकात्मस्तुतिः शंवतीः षट् शान्तिरानुष्टुभं पञ्चम्यादि बृहती जगत्यौ स्वप्नेका यस्योपानुष्टुप् वालखिल्याः परेऽष्टौ ।

ओम् < मा > एका < भद्रम् > पञ्चानुष्टुभो < जागर्ष्य् > एका जातवेदस्यम् < स्वस्त्ययनम् > द्वे < वर्षन्त्व् > एका < हिरण्य वर्णाम् > एकोना श्रीर् भार्गवी श्रीर् अलक्ष्मीघ्नम् श्रैयम् आनुष्टुभम् वै शक्वर्य् अन्तम् हिंसाग्नेयी चतुर्थी प्रस्तार पङ्क्तिस् त्रिष्टुभौ पञ्चदश्य् उपरिष्टाद् बृहती श्रीः पुत्राः परे षट् < चिक्लीतः > पञ्चानन्द कर्दमौ वैश्वदेवम् < मयि श्लेषश् > श्लेषो जातवेदस्यम् बृहत्य् आदि < संस्रवन्त्व् > इति संस्रवान् वैश्वदेवम् द्वितीयादि त्रि
ष्टुभाव् < आ ते > सप्त प्रजावान् गर्भार्थाशी स्तुतिः प्रजापतिर् ऐन्द्रवायव्यौ चतुर्थी बृहती पञ्चमी प्रस्तार पङ्क्तिर्
< अग्निः > पञ्च जीव पुत्राग्नि वारुणम् अतिजगत्य् आनुष्टुप् त्रिष्टुब् अन्तम् < चक्षुर् > एकात्म स्तुतिश् < शंवती > षट् शान्तिर् आनुष्टुभम् पञ्चम्य् आदि बृहती जगत्यौ < स्वप्न > एका < यस्योप > अनुष्टुब् वालखिल्याः परेष्टौ ॥
__________________________________________
(अधोलिखितं ऋ.सं १.१९१.१० अन्ते पठनीयम्)


घनेन हन्मि वृश्चिकम् अहिम् दण्डेनागतम् ।
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिः ॥१

आदित्य रथ वेगेन विष्णोर् बाहु बलेन च ।
गरुड पक्ष निपातेन भूमिम् गच्छ महायशाः ॥२

गरुडस्य जात मात्रेण त्रयो लोकाः प्रकम्पिताः ।
प्रकम्पिता मही सर्वा सशैल वनकानना ॥३

गगनम् नष्ट चन्द्रार्कम् ज्योतिषम् न प्रकाशते ।
देवता भयभीताश् च मारुतो न प्लवायति मारुतो न प्लवायत्य् ओम् नमः ॥४

भो सर्प भद्र भद्रम् ते दूरम् गच्छ महा यशाः ।
जनमेजयस्य यज्ञान्ते आस्तीक वचनम् स्मर ॥५

आस्तीक वचनम् श्रुत्वा यः सर्पो न निवर्तते ।
शतधा भिद्यते मूर्ध्नि शिंश वृक्ष फलम् यथा ॥६

अगस्त्यो माधवश् चैव मुचुकुन्दो महामुनिः ।
कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः ॥७

नर्मदायै नमः प्रातर् नर्मदायै नमो निशि ।
नमो अस्तु नर्मदे तुभ्यम् त्राहि माम् विषसर्पतः ॥८

यो जरत्कारुणा जातो जरत् कन्याम् महायशाः ।
तस्य सर्पो अपि भद्रम् ते दूरम् गच्छ महायशाः ।
तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते ॥९।

घनेन हन्मि वृश्चिकम् अहिम् दण्डेनागतम् ।
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिः ॥१

आदित्य रथ वेगेन विष्णोर् बाहु बलेन च ।
गरुड पक्ष निपातेन भूमिम् गच्छ महायशाः ॥२

गरुडस्य जात मात्रेण त्रयो लोकाः प्रकम्पिताः ।
प्रकम्पिता मही सर्वा सशैल वनकानना ॥३

गगनम् नष्ट चन्द्रार्कम् ज्योतिषम् न प्रकाशते ।
देवता भयभीताश् च मारुतो न प्लवायति मारुतो न प्लवायत्य् ओम् नमः ॥४

भो सर्प भद्र भद्रम् ते दूरम् गच्छ महा यशाः ।
जनमेजयस्य यज्ञान्ते आस्तीक वचनम् स्मर ॥५

आस्तीक वचनम् श्रुत्वा यः सर्पो न निवर्तते ।
शतधा भिद्यते मूर्ध्नि शिंश वृक्ष फलम् यथा ॥६

अगस्त्यो माधवश् चैव मुचुकुन्दो महामुनिः ।
कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः ॥७

नर्मदायै नमः प्रातर् नर्मदायै नमो निशि ।
नमो अस्तु नर्मदे तुभ्यम् त्राहि माम् विषसर्पतः ॥८

यो जरत्कारुणा जातो जरत् कन्याम् महायशाः ।
तस्य सर्पो अपि भद्रम् ते दूरम् गच्छ महायशाः ।
तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते ॥९

मा बिभेर् न मरिष्यसि परि त्वा पामि सर्वतः ।
घनेन हन्मि वृश्चिकम् अहिम् दण्डेनागतम् ।
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिः ॥१

आदित्य रथ वेगेन विष्णोर् बाहु बलेन च ।
गरुड पक्ष निपातेन भूमिम् गच्छ महायशाः ॥२

गरुडस्य जात मात्रेण त्रयो लोकाः प्रकम्पिताः ।
प्रकम्पिता मही सर्वा सशैल वनकानना ॥३

गगनम् नष्ट चन्द्रार्कम् ज्योतिषम् न प्रकाशते ।
देवता भयभीताश् च मारुतो न प्लवायति मारुतो न प्लवायत्य् ओम् नमः ॥४

भो सर्प भद्र भद्रम् ते दूरम् गच्छ महा यशाः ।
जनमेजयस्य यज्ञान्ते आस्तीक वचनम् स्मर ॥५

आस्तीक वचनम् श्रुत्वा यः सर्पो न निवर्तते ।
शतधा भिद्यते मूर्ध्नि शिंश वृक्ष फलम् यथा ॥६

अगस्त्यो माधवश् चैव मुचुकुन्दो महामुनिः ।
कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः ॥७

नर्मदायै नमः प्रातर् नर्मदायै नमो निशि ।
नमो अस्तु नर्मदे तुभ्यम् त्राहि माम् विषसर्पतः ॥८

यो जरत्कारुणा जातो जरत् कन्याम् महायशाः ।
तस्य सर्पो अपि भद्रम् ते दूरम् गच्छ महायशाः ।
तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते ॥९

_______________________________________


२,१ १ मा बिभेर् न मरिष्यसि परि त्वा पामि सर्वतः ।
२,१ १ घनेन हन्मि वृश्चिकम् अहिम् दण्डेनागतम् ।
२,१ १ त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिः ॥१

२,१ २ आदित्य रथ वेगेन विष्णोर् बाहु बलेन च ।
२,१ २ गरुड पक्ष निपातेन भूमिम् गच्छ महा यशाः ।

२,१ ३ गरुडस्य जात मात्रेण त्रयो लोकाः प्रकम्पिताः ।
२,१ ३ प्रकम्पिता मही सर्वा सशैल वन कानना ।

२,१ ४ गगनम् नष्ट चन्द्रार्कम् ज्योतिषम् न प्रकाशते ।
२,१ ४ देवता भय भीताश् च मारुतो न प्लवायति मारुतो न प्लवायत्य् ओम् नमः ।

२,१ ५ भो सर्प भद्र भद्रम् ते दूरम् गच्छ महा यशाः ।
२,१ ५ जनमेजयस्य यज्ञान्ते आस्तीक वचनम् स्मर ।

२,१ ६ आस्तीक वचनम् श्रुत्वा यः सर्पो न निवर्तते ।
२,१ ६ शतधा भिद्यते मूर्ध्नि शिंश वृक्ष फलम् यथा ।

२,१ ७ अगस्त्यो माधवश् चैव मुचुकुन्दो ( मुचुकुंदो ) महा मुनिः ।
२,१ ७ कपिलो मुनिर् आस्तीकः पञ्चैते सुख शायिनः ।

२,१ ८ नर्मदायै नमः प्रातर् नर्मदायै नमो निशि ।
२,१ ८ नमो अस्तु नर्मदे तुभ्यम् त्राहि माम् विष सर्पतः ।

२,१ ९ यो जरत्कारुणा जातो जरत् कन्याम् महा यशाः ।
२,१ ९ तस्य सर्पो अपि भद्रम् ते दूरम् गच्छ महा यशाः ।
२,१ ९ तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते ।

_________________________________________
अधोलिखितं खिलसूक्तं ऋसं २.३२ अनन्तरं पठनीयमिति औंधपुस्तके--

कुहूमहं सुवृतं विद्मनापसमस्मिन्यज्ञे सुहवां जोहवीमि ।
सा नो ददातु श्रवणं पितृणां तस्यै ते देवि हविषा विधेम । १।।

कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु ।
सं दाशुषे किरतु भूरि वामं रायस्पोषं यजमाने दधातु ।।२।

अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् ।
 अग्निश्च हव्यवाहनो भवतं दाशुषे मयः ।। ३ । ।

अन्विदनुमते त्वं मन्यासै शं च नस्कृधि । 
क्रत्वे दक्षाय नो हिनु प्र ण आयूंषि तारिषत् ।। ४ ।।

धाता दधातु नो रयिमीशानो जगतस्पतिः ।
 स नः पूर्णेन वावनत् । । ५ ।।

धाता ददातु दाशुषे वसूनि प्रजाकामाय मीळ्हुषे दुरोणे ।
तस्मै देवा अमृताः सं व्ययन्तां विश्वे देवासो अदितिः सजोषाः ।। ६ ।।

धाता ददातु दाशुषे प्राचीं जीवातुमक्षिताम् । वयं देवस्य धीमहि सुमतिं वाजिनीवतः ।। ७ ।।

धाता प्रजानामुत राय ईशे धातेदं विश्वं भुवनं जजान ।
धाता कृष्टीरनिमिवाभि चष्टे धात्र इद्धव्यं घृतवज्जुहोत। ८।
_______________________________________
अधोलिखितं ऋ. २.४३.२ अनन्तरं पठनीयं--

भद्रम् वद दक्षिणतो भद्रम् उत्तरतो वद ।
भद्रम् पुरस्तान् नो वद भद्रम् पश्चात् कपिञ्जल ॥१

भद्रम् वद पुत्रैर् भद्रम् वद गृहेषु च ।
भद्रम् अस्माकम् वद भद्रम् नो अभयम् वद ॥२

भद्रम् अधस्तान् नो वद भद्रम् उपरिष्टान् नो वद ।
भद्रम् भद्रम् नावद भद्रम् नस् सर्वतो वद ॥३

असपत्नम् पुरस्तान् नश् शिवम् दक्षिणतस् कृधि ।
अभयम् सततम् पश्चाद् भद्रम् उत्तरतो गृहे ॥४
_____________________________________
यौवनानि महयसि जिग्युषाम् इव दुन्दुभिः ।
शकुन्तक प्रकक्षिणम् शत पत्राभि नो वद ॥५
आवदंस् त्वम् शकुने भद्रम् आ वद ॥ऋ. २.४३.३

______________________________________
२,२ १ भद्रम् वद दक्षिणतो भद्रम् उत्तरतो वद ।
२,२ १ भद्रम् पुरस्तान् नो वद भद्रम् पश्चात् कपिञ्जल ।

२,२ २ भद्रम् वद पुत्रैर् भद्रम् वद गृहेषु च ।
२,२ २ भद्रम् अस्माकम् वद भद्रम् नो अभयम् वद ।

२,२ ३ भद्रम् अधस्तान् नो वद भद्रम् उपरिष्टान् नो वद ।
२,२ ३ भद्रम् भद्रम् नावद भद्रम् नस् सर्वतो वद ।

२,२ ४ असपत्नम् पुरस्तान् नश् शिवम् दक्षिणतस् कृधि ।
२,२ ४ अभयम् सततम् पश्चाद् भद्रम् उत्तरतो गृहे ।

२,२ ५ यौवनानि महयसि जिग्युषाम् इव दुन्दुभिः ।
२,२ ५ शकुन्तक प्रकक्षिणम् शत पत्राभि नो वद ।
२,२ ५ आवदंस् त्वम् शकुने भद्रम् आ वद ॥२ ( प् ७१ )
__________________________________
ऋ. ५.४४ अनन्तरं पठनीयम् --

जागर्षि त्वम् भुवने जातवेदो जागर्षि यत्र यजते हविष्मान्। 
इदम् हविश् श्रद्दधानो जुहोमि तेन पासि गुह्यम् नाम गोनाम् ।
विदा दिवो विष्यन्न् अद्रिम् उक्थैः ॥ ऋ. ५.४५.१

________________________________   


२,३ १ जागर्षि त्वम् भुवने जातवेदो जागर्षि यत्र यजते हविष्मान् ।
२,३ १ इदम् हविश् श्रद्दधानो जुहोमि तेन पासि गुह्यम् नाम गोनाम् ।
२,३ १ विदा दिवो विष्यन्न् अद्रिम् उक्थैः ॥३
________________________________
२,४ १ स्वस्त्ययनम् तार्क्ष्यम् अरिष्टनेमिम् महद् भूतम् वायसम् देवतानाम् ।
२,४ १ असुरघ्नम् इन्द्र सखम् समत्सु बृहद् यशो नावम् इवारुहेम ।
________________________________
२,४ २ अंहो मुचम् आङ्गिरसम् गयम् च स्वस्त्य् आत्रेयम् मनसा च तार्क्ष्यम् । ( प् ७१ )
२,४ २ प्रयत पाणिश् शरणम् प्रपद्ये स्वस्ति सम्बाधेष्व् अभयन् नो अस्तु ।
२,४ २ प्र श्यावाश्व धृष्णुया ॥
________________________________
२,५ १ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
२,५ १ रोहन्तु सर्व बीजान्य् अव ब्रह्म द्विषो जहि ।
२,५ १ प्र संराजे बृहदर्चा गभीरम् ॥५

ऋग्वेदस्य पञ्चममण्डलान्ते पठनीयानि --

ऋग्वेदस्य पञ्चममण्डलान्ते पठनीयानि --


हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममा वह ।१।

तां म आवह जातवेदो लक्ष्मीं अनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गां अश्वं पुरुषान् अहम् ।२

अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् ।
श्रियं देवी उपह्वये श्रीर्मा देवी जुषताम् ।३

कांस्यस्मि ता हिरण्यप्रावारामार्द्रा ज्वलन्ती तृप्ता तर्पयन्तीम् ।
पद्मेस्थितां पद्मवर्णां तां इहोपह्वये श्रियम् ।४

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टां उदाराम् ।
तं पद्मनेमिं शरणं प्रपद्येऽलक्ष्मीर् मे नश्यतां त्वां वृणोमि ॥५।।

आदित्यवर्णे तपसो अधि जातो वनस्पतिस् तव वृक्षो अथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरा याश् च बाह्या अलक्ष्मीः ।६।

उपैतु माम् देवसखः कीर्तिश् च मणिना सह ।
प्रादुर्भूतो अस्मि राष्ट्रेऽस्मिन् कीर्तिम् वृद्धिम् ददातु मे ।७।

क्षुत्पिपासामला ज्येष्ठाम् अलक्ष्मीं नाशयाम्यहम् ।
अभूतिम् असमृद्धिम् च सर्वान् निर्णुद मे गृहात् ।८।

गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम् ।
ईश्वरीम् सर्वभूतानाम् ताम् इहोपह्वये श्रियम् ।९।

मनसः कामम् आकूतिम् वाचस् सत्यम् अशीमहि ।
पशूनाम् रूपम् अन्नस्य मयि श्रीः श्रयताम् यशः ।१०।

कर्दमेन प्रजा भूता मयि सं भव कर्दम ।
श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् ।११

आपः स्रवन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीम् मातरम् श्रियम् वासय मे गृहे ।१२

पक्वाम् पुष्करिणीम् पुष्टाम् पिङ्गलाम् पद्ममालिनीम् ।
सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममा वह ।१३।

आर्द्राम् पुष्करिणीम् यष्टीम् सुवर्णाम् हेममालिनीम् ।
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममा वह ।१४

ताम् म आवह जातवेदो लक्ष्मीम् अनपगामिनीम् ।
यस्याम् हिरण्यम् प्रभूतम् गावो दास्यो विन्देयम् पुरुषान् अहम् ॥१५।

य आनन्दम् समाविशद् उपाधावन् विभावसुम् ।
श्रियः सर्वा उपासिष्व चिक्लीत वस मे गृहे ।१६।

कर्दमेन प्रजा स्रष्टा सम्भूतिम् गमयामसि ।
अदधाद् उपागाद् येषाम् कामान् ससृज्महे ।१७।

जातवेदः पुनीहि मा रायस्पोषम् च धारय ।
अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्वंहसः ।१८।

अच्छा नो मित्रमहो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ।१९।

_________________________________  
२,६ १६ यः शुचिः प्रयतो भूत्वा जुहुयाद् आज्यम् अन्वहम् ।
२,६ १६ सूक्तम् पञ्चदशर्चम् च श्री कामः सततम् जपेत् 

२,६ १७ पद्मानने पद्मोरू पद्माक्षी पद्म संहवे ।
२,६ १७ तन् मे भजसि पद्माक्षी येन सौख्यम् लभाम्य् अहम् ।

२,६ १८ अश्वदायै गोदायै धनदायै महा धने ।
२,६ १८ धनम् मे जुषताम् देवि सर्व कामांश् च देहि मे ।

२,६ १९ पुत्र पौत्रम् धनम् धान्यम् हस्त्य् अश्वादि गवे रथम् ।
२,६ १९ प्रजानाम् भवसि मातायुष्मन्तम् करोतु मे ।
२,६ २० धनम् अग्निर् धनम् वायुर् धनम् सूर्यो धनम् वसुः 
२,६ २० धनम् इन्द्रो बृहस्पतिर् वरुणम् धनम् उत्सृजे ।
________________________________________
२,६ २१ वैनतेय सोमम् पिब सोमम् पिबतु वृत्रहा ।
२,६ २१ सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः ।
२,६ २२ न क्रोधो न च मात्सर्यम् न लोभो नाशुभा मतिः ।
२,६ २२ भवन्ति कृत पुण्यानाम् भक्तानाम् श्री सूक्तम् जपेत् ।
__________________________________ 
२,६ २३ सरसिज निलये सरोज हस्ते धवलतराम् शुभ गन्ध माल्य शोभे ।
२,६ २३ भगवति हरि वल्लभे मनोज्ञे त्रिभुवन भूति करि प्रसीद मह्यम् । ( प् ७७ )
__________________________________
२,६ २४ श्री वर्चस्वम् आयुष्यम् आरोग्यम् आविधात् शुभमानम् महीयते ।
२,६ २४ धान्यम् धनम् पशुम् बहु पुत्र लाभम् शत संवत्सरम् दीर्घम् आयुः ।
_______________________________________
२,६ २५ विष्णु पत्नीम् क्षमाम् देवीम् माधवीम् माधव प्रियाम् ।
२,६ २५ लक्ष्मीम् प्रिय सखीम् देवीम् नमान्य् अच्युत वल्लभाम् ।
२,६ २६ महा लक्ष्मी च विद्महे विष्णु पत्नी च धीमहि ।
२,६ २६ तन् नो लक्ष्मीः प्रचोदयात् ।
__________________________________
२,६ २७ पद्मानने पद्मिनि पद्म पत्रे पद्म प्रिये पद्म दलायताक्षि ।
२,६ २७ विश्व प्रिये विश्व मनो अनुकूले त्वत् पाद पद्मम् हृदि सन्निधत्स्व ।
__________________________________
२,६ २८ आनन्दः कर्दमः श्रीतस् चिक्लीतेव विश्रितः ।
२,६ २८ ऋषयश् श्रियः पुत्राश् च श्रीर् देवी देव देवता । ( प् ७८ )
__________________________________
२,६ २९ ऋण रोगादि दारिद्र्यम् पाप क्षुद् अपमृत्यवः ।
२,६ २९ भयः शोक मनस् तापा नश्यन्तु मम सर्वदा ।

२,६ २३ चन्द्राभम् लक्ष्मीम् ईशानाम् सूर्याभम् श्रियम् ऐश्वरीम् ।
२,६ २३ चन्द्र सूर्याग्नि वर्णाभाम् महा लक्ष्मीम् उपास्महे ।
__________________________________
२,६ २४ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
२,६ २४ रोहन्तु सर्व बीजान्य् अव ब्रह्म द्विषो जहि ।
__________________________________
२,६ २५ पद्म प्रिये पद्मिनि पद्म हस्ते पद्मानने ।
२,६ २५ विश्व प्रिये विष्णु मनो अनुकूले त्वत् पाद पद्मम् मयि सन्निधत्स्व ।
२,६ २६ या सा पद्मासनस्था विपुल कटि तटी पद्म पत्रायताक्षी गम्भीरा ।
__________________________________
२,६ २६ वर्त नाभि स्तन भर नमिता शुभ्र वस्त्रोत्तरीया ।
२,६ २७ लक्ष्मीर् दिव्यैर् गजेन्द्रैर् मणि गण खचितै स्नापिता हेम कुम्भैः ।
__________________________________
२,६ २७ नित्यम् सा पद्म हस्ता मम वसतु गृहे सर्व माङ्गल्य युक्ता ।
__________________________________
२,६ २८ सिद्ध लक्ष्मीर् मोक्ष लक्ष्मीर् जय लक्ष्मीः सरस्वती 
२,६ २८ श्रीर् लक्ष्मीर् वर लक्ष्मीश् च प्रसन्ना मम सर्वदा ।
२,६ २९ वराम् कुशा पाशम् अभीतिम् उद्राम् करैर् वहन्ती कमलासनस्थाम् ।
__________________________________
२,६ २९ बालार्क कोटि प्रतिभाम् त्रिनेत्राम् भजेऽहम् आद्याम् जगद् ईश्वरीम् ताम् ।

२,६ ३० सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।

शरधये त्र्यम्बके गौरी नारायणि नमो अस्तु ते । 

( प् ७९ )

२,६ ३० सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।

शरधये त्र्यम्बके गौरी नारायणि नमो अस्तु ते । ( प् ७९ )

२,६ ३० शरधये त्र्यम्बके गौरी नारायणि नमो अस्तु ते । ( प् ७९ )
२,६ ३० शरधये त्र्यम्बके गौरी नारायणि नमो अस्तु ते । ( प् ७९ )

२,६ ३० सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
२,६ ३० शरधये त्र्यम्बके गौरी नारायणि नमो अस्तु ते । ( प् ७९ )
__________________________________
२,७ १ चिक्लीतो यस्य नाम तद् दिव नक्तम् च सुक्रतो ।
२,७ १ अस्मान् दीदास युज्याय जीवसे जातवेदः पुनन्तु माम् देव जनाः ।
__________________________________
२,७ २ पुनन्तु मनसा धियः पुनन्तु विश्वा भूतानि ।
२,७ २ जातवेदो यद् अस्तुतम् ।
__________________________________
२,७ ३ विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ।
२,७ ३ सम्भूतास्माकम् वीरा ध्रुवा ध्रुवेशु तिष्ठति ।
__________________________________
२,७ ४ ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवा ध्रुवेषु तिष्ठति ।
२,७ ४ अग्नेऽच्छा यद् अस्तुतम् रायस् पोषम् च धारय ।
__________________________________
२,७ ५ अच्छा नो मित्र महो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
२,७ ५ वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥१०
__________________________________
२,८ १ मयि श्लेषो मा वधीः प्र संराजम् च सुक्रतो ।
२,८ १ अस्मान् पृणीष्व युज्याय जीवसे जातवेदः पुनीहि मा ।
__________________________________
२,८ २ मर्तो यो नो दिदासत्य् अधिरथा न नीनशत् ।
२,८ २ दविध्वतो विभावसो जागारम् उत ते धियम् ।
__________________________________
२,८ ३ अनमीवा भवन्त्व् अघ्न्या सु सन् गर्भो विमोचतु ।
२,८ ३ अरातीयन्ति ये केचित् सूरयश् चाभि मज्मना ।
__________________________________
२,८ ४ रायस् पोषम् विधारय जातवेदः पुनीहि मा ।
२,८ ४ उस्रा भवन्तु नो मयो बह्वीर् गोष्ठे घृताच्यः ।
__________________________________
२,८ ५ अच्छा नो मित्रमहो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
२,८ ५ वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥११ ( प् ८० )
__________________________________
२,९ १ संस्रवन्तु मरुतस् सम् अश्वास् उ पूरुषाः ।
२,९ १ सम् धान्यस्य या स्फातिस् संस्राव्येण हविषा जुहोमि ।
२,९ २ एह यन्ति पशवो ये परेयुर् वायुर् येषाम् सहचाराम् जुजोष ।
२,९ २ त्वष्टा येषाम् रूप धेयानि वेदास्मिंस् ताम् लोके सविताभिरक्षतु ।
__________________________________
२,९ ३ इमम् गोष्ठम् पशवस् संस्रवन्तु बृहस्पतिर् आनयतु प्रजानन् ।
२,९ ३ सिनीवाली नयत्य् अग्रैषाम् आजग्मुषो अनुमते नियच्छ ।
__________________________________
२,९ ४ संसिञ्चामि गवाम् क्षीरम् सम् आज्येन बलम् रसम् ।
२,९ ४ संसिक्तास्माकम् वीरा ध्रुवा गावस् सन्तु गोपतौ ।
__________________________________
२,९ ५ आहरामि गवाम् क्षीरम् आहरामि धान्यम् रसम् ।
२,९ ५ आहृतास्माकम् वीरा पत्नीर् इदम् अस्तकम् ॥१२
__________________________________
२,१० १ आ ते गर्भो योनिम् एतु पुमान् बाणेवेषुधिम् ।
२,१० १ आ वीरो अत्र जायताम् पुत्रस् ते दश मास्यः ।
__________________________________
२,१० २ करोमि ते प्राजापत्यम् आ गर्भो योनिम् एतु ते ।
२,१० २ अनूनः पूर्णो जायताम् अनन्धो अश्रोणो अपिशाच धीतः । ( प् ८१ )
__________________________________
२,१० ३ पुमांस् ते पुत्रो जायताम् पुमान् अनुजायताम् ।
२,१० ३ यानि भद्राणि बीजान्य् ऋषभा जनयन्ति नः ।
__________________________________
२,१० ४ तानि भद्राणि बीजान्य् ऋषभा जनयन्तु ते ।
२,१० ४ तैस् त्वम् पुत्रम् जनयेस् स जायताम् वीरतमस् स्वानाम् ।
__________________________________
२,१० ५ यो वशायाम् गर्भो यो अपि वेहतीन्द्रस् तन् निदधे वनस्पतौ ।
२,१० ५ तैस् त्वम् पुत्रान् विन्दस्व सा प्रसूर् धेनुका भव ।
__________________________________
२,१० ६ सम् वो मनांसि जानाताम् सम् नभिस् सम् ततो असत् ।
२,१० ६ सम् त्वा कामस्य योक्त्रेण युञ्जान्य् अविमोचनाय ।
__________________________________
२,१० ७ कामस् समृध्यताम् मह्यम् अपराजितम् एव मे ।
२,१० ७ यम् कामम् कामये देव तम् मे वायो समर्धय ॥१३ ( प् ८२ )

२,११ १ अग्निर् एतु प्रथमो देवतानाम् सो स्याः प्रजाम् मुञ्चतु मृत्यु पाशात् ।
२,११ १ तद् अयम् राजा वरुणो अनुमन्यताम् यथेयम् स्त्री पौत्रम् अघन् न रोदीत् ।
__________________________________
२,११ २ इमाम् अग्निस् त्रायताम् गार्हस्पत्यः प्रजाम् अस्यै तिरतु दीर्घम् आयुः ।
२,११ २ अशून्योपस्था जीवताम् अस्तु माता पौत्रम् आनन्दम् अभि विबुध्यताम् इयम् ।
__________________________________
२,११ ३ मा ते गृहे निशि घोरोत्थाद् अन्यत्र त्वद् रुदत्यस् संविशन्तु ।
२,११ ३ मा त्वम् विकेश्य् उरावधिष्ठा जीव पुत्रा पति लोके विराज प्रजाम् पश्यन्ती सुमनस्यमाना ।
__________________________________
२,११ ४ अप्रजस्यम् पौत्र मर्त्यम् पाप्मानम् उत वाघम् ।
२,११ ४ प्रजाम् इवोन्मुच्यस्व द्विषद्भ्यः प्रति मुञ्चामि पाशान् ।
__________________________________
२,११ ५ देव कृतम् ब्राह्मणम् कल्पमानम् तेन हन्मि योनिषदः पिशाचान् ।
__________________________________
२,११ ५ क्रव्यादो मृत्यून् अधरान् पातयामि दीर्घम् आयुस् तव जीवन्तु पुत्राः ।
२,११ ५ त्वम् ह्य् अग्ने प्रथमो मओता ॥१४ ( प् ८३ )
__________________________________
२,१२ १ चक्षुश् च श्रोत्रम् च मनश् च वाक् च प्राणापाणौ देहेदम् शरीरम् ।
२,१२ १ द्वौ प्रत्यञ्चाव् अनुलोमौ विसर्गाव् एदन् तम् मन्ये दश यन्त्रम् उत्सम् ।
२,१२ १ यानयत् परावतः ॥१५ ( प् ८४ )
__________________________________
२,१२ २ उरश् च पृष्ठश् च करौ च बाहू जंघे चोरूदरम् शिरश् च ।
२,१२ २ रोमाणि मांसम् रुधिरास्थि मज्जम् एतत् शरीरम् जल बुद्बुदोपमम् ।
__________________________________
२,१२ ३ भ्रुवौ ललाटे च तथा च कर्णौ हनू कपोलौ छुबुकस् तथा च ।
२,१२ ३ ओष्ठौ च दन्ताश् च तथैव जिह्वा मे तत् शरीरम् मुख रत्न कोशम् ॥
__________________________________



२,१३ १ शंवतीः पारयन्त्य् एतेदम् पृच्छस्व वचो यथा ।
२,१३ १ अभ्यारन् तम् समाकेतम् यैवेदम् इति ब्रवत् ।
__________________________________
२,१३ २ जाया केतम् परिस्रुतम् भारती ब्रह्म वादिनी ।
२,१३ २ संजानाना मही जाता यैवेदम् इति ब्रवत् ।
__________________________________
२,१३ ३ इन्द्रस् तम् किम् विभुम् प्रभुम् भानुना यम् जुहोषति ।
२,१३ ३ तेन सूर्यम् अरोचयद् येनेमे रोदस्युभे ।
__________________________________
२,१३ ४ जुषस्वाग्नेऽङ्गिरः काण्वम् मेध्यातिथिम् ।
२,१३ ४ मा त्वा सोमस्य बर्बृहत् सुतस्य मधुअत्तमः ।
__________________________________
२,१३ ५ त्वाम् अग्नेऽङ्गिरश् शोचस्व देववीतमः ।
२,१३ ५ आ शंतम शंतमाभिर् अभि स् तिभिश् शान्तिम् स्वस्तिम् अकुर्वत ।
__________________________________
२,१३ ६ सम् नः कनिक्रदद् देवः पर्जन्यो अभि वर्षत्व् ओषधयस् सम् प्रवर्धन्तम् ।
२,१३ ६ सम् नो द्यावा पृथिवी शम् प्रजाभ्यस् शम् नो अस्तु द्विपदे शम् चतुष्पदे ।
२,१३ ६ शम् नेन्द्राग्नी भवताम् अवोभिः ॥१६ ( प् ८५ )
__________________________________
२,१४ १ स्वप्नस् स्वप्नाधिकरणे सर्वम् निष्वापया जनम् ।
२,१४ १ आ सूर्यम् अन्यान् स्वापयाव्युषम् जागृयाम् अहम् ।
२,१४ १ केम् व्यक्ता नरस् सनीढाः ॥१७।
__________________________________
२,१४ २ अजगरो नाम सर्पः सर्पिरविषो महान् ।
२,१४ २ तस्मिन् हि सर्पः सुधितस् तेन त्वा स्वापयामसि ।
__________________________________

२,१४ ३ सर्पः सर्पो अजगरः सर्पिरविषो महान्

 २,१४ ३ तस्य सर्पात् सिंधवस् तस्य गाधम् असीमहि ।

  २,१४ ४-कालिको नाम सर्पो नव नाग सहस्र बलः  ( काळिक, बळ )

  २,१४ ४-यमुन ह्रदे ह सो जातो यो नारायण वाहनः 

२,१४ ३ तस्य सर्पात् सिंधवस् तस्य गाधम् असीमहि ।
२,१४ ४ कालिको नाम सर्पो नव नाग सहस्र बलः । ( काळिक, बळ )
२,१४ ४ यमुन ह्रदे ह सो जातो यो नारायण वाहनः ।

२,१४ ३ सर्पः सर्पो अजगरः सर्पिरविषो महान् ।
२,१४ ३ तस्य सर्पात् सिंधवस् तस्य गाधम् असीमहि ।
२,१४ ४ कालिको नाम सर्पो नव नाग सहस्र बलः । ( काळिक, बळ )
२,१४ ४ यमुन ह्रदे ह सो जातो यो नारायण वाहनः ।
________________________________________

२,१४ ५ यदि कालिक दूतस्य यदि काह्कालिकाद् भयम् । ( काळिक )
२,१४ ५ जन्म भूमिम् अतिक्रान्तो निर्विषो याति कालिकः । ( काळिक ) ( प् ८६ )
__________________________________
२,१४ ६ आयाहीन्द्र पथिभिर् इडितेभिर् यज्ञम् इमम् नो भाग धेयम् जुषस्व ।
२,१४ ६ तृप्ताम् जुहुर् मातुलस्येव योषा भागस् ते पैतृ स्वसेयी वपाम् इव । ( मातुळ )
__________________________________
२,१४ ७ यशस्करम् बलवन्तम् प्रभुत्वम् तम् एव राजाधिपतिर् बभूव ।
२,१४ ७ संकीर्ण नागाश्व पतिर् नराणाम् सुमङ्गल्यम् सततम् दीर्घम् आयुः ।
__________________________________
२,१४ ८ कर्कोटको नाम सर्पो यो दृष्टी विषोच्यते ।
२,१४ ८ तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते ।
__________________________________
२,१४ ९ (१)अ अति कालिक रौद्रस्य विष्णुः सौम्येन भामिना । ( काळिक )
२,१४ ९ (१)ब् यमुन नदी कालिकम् ते विष्णु स्तोत्रम् अनुस्मरम् । ( काळिक )
२,१४ ९ (२)अ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
२,१४ ९ (२)ब् तेषाम् अप्सु सदस् कृतम् तेभ्यः सर्पेभ्यो नमः ।
__________________________________
२,१४ १० नमो अस्तु सर्पेभ्यो ये के च पृथिवीम् अनु ।
२,१४ १० येऽन्तरिक्षे ये दिव् तेभ्यः सर्पेभ्यो नमः ।
________________
२,१४ ११ उग्रायुधाः प्रमथिनः प्रवीरा मायाविनो बलिनो मिच्छमानाः ।
२,१४ ११ ये देवासुरान् पराभवन् तांस् त्वम् वज्रेण मघवन् निवारय ।( प् ८७ )
__________________________________
२,१५ यस्य व्रतम् उपतिष्ठन्तापो यस्य व्रते पशवो यान्ति सर्वे ।
२,१५ यस्य व्रते पुष्टि पत्र् निविष्टस् तम् सरस्वन्तम् अवसे जोहवीमि ।
२,१५ यज्ञे दिवो नृषदने पृथिव्याः ॥१८

__________________________________
२,१६ १ उप प्रवद मण्डूकि वर्षम् आवद तादुरि ।
२,१६ १ मध्ये ह्रदस्य प्लवस्व निगृह्य चतुरः पदः ।
इन्द्रासोमा तपतम् रक्षोब्जतम् ॥१९ ( प् ८८ )


मा बिभेर् न मरिष्यसि परि त्वा पामि सर्वतः ।
घनेन हन्मि वृश्चिकम् अहिम् दण्डेनागतम् ।
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिः ॥१ ( प् ६९ )

आदित्य रथ वेगेन विष्णोर् बाहु बलेन च ।
गरुड पक्ष निपातेन भूमिम् गच्छ महा यशाः ।
गरुडस्य जात मात्रेण त्रयो लोकाः प्रकम्पिताः ।
प्रकम्पिता मही सर्वा सशैल वन कानना ।
गगनम् नष्ट चन्द्रार्कम् ज्योतिषम् न प्रकाशते ।
देवता भय भीताश् च मारुतो न प्लवायति मारुतो न प्लवायत्य् ओम् नमः ।
__________________________    
भो सर्प भद्र भद्रम् ते दूरम् गच्छ महा यशाः ।
जनमेजयस्य यज्ञान्ते आस्तीक वचनम् स्मर ।
आस्तीक वचनम् श्रुत्वा यः सर्पो न निवर्तते ।
शतधा भिद्यते मूर्ध्नि शिंश वृक्ष फलम् यथा ।
अगस्त्यो माधवश् चैव मुचुकुन्दो ( मुचुकुंदो ) महा मुनिः ।
कपिलो मुनिर् आस्तीकः पञ्चैते सुख शायिनः ।
नर्मदायै नमः प्रातर् नर्मदायै नमो निशि ।

नमो अस्तु नर्मदे तुभ्यम् त्राहि माम् विष सर्पतः ।
यो जरत्कारुणा जातो जरत् कन्याम् महा यशाः ।
तस्य सर्पो अपि भद्रम् ते दूरम् गच्छ महा यशाः ।
तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते । ( प् ७० )

भद्रम् वद दक्षिणतो भद्रम् उत्तरतो वद ।
भद्रम् पुरस्तान् नो वद भद्रम् पश्चात् कपिञ्जल ।
भद्रम् वद पुत्रैर् भद्रम् वद गृहेषु च ।
भद्रम् अस्माकम् वद भद्रम् नो अभयम् वद ।
भद्रम् अधस्तान् नो वद भद्रम् उपरिष्टान् नो वद ।
भद्रम् भद्रम् नावद भद्रम् नस् सर्वतो वद ।
असपत्नम् पुरस्तान् नश् शिवम् दक्षिणतस् कृधि ।
अभयम् सततम् पश्चाद् भद्रम् उत्तरतो गृहे ।
यौवनानि महयसि जिग्युषाम् इव दुन्दुभिः ।
शकुन्तक प्रकक्षिणम् शत पत्राभि नो वद ।
आवदंस् त्वम् शकुने भद्रम् आ वद ॥२ ( प् ७१ )
__________________________________
जागर्षि त्वम् भुवने जातवेदो जागर्षि यत्र यजते हविष्मान् ।
इदम् हविश् श्रद्दधानो जुहोमि तेन पासि गुह्यम् नाम गोनाम् ।
विदा दिवो विष्यन्न् अद्रिम् उक्थैः ॥३

स्वस्त्ययनम् तार्क्ष्यम् अरिष्टनेमिम् महद् भूतम् वायसम् देवतानाम् ।
असुरघ्नम् इन्द्र सखम् समत्सु बृहद् यशो नावम् इवारुहेम ।
अंहो मुचम् आङ्गिरसम् गयम् च स्वस्त्य् आत्रेयम् मनसा च तार्क्ष्यम् । ( प् ७१ )
प्रयत पाणिश् शरणम् प्रपद्ये स्वस्ति सम्बाधेष्व् अभयन् नो अस्तु ।
प्र श्यावाश्व धृष्णुया ॥

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्व बीजान्य् अव ब्रह्म द्विषो जहि ।
प्र संराजे बृहदर्चा गभीरम् ॥५


यः शुचिः प्रयतो भूत्वा जुहुयाद् आज्यम् अन्वहम् ।
सूक्तम् पञ्चदशर्चम् च श्री कामः सततम् जपेत् ।
पद्मानने पद्मोरू पद्माक्षी पद्म संहवे ।
तन् मे भजसि पद्माक्षी येन सौख्यम् लभाम्य् अहम् ।
अश्वदायै गोदायै धनदायै महा धने ।
धनम् मे जुषताम् देवि सर्व कामांश् च देहि मे ।
पुत्र पौत्रम् धनम् धान्यम् हस्त्य् अश्वादि गवे रथम् ।
प्रजानाम् भवसि मातायुष्मन्तम् करोतु मे ।
धनम् अग्निर् धनम् वायुर् धनम् सूर्यो धनम् वसुः ।
धनम् इन्द्रो बृहस्पतिर् वरुणम् धनम् उत्सृजे ।
वैनतेय सोमम् पिब सोमम् पिबतु वृत्रहा ।
सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः ।
न क्रोधो न च मात्सर्यम् न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानाम् भक्तानाम् श्री सूक्तम् जपेत् ।
सरसिज निलये सरोज हस्ते धवलतराम् शुभ गन्ध माल्य शोभे ।

भगवति हरि वल्लभे मनोज्ञे त्रिभुवन भूति करि प्रसीद मह्यम् । ( प् ७७ )

श्री वर्चस्वम् आयुष्यम् आरोग्यम् आविधात् शुभमानम् महीयते ।
धान्यम् धनम् पशुम् बहु पुत्र लाभम् शत संवत्सरम् दीर्घम् आयुः ।
विष्णु पत्नीम् क्षमाम् देवीम् माधवीम् माधव प्रियाम् ।
लक्ष्मीम् प्रिय सखीम् देवीम् नमान्य् अच्युत वल्लभाम् ।
महा लक्ष्मी च विद्महे विष्णु पत्नी च धीमहि ।
तन् नो लक्ष्मीः प्रचोदयात् ।
पद्मानने पद्मिनि पद्म पत्रे पद्म प्रिये पद्म दलायताक्षि ।
विश्व प्रिये विश्व मनो अनुकूले त्वत् पाद पद्मम् हृदि सन्निधत्स्व ।
आनन्दः कर्दमः श्रीतस् चिक्लीतेव विश्रितः ।
ऋषयश् श्रियः पुत्राश् च श्रीर् देवी देव देवता । ( प् ७८ )
ऋण रोगादि दारिद्र्यम् पाप क्षुद् अपमृत्यवः ।
भयः शोक मनस् तापा नश्यन्तु मम सर्वदा ।

चन्द्राभम् लक्ष्मीम् ईशानाम् सूर्याभम् श्रियम् ऐश्वरीम् ।
चन्द्र सूर्याग्नि वर्णाभाम् महा लक्ष्मीम् उपास्महे ।
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्व बीजान्य् अव ब्रह्म द्विषो जहि ।
पद्म प्रिये पद्मिनि पद्म हस्ते पद्मानने ।
विश्व प्रिये विष्णु मनो अनुकूले त्वत् पाद पद्मम् मयि सन्निधत्स्व ।
या सा पद्मासनस्था विपुल कटि तटी पद्म पत्रायताक्षी गम्भीरा ।
वर्त नाभि स्तन भर नमिता शुभ्र वस्त्रोत्तरीया ।
लक्ष्मीर् दिव्यैर् गजेन्द्रैर् मणि गण खचितै स्नापिता हेम कुम्भैः ।

नित्यम् सा पद्म हस्ता मम वसतु गृहे सर्व माङ्गल्य युक्ता ।
सिद्ध लक्ष्मीर् मोक्ष लक्ष्मीर् जय लक्ष्मीः सरस्वती ।
श्रीर् लक्ष्मीर् वर लक्ष्मीश् च प्रसन्ना मम सर्वदा ।
वराम् कुशा पाशम् अभीतिम् उद्राम् करैर् वहन्ती कमलासनस्थाम् ।
बालार्क कोटि प्रतिभाम् त्रिनेत्राम् भजेऽहम् आद्याम् जगद् ईश्वरीम् ताम् ।
_______________________________________
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरधये त्र्यम्बके गौरी नारायणि नमो अस्तु ते । ( प् ७९ )

चिक्लीतो यस्य नाम तद् दिव नक्तम् च सुक्रतो ।
अस्मान् दीदास युज्याय जीवसे जातवेदः पुनन्तु माम् देव जनाः ।
पुनन्तु मनसा धियः पुनन्तु विश्वा भूतानि ।
जातवेदो यद् अस्तुतम् ।
______   _______________ _____________             
विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ।
सम्भूतास्माकम् वीरा ध्रुवा ध्रुवेशु तिष्ठति ।
ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवा ध्रुवेषु तिष्ठति ।
अग्नेऽच्छा यद् अस्तुतम् रायस् पोषम् च धारय ।
अच्छा नो मित्र महो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥१०।

मयि श्लेषो मा वधीः प्र संराजम् च सुक्रतो ।
अस्मान् पृणीष्व युज्याय जीवसे जातवेदः पुनीहि मा ।

मर्तो यो नो दिदासत्य् अधिरथा न नीनशत् ।
दविध्वतो विभावसो जागारम् उत ते धियम् ।

अनमीवा भवन्त्व् अघ्न्या सु सन् गर्भो विमोचतु ।
अरातीयन्ति ये केचित् सूरयश् चाभि मज्मना ।

रायस् पोषम् विधारय जातवेदः पुनीहि मा ।
उस्रा भवन्तु नो मयो बह्वीर् गोष्ठे घृताच्यः ।

अच्छा नो मित्रमहो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥११ ( प् ८० )

संस्रवन्तु मरुतस् सम् अश्वास् उ पूरुषाः ।
सम् धान्यस्य या स्फातिस् संस्राव्येण हविषा जुहोमि ।
एह यन्ति पशवो ये परेयुर् वायुर् येषाम् सहचाराम् जुजोष ।
त्वष्टा येषाम् रूप धेयानि वेदास्मिंस् ताम् लोके सविताभिरक्षतु ।
इमम् गोष्ठम् पशवस् संस्रवन्तु बृहस्पतिर् आनयतु प्रजानन् ।

सिनीवाली नयत्य् अग्रैषाम् आजग्मुषो अनुमते नियच्छ ।
संसिञ्चामि गवाम् क्षीरम् सम् आज्येन बलम् रसम् ।

संसिक्तास्माकम् वीरा ध्रुवा गावस् सन्तु गोपतौ ।
आहरामि गवाम् क्षीरम् आहरामि धान्यम् रसम् ।
आहृतास्माकम् वीरा पत्नीर् इदम् अस्तकम् ॥१२

आ ते गर्भो योनिम् एतु पुमान् बाणेवेषुधिम् ।
आ वीरो अत्र जायताम् पुत्रस् ते दश मास्यः ।
करोमि ते प्राजापत्यम् आ गर्भो योनिम् एतु ते ।
अनूनः पूर्णो जायताम् अनन्धो अश्रोणो अपिशाच धीतः । ( प् ८१ )

पुमांस् ते पुत्रो जायताम् पुमान् अनुजायताम् ।
यानि भद्राणि बीजान्य् ऋषभा जनयन्ति नः ।
तानि भद्राणि बीजान्य् ऋषभा जनयन्तु ते ।
तैस् त्वम् पुत्रम् जनयेस् स जायताम् वीरतमस् स्वानाम् ।
यो वशायाम् गर्भो यो अपि वेहतीन्द्रस् तन् निदधे वनस्पतौ ।

तैस् त्वम् पुत्रान् विन्दस्व सा प्रसूर् धेनुका भव ।
सम् वो मनांसि जानाताम् सम् नभिस् सम् ततो असत् ।
सम् त्वा कामस्य योक्त्रेण युञ्जान्य् अविमोचनाय ।
कामस् समृध्यताम् मह्यम् अपराजितम् एव मे ।
यम् कामम् कामये देव तम् मे वायो समर्धय ॥१३ 
( प् ८२ )

अग्निर् एतु प्रथमो देवतानाम् सो स्याः प्रजाम् मुञ्चतु मृत्यु पाशात् ।
तद् अयम् राजा वरुणो अनुमन्यताम् यथेयम् स्त्री पौत्रम् अघन् न रोदीत् ।
इमाम् अग्निस् त्रायताम् गार्हस्पत्यः प्रजाम् अस्यै तिरतु दीर्घम् आयुः ।
अशून्योपस्था जीवताम् अस्तु माता पौत्रम् आनन्दम् अभि विबुध्यताम् इयम् ।
मा ते गृहे निशि घोरोत्थाद् अन्यत्र त्वद् रुदत्यस् संविशन्तु।

मा त्वम् विकेश्य् उरावधिष्ठा जीव पुत्रा पति लोके विराज प्रजाम् पश्यन्ती सुमनस्यमाना ।
अप्रजस्यम् पौत्र मर्त्यम् पाप्मानम् उत वाघम् ।
प्रजाम् इवोन्मुच्यस्व द्विषद्भ्यः प्रति मुञ्चामि पाशान् ।
देव कृतम् ब्राह्मणम् कल्पमानम् तेन हन्मि योनिषदः पिशाचान् ।
क्रव्यादो मृत्यून् अधरान् पातयामि दीर्घम् आयुस् तव जीवन्तु पुत्राः ।
त्वम् ह्य् अग्ने प्रथमो मओता ॥१४ ( प् ८३ )

चक्षुश् च श्रोत्रम् च मनश् च वाक् च प्राणापाणौ देहेदम् शरीरम् ।
द्वौ प्रत्यञ्चाव् अनुलोमौ विसर्गाव् एदन् तम् मन्ये दश यन्त्रम् उत्सम् ।
यानयत् परावतः ॥१५ ( प् ८४ )

उरश् च पृष्ठश् च करौ च बाहू जंघे चोरूदरम् शिरश् च ।
रोमाणि मांसम् रुधिरास्थि मज्जम् एतत् शरीरम् जल बुद्बुदोपमम् ।
भ्रुवौ ललाटे च तथा च कर्णौ हनू कपोलौ छुबुकस् तथा च ।

ओष्ठौ च दन्ताश् च तथैव जिह्वा मे तत् शरीरम् मुख रत्न कोशम् ॥

शंवतीः पारयन्त्य् एतेदम् पृच्छस्व वचो यथा ।
अभ्यारन् तम् समाकेतम् यैवेदम् इति ब्रवत् ।
जाया केतम् परिस्रुतम् भारती ब्रह्म वादिनी ।
संजानाना मही जाता यैवेदम् इति ब्रवत् ।
इन्द्रस् तम् किम् विभुम् प्रभुम् भानुना यम् जुहोषति ।
तेन सूर्यम् अरोचयद् येनेमे रोदस्युभे ।
जुषस्वाग्नेऽङ्गिरः काण्वम् मेध्यातिथिम् ।
मा त्वा सोमस्य बर्बृहत् सुतस्य मधुअत्तमः ।
त्वाम् अग्नेऽङ्गिरश् शोचस्व देववीतमः ।
आ शंतम शंतमाभिर् अभि स् तिभिश् शान्तिम् स्वस्तिम् अकुर्वत ।
सम् नः कनिक्रदद् देवः पर्जन्यो अभि वर्षत्व् ओषधयस् सम् प्रवर्धन्तम् ।
सम् नो द्यावा पृथिवी शम् प्रजाभ्यस् शम् नो अस्तु द्विपदे शम् चतुष्पदे ।
शम् नेन्द्राग्नी भवताम् अवोभिः ॥१६ ( प् ८५ )

स्वप्नस् स्वप्नाधिकरणे सर्वम् निष्वापया जनम् ।
आ सूर्यम् अन्यान् स्वापयाव्युषम् जागृयाम् अहम् ।
केम् व्यक्ता नरस् सनीढाः ॥१७
अजगरो नाम सर्पः सर्पिरविषो महान् ।
तस्मिन् हि सर्पः सुधितस् तेन त्वा स्वापयामसि ।
सर्पः सर्पो अजगरः सर्पिरविषो महान् ।
तस्य सर्पात् सिंधवस् तस्य गाधम् असीमहि ।
कालिको नाम सर्पो नव नाग सहस्र बलः ।
 ( काळिक, बळ )
यमुन ह्रदे ह सो जातो यो नारायण वाहनः ।
यदि कालिक दूतस्य यदि काह्कालिकाद् भयम् । ( काळिक )
जन्म भूमिम् अतिक्रान्तो निर्विषो याति कालिकः । ( काळिक ) ( प् ८६ )
आयाहीन्द्र पथिभिर् इडितेभिर् यज्ञम् इमम् नो भाग धेयम् जुषस्व ।
तृप्ताम् जुहुर् मातुलस्येव योषा भागस् ते पैतृ स्वसेयी वपाम् इव । ( मातुळ )

यशस्करम् बलवन्तम् प्रभुत्वम् तम् एव राजाधिपतिर् बभूव ।
संकीर्ण नागाश्व पतिर् नराणाम् सुमङ्गल्यम् सततम् दीर्घम् आयुः ।
कर्कोटको नाम सर्पो यो दृष्टी विषोच्यते ।
तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते ।
(१)अ अति कालिक रौद्रस्य विष्णुः सौम्येन भामिना । ( काळिक )
(१)ब् यमुन नदी कालिकम् ते विष्णु स्तोत्रम् अनुस्मरम् । ( काळिक )
(२)अ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
(२)ब् तेषाम् अप्सु सदस् कृतम् तेभ्यः सर्पेभ्यो नमः ।
० नमो अस्तु सर्पेभ्यो ये के च पृथिवीम् अनु ।
० येऽन्तरिक्षे ये दिव् तेभ्यः सर्पेभ्यो नमः ।
१ उग्रायुधाः प्रमथिनः प्रवीरा मायाविनो बलिनो मिच्छमानाः ।
१ ये देवासुरान् पराभवन् तांस् त्वम् वज्रेण मघवन् निवारय ।( प् ८७ )

स्य व्रतम् उपतिष्ठन्तापो यस्य व्रते पशवो यान्ति सर्वे ।
स्य व्रते पुष्टि पत्र् निविष्टस् तम् सरस्वन्तम् अवसे जोहवीमि ।
ज्ञे दिवो नृषदने पृथिव्याः ॥१८

उप प्रवद मण्डूकि वर्षम् आवद तादुरि ।
मध्ये ह्रदस्य प्लवस्व निगृह्य चतुरः पदः ।
सोमा तपतम् रक्षोब्जतम् ॥१९ ( प् ८८ )


_______________________________


ऋग्वेदः खिलसूक्तानि- अध्यायः (३)

< ऋग्वेदः खिलसूक्तानि
अनुक्रमणी
< अभि > दश प्रस्कण्वः प्रगाथम् तु < प्र > पुष्टिगुर् < यथा > श्रुष्टिगुर् < यथायुर् उपमम् > अष्टौ मेध्य < एतत् ते > मातरिश्वा द्वितीयः प्रागाथो वैश्वदेवो < भूरि > पञ्च कृशः पृषध्रस्य दान स्तुतिस् तु गायत्रम् तु तृतीय पञ्चम्याव् अनुष्टुभौ < प्रति > पृषध्रः पाङ्क्त्य् अन्तम् सलिङ्गोक्ता देवता < त्वम् एका पावमानीष् > षड् वैश्वदेवम् अन्त्याद्ये च पावमानी स्तुतिः पञ्चमी त्रिष्टुब् < इडैव > द्वे बृहद्दिवो < यत्र > तिस्रस् < सस्रुषीर् एकैहि मम > द्वात्रिंशत् प्राजापत्यो हृद्यो वैश्वदेवम् तु विवाहार्थाशीस् त्व् आनुष्टुभम् त्व् आद्या त्रिष्टुप् तृतीय विंशी पञ्चविंश्यः पङ्क्तयो दशमी प्रोष्णिग् ( पुरोष्णिग् ) द्वादशाद्ये आस्तार पङ्क्तिः प्रस्तार पङ्क्तिर् एकोन विंशी बृहत्य् एकोन त्रिंशी त्रिष्टुब् जगतीव < उद् > अष्टौ पराग दासो < ध्रुव > एका < एको > द्वे < उद् > एका < यच् चासौ > द्वे < ब्रह्म > दश वामदेव्यो नकुलस् सौरी घर्म स्तुतिर् बार्हस्पत्या सावित्र्य् अष्टिर् घर्म परैतास् सौर्यश् चान्द्रमस्यश् च शेषा जगत्यः ॥

3.1
अभि प्र वस् सुराधसम् इन्द्रम् अर्च यथा विदे ।
यो जरितृभ्यो मघवा पुरूवसुस् सहस्रेणेव शिक्षति ।१
शतानीकेव प्रजिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
गिरेर् इव प्र रसास्य पिन्विरे दत्राणि पुरु भोजसः ।२
आ त्वा सुतासेन्दवो मदा येन्द्र गिर्वणः ।
आपो न वज्रिन्न् अन्व् ओक्यम् सरः पृणन्ति शूर राधसे ।३।

अनेहसम् प्रतरणम् विवक्षणम् मह्वस् स्वादिष्ठम् ईम् पिब ।
या यथा मन्द सानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ।४।

आ नस् स्तोमम् उप द्रवद् धियानो अश्वो न सोतृभिः ।
यन् ते स्वधावन् स्वदयन्ति धेनवेन्द्र कण्वेषु रातयः ॥५

उग्रम् न वीरन् नमसोप स्दिम विभूतिम् अक्षितावसुम् ।
उद्रीव वज्रिन्न् अवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ।६

यद् ध नूनम् यद् वा यज्ञे यद् वा पृथिव्याम् अधि ।
अतो नो यज्ञम् आशुभिर् महेमतोग्रर्ष्वेभिर् आ गहि ।७

अजिरासो हरयो ये ताशवो वातेव प्रसक्षिणः ।
येभिर् अपत्यम् मनुषः परीयसे येभिर् विश्वम् स्वर्दृशे । ८

एतावतस् ईमह इन्द्र सुम्नस्य गोमतः ।
यथा प्राव एतशम् कृत्व्ये धने यथा वशं दश व्रजे ।९
यथा कण्वे मघवन्न् त्रसदस्यवि यथा पक्थे दशव्रजे ।
यथा गोशर्येऽसनोर् ऋजिश्वनीन्द्र गोमद् हिरण्यवत् ॥१० (ऋ. ८.४९ वालखिल्यः)

3•2

प्र सु श्रुतम् सुराधसम् अर्चा शक्रम् अभिष्टये ।
यस् सुन्वते स्तुवते काम्यम् वसु सहस्रेणेव मंहते ।१

शतानीका हेतयो अस्य दुष्टरेन्द्रस्य समिषो महीः ।
शिनिर् न भुज्मा मघवत्सु पिन्वते यद् ईम् सुता अमन्दिषुः ।२।

यद् ईम् सुता इन्दवोऽभि प्रियम् अमन्दिषुः ।
आपो न धायि सवनम् म आ वसो दुघा इवोप दाशुषे ।३।

अनेहसम् वो हवमानम् ऊतये मध्वः क्षरन्ति धीतयः ।
आ त्वा वसो हवमाना इन्दवोप स्तोत्रेषु दधिरे ।४।

आ नस् सोमे स्वध्वरेयानो अत्यो न तोशते ।
यं ते स्वधावन् स्वधयन्ति गूर्तयः पौरे च्छन्दयसे हवम् ॥५।

प्र वीरम् उग्रम् विविचिं धनस्पृतम् विभूतिम् राधसो महः ।
उद्रीव वज्रिन्न् अवतो वसुत्वना सदा पीपेथ दाशुषे ६।

यद् ध नूनम् परावति यद् वा पृथिव्यां दिवि ।
युजानेन्द्र हरिभिर् महेमत उग्र ऋष्वेभिरा गहि ।७।

रथिरासो हरयो ये तेऽस्रिध ओजो वातस्य पिप्रति ।
येभिर् नि दास्युम् मनुषो निघोषयो येभिस् स्वः परीयसे ।८।

एतावतस्ते वसो विद्याम शूर नव्यसः ।
यथा प्रावो मघवन् मेध्यातिथिम् यथा नीपातिथिं धने ।९।

यथा कण्वे मघवन् मेधेऽध्वरे दीर्घनीथे दमूनसि ।
यथा गोशर्येऽसिषासो अद्रिवो मयि गोत्रम् हरिश्रियम् ॥१०। (ऋग्वेदः ८.५० वालखिल्यम्)



3.3
यथा मनौ सांवरणम् सोमम् इन्द्रापिबस् सुतम् ।
निपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ।
पार्षद्वानः प्रस्कण्वम् सम् असादयत् शयानम् जिव्रिम् उद्धितम् ।
सहस्राण्य् आसिषासद् गवाम् ऋषिस् त्वोतो दस्यवे वृकः ।
योक्थेभिर् न विन्धते चिकिद् यर्षि चोदनः ।
इन्द्रम् तम् अच्छा वद नव्यस्या मत्य् आविष्यन्तम् न भोजसे ।
यस्मार्कम् सप्त शीर्षाणम् आनृचुस् त्रिधातुम् उत्तमे पदे ।
स त्व् इमा विश्वा भुवनानि चिक्रदद् आद् इज् जनिष्ट पौंस्यम् ।
यो नो दाता वसूनाम् इन्द्रम् तम् हूमहे वयम् ।
विद्मा ह्य् अस्य सुमतिम् नवीयसीम् गमेम गोमति व्रजे ॥५
यस्मै त्वम् वसो दानाय शिक्षसि स रायस् पोषम् अश्नुते ।
तन् त्वा वयम् मघवन्न् इन्द्र गीर्वणस् सुतावन्तो हवामहे ।
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
उपोपेन् नु मघवन् भूयेन् नु त् दानन् देवस्य पृच्यते ।
प्र यो ननक्षेऽभ्य् ओजसा क्रिविम् वधैश् शुष्णम् निघोषयन् ।
यदेद् अस्तम्भीत् प्रथयन्न् अमून् दिवम् आद् इज् जनिष्ट पार्थिवः ।
_____________________________________

यस्यायम् विश्वार्यो दासश् शेवधिपारिः ।
तिरश् चिद् अर्ये रुशमे पवीरवि तुभ्येत् सो अज्यते रयिः ।
तुरण्यवो मधुमन्तो घृत श्चुतो विप्रासो अर्कम् आनृचुः ।
अस्मे रयिः पप्रथे वृष्ण्यम् शवो अस्मे सुवानासेन्दवः ॥६ ( प् ९१ )

____________________    

३,३ १ यथा मनौ सांवरणम् सोमम् इन्द्रापिबस् सुतम् ।
३,३ १ निपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ।
३,३ २ पार्षद्वानः प्रस्कण्वम् सम् असादयत् शयानम् जिव्रिम् उद्धितम् ।
३,३ २ सहस्राण्य् आसिषासद् गवाम् ऋषिस् त्वोतो दस्यवे वृकः ।
३,३ ३ योक्थेभिर् न विन्धते चिकिद् यर्षि चोदनः ।
३,३ ३ इन्द्रम् तम् अच्छा वद नव्यस्या मत्य् आविष्यन्तम् न भोजसे ।
३,३ ४ यस्मार्कम् सप्त शीर्षाणम् आनृचुस् त्रिधातुम् उत्तमे पदे ।
३,३ ४ स त्व् इमा विश्वा भुवनानि चिक्रदद् आद् इज् जनिष्ट पौंस्यम् ।
३,३ ५ यो नो दाता वसूनाम् इन्द्रम् तम् हूमहे वयम् ।
३,३ ५ विद्मा ह्य् अस्य सुमतिम् नवीयसीम् गमेम गोमति व्रजे ॥५
३,३ ६ यस्मै त्वम् वसो दानाय शिक्षसि स रायस् पोषम् अश्नुते ।
३,३ ६ तन् त्वा वयम् मघवन्न् इन्द्र गीर्वणस् सुतावन्तो हवामहे ।
३,३ ७ कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
३,३ ७ उपोपेन् नु मघवन् भूयेन् नु त् दानन् देवस्य पृच्यते ।
३,३ ८ प्र यो ननक्षेऽभ्य् ओजसा क्रिविम् वधैश् शुष्णम् निघोषयन् ।
३,३ ८ यदेद् अस्तम्भीत् प्रथयन्न् अमून् दिवम् आद् इज् जनिष्ट पार्थिवः ।
            _______  lllllllllllll___ 
३,३ ९ यस्यायम् विश्वार्यो दासश् शेवधिपारिः ।
३,३ ९ तिरश् चिद् अर्ये रुशमे पवीरवि तुभ्येत् सो अज्यते रयिः ।
३,३ १० तुरण्यवो मधुमन्तो घृत श्चुतो विप्रासो अर्कम् आनृचुः ।
३,३ १० अस्मे रयिः पप्रथे वृष्ण्यम् शवो अस्मे सुवानासेन्दवः ॥६ ( प् ९१ )

3.4
यथा मनौ विवस्वति सोमम् शक्रापिबस् सुतम् ।
यथा त्रिते छन्देन्द्र जुजोषस्य् आयौ मादयसे सचा ।
पृषध्रेध्ये मातरिश्वनीन्द्र सुवानेऽमन्दथः ।
यथा सोमम् दश सिप्रे दशोण्ये ( दशोण्ये ) स्यूम रश्माव् ऋजीनसि ।
योक्था केवला दधे यस् सोमम् धृषतापिबत् ।
यस्मै विष्णुस् त्रीणि पदा विचक्रमोप मित्रस्य धर्मभिः ।
यस्य त्वम् इन्द्र स्तोमेषु चाकनो वाजे वाजिन् शत क्रतो ।
तन् त्वा वयम् सुदुघाम् इव गोदुहे जुहूमसि श्रवस्सु च 
_____________________________________

यो नो दाता स नः पिता महान् उग्रेशान कृत् ।
अयामन्न् उग्रो मघवा पुरूवसुर् गोर् अश्वस्य प्र दाति नः ॥७।

यस्मै त्वम् वसो दानाय मन्हसे स रायस् पोषम् इन्वति ।
वसूयवो वसु पतिम् शत क्रतुम् स्तोमैर् इन्द्रम् हवामहे ।
कदा चन प्र युच्छस्य् उब्ः नि पासि जन्मनी ।
तुरीयादित्य सवनम् तेन्द्रियम् आ तस्थाव् अमृतम् दिवि ।
यस्मै त्वम् मघवन्न् इन्द्र गिर्वणस् शिक्षो शिक्षति दाशुषे ।
अस्माकम् गिरोत सुष्टुतिम् वसो कण्ववत् शृणुधी हवम् ।
अस्तावि मन्म पूर्व्यम् ब्रह्मेन्द्राय वोचत ।
पूर्वीर् ऋतस्य बृहतिर् अनूषत स्तोतुर् मेधासृक्षत ।
सम् इन्द्रो रायो बृहतीर् अधूनुत सम् क्षोणी सम् उ सूर्यम् ।
सम् शुक्रासश् शुचयस् सम् गवाशिरस् सोमेन्द्रम् अमन्दिषुः ॥८ ( प् ९२ )



३,४ १ यथा मनौ विवस्वति सोमम् शक्रापिबस् सुतम् ।
३,४ १ यथा त्रिते छन्देन्द्र जुजोषस्य् आयौ मादयसे सचा ।
३,४ २ पृषध्रेध्ये मातरिश्वनीन्द्र सुवानेऽमन्दथः ।
३,४ २ यथा सोमम् दश सिप्रे दशोण्ये ( दशोण्ये ) स्यूम रश्माव् ऋजीनसि ।
३,४ ३ योक्था केवला दधे यस् सोमम् धृषतापिबत् ।
३,४ ३ यस्मै विष्णुस् त्रीणि पदा विचक्रमोप मित्रस्य धर्मभिः ।
३,४ ४ यस्य त्वम् इन्द्र स्तोमेषु चाकनो वाजे वाजिन् शत क्रतो ।
३,४ ४ तन् त्वा वयम् सुदुघाम् इव गोदुहे जुहूमसि श्रवस्सु च ।
_____________________________________
३,४ ५ यो नो दाता स नः पिता महान् उग्रेशान कृत् ।
३,४ ५ अयामन्न् उग्रो मघवा पुरूवसुर् गोर् अश्वस्य प्र दाति नः ॥७
३,४ ६ यस्मै त्वम् वसो दानाय मन्हसे स रायस् पोषम् इन्वति ।
३,४ ६ वसूयवो वसु पतिम् शत क्रतुम् स्तोमैर् इन्द्रम् हवामहे ।
३,४ ७ कदा चन प्र युच्छस्य् उब्ः नि पासि जन्मनी ।
३,४ ७ तुरीयादित्य सवनम् तेन्द्रियम् आ तस्थाव् अमृतम् दिवि ।
३,४ ८ यस्मै त्वम् मघवन्न् इन्द्र गिर्वणस् शिक्षो शिक्षति दाशुषे ।
३,४ ८ अस्माकम् गिरोत सुष्टुतिम् वसो कण्ववत् शृणुधी हवम् ।
३,४ ९ अस्तावि मन्म पूर्व्यम् ब्रह्मेन्द्राय वोचत ।
३,४ ९ पूर्वीर् ऋतस्य बृहतिर् अनूषत स्तोतुर् मेधासृक्षत ।
३,४ १० सम् इन्द्रो रायो बृहतीर् अधूनुत सम् क्षोणी सम् उ सूर्यम् ।
३,४ १० सम् शुक्रासश् शुचयस् सम् गवाशिरस् सोमेन्द्रम् अमन्दिषुः ॥८ ( प् ९२ )
_____________________________________

उपमं त्वा मघोनाम् ज्येष्ठम् च वृषभाणाम्पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानम् रायेमहे ।

यायन् कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे दिवे उपमं त्वा मघोनाम् ज्येष्ठम् च वृषभाणाम् ।

पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानम् रायेमहे ।

यायन् कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे दिवे ।
पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानम् रायेमहे ।
यायन् कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे दिवे ।
पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानम् रायेमहे ।
यायन् कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे दिवे ।

3.5
उपमं त्वा मघोनाम् ज्येष्ठम् च वृषभाणाम् ।
पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानम् रायेमहे ।
यायन् कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे दिवे ।
_____________________________________
तन् त्वा वयम् हर्यश्वम् शतक्रतुम् वाजयन्तो हवामहे ।
आ नो विश्वेषाम् रसम् मध्वस् सिञ्चन्त्य् अद्रयः ।
ये परावति सुन्विरे जनेष्व् आ येऽर्वावतीन्दवः ।
विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सुन्वन्त्व् आ वसु ।
शीर्ष्टेषु चित् ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ।
इन्द्र नेदीयेद् इहि मित मेधाभिर् ऊतिभिः ।
आ शन्तम शंतमाभिर् अभिष्टिभिर् आ स्वापे स्वापिभिः ।
आजि तुरम् सत्पतिम् विश्व चर्षणिम् कृधि प्रजास्व् आभगम् ।
प्र सू तिरा शचीभिर् ये तोक्थिनः क्रतुम् पुनतानुषक् ।
यस् ते साधिष्ठो अवसे ते स्याम भरेषु ते ।
वीतिहोत्राभिर् उत देव हूतिभिस् ससवांसो विशृण्विरे 
अहम् हि ते हरिवो ब्रह्म वाजयुर् आजिम् यामि सदोतिभिः ।
त्वाम् इद् एव तम् अमे सम् अश्वयुर् गव्युर् अग्रे मतीनाम् ॥१०

____________________________________________
३,५ १ उपमन् त्वा मघोनाम् ज्येष्ठम् च वृषभाणाम् ।
३,५ १ पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानम् रायेमहे ।
_____________________________________       

३,५ २ यायन् कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे दिवे ।
३,५ २ तन् त्वा वयम् हर्यश्वम् शतक्रतुम् वाजयन्तो हवामहे ।
३,५ ३ आ नो विश्वेषाम् रसम् मध्वस् सिञ्चन्त्य् अद्रयः ।
३,५ ३ ये परावति सुन्विरे जनेष्व् आ येऽर्वावतीन्दवः ।
३,५ ४ विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सुन्वन्त्व् आ वसु ।
________________________________   
 

३,५४-शीर्ष्टेषु चित् ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ।

शीर्ष्टेषु चित् ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ।
३,५ ५ इन्द्र नेदीयेद् इहि मित मेधाभिर् ऊतिभिः ।
३,५ ५ आ शन्तम शंतमाभिर् अभिष्टिभिर् आ स्वापे स्वापिभिः ।
३,५ ६ आजि तुरम् सत्पतिम् विश्व चर्षणिम् कृधि प्रजास्व् आभगम् ।
३,५ ६ प्र सू तिरा शचीभिर् ये तोक्थिनः क्रतुम् पुनतानुषक् ।
३,५ ७ यस् ते साधिष्ठो अवसे ते स्याम भरेषु ते ।
३,५ ७ वीतिहोत्राभिर् उत देव हूतिभिस् ससवांसो विशृण्विरे ।
३,५ ८ अहम् हि ते हरिवो ब्रह्म वाजयुर् आजिम् यामि सदोतिभिः ।
३,५ ८ त्वाम् इद् एव तम् अमे सम् अश्वयुर् गव्युर् अग्रे मतीनाम् ॥१०

3.6
एतत्त इन्द्र वीर्यम् गीर्भिर् गृणन्ति कारवः ।
ते स्तोभन्तोर्जम् आवन् घृत श्चुतम् पप्रासो नक्षन् धीतिभिः ।
_____________________________________
नक्षन्तेन्द्रम् अवसे षुकृत्यया येषाम् सुतेषु मन्दसे ।
यथा संवर्तेऽमदो यथा कृशैवास्मे इन्द्र मत्स्व ।
आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।
वसवो रुद्रावसे ना गमम् शृण्वन्तु मरुतो हवम् ।
पूषा विष्णुर् हवनम् मेऽरस्वत्य् अवन्तु सप्त सिन्धवः ।
_____________________________________
आपो वातः पर्वतासो वनस्पतिश् शृणोतु पृथिवी हवम् ॥११
यद् इन्द्र राधो अस्ति ते मघोनम् मघवत्तम ।
तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् । 
( प् ९४ )
आजिपते नृपते त्वम् इद् धि नो वाजाभक्षि सुक्रतो ।
वयम् होत्राभिर् उत देव हूतिभिस् ससवांसो मनामहे ।
सन्ति ह्य् अर्याशिषेन्द्रायुर् जनानाम् ।
अस्मान् नक्षस्व मघवन्न् उपावसे धुक्षस्व पिप्युषीम् इषम् ।
वयम् तेन्द्र स्तोमेभिर् विधेम त्वम् अस्माकम् शतक्रतो ।
_____________________________________
महि स्थूरम् शशयम् राधो अह्रयम् प्रस्कण्वायेन्तोसय ॥१२


३,६ १ एतत् तेन्र वीर्यम् गीर्भिर् गृणन्ति कारवः ।
३,६ १ ते स्तोभन्तोर्जम् आवन् घृत श्चुतम् पप्रासो नक्षन् धीतिभिः ।
_____________________________________
३,६ २ नक्षन्तेन्द्रम् अवसे षुकृत्यया येषाम् सुतेषु मन्दसे ।
३,६ २ यथा संवर्तेऽमदो यथा कृशैवास्मे इन्द्र मत्स्व ।
_____________________________________
३,६ ३ आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।
३,६ ३ वसवो रुद्रावसे ना गमम् शृण्वन्तु मरुतो हवम् ।
३,६ ४ पूषा विष्णुर् हवनम् मेऽरस्वत्य् अवन्तु सप्त सिन्धवः ।
३,६ ४ आपो वातः पर्वतासो वनस्पतिश् शृणोतु पृथिवी हवम् ॥११
३,६ ५ यद् इन्द्र राधो अस्ति ते मघोनम् मघवत्तम ।
३,६ ५ तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् । ( प् ९४ )
३,६ ६ आजिपते नृपते त्वम् इद् धि नो वाजाभक्षि सुक्रतो ।
३,६ ६ वयम् होत्राभिर् उत देव हूतिभिस् ससवांसो मनामहे ।
३,६ ७ सन्ति ह्य् अर्याशिषेन्द्रायुर् जनानाम् ।
३,६ ७ अस्मान् नक्षस्व मघवन्न् उपावसे धुक्षस्व पिप्युषीम् इषम् ।
३,६ ८ वयम् तेन्द्र स्तोमेभिर् विधेम त्वम् अस्माकम् शतक्रतो ।
३,६ ८ महि स्थूरम् शशयम् राधो अह्रयम् प्रस्कण्वायेन्तोसय ॥१२

3.7
भूरीद् इन्द्रस्य वीर्यम् व्य् अख्यम् अभ्याजति ।
राधस् ते दस्यवे वृक ।
शतम् श्वेतासोक्षणो दिवि तारो न रोचन्ते ।
मह्नेवन् न तस्तभुः ।
शतम् वेणुम् शतम् शुनस् शतम् चर्मणी लातानि ।
शतम् मे बल्बज स्तुकारुषीणाम् चतुश्शतम् ।
सुदेवास् स्थ कण्वायना वयो वयो विचरन्तः ।
अश्वासो न चङ्क्षमत ।
आद् इत् सप्तस्य चर्किरन्न् आनूनम् च महि श्रवः ।
श्यावीर् अतिध्वसन् पथस् चक्षुषा चन सन्नशे ॥१३

_____________________________________
३,७ १ भूरीद् इन्द्रस्य वीर्यम् व्य् अख्यम् अभ्याजति ।
३,७ १ राधस् ते दस्यवे वृक ।
३,७ २ शतम् श्वेतासोक्षणो दिवि तारो न रोचन्ते ।
३,७ २ मह्नेवन् न तस्तभुः ।
३,७ ३ शतम् वेणुम् शतम् शुनस् शतम् चर्मणी ंलातानि ।
३,७ ३ शतम् मे बल्बज स्तुकारुषीणाम् चतुश्शतम् ।
३,७ ४ सुदेवास् स्थ कण्वायना वयो वयो विचरन्तः ।
३,७ ४ अश्वासो न चङ्क्षमत ।
३,७ ५ आद् इत् सप्तस्य चर्किरन्न् आनूनम् च महि श्रवः ।
३,७ ५ श्यावीर् अतिध्वसन् पथस् चक्षुषा चन सन्नशे ॥१३

3.8
प्रति ते दस्यवे वृक राधो अदर्श्य् अह्रयम् ।
द्यौर् न प्रथिना शवः ।
दश मह्यम् पूत क्रतुस् सहस्रा दस्यवे वृकः ।
नित्याद् रायो अमन्हत ।
शतम् मे गर्दभानाम् शतम् ऊर्णावतीनाम् ।
शतम् दाशम् अधि स्रजः । ( प् ९४ )
तत्रो अपि प्राणीयत पूत क्रतायी व्यक्ता ।
अश्वानाम् इन् न यूथ्यम् ।
अचेत्य् अग्निश् चिकितिर् हव्यवाट् स सुमद्रथः ।
अग्निश् शुक्रेण शोचिषा बृहत् सूर्यो अरोचत दिवि सूर्यो अरोचत ।
अग्नायाह्य् अग्निभिः ॥१४

३,८ १ प्रति ते दस्यवे वृक राधो अदर्श्य् अह्रयम् ।
३,८ १ द्यौर् न प्रथिना शवः ।
३,८ २ दश मह्यम् पूत क्रतुस् सहस्रा दस्यवे वृकः ।
३,८ २ नित्याद् रायो अमन्हत ।
३,८ ३ शतम् मे गर्दभानाम् शतम् ऊर्णावतीनाम् ।
३,८ ३ शतम् दाशम् अधि स्रजः । ( प् ९४ )
३,८ ४ तत्रो अपि प्राणीयत पूत क्रतायी व्यक्ता ।
३,८ ४ अश्वानाम् इन् न यूथ्यम् ।
३,८ ५ अचेत्य् अग्निश् चिकितिर् हव्यवाट् स सुमद्रथः ।
३,८ ५ अग्निश् शुक्रेण शोचिषा बृहत् सूर्यो अरोचत दिवि सूर्यो अरोचत ।
३,८ ५ अग्नायाह्य् अग्निभिः ॥१४

3.9

त्वम् द्रप्सम् धनुषा युध्यमानम् उपातिष्ठो मघवन्न् अंशुमत्याः ।

प्र शूरापस् सनिता धनानीन्द्र तानि ते पुरुकृत् सहांसि।
त्वम् ह त्यत् सप्तभ्यो जायमानः ॥१५
त्वम् द्रप्सम् धनुषा युध्यमानम् उपातिष्ठो मघवन्न् अंशुमत्याः ।
प्र शूरापस् सनिता धनानीन्द्र तानि ते पुरुकृत् सहांसि।
त्वम् ह त्यत् सप्तभ्यो जायमानः ॥१५


३,९ १ त्वम् द्रप्सम् धनुषा युध्यमानम् उपातिष्ठो मघवन्न् अंशुमत्याः ।
३,९ १ प्र शूरापस् सनिता धनानीन्द्र तानि ते पुरुकृत् सहांसि ।
३,९ १ त्वम् ह त्यत् सप्तभ्यो जायमानः ॥१५


_____________________________________
3.10
अधोलिखितं ऋ. ९.६७ अनन्तरं पठनीयम्--

पावमानीस् स्वस्त्ययनीस् सुदुघा हि घृतश्चुतः ।
ऋषिभिस् सम्भृतो रसो ब्राह्मणेष्व् अमृतम् हितम् ।१
पावमानीर् दिशन्तु न इमम् लोकम् अथो अमुम् ।
कामान् समर्धयन्तु नो देवैर् देवीस् समाहृताः ।२
येन देवाः पवित्रेणात्मानम् पुनते सदा ।
तेन सहस्रधारेण पावमान्यः पुनन्तु मा ।३
प्राजापत्यम् पवित्रम् शतोद्यामम् हिरण्मयम् ।
तेन ब्रह्मविदो वयम् पूतम् ब्रह्म पुनीमहे ।४
इन्द्रस् सुनीती सह मा पुनातु सोमस् स्वस्त्या वरुणस् समीच्या ।
_____________________________________
यमो राजा प्रमृणाभिः पुनातु माम् जातवेदा मोर्जयन्त्या पुनातु ।५
पावमानीस् स्वस्त्ययनीर् याभिर् गच्छति नान्दनम् ।
पुण्यांश् च भक्षान् भक्षयत्यमृतत्वम् च गच्छति ।६
प्र देवम् अच्छा मधुमन्त ॥(ऋ. ९.६८.१)



यन् मे गर्भे वसतः पापम् उग्रम् यज् जायमानस्य च किंचिद् अन्यत् ।
जातस्य च यच् चापि च वर्धतो मे तत् पावमानीभिर् अहम् पुनामि । १
माता पित्रोर् यन् न कृतम् वचो मे यत् स्थावरम् जङ्गमम् आबभूव ।
विश्वस्य यत् प्रहृषितम् वचो मे तत् पावमानीभिर् अहम् पुनामि ।२
क्रय विक्रयाद् योनि दोषाद् भक्षाद् भोज्यात् प्रतिग्रहात् ।
असम्भोजनाच् चापि नृशंसम् तत् पावमानीभिर् अहम् पुनामि ।३
_____________________________________
गोघ्नात् तस्करत्वात् स्त्री वधाद् यच् च किल्बिषम् ।
पापकम् च चरणेभ्यस् तत् पापवानीभिर् अहम् पुनामि ।४
ब्रह्म वधात् सुरा पानात् सुवर्ण स्तेयाद् वृषलि मिथुन संगमात् ।
गुरोर् दाराभिगमनाच् च तत् पापवानीभिर् अहम् पुनामि । ५।
_____________________________________
बालघ्नान् मातृ पितृ वधाद् भूमि तस्करात् सर्व वर्ण गमन मिथुन संगमात् ।
पापेभ्यश् च प्रतिग्रहात् सद्यः प्रहरन्ति सर्व दुष्कृतम् तत् पावमानीभिर् अहम् पुनामि ।६
अमन्त्रम् अन्नम् यत् किंचिद्द् हूयते च हुताशने ।
संवत्सर कृतम् पापम् तत् पावमानीभिर् अहम् पुनामि ।७।

दुर्यष्टम् दुरधीतम् पापम् यच् चाज्ञानतो कृतम् ।
अयाजिताश् चासम्याज्यास् तत् पावमानीभिर् अहम् पुनामि ।८
ऋतस्य योनयो अमृतस्य धाम सर्वा देवेभ्यः पुण्य गन्धा ।
ता नापः प्रवहन्तु पापम् श्र्द्धा गच्छामि सुकृताम् उ लोकम् तत् पावमानीभिर् अहम् पुनामि ।९
१० = का ५
११ - १४ = का १ - ४
१५= का ६
पावमानीम् पितॄन् देवान् ध्यायेद् यश् च सरस्वतीम् ।
पितॄंस् तस्योपतिष्ठेत क्षीरम् सर्पिर् मधूदकम् ।१६
ऋषयस् तु तपस् तेपुः सर्वे स्वर्ग जिगीषवः ।
तपसस् तपसो अग्र्यम् तु पावमानीर् ऋचो जपेत् ।१७
पावमानम् परम् ब्रह्म ये पठन्ति मनीषिणः ।
सप्त जन्म भवेद् विप्रो धनाढ्यो वेद पारगः । १८
दशोत्तराण्य् ऋचाम् चैतत् पावमानीः शतानि षट् ।
एतज् जुह्वम् जपंश् चैव घोरम् मृत्यु भयम् जयेत् । १९
पावमानम् परम् ब्रह्म शुक्र ज्योतिः सनातनम् ।
ऋषींस् तस्योपतिष्ठेत क्षीरम् सर्पिर् मधूदकम् । २०

३,१० १ यन् मे गर्भे वसतः पापम् उग्रम् यज् जायमानस्य च किंचिद् अन्यत् ।
३,१० १ जातस्य च यच् चापि च वर्धतो मे तत् पावमानीभिर् अहम् पुनामि । ( प् ९६ )
३,१० २ माता पित्रोर् यन् न कृतम् वचो मे यत् स्थावरम् जङ्गमम् आबभूव ।
३,१० २ विश्वस्य यत् प्रहृषितम् वचो मे तत् पावमानीभिर् अहम् पुनामि ।
३,१० ३ क्रय विक्रयाद् योनि दोषाद् भक्षाद् भोज्यात् प्रतिग्रहात् ।
३,१० ३ असम्भोजनाच् चापि नृशंसम् तत् पावमानीभिर् अहम् पुनामि ।
३,१० ४ गोघ्नात् तस्करत्वात् स्त्री वधाद् यच् च किल्बिषम् ।
३,१० ४ पापकम् च चरणेभ्यस् तत् पापवानीभिर् अहम् पुनामि ।
३,१० ५ ब्रह्म वधात् सुरा पानात् सुवर्ण स्तेयाद् वृषलि मिथुन संगमात् ।
३,१० ५ गुरोर् दाराभिगमनाच् च तत् पापवानीभिर् अहम् पुनामि ।
३,१० ६ बालघ्नान् मातृ पितृ वधाद् भूमि तस्करात् सर्व वर्ण गमन मिथुन संगमात् ।
३,१० ६ पापेभ्यश् च प्रतिग्रहात् सद्यः प्रहरन्ति सर्व दुष्कृतम् तत् पावमानीभिर् अहम् पुनामि ।
३,१० ७ अमन्त्रम् अन्नम् यत् किंचिद्द् हूयते च हुताशने ।
३,१० ७ संवत्सर कृतम् पापम् तत् पावमानीभिर् अहम् पुनामि ।
३,१० ८ दुर्यष्टम् दुरधीतम् पापम् यच् चाज्ञानतो कृतम् ।
३,१० ८ अयाजिताश् चासम्याज्यास् तत् पावमानीभिर् अहम् पुनामि ।
३,१० ९ ऋतस्य योनयो अमृतस्य धाम सर्वा देवेभ्यः पुण्य गन्धा ।
३,१० ९ ता नापः प्रवहन्तु पापम् श्र्द्धा गच्छामि सुकृताम् उ लोकम् तत् पावमानीभिर् अहम् पुनामि ।
३,१० १० १० = व्स् ५ देस्ंस्
३,१० १११४ = व्स्स् १४ देस्ंस्॑ १५=ओबिगें व्स् ६ देस्ंस्
३,१० १६ पावमानीम् पितॄन् देवान् ध्यायेद् यश् च सरस्वतीम् ।
३,१० १६ पितॄंस् तस्योपतिष्ठेत क्षीरम् सर्पिर् मधूदकम् ।
३,१० १७ ऋषयस् तु तपस् तेपुः सर्वे स्वर्ग जिगीषवः ।
३,१० १७ तपसस् तपसो अग्र्यम् तु पावमानीर् ऋचो जपेत् ।
३,१० १८ पावमानम् परम् ब्रह्म ये पठन्ति मनीषिणः ।
_________________________________________________

३-१०-१८सप्त जन्म भवेद् विप्रो धनाढ्यो वेद पारगः 


३,१० १८ सप्त जन्म भवेद् विप्रो धनाढ्यो वेद पारगः ।
३,१० १९ दशोत्तराण्य् ऋचाम् चैतत् पावमानीः शतानि षट् ।
३,१० १९ एतज् जुह्वम् जपंश् चैव घोरम् मृत्यु भयम् जयेत् ।
३,१० २० पावमानम् परम् ब्रह्म शुक्र ज्योतिः सनातनम् ।
३,१० २० ऋषींस् तस्योपतिष्ठेत क्षीरम् सर्पिर् मधूदकम् ।
( प् ९७ )
_____________________________________
3.11
इडैव ( वाम् अनुवस्ताम् घृतेन यस्याः पदे पुन ) ते ( पुनते ) देवयन्तः ।
घृत पदी शक्वरी सोम पृष्ठोप यज्ञम् अस्थित वैश्वदेवी ।
वैश्वदेवी पुनती देव्य् आ ( गाअद् ( आगाद् ) यस्याम् इमा बह्व्यस् त ) न्वो ( तन्वो ) वीत पृष्ठाः ।
तया मदन्तस् सध माध्येषु वयम् स्याम पतयो रयिणाम् ।
प्र तु द्रव परि कोशन् निषीद ॥१७


३,११ १ इडैव ( वाम् अनुवस्ताम् घृतेन यस्याः पदे पुन ) ते ( पुनते ) देवयन्तः ।
३,११ १ घृत पदी शक्वरी सोम पृष्ठोप यज्ञम् अस्थित वैश्वदेवी ।
३,११ २ वैश्वदेवी पुनती देव्य् आ ( गाअद् ( आगाद् ) यस्याम् इमा बह्व्यस् त ) न्वो ( तन्वो ) वीत पृष्ठाः ।
३,११ २ तया मदन्तस् सध माध्येषु वयम् स्याम पतयो रयिणाम् ।
३,११ २ प्र तु द्रव परि कोशन् निषीद ॥१७

3.12
यत्र लोक्यास् तनु त्यजाश् श्रद्धया तपसा जिताः ।
तेजश् च यत्र ब्रह्म च तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव । ( प् ९८ )
यत्र देवा महात्मानस् सेन्द्रस् ( सेन्द्रस् ) समरुद् गणाः ।

ब्रह्मा च यत्र विष्णुश् च तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव ।

ब्रह्मा च यत्र विष्णुश् च तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव ।
यत्र तत् परमम् पदम् विष्णोर् लोके महीयते ।
देवैस् सुकृत कर्मभिस् तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव ।
यत्रानन्दाश् च मोदाश् च ॥१८

३,१२ १ यत्र लोक्यास् तनु त्यजाश् श्रद्धया तपसा जिताः ।
३,१२ १ तेजश् च यत्र ब्रह्म च तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव । ( प् ९८ )
३,१२ २ यत्र देवा महात्मानस् सेन्द्रस् ( सेन्द्रस् ) समरुद् गणाः ।
_____________________________________
३,१२ २ ब्रह्मा च यत्र विष्णुश् च तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव ।
३,१२ ३ यत्र तत् परमम् पदम् विष्णोर् लोके महीयते ।
३,१२ ३ देवैस् सुकृत कर्मभिस् तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव ।
यत्रानन्दाश् च मोदाश् च ॥१८

3.13
सस्रुषीस् तद् अपसो दिवा नक्तम् च सस्रुषीः ।
वरेण्य क्रतुर् अहम् आ देवीर् अवसा हुवे ।
ओ चित् सखायम् सख्या ववृत्याम् ॥१९ ( प् ९९ )


३,१३ १ सस्रुषीस् तद् अपसो दिवा नक्तम् च सस्रुषीः ।
३,१३ १ वरेण्य क्रतुर् अहम् आ देवीर् अवसा हुवे ।
३,१३ १ ओ चित् सखायम् सख्या ववृत्याम् ॥१९ 
( प् ९९ )

3.14
एहीन्द्र वसुमता रथेन साकम् सोमम् अपिबन् मदाय ।
हृत्सु पीत्वा मन्दसानो मरुद्भिस् स्तीर्णम् याहि वृत्र हत्याय वज्री ।
इन्द्र सोमम् इमम् पिब ॥२० ( प् १०० )

३,१४ १ एहीन्द्र वसुमता रथेन साकम् सोमम् अपिबन् मदाय ।
३,१४ १ हृत्सु पीत्वा मन्दसानो मरुद्भिस् स्तीर्णम् याहि वृत्र हत्याय वज्री ।
३,१४ १ इन्द्र सोमम् इमम् पिब ॥२० ( प् १०० )

3.15
मम व्रते हृदयम् ते दधामि मम चित्तम् अनु चित्तम् तेऽस्तु ।
मम वाचम् एक व्रता जुषस्व बृहस्पतिस् त्वा नियुनक्तु मह्यम् ।
धाता त्वा मह्यम् अददन् मह्यम् धाता दधातु त्वा ।
प्र धाता त्वा मह्यम् प्रायच्छन् मह्यम् त्वानुमतिर् ददौ ।
अनुमतेनु मन्यस्व स्वानुमतेनु मन्यस्व ।
मह्यम् एनम् सम् आकुरु वाचा चक्षुषा मनसा मयि सम्यतम् ।
आहरयत् ते हृदयम् तद् अस्तु हृदयम् मम ।
अथो यन् मम हृदयम् तद् अस्तु हृदयम् तव ।
हृदयेन हृदयम् प्राणेन प्राणम् अगृभम् ।
गृभ्णामि चक्षुषा चक्षुर् गृभ्णामि मनसा मनः ।
आकूतम् चित्तम् चक्षुश् श्रोत्रम् अथो बलम् ।
श्रियम् याम् देवा जग्मुस् तया बध्नामि ते मनः ।
अन्नमयेन मणिना प्राण सूत्रेण पृश्निना ।
बध्नामि सत्य ग्रथिना हृदयम् च मनश् च ते ।
आवर्तनम् निवर्तनम् मया संवननम् तव ।
इन्द्राग्न्यश्विनोभा त्वष्टा धाता च चक्रतुः ।
येन चित्तेन वदसि येन त्वान्यो अभिदासति ।
सर्वम् तद् अग्नाभर मह्यम् दासाय राध्यः ।
अनुवनम् सुवनम् उद्वनम् वनम् ।
घर्मस्य पश्य रूपाणि तेन बध्नामि ते मनः ॥२२ ( प् १०० )
सम् मा विशन्तु पशवस् सम् मा विशन्त्व् ओषधीः ।
सम् मा विशन्तु राजानो यथाहम् कामये तथा ।
अनन्त रोहम् तुभ्यम् भूयासम् हृदयम् मे भूयासम् अनन्तरम् ।
_____________________________________
सभा सम् आसाव् इतुश् चावताम् उभे प्रजापतेर् दुहितारौ सचेतसौ ।
संगथेषु पदे चारु नमो वैश्वानरायाधि ।
( ) य पदेन ता ते प्राणान् समाददे ।
अथो एतत् समाददे यद् अन्येषु जनेषु च ।
अहम् ते चक्षुषा चक्षुर् अहम् ते मनसा मनः ।
अहम् गन्धर्व रूपेण सनावर्तयामि ते ।२३।
_____________________________________
_____________________________________

हत चित्तो हत मनो हतो अन्येषु ते मनः ।

सर्वेषु कृष्ण केशेषु हतो अन्येषु ते मनः ।

सर्वेषु कृष्ण केशेषु हतो अन्येषु ते मनः ।
माम् चैव पश्य सूर्यम् च मा तृतीयम् कदाचन ।
स्मृतिर् असि काम संजननी मयि ते कामो अस्तु ।
यत् ते मनो वरेण्यम् लोकेषु बहुधा कृतम् ।
समुद्रम् इव सरितस् सर्वम् त्वानुवर्तयामसि ।
आदीपयामि ते हृदयम् अग्ना मे व प्रदीपयामसि ।
एष ते हृदयेङ्गारो दीप्तस् तेऽस्मि दह्यसे ।
मया ते दह्यमानस्याग्निर् दांसेन न तृप्यतु भूमिर् दांसेन तृप्यतु ॥२४
हत चित्तो हत मनो हतो अन्येषु ते मनः ।
सर्वेषु कृष्ण केशेषु हतो अन्येषु ते मनः ।
माम् चैव पश्य सूर्यम् च मा तृतीयम् कदाचन ।
स्मृतिर् असि काम संजननी मयि ते कामो अस्तु ।
यत् ते मनो वरेण्यम् लोकेषु बहुधा कृतम् ।
समुद्रम् इव सरितस् सर्वम् त्वानुवर्तयामसि ।
आदीपयामि ते हृदयम् अग्ना मे व प्रदीपयामसि ।
एष ते हृदयेङ्गारो दीप्तस् तेऽस्मि दह्यसे ।
मया ते दह्यमानस्याग्निर् दांसेन न तृप्यतु भूमिर् दांसेन तृप्यतु ॥२४
चित्तम् च ते मनश् च ते मयि धाता नियच्छतु ।
मयि ते चित्तम् आयत्तम् मनस् ते मयि समश्नुते ।
आवृतास् ते मया प्रा (
२५ ब्लन्क्
नष्टम् ते कृपम् अन्यस्मिन् मयि ते रमताम् मनः ।
अनु ( ) मनः ।
चक्षुश् श्रोत्रम् चाधीतम् च सर्वम् तेऽहम् आददे ।
हृद्यर्षिर् अजायत दे ( ) । ( प् १०१ )
तद् एवैष्व् अदधुर् हृदयेष्व् अर्थ दर्शिनम् ।
सर्वज्ञम् सर्व दर्शिनम् स नः कर्माणि साधय ।
ये ( ) स्तव जातवेदः प्रविष्टाग्निर् दुर्हृदयस्य कर्म ।
तेषाम् अहम् भागधेयम् जुहोमि तम् मा देवास् सर्वैः कामैस् तर्पयन्ताम् ।
भृगूणाम् अङ्गिरसाम् तपसो गृण सम्यतम् ।
कुशिकाभ्यवराणाम् च मनावर्तयामि ते ।
यत् ते मनो वरेण्यम् लोकेषु बहुधा कृतम् ।
तत् तावर्तयामस्य् अध्रिश् चाहश् च ब्राह्मणः ।
यत् कक्षीवान् संवननम् पुत्रो अङ्गिरसाम् अवेत् ।
तेन नो अद्य विश्वे देवास् सम् प्रियाम् सम् अवीवनन् ॥२६ ( प् १०२ )


३,१५ १ मम व्रते हृदयम् ते दधामि मम चित्तम् अनु चित्तम् तेऽस्तु ।
३,१५ १ मम वाचम् एक व्रता जुषस्व बृहस्पतिस् त्वा नियुनक्तु मह्यम् ।
३,१५ २ धाता त्वा मह्यम् अददन् मह्यम् धाता दधातु त्वा ।
३,१५ २ प्र धाता त्वा मह्यम् प्रायच्छन् मह्यम् त्वानुमतिर् ददौ ।
३,१५ ३ अनुमतेनु मन्यस्व स्वानुमतेनु मन्यस्व ।
३,१५ ३ मह्यम् एनम् सम् आकुरु वाचा चक्षुषा मनसा मयि सम्यतम् ।
३,१५ ४ आहरयत् ते हृदयम् तद् अस्तु हृदयम् मम ।
३,१५ ४ अथो यन् मम हृदयम् तद् अस्तु हृदयम् तव ।
३,१५ ५ हृदयेन हृदयम् प्राणेन प्राणम् अगृभम् ।
३,१५ ५ गृभ्णामि चक्षुषा चक्षुर् गृभ्णामि मनसा मनः ।
३,१५ ६ आकूतम् चित्तम् चक्षुश् श्रोत्रम् अथो बलम् ।
३,१५ ६ श्रियम् याम् देवा जग्मुस् तया बध्नामि ते मनः ।
३,१५ ७ अन्नमयेन मणिना प्राण सूत्रेण पृश्निना ।
३,१५ ७ बध्नामि सत्य ग्रथिना हृदयम् च मनश् च ते ।
३,१५ ८ आवर्तनम् निवर्तनम् मया संवननम् तव ।
३,१५ ८ इन्द्राग्न्यश्विनोभा त्वष्टा धाता च चक्रतुः ।
३,१५ ९ येन चित्तेन वदसि येन त्वान्यो अभिदासति ।
३,१५ ९ सर्वम् तद् अग्नाभर मह्यम् दासाय राध्यः ।
३,१५ १० अनुवनम् सुवनम् उद्वनम् वनम् ।
३,१५ १० घर्मस्य पश्य रूपाणि तेन बध्नामि ते मनः ॥२२ ( प् १०० )
३,१५ ११ सम् मा विशन्तु पशवस् सम् मा विशन्त्व् ओषधीः ।
३,१५ ११ सम् मा विशन्तु राजानो यथाहम् कामये तथा ।
३,१५ १२ अनन्त रोहम् तुभ्यम् भूयासम् हृदयम् मे भूयासम् अनन्तरम् ।
_____________________________________
_____________________________________
३,१५ १३ सभा सम् आसाव् इतुश् चावताम् उभे प्रजापतेर् दुहितारौ सचेतसौ ।
३,१५ १३ संगथेषु पदे चारु नमो वैश्वानरायाधि ।
३,१५ १४ ( ) य पदेन ता ते प्राणान् समाददे ।
३,१५ १४ अथो एतत् समाददे यद् अन्येषु जनेषु च ।
३,१५ १५ अहम् ते चक्षुषा चक्षुर् अहम् ते मनसा मनः ।
३,१५ १५ अहम् गन्धर्व रूपेण सनावर्तयामि ते ।२३
३,१५ १६ हत चित्तो हत मनो हतो अन्येषु ते मनः ।
_____________________________________
_____________________________________
३,१५ १६ सर्वेषु कृष्ण केशेषु हतो अन्येषु ते मनः ।
३,१५ १७ माम् चैव पश्य सूर्यम् च मा तृतीयम् कदाचन ।
३,१५ १८ स्मृतिर् असि काम संजननी मयि ते कामो अस्तु ।
३,१५ १८ यत् ते मनो वरेण्यम् लोकेषु बहुधा कृतम् ।
३,१५ १९ समुद्रम् इव सरितस् सर्वम् त्वानुवर्तयामसि ।
३,१५ १९ आदीपयामि ते हृदयम् अग्ना मे व प्रदीपयामसि ।
३,१५ २० एष ते हृदयेङ्गारो दीप्तस् तेऽस्मि दह्यसे ।
३,१५ २० मया ते दह्यमानस्याग्निर् दांसेन न तृप्यतु भूमिर् दांसेन तृप्यतु ॥२४
३,१५ २१ चित्तम् च ते मनश् च ते मयि धाता नियच्छतु ।
३,१५ २१ मयि ते चित्तम् आयत्तम् मनस् ते मयि समश्नुते ।
३,१५ २२ आवृतास् ते मया प्रा (
३,१५ २२ २५ ब्लन्क्
३,१५ २६ नष्टम् ते कृपम् अन्यस्मिन् मयि ते रमताम् मनः ।
३,१५ २६ अनु ( ) मनः ।
३,१५ २७ चक्षुश् श्रोत्रम् चाधीतम् च सर्वम् तेऽहम् आददे ।
३,१५ २७ हृद्यर्षिर् अजायत दे ( ) । ( प् १०१ )
३,१५ २८ तद् एवैष्व् अदधुर् हृदयेष्व् अर्थ दर्शिनम् ।
३,१५ २८ सर्वज्ञम् सर्व दर्शिनम् स नः कर्माणि साधय ।
३,१५ २९ ये ( ) स्तव जातवेदः प्रविष्टाग्निर् दुर्हृदयस्य कर्म ।
३,१५ २९ तेषाम् अहम् भागधेयम् जुहोमि तम् मा देवास् सर्वैः कामैस् तर्पयन्ताम् ।
३,१५ ३० भृगूणाम् अङ्गिरसाम् तपसो गृण सम्यतम् ।
३,१५ ३० कुशिकाभ्यवराणाम् च मनावर्तयामि ते ।
३,१५ ३१ यत् ते मनो वरेण्यम् लोकेषु बहुधा कृतम् ।
३,१५ ३१ तत् तावर्तयामस्य् अध्रिश् चाहश् च ब्राह्मणः ।
३,१५ ३२ यत् कक्षीवान् संवननम् पुत्रो अङ्गिरसाम् अवेत् ।
३,१५ ३२ तेन नो अद्य विश्वे देवास् सम् प्रियाम् सम् अवीवनन् ॥२६ ( प् १०२ )
_____________________________________
_____________________________________
3.16
उत्तुदैनम् गृहपते ज्ञातेभ्यश् शयनाद् अधि ।
ग्रीवा गृहीत्वोत्तिष्ठ पादतो न विवेशय ।
उत् खाद् उदन्तु मरुतोत् समुद्राम् अतो दधि ।
क्रत्वायम् अग्निर् दहतु क्रत्वा तपतु सूर्यः ।
_____________________________________
_____________________________________
काम शय्यार्थेऽभितप्ताम् यथा स्त्रियम् शोषयसि ।
एवम् शोषय नो रातीर् दिवा नक्तम् दशस्यतम् ।
इमाम् मे मित्रावरुणौ कृधि चित्तेन व्यस्यताम् ।
दत्त्वा पीत्वाग्रतः कृत्वा यथास्याम् देवशो वशे ।
परान् कृणुष्व दासान् देवी वशान् अन्ववायिनः ॥
अधिष्ठाय पदा मूर्ध्नि सान्वयम् शाश्वतीस् समा ॥२७
ऋतुभिस् त्वार्तवेभिर् आयुषा सह वर्चसा ।
संवत्सरस्य तेजसा तेन मा सह शुन्धत ।
अनेन ब्रह्मणाग्ने त्वम् अयम् चेन्द्रो नेडितः ।
संराजम् चाधिपत्यम् च स्वानाम् कृणु तम् उत्तमम् ।
अग्ने निजहि संहितान् इषून् मर्मणि मर्मणि ।
खादिरम् हृदि शङ्कुम् नो द्विषतो न विवेशय ।
सत्येनोत्तभिता भूमिः ॥२८ ( प् १०३ )

_____________________________________
३,१६ १ उत्तुदैनम् गृहपते ज्ञातेभ्यश् शयनाद् अधि ।
३,१६ १ ग्रीवा गृहीत्वोत्तिष्ठ पादतो न विवेशय ।
३,१६ २ उत् खाद् उदन्तु मरुतोत् समुद्राम् अतो दधि ।
३,१६ २ क्रत्वायम् अग्निर् दहतु क्रत्वा तपतु सूर्यः ।
३,१६ ३ काम शय्यार्थेऽभितप्ताम् यथा स्त्रियम् शोषयसि ।
३,१६ ३ एवम् शोषय नो रातीर् दिवा नक्तम् दशस्यतम् ।
३,१६ ४ इमाम् मे मित्रावरुणौ कृधि चित्तेन व्यस्यताम् ।
३,१६ ४ दत्त्वा पीत्वाग्रतः कृत्वा यथास्याम् देवशो वशे ।
३,१६ ५ परान् कृणुष्व दासान् देवी वशान् अन्ववायिनः ॥
३,१६ ५ अधिष्ठाय पदा मूर्ध्नि सान्वयम् शाश्वतीस् समा ॥२७
३,१६ ६ ऋतुभिस् त्वार्तवेभिर् आयुषा सह वर्चसा ।
३,१६ ६ संवत्सरस्य तेजसा तेन मा सह शुन्धत ।
३,१६ ७ अनेन ब्रह्मणाग्ने त्वम् अयम् चेन्द्रो नेडितः ।
३,१६ ७ संराजम् चाधिपत्यम् च स्वानाम् कृणु तम् उत्तमम् ।
३,१६ ८ अग्ने निजहि संहितान् इषून् मर्मणि मर्मणि ।
३,१६ ८ खादिरम् हृदि शङ्कुम् नो द्विषतो न विवेशय ।
३,१६ ९ सत्येनोत्तभिता भूमिः ॥२८ ( प् १०३ )

3.17
ध्रुवैधि पोष्या मयि मह्यन् त्वादाद् बृहस्पतिः ।
या पत्या प्रजावती संजीव शरदश् शतम् ।
वि हि सोतोर् असृक्षत ॥२९


३,१७ ध्रुवैधि पोष्या मयि मह्यन् त्वादाद् बृहस्पतिः ।
३,१७ मया पत्या प्रजावती संजीव शरदश् शतम् ।
३,१७ वि हि सोतोर् असृक्षत ॥२९

अविधवा भव वर्षाणि शतम् साग्रम् तु सुव्रता ।
तेजस्वी च यशस्वी च धर्म पत्नी पति व्रता ।
जनयद् बहु पुत्राणि मा च दुह्खम् लभेत् क्वचित् ।
भर्ता ते सोमपा नित्यम् भवेद् धर्म परायणः ।
_____________________________________

अष्ट पुत्रा भव त्वम् च सुभगा च पति व्रता ।भर्तुश् चैव पितुर् भ्रातुर् हृदयानन्दिनी सदा ।इन्द्रस्य तु यथेन्द्राणी श्रीधरस्य यथा श्रिया ।शंकरस्य यथा गौरी तद् भर्तुर् अपि भर्तरि ।

अत्रेर् यथानुसूया स्याद् वसिष्ठस्याप्य् अरुन्धती ।
कौशिकस्य यथा सती तथा त्वम् अपि भर्तरि ॥
शंकरस्य यथा गौरी तद् भर्तुर् अपि भर्तरि ।
अत्रेर् यथानुसूया स्याद् वसिष्ठस्याप्य् अरुन्धती ।
कौशिकस्य यथा सती तथा त्वम् अपि भर्तरि ॥

इन्द्रस्य तु यथेन्द्राणी श्रीधरस्य यथा श्रिया ।
शंकरस्य यथा गौरी तद् भर्तुर् अपि भर्तरि ।
अत्रेर् यथानुसूया स्याद् वसिष्ठस्याप्य् अरुन्धती ।
कौशिकस्य यथा सती तथा त्वम् अपि भर्तरि ॥
भर्तुश् चैव पितुर् भ्रातुर् हृदयानन्दिनी सदा ।
इन्द्रस्य तु यथेन्द्राणी श्रीधरस्य यथा श्रिया ।
शंकरस्य यथा गौरी तद् भर्तुर् अपि भर्तरि ।
अत्रेर् यथानुसूया स्याद् वसिष्ठस्याप्य् अरुन्धती ।
कौशिकस्य यथा सती तथा त्वम् अपि भर्तरि ॥

अष्ट पुत्रा भव त्वम् च सुभगा च पति व्रता ।
भर्तुश् चैव पितुर् भ्रातुर् हृदयानन्दिनी सदा ।
इन्द्रस्य तु यथेन्द्राणी श्रीधरस्य यथा श्रिया ।
शंकरस्य यथा गौरी तद् भर्तुर् अपि भर्तरि ।
अत्रेर् यथानुसूया स्याद् वसिष्ठस्याप्य् अरुन्धती ।
कौशिकस्य यथा सती तथा त्वम् अपि भर्तरि ॥

_____________________________________
३,१७ १ अविधवा भव वर्षाणि शतम् साग्रम् तु सुव्रता ।
३,१७ १ तेजस्वी च यशस्वी च धर्म पत्नी पति व्रता ।
३,१७ २ जनयद् बहु पुत्राणि मा च दुह्खम् लभेत् क्वचित् ।
३,१७ २ भर्ता ते सोमपा नित्यम् भवेद् धर्म परायणः ।
३,१७ ३ अष्ट पुत्रा भव त्वम् च सुभगा च पति व्रता ।
३,१७ ३ भर्तुश् चैव पितुर् भ्रातुर् हृदयानन्दिनी सदा ।
३,१७ ४ इन्द्रस्य तु यथेन्द्राणी श्रीधरस्य यथा श्रिया ।
३,१७ ४ शंकरस्य यथा गौरी तद् भर्तुर् अपि भर्तरि ।
३,१७ ५ अत्रेर् यथानुसूया स्याद् वसिष्ठस्याप्य् अरुन्धती ।
३,१७ ५ कौशिकस्य यथा सती तथा त्वम् अपि भर्तरि ॥_____________________________________
_____________________________________
3.18
एकैवाग्निर् बहुधा समिद्धैकस् सूर्यो विश्वम् अनु प्रभूतम् ।
एकैवोषास् सर्वम् इदम् विभात्य् एकैवेडम् विबभूव सर्वम् । ( प् १०४ )
यम् ऋत्विजो बहुधा कल्पयन्तस् सचेतसो यज्ञम् इमम् वहन्ति ।
यो अनूचानो ब्राह्मणो युक्तास्ते का स्वित् तत्र यजमानस्य संवित् ।
यावन् मात्रम् उषसो न प्रतीकम् ॥३०


३,१८ १ एकैवाग्निर् बहुधा समिद्धैकस् सूर्यो विश्वम् अनु प्रभूतम् ।
३,१८ १ एकैवोषास् सर्वम् इदम् विभात्य् एकैवेडम् विबभूव सर्वम् । ( प् १०४ )
३,१८ २ यम् ऋत्विजो बहुधा कल्पयन्तस् सचेतसो यज्ञम् इमम् वहन्ति ।
३,१८ २ यो अनूचानो ब्राह्मणो युक्तास्ते का स्वित् तत्र यजमानस्य संवित् ।
३,१८ २ यावन् मात्रम् उषसो न प्रतीकम् ॥३०

3.19
उद् अपप्तम वसतेर् वयो यथा रिणन्त्व् आ भृगवो मन्यमानाः ।
_____________________________________
_____________________________________
पुरूरवः पुनर् अस्तम् परेहि यामे मनो देव जनायात् स्वः । प्र ते महे विदथे शंसिषम् हरी ॥३१ ( प् १०५ )


३,१९ १ उद् अपप्तम वसतेर् वयो यथा रिणन्त्व् आ भृगवो मन्यमानाः ।
३,१९ १ पुरूरवः पुनर् अस्तम् परेहि यामे मनो देव जनायात् स्वः । प्र ते महे विदथे शंसिषम् हरी ॥३१ ( प् १०५ )

3.20
यद् ( ) यद् अकृतम् यद् एनस् चकृमा वयम् ।
ओषधयस् तस्मात् पान्तु दुरिताद् एनसस् परि ।
बृहस्पते प्रति मे देवताम् इहि ॥३२ ( प् १०५ )


३,२० यद् ( ) यद् अकृतम् यद् एनस् चकृमा वयम् ।
३,२० ओषधयस् तस्मात् पान्तु दुरिताद् एनसस् परि ।
३,२० बृहस्पते प्रति मे देवताम् इहि ॥३२ ( प् १०५ )

3.21
असौ या सेना मरुतः परेषाम् अभ्यैति नौजसा स्पर्धमाना ।
ताम् गूहत तमसापव्रतेन यथामीषाम् अन्यो अन्यन् ना जानात् ।
अन्धामित्रा भवताशीर्षाणो अहयेव ।
तेषाम् वो अग्नि दग्धानाम् इन्द्रो हन्तु वरम् वरम् ॥३३


३,२१ १ असौ या सेना मरुतः परेषाम् अभ्यैति नौजसा स्पर्धमाना ।
३,२१ १ ताम् गूहत तमसापव्रतेन यथामीषाम् अन्यो अन्यन् ना जानात् ।
३,२१ २ अन्धामित्रा भवताशीर्षाणो अहयेव ।
३,२१ २ तेषाम् वो अग्नि दग्धानाम् इन्द्रो हन्तु वरम् वरम् ॥३३

3.22
ब्रह्म जज्ञानम् प्रथमम् पुरस्तात् वि सीमतस् सुरुचो वेनावः ।
स बुध्न्योपमास्य विष्ठास् सतश् च योनिम् असतश् च विवः ।
इयम् पित्रे राष्ट्र्य् एत्य् अग्रे प्रथमाय जनुषे भूमनेष्ठाः ।
तस्मैतम् सुरुचम् ह्वारमह्यम् घर्मम् श्रीणन्ति प्रथमाय धासेः ।
महान् मह्यस्तभयद् विजातो द्याम् पिता सद्म पार्थिवम् च रजः ।
स बुध्न्याद् आष्ट जनुषाभ्य् उग्रम् बृहस्पतिर् देवता तस्य सम्राट् ।३
अभि त्यम् देवम् सवितारम् ओण्योः कविक्रतुम् अर्चामि सत्य सवम् रत्नधाम् अभि प्रियम् मतिम् कविम् ।
ऊर्ध्वा यस्यामतिर्भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा स्वः ॥३४
ता सूर्या चन्द्रमसा गातुवित्तमा महत् तेजो वसुमद् भ्राजतो दिवि ।
सामात्मना चरतस् साम चारिणा ययोर् व्रतम् न वसे जातु देवयोः ।
उभाव् अन्तौ परियातार्म्या दिवो न रश्मींस् तनुतो व्य् अर्णवे ।
उभा भुवन्ती भुवना कवि क्रतू सूर्या न चन्द्रा चरतो हतामती ।
पती द्युमद् विश्वविदोभा दिवस् सूर्योभा चन्द्रमसा विचक्षणा ।
विश्ववारा वरिवोभा वरेण्या ता नो अवतम् मतिमन्ता महिव्रता ।
विश्ववपरी प्रतरणा तरन्ता सुवर्विदा दृशये भूरिरश्मी ।
सूर्या हि चन्द्रा वसु त्वे ) षदर्शता ( त्वेष दर्शता ) मनस्विनोभानुचरतो नु सन् दिवम् ॥३५
अस्य श्रवो नद्यस् सप्त बिभ्रति द्यावा क्षामा पृथिवी दर्शतम् वपुः ।
अस्मे सूर्या चन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो वितर्तुरम् ।
पूर्वापरम् चरतो माययैतौ शिशू क्रीडन्तौ परि यातो अध्वरम् ।
विश्वान्य् अन्यो भुवनाभिचष्टर्तूंर् अन्यो विदधज् जायते पुनः ।
असावि सोमः पुरु हूत तुभ्यम् ॥३६ ( प् १०७ )


३,२२ १ ब्रह्म जज्ञानम् प्रथमम् पुरस्तात् वि सीमतस् सुरुचो वेनावः ।
३,२२ १ स बुध्न्योपमास्य विष्ठास् सतश् च योनिम् असतश् च विवः ।
३,२२ २ इयम् पित्रे राष्ट्र्य् एत्य् अग्रे प्रथमाय जनुषे भूमनेष्ठाः ।
३,२२ २ तस्मैतम् सुरुचम् ह्वारमह्यम् घर्मम् श्रीणन्ति प्रथमाय धासेः ।
३,२२ ३ महान् मह्यस्तभयद् विजातो द्याम् पिता सद्म पार्थिवम् च रजः ।
३,२२ ३ स बुध्न्याद् आष्ट जनुषाभ्य् उग्रम् बृहस्पतिर् देवता तस्य संराट् ।
३,२२ ४ अभि त्यम् देवम् सवितारम् ओण्योः कवि क्रतुम्
३,२२ ४ { अर्चामि सत्य सवम् रत्नधाम् अभि प्रियम् मतिम् कविम् । ( प् १०६ )
३,२२ ४ { ऊर्ध्व यस्यामतिर् भादिद्युतत् सवीमनि
३,२२ ४ { हिरण्य पाणिर् अमिमीत सुक्रतुः कृपा स्वः ॥३४
३,२२ ५ ता सूर्या चन्द्रमसा गातुवित्तमा महत् तेजो वसुमद् भ्राजतो दिवि ।
३,२२ ५ सामात्मना चरतस् साम चारिणा ययोर् व्रतम् न वसे जातु देवयोः ।
३,२२ ६ ( उभाव् अन्तौ परियातार्म्या दिवो न रश्मींस् तनुतो व्य् अर्णवे ।
३,२२ ६ उभा भुवन्ती भुवना कवि क्रतू सूर्या न चन्द्रा चरतो हतामती ।
३,२२ ७ पती द्युमद् विश्वविदोभा दिवस् सूर्योभा चन्द्रमसा विचक्षणा ।
३,२२ ७ विश्व वारा वरिवोभा वरेण्या ता ) नो अवतम् मतिमन्ता महि व्रता ।
३,२२ ८ विश्व वपरी प्रत ( रणा ( प्रतरणा ) तरन्ता सुवर्विदा दृशये भूरि रश्मी ।
३,२२ ८ सूर्या हि चन्द्रा वसु त्वे ) षदर्शता ( त्वेष दर्शता ) मनस्विनोभानुचरतो नु सन् दिवम् ॥३५
३,२२ ९ अस्य श्रवो नद्यस् सप्त बिभ्रति द्यावा क्षामा पृथिवी दर्शतम् वपुः ।
३,२२ ९ अस्मे सूर्या चन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो वितर्तुरम् ।
३,२२ १० पूर्वापरम् चरतो माययैतौ शिशू क्रीडन्तौ परि यातो अध्वरम् ।
३,२२ १० विश्वान्य् अन्यो भुवनाभिचष्टर्तूंर् अन्यो विदधज् जायते पुनः ।
३,२२ १० असावि सोमः पुरु हूत तुभ्यम् ॥३६।
 ( प् १०७ )

____________________________


ऋग्वेदः खिलसूक्तानि/अध्यायः ४


 ( आनुक्रमणी )
ओम् < आ यस्मिन्न् > एकानुष्टुभम् तु < तदा रात्रि > चतुष्कम् आद्या बृहत्य् < अर्वाञ्चम् > एका त्रिष्टुम् < नमस्ते > चतुष्कम् अश्माखानो वैद्युतम् अन्त्ये त्रिष्टुभौ < याम् > चत्वारिंशत् प्रत्यन् कृत्या नाशनम् आशीः पाङ्क्त्यम् अन्तम् < आयुष्यम् > दश दाक्षायणायैकर्चास् सनकः सनाकः सनातनः सनन्दनः सहसंज्ञाः सुमः (प् १०९) सुश्रीः सुवाक् सर्वो हिरण्यात्म स्तुतिः पञ्चम्य् अष्टमी नवम्यौ त्रिष्टुभः सप्तमी शक्वरी < भूमिः > सप्त प्राजापत्या लाक्षा लाक्षास्तवो
< मेधां > नव मेधा मानवी मधावी चतुर्थ्य् आदिर् महाबृहती पङ्क्तिर् विराड् जगती गायत्री त्रिष्टुबा < आ सूः > सप्ताथर्वणः सुभेषज आग्नेयः प्रकृतिः कृतिर् आकृतिर् विकृतिस् संकृतिर् अभिकृतिर् उत्कृतिर् < वेनस् > तृचम् वेनो भाववृत्तम् तु < येन > सप्तोना मानवश् शिव संकल्पो मानसम् < यासाम्> द्वेऽनुष्टुप् पङ्क्ती < नेजमेष > तृचम् प्राजापत्यो नेजमेषो < अनीकवन्तम् > एका ॥

४,१ १ आ यस्मिन् देव वीतये पुत्रासो यन्तु संयतः ।
४,१ १ अनाधृष्टम् विपन्यया प्रति श्रुताय वो धृषत् ।
४,१ १ अहम् रुद्रेभिर् वसुभिश् चरामि ॥१
ऋसं १०.१२४ अनन्तरं पठनीयम्।

४,२ १ आ रात्रि पार्थिवम् रजः पितुर् अप्रायि धामभिः ।
४,२ १ दिवस् सदांसि बृहती वितिष्ठसा त्वेषम् वर्तते तमः ।
४,२ २ ये ते रात्रि नृचक्षसो युक्तासो नवतीर् नव ।
४,२ २ अशीतिस् सन्त्व् अष्टोतो सप्त सप्ततिः ।
४,२ ३ रात्रिम् प्रपद्ये जननीम् सर्व भूत निवेशनीम् ।
४,२ ३ भद्राम् भगवतीम् कृष्णाम् विश्वस्य जगतो निशाम् ।
४,२ ४ संवेशनीम् सम्यमनीम् ग्रह नक्षत्र मालिनीम् ।
४,२ ४ प्रपन्नो अहम् शिवाम् रात्रीम् भद्रे पारम् अशीमहि ।
४,२ ४ ममाग्ने वर्चो विहवेष्व् अस्तु ॥२(प् ११०)
४,२ ५ स्तोष्यामि प्रयतो देवीम् शरण्याम् बह्वृच प्रियम् ।
४,२ ५ सहस्र सम्मिताम् दुर्गाम् जातवेदसे सुनवाम सोमम् ।
४,२ ६ शान्त्य् अर्थम् तद् द्विजातीनाम् ऋषिभिः समुपश्रिताः ।
४,२ ६ ऋग्वेदे त्वम् समुत्पन्नारातीयतो निदहाति वेदः ।
४,२ ७ ये त्वाम् देवि प्रपद्यन्ति ब्राह्मणा हव्य वाहनीम् ।
४,२ ७ अविद्या बहु विद्या वा स नः पर्षद् अति दुर्गाणि विश्वा ।
४,२ ८ येऽग्नि वर्णाम् शुभाम् सौम्याम् कीर्तयिष्यन्ति ये द्विजाः ।
४,२ ८ ताम् तारयति दुर्गाणि नवेव सिन्धुम् दुरितात्य् अग्निः ।
४,२ ९ दुर्गेषु विषमे घोरे संग्रामे रिपु संकटे ।
४,२ ९ अग्नि चोर निपातेषु दुष्ट ग्रह निवारणे दुष्ट ग्रह निवारण्य् ओम् नमः ।
४,२ १० दुर्गेषु विषमेषु त्वम् संग्रामेषु वनेषु च ।
४,२ १० मोहयित्वा प्रपद्यन्ते तेषाम् मेऽभयम् कुरु तेषाम् मेऽभयम् कुर्व् ओम् नमः ।
४,२ ११ केशिनीम् सर्व भूतानाम् पञ्चमीति च नाम च ।
४,२ ११ सा माम् समाम् दिशाम् देवी सर्वतः परिरक्षतु सर्वतः परिरक्षत्वोम् नमः ।
४,२ १२ ताम् अग्नि वर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्टाम् ।(प् १११)


           

जुर्वां दुर्गाम् देवीम् शरणम् अहम् प्रपद्ये सुतरसि तरसे नमः सुतरसि तरसे नमः ।

दुर्गा दुर्गेषु स्थानेषु शम् नो देवीर् अभिष्टये ।

४,२ १३ येमम् दुर्गा स्तवम् पुण्यम् रात्रौ रात्रौ सदा पठेत् ।४,२ १३ दुर्गा दुर्गेषु स्थानेषु शम् नो देवीर् अभिष्टये ।

                                          
४,२ १२ दुर्गाम् देवीम् शरणम् अहम् प्रपद्ये सुतरसि तरसे नमः सुतरसि तरसे नमः ।
४,२ १३ दुर्गा दुर्गेषु स्थानेषु शम् नो देवीर् अभिष्टये ।
४,२ १३ येमम् दुर्गा स्तवम् पुण्यम् रात्रौ रात्रौ सदा पठेत् ।
४,२ १४ रात्रिः कुशिकः सौभरो रात्रिर् वा भारद्वाजी रात्रि स्तवम् गायत्रम् ।
४,२ १४ रात्री सूक्तम् जपेन् नित्यम् तत् कालोपपद्यते ॥

४,३ १ अर्वाञ्चम् इन्द्रम् अमुतो हवामहे यो गोजिद् धनजिद् अश्वजिद् यः ।
४,३ १ इमम् नो यज्ञम् विहवे जुषस्वेह कुर्मो हरिवो वेदिनौ त्वा ॥३(प् ११२)

४,४ १ नमस् तेऽस्तु विद्युते नमस् ते स्तनयित्नवे ।
४,४ १ नमस् तेऽस्त्व् अश्मने यो मा दूणाशो अस्यसि ।
४,४ २ नमस् ते प्रवतो नपाद् यत्तस् तपस् समूहसि ।
४,४ २ मृडया नस् तनुभ्यो अभयम् नः पशुभ्यः ।
४,४ ३ प्रवतो नपान् नमैवास्तु तुभ्यम् नमस् ते हेतये तपुषे च कृण्मः ।
४,४ ३ विद्मा ते नाम परमम् गुहा यत् समुद्रेऽन्तर् निहितापि नासि ।
४,४ ४ याम् त्वा देवाजनिष्ट धिष्व धियम् कृण्वानासनाय वाजम् ।
४,४ ४ सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥४

४,५ १ याम् कल्पयन्ति नो अरयः क्रूराम् कृत्याम् वधूम् इव ।
४,५ १ ताम् ब्रह्मणा परि निज्मः प्रत्यक् कर्तारम् ऋच्छतु ।
४,५ २ शीर्षण्वतीम् कर्णवतीम् विश्व रूपाम् भयम् करीम् ।
४,५ २ यः प्राहिणोमि हाद्य त्वा वि तत् त्वम् योजयाशुभि ।
४,५ ३ य्न चित्तेन वदसि प्रतिकूलम् अघायूनि ।
४,५ ३ तम् एवम् ते नि कृत्ये ह मास्मान् ऋष्यो अनागसः ।(प् ११३)
४,५ ४ अभिवर्तस्व कर्तारम् निरस्तास्माभिर् ओजसा ।
४,५ ४ आयुर् अस्य निवर्तस्व प्रजाम् च पुरुषादिनि ।
४,५ ५ यस् त्वा कृत्ये चकारेह तन् त्वम् गच्छ पुनर्नवे ।
४,५ ५ अरातीः कृत्यान् नाशय सर्वाश् च यातु धान्यः ॥५
४,५ ६ क्षिप्रम् कृत्ये निवर्तस्व कर्तुर् एव गृहान् प्रति ।
४,५ ६ पशूंश् चावास्य नाशय वीरांश् चास्य निबार्हय ।
४,५ ७ यस् त्वा कृत्ये प्र जिगाति
४,५ ७ ९
४,५ १० यस् ते परूंषि संदधौ रथस्येवर्भुर् धिया ।
४,५ १० तम् गृच्छ तत्र ते जनम् अज्ञातस् ते यम् जनः ॥६
४,५ ११ कश्चिद् वा न्यभिहिंसति ।
४,५ ११ तस्य त्वम् द्रोर् इवेद्धो अग्निस् तनुः पृच्छस्व हेडितः ।
४,५ १२ ब्ः स्य ते पाप कृत्वने ।
४,५ १२ हरस्वतीस् त्वम् च कृत्ये नोत् शिरस् तस्य किंचन ।
४,५ १३ ये नो शिवासः पन्थानः परायान्ति परावतम् ।
४,५ १३ तैर् देव्य् अरातीः कृत्या नो गमयस्वा निवर्तय ।
४,५ १४ यो नः कश्चिद् द्रुहो अरातिर् मनसाप्य् अभिदासति ।
४,५ १४ दूरस्थो वान्तिकस्थो वा तस्य हृद्यम् असृक् पिब ।
४,५ १५ येनासि कृत्ये प्रहिता दूढ्येनास्मज् जिघांसया ।
४,५ १५ तस्य व्यनच् चाव्यनच् च हिनस्तु शरदाशनिः ॥७
४,५ १६ यद्य् उ वैषि द्विपद्य् अस्मान् यदि वैषि चतुष्पदी ।
४,५ १६ निरस्तातो अव्रतास्माभिः कर्तुः अष्टापदी गृहम् ।
४,५ १७ यो नस् शपाद् अशपतो यश् च नश् शपतश् शपात् ।
४,५ १७ वृक्षेव विद्युता हता मूलाद् अनुशिष्यतु ।
४,५ १८ यम् द्विष्मो यश् च नो द्वेष्ट्य् अघायुर् यश् च नश् शपात् ।
४,५ १८ शुने पेष्ट्रम् इवावक्षामम् तम् प्रत्य् अस्यामि मृत्यवे ।
४,५ १९ यश् च सापत्नश् शपथो यश् च जाम्याश् शपथः ।
४,५ १९ ब्रह्मा च यत् क्रुद्धश् शपात् सर्वम् तत् कृध्य् अधस्पदम् ।
४,५ २० सबन्धुश् चासबन्धुश् च यो अस्मान् अभिदासति ।
४,५ २० तस्य त्वम् भिन्ध्य् अधिष्ठाय पदा विष्पूर्यते शिरः ॥८
४,५ २१ अभि प्रेहि सहस्राक्षम् युक्त्वाशुम् शपथ रथम् ।
४,५ २१ शत्रूंर् अन्विच्छती कृत्य् वृकीवाविवृतो गृहान् ।
४,५ २२ परि णो वृन्धि शपथान् दहन्न् अग्निर् इव व्रजम् ।
४,५ २२ शत्रूंर् एवा विनोजहि दिव्या वृक्षम् इवाशनिः ।
४,५ २३ शत्रून् मे प्रोष्ट शपथान् कृत्याश् च सुहृदो हृद्याः ।
४,५ २३ जिह्माश् श्लक्ष्णाश् च दुर्हृदस् समिद्धम् जातवेदसम् ।
४,५ २४ असपत्नम् पुरस्तान् नश् शिवम् दक्षिणतस् कृधि ।
४,५ २४ अभयम् सततम् पश्चाद् भद्रम् उत्तरतो गृहे ।(प् ११४)
४,५ २५ परेहि कृत्ये मा तिष्ठ वृद्धस्येव पदम् नय ।
४,५ २५ मृगस्य हि मृगारिस् त्वम् तन् त्वम् निकर्तुम् अर्हसि ॥९
४,५ २६ अघ्न्यास्ये घोर रूपे वर रूपे विनाशनि ।
४,५ २६ जम्भिताः प्रत्या गृभ्णीष्व स्वयम् आदायाद्भुतम् ।
४,५ २७ त्वम् इन्द्रो यमो वरुणस् त्वम् आपो अग्निर् अथानिलः ।
४,५ २७ ब्रह्मा चैव रुद्रश् च त्वष्टा चैव प्रजापतिः ।
४,५ २८ आवर्तध्वम् निवर्तध्वम् ऋतवः परिवत्सराः ।
४,५ २८ अहोरात्राश् चाब्दाश् च त्वम् दिशः प्रदिशश् च मे ।
४,५ २९ त्वम् इन्द्रो यमो वरुणस् त्वम् आपो अग्निर् अथानिलः ।
४,५ २९ अत्याहृत्य पशून् देवान् उत्पातयस्वाद्भुतम् ॥१०
४,५ ३० अभ्यक्तास् तास् स्वलंकृतास् सर्वान् नो दुरितम् जहि ।
४,५ ३० जानीथाश् चैव कृत्यानाम् कर्तॄन् नॄन् पाप चेतसः ।
४,५ ३१ यथा हन्ति पूर्वासिनम् तयैवेष्वासकृज् जनः ।
४,५ ३१ तथा त्वया युजा वयम् तस्य निकृण्म स्थास् तु जङ्गमम् ।
४,५ ३२ उत्तिष्ठैव परेहीतो अघ्न्यास्ये किम् इहेच्छसि ।
४,५ ३२ ग्रीवास् ते कृत्ये पदा चापि कर्त्स्यामि निर्द्रव ।
४,५ ३३ स्वायसा सन्ति नो असयो विद्मश् चैव परूंषि ते ।
४,५ ३३ तै स्थ निकृण्म स्थान्य् उग्रे यदि नो जीवयस्वेम् ।
४,५ ३४ मास्योत् शिषो द्विपदम् मोच किंचिच् चतुष्पदम् ।
४,५ ३४ मा ज्ञातीर् अनुजास्वन्वा मा वेशम् प्रतिवेशिना ॥११
४,५ ३५ शत्रूयता प्रहिताम् इमाम् येनाभि यथा यथा ।
४,५ ३५ ततस् तथा त्वानुदतु यो अयम् अन्तर् मयि श्रितः ।
४,५ ३६ एवम् त्वम् निकृतास्माभिर् ब्रह्मणा देवि सर्वशः ।
४,५ ३६ यथा तम् आश्रितम् कर्त्वा पापहीर् एव नो जहि ।
४,५ ३७ देवास् तम् सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ।
४,५ ३८ यथा विद्युद्द् हतो वृक्षा मूलाद् अनुशुष्यति ।
४,५ ३८ एवम् स प्रति शुष्यतु नो मे पापम् चिकीर्षति ।
४,५ ३९ यथा प्रतिहिता भूत्वा ताम् एव प्रतिधावति ।
४,५ ३९ पापम् तम् एव धावतु यो मे पापम् चिकीर्षति ।
४,५ ४० कुवीरम् ते सुखम् रुद्रम् नन्दीमानम् विमथ ह ।
४,५ ४० ब्रह्म वर्म ममान्तरम् शर्म वर्म ममान्तरम् घर्म वर्म ममान्तरम् ॥१२(प् ११५)

४,६ १ आयुष्यम् वर्चस्यम् रायस् पोषम् औद्भिदम् ।
४,६ १ इद हिरण्यम् वर्चस्वज् जैत्राया विशताद् उ माम् ।
४,६ २ उच्चैर् वाजि पृतनाषट् सभासाहम् धनंजयम् ।
४,६ २ सर्वास् समग्रर्द्धयो हिरण्येऽस्मिन् समाहृताः ।
४,६ ३ शुनम् अहम् हिरण्य स्वपितुर् नामेव जग्रभ ।
४,६ ३ तेन माम् सूर्य त्वचम् अकरम् पुरुष प्रियम् ।
४,६ ४ संराजम् च विराजम् चाभिष्टिर् या च मे ध्रुवा ।
४,६ ४ लक्ष्मी राष्ट्रस्य या मुखे तया माम् इन्द्र संसृज ।
४,६ ५ अग्ने: प्रजातम् परि यद्द् हिरण्यम् अमृतम् जज्ञेऽधि मर्त्येषु ।
४,६ ५ यैनद् वेद सेद् एनद् अर्हति जरा मृत्युर् भवति यो बिभर्ति ॥१३
४,६ ६ यद् वेद राजा वरुणो यद् उ देवी सरस्वती ।
४,६ ६ इन्द्रो यद् वृत्रहा वेद तन् मे वर्चसायुषे ।
४,६ ७ न तद् रक्षांसि न पिशाचास् तरन्ति देवानाम् ओजः प्रथमजाम् ह्य् एतत् ।
४,६ ७ यो बिभर्ति दाक्षायणा हिरण्यम् स देवेषु कृणुते दीर्घम् आयुस् स मनुष्येषु कृणुते दीर्घम् आयुः ।
४,६ ८ यद् अबध्नन् दाक्षायणा हिरण्यम् शतानीकाय सुमनस्यमानाः ।(प् ११७)
४,६ ८ तन् माबध्नामि शत शारदायायुष्मान् जरदष्टिर् यथासत् ।
४,६ ९ घृताद् उल्लुप्तम् मधुमत् सुवर्णम् धनंजयम् धरुणम् धारयिष्णु ।
४,६ ९ ऋणक् सपत्नान् अधरांश् च कृण्वद् आरोह माम् महते सौभगाय ।
४,६ १० प्रियम् मा कुरु देवेषु प्रियम् राजसु मा कुरु ।
४,६ १० प्रियम् विश्वेषु गोप्त्रेषु मयि धेहि रुचा रुचम् ।
४,६ १० नासद् आसीन् नो सद् आसीत् ॥१४(प् ११८)

४,७ १ भूमिर् माता नभः पितार्यमा ते पितामहः ।
४,७ १ घृताची नाम वासि सा देवानाम् असि स्वसा ।
४,७ २ य त्वा पिबति जीवति त्रायसे पुरुषम् त्वम् ।
४,७ २ त्रात्रिणी शश्वताम् असि शश्वताम् सम्यञ्चनी ।
४,७ ३ यद् दण्डेन यद् इषुणा यद् वारुर् हरसा कृतम् ।
४,७ ३ तस्य त्वम् असि निष्कृतिस् सानौ निष्कृत्यौषधीः ।
४,७ ४ वृक्षम् वृक्षम् सम्पतसि वृक्षायन्तीव कन्यना ।
४,७ ४ जयन्ती प्रत्यातिष्ठन्ती संजेया नाम वासि ।
४,७ ५ भद्रात् प्लक्षे निस्तिष्ठाश्वत्थे खदिरे धवे ।
४,७ ५ भद्रात् पर्णे न्यग्रोधे सा माम् रौत्सीद् अरुन्धती ।
४,७ ६ अश्वस्यासृक् सम्पतसि तत् पर्णम् अभितिठसि ।
४,७ ६ सरत् पतत्य् अरुणसि सा माम् रौत्सीद् अरुन्धती ।(प् ११९)
४,७ ७ हिरण्य पर्णे सुभगे सो अक्ष्मे ( सोक्ष्मे ) लोमशवक्षणे ।
४,७ ७ अपाम् असि स्वसा लाक्षे वातो हात्मा बभूव ते ।
४,७ ७ तव त्येन्द्र सख्येषु वह्नयः ॥१५

४,७ १ रात्री माता नभः पितार्यमा ते पितामहः ।
४,७ १ शिलादी नाम वासि सा देवानाम् असि स्वसा ।
४,७ २ यस् त्वा पिबति जीवति त्रायसे पुरुषम् त्वम् ।
४,७ २ धरत्री च शश्वताम् असि शश्वताम् न्यन्वञ्चनीम् ।
४,७ ३ यद् अण्डेन यद् उष्टा यद् अदुर् हरसा कृतम् ।(प् १२१)
४,७ ३ तस्य त्वम् असि भीषजीम् निष्कृतिर् नाम वासी ।
४,७ ४ भद्रा प्रक्षेण तिष्ठस्य् अश्वत्थे खदिरे धवे ।
४,७ ४ भद्रा न्यग्रोधे पर्णे मा नेह्य् अरुन्धती ।
४,७ ५ वृक्षम् वृक्षम् आरोहसि वृषण्यन्तीव कन्यला ।
४,७ ५ जयन्ती प्रत्यातिष्ठन्ती संजया नाम वासी ।
४,७ ६ हिरण्य वर्णे युवते शुष्मे लोम समक्षणे ।
४,७ ६ अपाम् असि स्वसा लाक्षे वातो यत् सा बभूव्यथे ।
४,७ ७ हिरण्य बाहू सुभगे सूर्य वर्णे वपुष्टमे ।
४,७ ७ ऋतम् गच्छसि निष्कृधि सेमम् निष्कृधि पौरुषम् ।
४,७ ८ घृताची नाम कानीनो न बभ्रु पिता भव ।
४,७ ८ अश्वो यमस्ये श्रावस् तास्य हास्त्नास्य् उक्षत ।
४,७ ९ अश्वस्यास्त्नस् सम्पतिता सा पर्णम् अभिशुष्यत ।
४,७ ९ सदा पततिन्न् असि मा नेह्य् अरुन्धती ।
४,७ १० घृताचके वाम रते विद्युत् पर्णेऽरुन्धती ।
४,७ १० या तुरङ्ग मिष्टासि त्वम् अङ्ग निष्करी यसी ।
४,७ ११ यत् ते जग्रधम् पिशाचैस् तत् तर्हाप्य् आयताम् पुनः ।
४,७ ११ लाक्षा यद्वा विश्व भेषजीर् देवेभिस् त्रायताम् सह ॥

४,८ १ मेधाम् मह्यम् अङ्गिरसो मेधाम् सप्तर्षयो ददुः ।
४,८ १ मेधाम् इन्द्रश् चाग्निश् च मेधाम् धाता दधातु मे ।
४,८ २ मेधाम् मे वरुणो राजा मेधाम् देवी सरस्वती ।
४,८ २ मेधाम् मेऽश्विनौ देवाव् आधत्तम् पुष्कर स्रजा ।
४,८ ३ या मेधाप्सरस्सु गन्धर्वेषु च यन् मनः ।
४,८ ३ दैवी या मानुषी मेधा सा माम् आविशताद् इह ।
४,८ ४ यन् मेनूक्तम् तद् रमताम् शकेयम् यद् अनुब्रुवे ।
४,८ ४ निशामितम् निशामये मयि श्रुतम् । सह व्रतेन भूयासम् ब्रह्मणा संगमेमहि ।
४,८ ५ शरीरम् मे विचक्षण वाङ् मे मधुमद् दुहे ।
४,८ ५ अवृधम् अहम् असौ सूर्यो ब्रह्मणाणीस् स्थ । श्रुतम् मे मा प्रहासीः ॥
४,८ ६ मेधाम् देवीम् मनसा रेजमानाम् गन्धर्व जुष्टाम् प्रति नो जुषस्व ।
४,८ ६ मह्यम् मेधाम् वद मह्यम् श्रियम् वद मेधावी भूयासम् अजिराचरिष्णुः ।
४,८ ७ सदसस् पतिम् अद्भुतम् प्रियम् इन्द्रस्य काम्यम् ।
४,८ ७ सनिम् मेधाम् अयासिषम् ।(प् १२१)
४,८ ८ मेधाव्य् अहम् सुमनास् सुप्रतीकश् श्रद्धा मनास् सत्य मतिस् सुशेवः ।
४,८ ८ महा यशा धारयिष्णुः प्रवक्ता भूयासम् अस्येश्वरया प्रयोगे ।
४,८ ९ याम् मेधाम् देव गणाः पितरश् चोपासते ।
४,८ ९ तया माम् अद्य मेधयाग्ने मेधाविनम् कुरु ॥१७(प् १२२)
४,९ १
आ सूर् एतु परावतो अग्निर् गृहपतिस् सुप्रतीको विभावसुर् ।
अग्निर् ज्योतिर् निचाय्यः पृथिव्याम् अध्याभर ।
यम् आगत्य वाज्य् अध्वानम् सर्वा मृधो विधूनुते ।
आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् ।
सेनाम् जिगाति सुष्टुतिम् सुदीधितिर् विभावसुम् ॥(प् १२३)
४,९ २
ध्रुवम् अग्निर् नो दूतो रोदसी हव्यवाड् देवाम् आवक्षद् अध्वरे ।
विप्रो दूतः परिष्कृतो यक्षश् च यज्ञियः कविः ।
अप्नवानवद् और्ववद् भृगुवज् जमदग्निवद् ।

४,९ ४
महिषी वो अग्निर् धूम केतुर् उषर्बुधो वैश्वानरोषसाम् अग्रम् अख्यद् अत्य् अक्रमीद् द्रविणोदा वाज्य् अर्वाकस् सु लोकम् सुकृतः पृथिव्याम् ततः खनेम सुप्रतीकम् अग्निम् वैश्वानरम् स्वो रुहाणाधि नाकेऽस्मिन्न् अधा पोषस्व पोषेण पुनर् नो नष्टम् आकृधि पुनर् नो रयिम् आकृधि ॥
४,९ ५
न वै देवान् पीवरो सम्यतात्मा रोरूयमाणः ककुभाम् अचोदत्तेऽग्ने उ मन्य त्वम् अग्ने व्रतभृत् शुचिर् अग्ने देवान् इहावहोप यज्ञम् हविश् च नः ।
व्रतानि बिभ्रद् व्रतपादब्धो यजा नो देवान् अजरस् सुवीरः ।
दधद् रत्नानि सुमृडीको अग्ने गोपाय नो जीवसे जातवेदः ॥
४,९ ६
देवो अग्निस् स्विष्टकृत् सुद्रविणा मन्द्रः कविस् सत्य मन्मायजी होता होतुर् होतुर् आआयजीवान् अग्ने यान् देवान् अयाड् यान् अपिप्रेर् ये ते होत्रेऽमत्सत तान् ससनुषीम् होत्रान् देवंगमान् दिवि देवेषु यज्ञम् एरयेमम् स्विष्टकृच् चाग्निर् होताभूद् वसुवने वसुधेयस्य नमोवाके वीहि ।
४,९ ७
सर्वम् वहन्तु दुष्कृतम् अग्निम् गीर्भिर् हवामहे ।
अग्निश् शुक्रेण शोचिषा बृहत् सूर्यो अरोचत दिवि सूर्यो अरोचत ।
घृतैर् हव्येभिर् आहुतम् द्युमत् सूर्यो न रोचन् तेऽग्नौ हव्यानि धत्तनाग्नौ ब्रह्माणि केवलाग्ने बृहन्तम् अध्वरे ।
सश्चतो दाशुषो घृतम् एवा त्वाम् अग्ने सहोभिर् गीर्भिर् वत्सो अवीवृधत् ।
शासेत्था महांसि ॥१८(प् १२४)

४,१० १ वेनस् तत् पश्यद् भुवनस्य विद्वान् यत्र विश्वम् भुवत्य् एक नीडम् ।
४,१० १ इदम् धेनुर् अदुहज् जायमाना स्वर्विदम् अभ्यनूषत व्रा ह् ।
४,१० २ प्र तद् वोचेद् अमृतम् नु विद्वान् गन्धर्वो नाम निहितम् गुहा यत् ।
४,१० २ त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुष् पितासत् ।
४,१० ३ सतो बन्धुर् जनिता स विधाता धामानि वेद भुवनानि विश्वा ।
४,१० ३ यत्र देवामृतम् अनाशानास् तृतीये धामन्न् अभ्य् ऐरयन्त ।
४,१० ३ अक्षीभ्याम् ते नासिकाभ्याम् ॥१९(प् १२६)

४,१० १ वेनस् तत् पश्यन्त परमम् पदम् यत्र विश्वम् भवत्य् एकनडम् ।
४,१० १ इदम् धेनुर् अदुहज् जायमानास् स्वर्विदो अभ्यनुक्ति विराट् ।
४,१० २ पृथग् वोचेद् अमृतम् न विद्वान् गन्धर्वो धाम परमम् गुहा यत् ।
४,१० २ त्रीणि पदानि हता गुहासु वस् तानि वेद स पितुष् पितासत् ।
४,१० ३ स नो बन्धुर् जनिता स विधन्ता धामानि वेद भुवनानि विश्वा ।
४,१० ३ यत्र देवामृताम् आनशाना समाने धामन्न् अद्धीरयन्त ।
४,१० ४ परि विश्वा भुवनान्य् आयम् उपाचष्टे प्रथमजर्तस्य ।
४,१० ४ वाचसि वाक्त्रि भुवनेष्ठा धास्रम् नेषणत्वेषो अग्निः ।
४,१० ५ परि द्यावा पृथि सद्यायम् ऋतस्य तन्तुम् वितरम् दृकेशम् ।
४,१० ५ देवो देवत्वम् अभिरक्षमाणस् समानम् बन्धुम् विपरिच्छदे कः ॥

४,११ १ येनेदम् भूतम् भुवनम् भविष्यत् परिगृहीतम् अमृतेन सर्वम् ।
४,११ १ येन यज्ञस् तायते सप्त होता तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ २ येन कर्माण्य् अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
४,११ २ यद् अपूर्वम् यक्षम् अन्तः प्रजानान् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ ३ यत् प्रज्ञानम् उत चेतो धृतिश् च यज् ज्योतिर् अन्तर् अमृतम् प्रजासु ।
४,११ ३ यस्मान् नर्ते किंचन कर्म क्रियते तन् मे मनश् शिव संकल्पम् अस्तु ।(प् १२७)
४,११ ४ यज् जाग्रतो दूरम् उदैति दैवम् तद् उ सुप्तस्य तथैवैति ।
४,११ ४ दूरंगमम् ज्योतिषाम् ज्योतिर् एकम् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ ५ यस्मिन् ऋचस् साम यजूंषि यस्मिन् प्रतिष्ठिता रथ नाभा विवराः ।
४,११ ५ यस्मिंश् चित्तम् सर्वम् ओतम् प्रजानान् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ ६ सुषारथिर् अश्वान् इव यन् मनुष्यान् नेनीयतेऽभीशुभिर् वाजिनेव ।
४,११ ६ हृत् प्र्थिष्ठम् यद् अजिरम् जविष्ठम् तन् मे मनश् शिव संकल्पम् अस्तु ॥२०
४,११ ७ यद् अत्र षष्ठम् त्रिशतम् शरीरम् यज्ञस्य ( ) ह्यन् नव नाभम् आद्यम् ।
४,११ ७ दश पञ्च त्रिंशतम् यत् परम् च तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ ८ ये पञ्च पञ्चा दशतम् शतम् च सहस्रम् च नियुतम् न्यर्बुदम् च ।
४,११ ८ ते यज्ञ चित्तेष्टकात् तम् शरीरम् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ ९ वेदाहम् एतम् पुरुषम् महान्तम् आदित्य वर्णम् तमसः परस्तात् ।
४,११ ९ ( ) उ ( ) न्त् ( ) धीरास् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ १० येन कर्माणि प्रचरन्ति धीरा विप्रा वाचा मनसा कर्मणा च ।
४,११ १० संविदम् अनु सम्यन्ति प्राणिनस् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ ११ ये मनो हृदयम् ये च देवा येऽन्तरिक्षे बहुधा चरन्ति ।
४,११ ११ ये स्रोत्रम् चक्षुषी संचरन्ति तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ १२ येन द्यौर् उग्रा पृथिवी चान्तरिक्षम् ये पर्वताः प्रदिशो दिशश् च ।
४,११ १२ येनेदम् जगत्य् आप्तम् प्रजानान् तन् मे मनश् शिव संकल्पम् अस्तु ।
४,११ १३ येनेदम् सर्वम् जगतो बभूवुर् ये देवापि महतो जातवेदाः ।
४,११ १३ तद् इवाग्निस् तपसो ज्योतिर् एकम् तन् मे मनश् शिव संकल्प्मम् अस्तु ।
४,११ १३ तुभ्येदम् (तुभ्येयम्) इन्द्र परि षिच्यते मधु ॥२१(प् १२८)

४,१२ १ यासाम् ऊधश् चतुर्बिलम् मधोः पूर्णम् घृतस्य च ।
४,१२ १ ता नस् सन्तु पयस्वतीर् बह्वीर् गोष्ठे घृताच्यः ।
४,१२ २ उपमैतु मयोभुवम् ऊर्जम् चौजश् च पिप्रतीः ।
४,१२ २ दुहानाक्षितिम् पयो मम गोत्रे निविशध्वम् यथा भवाम्य् उत्तमः ।
४,१२ २ विभ्राड् बृहत् पिबतु सोम्यम् मधु ॥२२(प् १२९)

४,१३ १ नेजमेष परा पत सुपुत्रः पुनर् आपत ।
४,१३ १ अस्यै मे पुत्र कामायै गर्भम् आधेहि यः पुमान् ।
४,१३ २ यथेयम् पृथिवी मह्य्य् उत्ताना गर्भम् आदधे ।
४,१३ २ एवम् तम् गर्भम् आधेहि दशमे मासि सूतवे ।
४,१३ ३ विष्णोश् श्रैष्ठ्येन रूपेणास्याम् नार्याम् गवीन्याम् ।
४,१३ ३ पुमांसम् पुत्रम् आधेहि दशमे मासि सूतवे ।
४,१३ ३ महि त्रीणाम् अवो अस्तु ॥२३(प् १३०)

४,१४ १ अनीकवन्तम् ऊतयेऽग्निम् गीर्भिर् हवामहे ।
४,१४ १ स नः पर्षद् अतिद्विषः ।
४,१४ २ प्र नूनम् जातवेदसम् ॥२४(प् १३०)









________________________________________

खि.खि.१ १ सूक्तान्ते कृणान्य् अग्नाव् अरण्ये वोदकेऽपिवा ।
खि.खि.१ १ यत् स्तृणैर् अध्ययनम् तद् अधीतम् स्तृणानि भव ते भव ॥
खि.खि.१ २ वापी कूप तडागानाम् समुद्रम् गच्छ स्वाहाग्निम् गच्छ स्वाहा ॥(प् १६९)


खि.खि.२ १ विश्वेश्वर विरूपाक्ष विश्व रूप सदाशिव ।
खि.खि.२ १ शरणम् भव भूतेश करुणा कर शंकर ।
खि.खि.२ २ हर शम्भो महा देव विश्वेशामर वल्लभ ।
खि.खि.२ २ शिव शंकर सर्वात्मन् नील कन्थ नमो अस्तु ते ।
खि.खि.२ ३ मृत्युम् जयाय रुद्राय नील कन्थाय शम्भवे ।
खि.खि.२ ३ अमृतेशाय शर्वाय श्री महादेवाय ते नमः ।
खि.खि.२ ४ एतानि शिव नामानि यः पठेन् नियतः सकृत् ।
खि.खि.२ ४ नास्ति मृत्यु भयम् तस्य पाप रोगादि किंचन ।


खि.खि.३ १ यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
खि.खि.३ १ कृष्ण विष्णो हृषीकेश वासुदेव नमो अस्तु ते ।
खि.खि.३ २ कृष्णाय गोपिनाथाय चक्रिणे सुरवैरिणे ।
खि.खि.३ २ अमृतेशाय गोपाय गोविन्दाय नमो नमः ।
खि.खि.३ ३ एतान्य् अनन्तनामानि मण्डलान्ते सदा पठेत् ।(प् १७०)


खि.खि.४ १ यत् स्तृणैर् अध्ययनम् तद् अधीतम् स्तृणानि भव ते भव ।
खि.खि.४ १ वापी कूप तडागानाम् समुद्रम् गच्छ स्वाहा ।
खि.खि.४ २ सूक्तान्ते तृणान्य् अग्नौ ।


खि.खि.५ १ सितासिते सरिते यत्र संगते तत्राप्लुतासो दिवम् उत्पतन्ति ।
खि.खि.५ १ ये वै तन्वान् विसृजन्ति धीरास् ते जनासो अमृतत्वम् भजन्ते ॥


खि.खि.६ १ हविर्हिर् एके स्वर् इतः सचन्ते सुन्वन्तैके सवनेषु सोमान् ।
खि.खि.६ १ शचीर् मदन्तोत दक्षिणाभिर् नेज् जिह्मायन्त्यो नरकम् पताम ॥


खि.खि.७ १ हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।
खि.खि.७ १ उत ह्रदो हि नो भुवो अग्निर् ददातु भेषजम् ।
खि.खि.७ १ शीत ह्रदो हि नो भुवो अग्निर् ददातु भेषजम् ।
खि.खि.७ २ अन्तिकाम् अग्निम् अजनयद् दुर्वारः शिशुर् आगमत् ।
खि.खि.७ २ अजात पुत्र पक्षाया हृदयम् मम दूयते ।
खि.खि.७ ३ विपुलम् वनम् बह्व् आकाशम् चर जातवेदः कामाय ।
खि.खि.७ ३ माम् च रक्ष पुत्रांश् च शरणम् अभूत् तव ।
खि.खि.७ ४ पिङ्गाक्ष लोहित ग्रीव कृष्ण वर्ण नमो अस्तु ते ।
खि.खि.७ ४ अस्मान् निबर्ह रस्योनम् सागरस्योर्मयो यथा ।
खि.खि.७ ५ इन्द्रः क्षत्रम् ददातु वरुणम् अभिषिञ्चतु ।
खि.खि.७ ५ शत्रवो निधनम् यान्तु जयस् त्वम् ब्रह्म तेजसा ।
खि.खि.७ ६ कल्प जटीम् सर्व भक्षम् चाग्निम् प्रत्यक्ष दैवतम् ।
खि.खि.७ ६ वरुणम् च वशाम्य् अग्रे मम पुत्रांश् च रक्षतु मम पुत्रांश् च रक्षत्व् ओम् नमः ।
खि.खि.७ ७ साग्रम् वर्ष शतम् जीव पिब खाद च मोद च ।
खि.खि.७ ७ दुह्खितांश् च द्विजांश् चैव प्रजाम् च पशु पालय ।
खि.खि.७ ८ यावद् आदित्यस् तपति यावद् भ्राजति चन्द्रमाः ।
खि.खि.७ ८ यावद् वायुः प्लवायति तावज् जीव जया जय ।
खि.खि.७ ९ येन केन प्रकारेण को वीनाम् अनुजीवति ।
खि.खि.७ ९ परेषाम् उपकारार्थम् यज् जीवति स जीवति ।
खि.खि.७ ९ एताम् वैश्वानरीम् सर्व देव नमो अस्तु ते ।
खि.खि.७ १० न चोर भयम् न च सर्प भयम् न च व्याघ्र भयम् न च मृत्यु भयम् ।
खि.खि.७ १० यस्यापमृत्युर् न च मृत्युः स सर्वम् लभते स सर्वम् जयते ॥


ऋग्वेद के खिलभाग में कृष्ण जी भी प्रकट हो गये --गोविन्द रूप में भी -

ऋग्वेद के खिलभाग में कृष्ण जी भी प्रकट हो गये --गोविन्द रूप में भी -



ऋग्वेदः खिलसूक्तानि/अध्यायः ५

(V अध्याय, अनुक्रमणी)
ओम् < संज्ञानम् > पञ्च कश्यपस् संज्ञानश् शम्युर् उत्तमा साशीश् शक्वरी सर्वत्र < नैर्हस्त्यम् > तृचम् निर्हस्त्य सपत्नघ्नम् सेना दरणम् आनुष्टुभम् बृहती मध्यम् < प्र > सप्त कश्यपो जमदग्निर् उत्तमा शम्युर् आद्याग्नेयी गायत्री द्वितीयोपोत्तमाशीः पाङ्क्त्यम् तृतीयाक्षर स्तुतिस् सानुष्टुप् चतुर्थी सौमी पञ्चमी सौरी < विदा > दश पादाश् च पञ्च विश्वामित्रेन्द्रो वा प्रजापतिर् ऐन्द्रम् पावनम् आनुष्टुभम् पुरीष पदान्य् आग्नेय वैष्नवाइन्
द्र पौष्ण दैवानि वैराजानि द्वितीया पञ्चम्याव् उष्णिहौ चतुर्थी न्यङ्कुसारिणी सप्तमी पुरस्ताद् बृहती नवम्य् अन्त्ये पङ्क्ती < अग्निर् > एकादश लिङ्गोक्त देवतम् यजूंषि
< वायुस् > सप्त प्रउगेणोक्त दैवतम् गायत्रम् षष्ठी शक्वरी याजुषाणि पञ्च < होता > द्वादश वसिष्ठो वा प्रैष सूक्तान्य् आद्यम् आप्रियम् परम् लिङ्गोक्त देवतम् अनिरुक्तम् स्वयज्ञोक्त देवतम् अन्यत् प्रोक्तम् < अजैद् > एकादश सप्तमी नवम्यौ त्रिष्टुभौ < देवम् होता > अष्टादश < होता > द्वादश < इदम् > तृचम् वसिष्ठ वामदेवौ कुन्तापौ द्विबृहत्याव् अनुष्टुब् < वच्यस्वर् > आनुष्टुब् अन्तम् राज्ञश् चतुष्कम् < इन्द्रः > पङ्क्त्य् अन्तम् < यः > पञ्च < यष् षड्
 यत् > पञ्चैता द्व्यूनाइतशो मुनिष् षष्ट्य् अष्टम्याव् उष्णुहाव् अन्त्या द्विपदा यजूंषि वा चत्वारि
< विततौ > षड् आनुष्टुभम् < इहेत्थ > चतुष्कम् द्विपदम् < भुग् > एकपादा निचृद् < वि > इमेऽनुष्टुब् < आदित्याः > पञ्च जगती त्रिष्टुब् उपरिष्टाद् बृहती पुरस्ताद् बृहती द्विपदा यजुर् वा < त्वम् > तृचम् आनुष्टुभम् तु < यद् > दश होतृ प्रतिगरित्रोस् संवादो नाक पृत्सु जगत्य् आद्या जगत्य् आद्या ॥

5.1
संज्ञानम् उशनावदत् संज्ञानम् वरुणो वदत् ।
संज्ञामम् इन्द्रश् चाग्निश् च संज्ञानम् सविता वदत् ।१
संज्ञानम् नस् स्वेभ्यस् संज्ञानम् अरणेभ्यः ।
संज्ञानम् आश्विन युवम् इहास्मासु नियच्छताम् ।२
यत् कक्षीवान् संवननम् पुत्रो अङ्गिरसाम् अवेत् ।
तेन नो अद्य विश्वे देवास् सम् प्रियाम् सम् अवीवनम् ।३
सम् वो मनांसि जानताम् सम् आकूतिम् मनामसि ।
असौ यो विमना जनस् तम् समावर्तयामसि । ४
तत् शम्योर् आवृणीमहे गातुम् यज्ञाय गातुम् यज्ञ पतये दैवी स्वस्तिर् अस्तु नस् स्वस्तिर् मानुषेभ्यः ।
ऊर्ध्वम् जिगातु भेषजम् शम् नो अस्तु द्विपदे शम् चतुष्पदे ॥५(प् १३२)
5.2
नैर्हस्त्यम् सेना दरणम् परि वर्त्मेव यद्द् हविः ।
तेनामित्राणाम् बाहून् हविषा शोषयामसि ।१
परि वर्त्मान्य् एषाम् इन्द्रः पूषा च चक्रतुः ।
तेषाम् वो अग्नि दग्धानाम् अग्नि गूढानाम् इन्द्रो हन्तु वरम् वरम् ।२
ऐषु नह्य विषादनम् हरिणस्य धियम् यथा ।
परान् अमित्रान् ऐषत्व् अर्वाची गौर् उपेजतु ॥३२
5.3
प्राध्वराणाम् पते वसो होतर् वरेण्य क्रतो ।
तुभ्यम् गायत्रम् ऋच्यते ।१
गो कामो अन्न कामः प्रजा कामोत कश्यपः ।
भूतम् भविष्यत् प्रस्तौति महद् ब्रह्मैकम् अक्षरम् बहु ब्रह्मैकम् अक्षरम् ।२
यद् अक्षरम् भूतकृतो विश्वे देवोपासते ।
महर्षिम् अस्य गोप्तारम् जमदग्निम् अकुर्वत ।३
जमदग्निर् आप्यायते छन्दोभिश् चतुर् उत्तरैः ।(प् १३३)
राज्ञस् सोमस्य भक्षेण ब्रह्मणा वीर्यवताम् शिवा नः प्रदिशो दिशः । ४
अजो यत् तेजो ददृशे शुक्रम् ज्योतिः परो गुहा ।
तद् ऋषिः कश्यप स्तौति सत्यम् ब्रह्म चराचरम् ध्रुवम् ब्रह्म चराचरम् ।५
त्र्यायुषम् जमदग्नेः कश्यपस्य त्र्यायुषम् ।
अगस्त्यस्य त्र्यायुषम् यद् देवानाम् त्र्यायुषम् तन् नो अस्तु त्र्यायुषम् ।६

तत् शम्योर् आवृणीमहे गातुम् यज्ञाय गातुम् यज्ञ पतये दैवी स्वस्तिर् अस्तु नस् स्वस्तिर् मानुषेभ्यः ।
ऊर्ध्वम् जिगातु भेषजम् शम् नो अस्तु द्विपदे शम् चतुष्पदे ॥७३
5.4
विदा मघवन् विदा गातुम् अनु शंसिषो दिशः ।
शिक्षा शचीनाम् पते पूर्वीणाम् पुरूवसो ।१(प् १३४)
आभिष् ट्वम् अभिष्टिभिः प्रचेतन प्रचेतय ।
इन्द्र द्युम्नाय नेषैवा हि शक्रः ।२
राये वाजाय वज्रिवश् शविष्ठ वज्रिन् ऋञ्जसे ।
मन्हिष्ठ वज्रिन् ऋञ्जसायाहि पिब मत्स्व । ३
विदा राये सुवीर्यम् भुवो वाजानाम् पतिर् वशाम् अनु ।
मन्हिष्ठ वज्रिन् ऋञ्जसे यश् शविष्ठस् शूराणाम् ।४
यो मन्हिष्ठो मघोनाम् चिकित्वो अभि नो नय ।
इन्द्रो विदे तम् उ स्तुषे वशी हि शक्रः ॥५
तम् ऊतये हवामहे जेतारम् अपराजितम् ।
स नः पर्षद् अतिद्विषस् क्रतुश् छन्दर्तम् बृहत् ।६
इन्द्रम् धनस्य सातये हवामहे जेतारम् अपराजितम् ।
स नः पर्षद् अतिद्विषस् स नः पर्षद् अतिस्रिधः ।७
पूर्वस्य यत् तेऽद्रिवस् सुम्नाधेहि नो वसो ।
पूर्तिश् शविष्ठ शश्वतेशे हि शक्रः ।८
नूनम् तम् नव्यम् मन्यसे प्रभो जनस्य वृत्रहन् ।
सम् अन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः ॥९
एवा ह्य् एवैवा ह्य् अग्ने ।एवा ह्य् एवैवा हि विष्णो ।
एवा ह्य् एवैवा हीन्द्र ।एवा ह्य् एवैवा हि पूषन् ।
एवा ह्य् एवैवा हि देवाः । १०
एवा हि शक्रो वशी हि शक्रो वशाम् अनु ।
आयो मन्याय मन्यवोपो मन्याय मन्यवोपेहि विश्वथ ॥११(प् १३५)


निविदध्यायः

५,५ १
अग्निर् देवेद्धः ।
अग्निर् मन्व् इद्ध ।
अग्निस् सुषमित् ।
होता देव वृतः ।
होता मनु वृतः ।
प्रणीर् यज्ञानाम् ।
रथीर् अध्वराणाम् ।
अतूर्तो होता ।
तूर्णिर् हव्यवाट् ।
आ देवो देवान् वक्षत् ।
यक्षद् अग्निर् देवो देवान् ।
सो अध्वरा करति जातवेदाः ॥७
५,५ २
इन्द्रो मरुत्वान् सोमस्य पिबतु ।
मरुत् स्तोत्रो मरुद् गणः ।
मरुत् सखा मरुद् वृधः ।
घ्नन् वृत्रा सृजद् अपः ।
मरुताम् ओजसा सह ।
येम् एनम् देवान्वमदन् ।
अप् तूर्ये वृत्र तूर्ये ।
शम्बर हत्ये गविष्ठौ ।
अर्चन्तम् गुह्या पदा ।
परमस्याम् परावति ।
आद् ईम् ब्रह्माणि वर्धयन् ।
अनाधृष्टान्य् ओजसा ।
कृण्वन् देवेभ्यो दुवः ।
मरुद्भिस् सखिभिस् सह ।
इन्द्रो मरुत्वान् इह श्रवद् इह सोमस्य पिबतु ।
प्रेमान् देवो देव हूतिम् अवतु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥८
५,५ ३
इन्द्रो देवस् सोमम् पिबतु ।
एकजानाम् वीरतमः ।
भूरिजानाम् तवस्तमः ।
हर्योस् स्थाता ।
पृश्नेः प्रेता ।
वज्रस्य भर्ता ।
पुराम् भेत्ता ।
पुराम् दर्मा ।
अपाम् सृष्टा ।
अपाम् नेता ।
सत्वानाम् नेता ।
निजघ्निर् दूरेश्रवाः ।
उपमाजिकृद् दंसनावान् ।
इहोशन् देवो बहूवान् ।
इन्द्रो देवेह श्रवद् इह सोमम् पिबतु ।
प्रेमान् देवो देव हूतिम् अवतु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥९(प् १३६)
५,५ ४
सविता देवस् सोमस्य पिबतु हिरण्य पाणिस् सुजिह्वः ।
सुबाहुस् स्वङ्गुरिः ।
त्रिर् अहन् सत्य सवनः ।
यत् प्रासुवद् वसुधित्युभे जोष्ट्री सवीमनि ।
श्रेष्ठम् सावित्रम् आसुवन् ।
दोग्ध्रीन् धेनुम् ।
वोढारम् अनट्वाहम् ।
आशुम् सप्तिम् ।
जिष्णुम् रथेष्ठाम् ।
पुरन्धिम् योषाम् ।
सभेयम् युवानाम् ।
परामीवाम् साविषत् पराघशंसम् ।
सविता देवेह श्रवद् इह सोमस्य मत्सत् ।
प्रेमाम् देवो देव हूतिम् अवतु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥१०
५,५ ५
द्यावा पृथिवी सोमस्य मत्सताम् ।
पिता च माता च ।
पुत्रश् च प्रजननम् च ।
धेनुश् चर्षभश् च ।
धन्या च धिषणा च ।
सुरेताश् च सुदुग्धा च ।
शम्भूश् च मयोभूश् च ।
ऊर्जस्वती च पयस्वती च ।
रेतोधाश् च रेतोभोऋच् च ।
द्यावा पृथिवीह श्रुताम् इह सोमस्य मत्सताम् ।
प्रेमाम् देवी देव हूतिम् अवताम् देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् स्न्वन्तम् यजमानम् अवताम् ।
चित्रे चित्राभिर् ऊतिभिः ।
श्रुताम् ब्रह्माण्य् आवसा गमताम् ॥११
५,५ ६
ऋभवो देवास् सोमस्य मत्सन् ।
विष्ट्वी स्वपसः ।
कर्मणा सुहस्ताः ।
धन्या धनिष्ठाः ।
शम्या शमिष्ठाः ।
शच्या शचिष्ठाः ।
ये धेनुम् विश्वजुवम् विश्व रूपाम् अरक्षन् ।
अरक्षन् धेनुर् अभवद् विश्व रूपी ।
अयुञ्जत हरी ।
अयुर् देवान् उप ।
अबुध्रन् सम् कनीना मदन्तः ।
संवत्सरे स्वपसो यज्ञियम् भागम् आयन् ।
ऋभवो देवेह श्रवन्न् इह सोमस्य मत्सन् ।
प्रेमाम् देवा देव हूतिम् अवन्तु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवन्तु ।
चित्राश् चित्राभिर् ऊतिभिः ।
श्रवन् ब्रह्माण्य् आवसा गमन् ॥१२
५,५ ७
विश्वे देवास् सोमस्य मत्सन् ।
विश्वे वैश्वानराः ।
विश्वे विश्व महसः ।
महि महनतः ।
तक्वान्ना नेमधितीवानः ।
आस्क्राः पचत वाहसः ।
वातात्मानो अग्नि जूताः ।
ये द्याम् च पृथिवीम् चातस्थुः ।पश् च स्वश् च ।
ब्रह्म च क्षत्रम् च ।
बर्हिश् च वेदिम् च ।
यज्ञम् चोरु चान्तरिक्षम् ।
ये स्थ त्रयैकादशाः ।
त्रयश् च त्रिंशच् च ।
त्रयश् च त्री च शता ।
त्रयश् च त्री च सहस्रा ।
तावन्तो अभिषाचः ।तावन्तो राति षचाः ।
तावतीः पत्नीः ।
तावतीर् ग्नाः ।
तावन्तोदरणे ।
तावन्तो निवेशने ।
अतो वा देवा भूयांसस् स्थ(प् १३७) ।
मा वो देवातिशषा मा परिशसा विक्षि ।
विश्वे देवेह श्रवन्न् इह सोमस्य मत्सन् ।
प्रेमाम् देवा देव हूतिम् अवन्तु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवन्तु ।
चित्राश् चिताभिर् ऊतिभिः ।
श्रवन् ब्रह्माण्य् आवसा गमन् ॥१३
५,५ ८
अग्निर् वैश्वानरस् सोमस्य मत्सत् ।
विश्वेषाम् देवानाम् समित् ।
अजस्रम् दैव्यम् ज्योतिः ।
यो विड्भ्यो मानुषीभ्यो दीदेत् ।
द्युषु पूर्वासु दिद्युतानः ।
अजरोषसाम् अनीके ।
आ यो द्याम् भात्य् आ पृथिवीम् ।
उर्व् अन्तरिक्षम् ।
ज्योतिषा यज्ञाय शर्म यंसत् ।
अग्निर् वैश्वानरेह श्रवद् इह सोमस्य मत्सत् ।
प्रेमान् देवो देह हूतिम् अवतु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥१४
५,५ ९
मरुतो देवास् सोमस्य मत्सन् ।
सुष्टुभस् स्वर्काः ।
अर्क स्तुभो बृहद् वयसः ।
शूरानाधृष्ट रथाः ।
त्वेषासः पृश्नि मातरः ।
शुभ्रा हिरण्य खादयः ।
तवसो भन्ददिष्टयः ।
नभस्या वर्ण निर्णिजः ।
मरुतो देवेह श्रवन्न् इह सोमस्य मत्सन् ।
प्रेमान् देवा देव हूतिम् अवन्तु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवन्तु ।
चित्राश् चित्राभिर् ऊतिभिः ।
श्रवन् ब्रह्माण्य् आवसा गमन् ॥१५

५,५ १०
अग्निर् जातवेदास् सोमस्य मत्सत् ।
स्वनीकश् च चित्र भानुः ।
अप्रोषिवान् गृहपतिस् तिरस् तमांसि दर्शतः ।
घृताहवनेड्यः ।
बहुल वर्त्मास्तृत यज्वा ।
प्रतीत्या शत्रून् जेतापराजितः ।
अग्ने जातवेदो अभि द्युम्नम् अभि सहायच्छस्व ।
तुशो अप्तुशः ।
समिद्धारम् स्तोतारम् अंहसस् पाहि ।
अग्निर् जातवेदेह श्रवद् इह सोमस्य मत्सत् ।
प्रेमाम् देवो देव हूतिम् अवतु ।
देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्र्म ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥१६

५,५ ११
अस्य मदे जरितर् इन्द्रस् सोमस्य मत्सत् ।
अस्य मदे जरितर् इन्द्रो अहिम् अहम् ।
अस्य मदे जरितर् इन्द्रो वृत्रम् अहन् ।
अस्य मदे जरितर् इन्द्रो अपाम् वेगम् ऐरयत् ।
अस्य मदे जरितर् इन्द्रो जिन्वद् अजुवो पिन्वद् अजितः ।
अस्य मदे जरितर् इन्द्रोद् आर्यम् वर्णम् अतिरद् अवदासीद् विशो अस्तभ्नात् ।
अस्य मदे जरितर् इन्द्रोद् द्याम् अस्तभ्नाद् अप्रथयत् पृथिवीम् ।
अस्य मदे जरितर् इन्द्रो दिवि सूर्याम् ऐरय(प् १३८) ।
व्य् अन्तरिक्षम् अतिरत् ।
अस्य मदे जरितर् इन्द्रस् समुद्रान् प्रकुपिताम् अरम्णात् ।
अस्य मदे जरितर् इन्द्रर्श्याम् इव पम्फणतः पर्वतान् प्रकुपितान् अरम्णात् ।
अस्य मदे जरितर् इन्द्रेह श्रवद् इह सोमस्य मत्सत् ।
प्रेमान् देवो देव हूतिम् अवतु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥१७(प् १३९)
५.६
वायुर् अग्रेगा यज्ञप्रीस् साकम् गन् मनसा यज्ञम् ।
शिवो नियुद्भिश् शिवाभिः ।
हिरण्य वर्तनी नरा देवा पत्यभिष्टये ।
वायुश् चेन्द्रश् च सुमखा ।
काव्या राजाना क्रत्वा दक्षस्य दुरोणे ।
रिशादसा सधस्था ।
दैव्याध्वर्य्वागतम् रथेन सूर्य त्वचा ।
मध्वा यज्ञम् समञ्जाथे ।
इन्द्रोक्थेभिर् भन्दिष्ठो वाजानाम् च वाज पतिः ।
हरिवान् सुतानाम् सखा ।
विश्वान् देवान् हवामहेऽस्मिन् यज्ञे सुपेशसः ।
तेमम् यज्ञम् आगमन् देवासो देव्या धिया ।
जुषाणाध्वरे सदो ये यज्ञस्य तनूकृतः ।
विश्वा सोम पीतये ।
वाचा महीम् देवीम् वाचम् अस्मिन् यज्ञे सुपेशसम् ।
सरस्वतीम् हवामहे ॥१८(प् १४१)

५.७.१
होता यक्षद् अग्निम् समिधा सुषमिधा समिद्धम् नाभा पृथिव्यास् संगथे वामस्य ।
वर्ष्मम् दिवेडस् पदे वेत्व् आज्यस्य होतर् यज ।
होता यक्षत् तनूनपातम् अदितेर् गर्भम् भुवनस्य गोपाम् ।
मध्वाद्य देवो देवेभ्यो देव यानान् पथो अनक्तु वेत्व् आज्यस्य होतर् यज ।
होता यक्षन् नराशंसम् नृशस्तम् नॄम्ः प्रणेत्रम् ।
गोभिर् वपावान् स्याद् वीरैश् शक्तीवान् रथैः प्रथमयावा हिरण्यैश् चन्द्री वेत्व् आज्यस्य होतर् यज ।
होता यक्षद् अग्निम् इडेडितो देवो देवम् आवक्षद् दूतो हव्यवाड् अमूरः ।
उपेमम् यज्ञम् उपेमाम् देवो देव हूतिम् अवतु वेत्व् आज्यस्य होतर् यज ।
होता यक्षद् बर्हिस् सुष्टरीमोर्णम्रदास्मिन् यज्ञे वि च प्र च प्रथाम् स्वासस्थम् देवेभ्यः ।
एम् एनद् अद्य वसवो रुद्रादित्यास् सदन्तु प्रियम् इन्द्रस्यास्तु वेत्व् आज्यस्य होतर् यज।
होता यक्षद् दुरर्ष्वाः कवष्यो कोष धावनीर् उद् आताभिर् जिहताम् विप्रक्षोभिश् श्रयन्ताम् ।
सुप्रायणास्मिन् यज्ञे विश्रयन्ताम् ऋतावृधो व्यन्त्व् आज्यस्य होतर् यज ।१९
होता यक्षद् उषासा नक्ता बृहती सुपेशसा नॄम्ः पतिभ्यो योनिम् कृण्वाने ।
संस्मयमाने इन्द्रेण देवैर् एदम् बर्हिस् सीदताम् वीताम् आज्यस्य होतर् यज ।
होता यक्षद् दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा ।
स्विष्टम् अद्यान्याः करद् इषा स्वभिगूर्तम् अन्योर्जा स्वतवसेमम् यज्ञम् दिवि देवेषु धत्ताम् वीताम् आज्यस्य होतर् यज।
होता यक्षत् तिस्रो देवीर् अपसाम् अपस्तमाछिद्रम् अद्येदम् अपस् तन्वताम् ।
होता यक्षत् त्वष्टारम् अचिष्टम् अपाकम् रेतोधाम् विश्व वसम् यशोधाम् ।
पुरु रूपम् अकामकर्शनम् सुपोषः पोषैस् स्यात् सुवीरो वीरैर् वेत्व् आज्यस्य होतर् यज ।(प् १४२)
होता यक्षद् वनस्पतिम् उपावस्रक्षद् धियो जोष्टारम् शशमन् नरः ।
स्वदात् स्वधितिर् ऋतुथाद्य देवो देवेभ्यो हव्यावाड् वेत्व् आज्यस्य होतर् यज ।
होता यक्षद् अग्निम् स्वाजाज्यस्य स्वाहा मेदसस् स्वाहा स्तोकानाम् स्वाहा स्वाहा कृतीनाम् स्वाहा हव्य सूक्तीनाम् ।
स्वाहा देवाज्यपा जुषाणाग्नाज्यस्य व्यन्तु होतर् यज ॥२०

५.७.२
अजैद् अग्निर् असनद् वाजन् नि देवो देवेभ्यो हव्यवाट् ।
प्राञ्जोभिर् हिन्वानो धेनाभिः कल्पमानो यज्ञस्यायुः ।
प्रतिरन्न् उपप्रेष होतर् हव्या
होता यक्षद् अग्निम् आज्यस्य जुषताम् हविर् होतर् यज ।
होता यक्षत् सोमम् आज्यस्य जुषताम् हविर् होतर् यज ।
होता यक्षद् अग्नीषोमौ छागस्य वपाया मेदसो जुषेताम् हविर् होतर् यज ।
होता यक्षद् अग्नीषोमौ पुरोडाशस्य जुषेताम् हविर् होतर् यज ।
होता यक्षद् अग्नीषोमौ छागस्य हविषात्ताम् अद्य मध्यतो मेदोद्भृतम् पुरा देवेषोभ्यः पुरा पौरुषेय्या गृभो घस्ताम् नूनम् घाएऽज्राणाम् यवस प्रथमानाम् सुमत्क्षराणाम् शत रुद्रियानाम् अग्निष्वात्तानाम् पीवोपवसनानाम् पार्श्वतश् श्रोणितश् शितामतोत्सादतो अङ्गाद् अङ्गाद् अवत्तानाम् करतैवाग्नीषोमौ जुषेताम् अह्विर् होतर् यज ॥२१
देवेभ्यो वनपते हवींषि हिरण्य पर्ण प्रदिवस् तेऽर्थम् ।
प्रदक्षिणिद् रशनया नियूयर्तस्य वक्षि पथिभी रजिष्ठैः ।
होता यक्षद् वनस्पतिम् अभि हि पिष्टतमया रभिष्टया रशनयाधित ।
यत्राग्नेर् आज्यस्य हविषः प्रिया धामानि यत्र सोमस्याज्यस्य हविषः प्रिया धामानि यत्राग्नीष् ओमयोश् छागस्य हविषः प्रिया धामानि यत्रा वनस्पतेः प्रिया पाथांसि यत्र देवानाम् आज्यपानाम् प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतम् प्रस्तुत्य् एवोपस्तुत्य् एवोपावस्रक्षद् रभीयाम् सम् इव कृत्वी करद् एवम् देवो वनस्पतिर् जुषताम् हविर् होतर् यज ।(प् १४३)
वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् ।
वहा देवत्रा दधिषो हवींषि प्र च दातारम् अमृतेषु वोचः ।
होता यक्षद् अग्निम् स्विष्टकृतम् अयाद् अग्निर् अग्नेर् आज्यस्य हविषः प्रिया धामान्य् अयाट् सोमस्याज्यस्य हविषः प्रिया धामान्य् अयाड् अग्नी षोमयोश् छागस्य हविषः प्रिया धामान्य् अयाड् वनस्पतेः प्रिया पाथांस्य् अयाड् देवानाम् आज्यपानाम् प्रिया धामानि यक्षद् अग्नेर् होतुः प्रिया धामानि यक्षत् स्वम् महिमानम् आयजताम् एज्येषः कृणोतु सो अध्वरा जातवेदा जुषताम् हविर् होतर् यज ।
अग्निम् अद्य होतारम् अवृणीतायम् यजमानः पचन् पक्तीः पचन् पुरोडाशम् गृह्णन्न् अग्नयाज्यम् गृह्णन् सोमायाज्यम् बध्नन्न् अग्नीषोमाभ्याम् छागम् सूपस्थाद्य देवो ननस्पतिर् अभवद् अग्नयाज्येन सोमायाज्येनाग्नी षोमाभ्याम् छागेनाघत्ताम् तम् मेदस्तः प्रति पचताग्रभीष्टाम् अवीवृधेताम् पुरोडाशेन त्वाम् अद्यर्षार्षेयर्षीणाम् नपाद् अवृणीतायाम् यजमानो बहुभ्या संगतेभ्यः ।
एष मे देवेषु वसु वार्य् आयक्ष्यतेति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्र वाच्याय प्रेषितो मानुषस् सूक्त वाकाय सूक्ता ब्रूहि ॥२२

५.७.३
देवम् बर्हिस् सुदेवम् देवैस् स्यात् सुवीरम् वीरैर् वस्तोर् वृज्येताक्तोः प्रभ्रियेतात्य् अन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज ।
देवीर् द्वारस् संघाते वीड्वीर् यामन् शिथिरा ध्रुवा देव हूतौ वत्सेम् एनास् तरुणामिमीयात् कुमारो वा नव जातो मैनार्वा रेणुक काटः प्रणग् वसुवने वसुधेयस्य व्यन्तु यज ।
देव्युषासा नक्ता व्य् अस्मिन् यज्ञे प्रयत्य् अह्वेताम् अपि नूनम् दैवीर् विशः प्रायासिष्ठाम् सुप्रीते सुधिते वसुवने वसुधेयस्य वीताम् यज ।
देवी जोष्ट्री वसुधिती ययोर् अन्याघा द्वेषांसि यूयवद् आन्यावक्षद् वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीताम् यज ।
देव्यूर्जाहुतीषम् ऊर्जम् अन्यावक्षत् सग्धिम् सपीतिम् अन्या नवेन पूर्वम् दयमाना स्याम पुराणेन नवम् ताम् ऊर्जम् ऊर्जाहुत्यूर्जयमानेऽधाताम् वसुवने वसुधेयस्य वीताम् यज
देवा दैव्या होतारा पोतारा नेष्टारा हताघ शंसाव् आभरद् वसू वसुवने वसुधेयस्य वीताम् यज ।
देवीस् तिस्रस् तिस्रो देवीर् इडा सरस्वती भारती द्याम् भारत्य् आदित्यैर् अस्पृक्षत् सरस्वतीमम् रुद्रैर् यज्ञम् आवीद् इहैवेडया वसुमत्या सधमादम् मदेम वसुवने वसुधेयस्य
देवो नराशंसस् त्रिशीर्षा षडक्षश् शतम् इद् एनम् शिति पृष्ठादधति सहस्रम् ईम् प्रवहन्ति मित्रा वरुणेद् अस्य होत्रम् अर्हतो बृहस्पति स्तोत्रम् अश्विनाध्वर्यवम् वसुवने
देवो वनस्पतिर् वर्ष प्रावा घृत निर्णिग् द्याम् अग्रेणास्पृक्षद् आन्तरिक्षम् मध्येनाप्राः पृथिवीम् उपरेणादृंहीद् वसुवने वसुधेयस्य वेतु यज ।
देवम् बर्हिर् वारितीनाम् निधेधासि प्रच्युतीनाम् अप्रच्युतम् निकाम धरणम् पुरु स्पार्हम् यशस्वद् एना बर्हिषाण्या बर्हींष्य् अभिष्याम वसुवने वसुधेयस्य वेतु यज ।
देवो अग्निस् स्विष्टकृत् सुद्रविणा मन्द्रः कविस् सत्य मन्मायाजी होता होतुर् होतुर् आयजीवान् अग्ने यान् देवान् अयाड् याम् अपिप्रेर् ये ते होत्रेऽमत्सत ।
ससनुषीम् होत्रान् देवंगमाम् दिवि देवेषु यज्ञम् एरयेमम् स्विष्टकृच् चाग्ने होताभूर् वसुवने वसुधेयस्य नमोवाके वीहि यज ॥

५.७.४
होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपो मित्रा वरुणयोः पयस्या प्रातस् सावस्य पुरोडाशाम् इन्द्रः प्रस्थिताम् जुषाणो वेतु होतर् यज ॥२४
होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपो माध्यंदिनस्य सवनस्य पुरोडाशाम् इन्द्रः प्रस्थिताम् जुषाणो वेतु होतर् यज ।
होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपस् तृतीयस्य सवनस्य पुरोडाशाम् इन्द्रः प्रस्थितम् जुषाणो वेतु होतर् यज ।
होता यक्षद् अग्निः पुरोडाशानाम् जुषताम् हविर् होतर् यज ।(प् १४५)
होता यक्षद् वायुम् अग्रेगाम् अग्रेयावानम् अग्रे सोमस्य पातारम् करद् एवम् वायुर् आवसा गमज् जुषताम् वेतु पिबतु सोमम् होतर् यज ॥२५
होता यक्षद् इन्द्र वाय्वर्हन्ता रिहाणा गव्याभिर् गोमन्ता भ्रियन्ताम् वीरस्या शुक्रयैनयोर् नियुतो गो अग्रयाणाम् वीरौ कशाश्व पुरस्तात् तासाम् इह प्रयाणम् आस्तिक विमोचनम् करतैवेन्द्र वायू जुषेताम् वीताम् पिबताम् सोमम् होतर् यज ।
होता यक्षन् मित्रा वरुणा सुक्षत्त्रा रिशादसा नि चिन् मिषन्ता निचिरा निचय्यांसाक्ष्णश् चिद् गातु वित्तरानुल्बणेन चक्षसर्तम् ऋतम् इति दीध्याना करतैवम् मित्रा वरुणा जुषेताम् वीताम् पिबेताम् सोमम् होतर् यज ।
होता यक्षद् अश्विना नासत्या दीद्यग्नी रुद्र वर्तनी न्य् अन्तरेण चक्रेण च वामीर् इषोर्जावहतम् सुवीरास् सनुतरेणानरुषो बाधेताम् मधुकशयेमम् यज्ञम् युवाना मिमिक्षताम् करतैवाश्विना जुषेताम् वीताम् पिबेताम् सोम होतर् यज ।
होता यक्षद् इन्द्रम् प्रातः प्रातस् सावस्य् अर्वावतो गमद् आ परावतोरोर् अन्तरिक्षाद् आ स्वात् सधस्थाद् इमेऽस्मै शुक्रा मधु श्चुतः प्रस्हितेन्द्राय सोमास् ताम् जुषताम् वेतु पिबतु सोमम् होतर् यज
होता यक्षद् इन्द्रम् माध्यंदिनस्य सवनस्य निष्केवल्यस्य भागस्यात्तारम् पातारम् श्रोतारम् हवम् आगन्तारम् अस्या धियो वितारम् सुन्वतो यजमानस्य वृधम् ओभा कुक्षि पृणताम् वार्त्रघ्नम् च माह्गोनम् चेमेऽस्मै शुक्रा मन्थिनः प्रस्थितेन्द्राय सोमास् ताम् जुषटाम् वेतु पिबतु सोमम् होतर् यज ॥२६
होता यक्षद् इन्द्रम् तृतीयस्य सवनस्यर्भुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतस् सम् अस्य मदाः प्रातस्तनाग्मत सम् माध्यंदिनास् समिदातनास् तेषाम् समुक्षितानाम् गौरेव प्रगाह्या वृषायस्वायूया बाहुभ्याम् उपयाहि हरिभ्याम् प्रप्रुथ्या शिप्रे निष्पृथ्यर्जीषिन्न् इमेऽस्मै तीव्राशीर्वन्तः प्रस्थिते प्रस्थितेन्द्राय सोमास् ताम् जुषताम् वेतु पिबतु सोमम् होतर् यज ।
होता यक्षद् इन्द्रम् मरुत्वन्तम् इन्द्रो मरुत्वान् जुषताम् वेतु पिबतु सोमम् होतर् यज ।
होता यक्षद् आदित्यान् प्रियान् प्रिय धाम्नः प्रिय व्रतान् महस् स्वसरस्य पतीन् उरोर् अन्तरिक्षस्याध्यक्षान् स्वादित्यम् (प् १४६)। अवोचत् तद् अस्मै सुन्वते यजमानाय करन्न् एवम् आदित्या जुषन्ताम् मन्दन्ताम् व्यन्तु पिबन्तु मन्दन्तु सोमम् होतर् यज ।
होता यक्षद् देवम् सवितारम् परामीवान् साविषत् पराघ शंसम् सुसावित्रम् असाविषत् तद् अस्मै सुन्वते यजमानाय करद् एवम् देवस् सविता जुषताम् मन्दताम् वेतु पिबतु सोमम् होतर् यज ।
अग्निम् अद्य होतारम् अवृणीतायम् सुन्वन् यजमानः पचन् पक्तीः पचन् पुरोडाशान् गृह्णन्न् अग्नयाज्यम् गृह्णन् सोमा याज्यम् बध्नन्न् अङ्गये छागम् सुन्वन्न् इन्द्राय सोम भृज्ज हरिभ्याम् धानास् सूपस्थाद्य देवो वनस्पतिर् अभवद् अग्नये आज्येन सोमायाज्येनाग्नये छागेनेन्द्राय सोमेन हरिभ्याम् धानाभिर् अघत्तम्।
मेदस्तः प्रति पचताग्रभीद् अवीवृधत पुरोडाशैर् अपाद् इन्द्रस् सोमम् गवाशिरम् यवाशिरम् तीव्रान्तम् बहुल मध्यम् उपोत्था मदा व्यश्रोद् विमदाम् आनड् अवीवृधताङ्गूषैस् त्वाम् अद्यर्षार्षेयर्षीणाम् नपाद् अवृणीतायन् सुन्वन् यजमानो बहुभ्यासंगतेभ्यः ।
एष मे देवेषु वसु वार्य् आयक्ष्यतेति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्र वाच्याय प्रेषितो मानुषस् सूक्त वाकाय सूक्ता ब्रूहि ॥२७
धाना सोमानाम् इन्द्राद्द् हि च पिब च बब्धान् ते हरी धानोपर्जीषम् जिघ्रताम् आ रथ चर्षणे सिञ्चस्व यत् त्वा पृच्छाद् विषम् पत्नीः क्वामीमदथेत्य् अस्मिन् सुन्वति यजमाने तस्मै किम् अरास्थाः ।
सुष्ठु सुवीर्यम् यज्ञस्यागुरोदृचम् यद् यद् अचीकमतोत् तत् तथाभूद्द् होतर् यज ।
इह मदैव मघवन्न् इन्द्र ते श्वो वसुमतो रुद्रवतो आदित्यवतर्भुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतश् श्वस्सुत्याम् अग्निम् इन्द्रायेन्द्राग्निभ्याम् प्रब्रूहि ।
मित्र वरुणाभ्याम् वसुभ्यो रुद्रेभ्यो आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्रह्मणेभ्यस् सोम्येभ्यस् सोमपेभ्यो ब्रह्मन् वाचम् यच्छ।
होता यक्षद् अश्विना सोमानाम् तिरो अह्न्यानाम् त्रिर् आ वर्तिर् याताम् त्रिर् अह मानयेथाम् उतो तुरीयम् नासत्या वाजिनाय देवाः ।
सजूर् अग्नि रोहिद् अश्वो घृतस्नुः ।
सजूर् उषारूषेभिः । सजूस् सूर्यैतशेभिः ।सजोषसाव् अश्विना दंसोभिः करतैवाश्विना जुषेताम् मन्देताम् वीताम् पिबेताम् सोमम् होतर् यज ॥२८(प् १४७)

५.७.५
होता यक्षद् इन्द्रम् होत्रात् सजूर् दिवा पृथिव्यर्तुना सोमम् पिबतु होतर् यज ।
होता यक्षन् मरुतः पोत्रात् सुष्टुभस् स्वर्कर्तुना सोमम् पिबन्तु पोतर् यज ।
होता यक्षद् ग्रावो नेष्ट्रात् त्वष्टा सुजनिमा सजूर् देवानाम् पत्नीभिर् ऋतुना सोमम् पिबतु नेष्टर् यज ।
होता यक्षद् अग्निम् आग्नीध्राद् ऋतुना सोमम् पिबत्व् अग्नीद् यज ।
होता यक्षद् इन्द्रम् ब्रह्माणम् ब्रह्मणाद् ऋतुना सोमम् पिबतु ब्रह्मन् यज ।
होता यक्षन् मित्रा वरुणा प्रशास्तारौ प्रशास्त्राद् ऋतुना सोमम् पिबताम् प्रशास्तर् यज ।२९
होता यक्षद् देवम् द्रविणोदाम् होत्राद् ऋतुभिस् सोमम् पिबतु होतर् यज ।
होता यक्षद् देवम् द्रविणोदाम् पोत्राद् ऋतुभिस् सोमम् पिबतु पोतर् यज ।
होता यक्षद् देवम् द्रविणोदाम् नेष्ट्राद् ऋतुभिस् सोमम् पिबतु नेष्टर् यज ।
होता यक्षद् देवम् द्रविणोदाम् अपाद् होत्राद् अपात् पोत्राद् अपान् नेष्ट्रात् तुरीयम् पात्रम् अमृक्तम् अमर्त्यम् इन्द्र पानम् देवो द्रविणोदाः पिबतु द्राविणोदसः ।
स्वयम् आयूयास् स्वयम् अभिगूर्याः ।
स्वयम् अभिगूर्तया होत्रायर्तुभिस् सोमस्य पिबत्व् अच्छावाक यज ।
होता यक्षद् अश्विनाध्वर्य्वाध्वर्यवाद् ऋतुना सोमम् पिबेताम् अध्वर्यू यजताम् ।
होता यक्षद् अग्निम् गृहपतिम् गार्हपत्यात् सुगृहपतिस् त्व् अधाग्ने याम् सुन्वन् यजमानस् स्यात् सुगृहपतिस् त्वम् अनेन सुन्वता यजमानस् स्यास् सुगृहपतिस् त्वम् अनेन सुन्वता यजमानेनाग्निर् गृहपतिर् गार्हपत्याद् ऋतुना सोमम् पिबतु गृहपते यज ॥३०॥(प् १४८)


५,१ १ संज्ञानम् उशनावदत् संज्ञानम् वरुणो वदत् ।
५,१ १ संज्ञामम् इन्द्रश् चाग्निश् च संज्ञानम् सविता वदत् ।
५,१ २ संज्ञानम् नस् स्वेभ्यस् संज्ञानम् अरणेभ्यः ।
५,१ २ संज्ञानम् आश्विन युवम् इहास्मासु नियच्छताम् ।
५,१ ३ यत् कक्षीवान् संवननम् पुत्रो अङ्गिरसाम् अवेत् ।
५,१ ३ तेन नो अद्य विश्वे देवास् सम् प्रियाम् सम् अवीवनम् ।
५,१ ४ सम् वो मनांसि जानताम् सम् आकूतिम् मनामसि ।
५,१ ४ असौ यो विमना जनस् तम् समावर्तयामसि ।
५,१ ५ तत् शम्योर् आवृणीमहे गातुम् यज्ञाय गातुम् यज्ञ पतये दैवी स्वस्तिर् अस्तु नस् स्वस्तिर् मानुषेभ्यः ।
५,१ ५ ऊर्ध्वम् जिगातु भेषजम् शम् नो अस्तु द्विपदे शम् चतुष्पदे ॥(प् १३२)

५,२ १ नैर्हस्त्यम् सेना दरणम् परि वर्त्मेव यद्द् हविः ।
५,२ १ तेनामित्राणाम् बाहून् हविषा शोषयामसि ।
५,२ २ परि वर्त्मान्य् एषाम् इन्द्रः पूषा च चक्रतुः ।
५,२ २ तेषाम् वो अग्नि दग्धानाम् अग्नि गूढानाम् इन्द्रो हन्तु वरम् वरम् ।
५,२ ३ ऐषु नह्य विषादनम् हरिणस्य धियम् यथा ।
५,२ ३ परान् अमित्रान् ऐषत्व् अर्वाची गौर् उपेजतु ॥२

५,३ १ प्राध्वराणाम् पते वसो होतर् वरेण्य क्रतो ।
५,३ १ तुभ्यम् गायत्रम् ऋच्यते ।
५,३ २ गो कामो अन्न कामः प्रजा कामोत कश्यपः ।
५,३ २ भूतम् भविष्यत् प्रस्तौति महद् ब्रह्मैकम् अक्षरम् बहु ब्रह्मैकम् अक्षरम् ।
५,३ ३ यद् अक्षरम् भूतकृतो विश्वे देवोपासते ।
५,३ ३ महर्षिम् अस्य गोप्तारम् जमदग्निम् अकुर्वत ।
५,३ ४ जमदग्निर् आप्यायते छन्दोभिश् चतुर् उत्तरैः ।(प् १३३)
५,३ ४ राज्ञस् सोमस्य भक्षेण ब्रह्मणा वीर्यवताम् शिवा नः प्रदिशो दिशः ।
५,३ ५ अजो यत् तेजो ददृशे शुक्रम् ज्योतिः परो गुहा ।
५,३ ५ तद् ऋषिः कश्यप स्तौति सत्यम् ब्रह्म चराचरम् ध्रुवम् ब्रह्म चराचरम् ।
५,३ ६ त्र्यायुषम् जमदग्नेः कश्यपस्य त्र्यायुषम् ।
५,३ ६ अगस्त्यस्य त्र्यायुषम् यद् देवानाम् त्र्यायुषम् तन् नो अस्तु त्र्यायुषम् ।
५,३ ७ तत् शम्योर् आवृणीमहे गातुम् यज्ञाय गातुम् यज्ञ पतये दैवी स्वस्तिर् अस्तु नस् स्वस्तिर् मानुषेभ्यः ।
५,३ ७ ऊर्ध्वम् जिगातु भेषजम् शम् नो अस्तु द्विपदे शम् चतुष्पदे ॥३

५,४ १ विदा मघवन् विदा गातुम् अनु शंसिषो दिशः ।
५,४ १ शिक्षा शचीनाम् पते पूर्वीणाम् पुरूवसो ।(प् १३४)
५,४ २ आभिष् ट्वम् अभिष्टिभिः प्रचेतन प्रचेतय ।
५,४ २ इन्द्र द्युम्नाय नेषैवा हि शक्रः ।
५,४ ३ राये वाजाय वज्रिवश् शविष्ठ वज्रिन् ऋञ्जसे ।
५,४ ३ मन्हिष्ठ वज्रिन् ऋञ्जसायाहि पिब मत्स्व ।
५,४ ४ विदा राये सुवीर्यम् भुवो वाजानाम् पतिर् वशाम् अनु ।
५,४ ४ मन्हिष्ठ वज्रिन् ऋञ्जसे यश् शविष्ठस् शूराणाम् ।
५,४ ५ यो मन्हिष्ठो मघोनाम् चिकित्वो अभि नो नय ।
५,४ ५ इन्द्रो विदे तम् उ स्तुषे वशी हि शक्रः ॥४
५,४ ६ तम् ऊतये हवामहे जेतारम् अपराजितम् ।
५,४ ६ स नः पर्षद् अतिद्विषस् क्रतुश् छन्दर्तम् बृहत् ।
५,४ ७ इन्द्रम् धनस्य सातये हवामहे जेतारम् अपराजितम् ।
५,४ ७ स नः पर्षद् अतिद्विषस् स नः पर्षद् अतिस्रिधः ।
५,४ ८ पूर्वस्य यत् तेऽद्रिवस् सुम्नाधेहि नो वसो ।
५,४ ८ पूर्तिश् शविष्ठ शश्वतेशे हि शक्रः ।
५,४ ९ नूनम् तम् नव्यम् मन्यसे प्रभो जनस्य वृत्रहन् ।
५,४ ९ सम् अन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः ॥५
५,४ १० एवा ह्य् एवैवा ह्य् अग्ने ।एवा ह्य् एवैवा हि विष्णो ।
५,४ १० एवा ह्य् एवैवा हीन्द्र ।एवा ह्य् एवैवा हि पूषन् ।
५,४ १० एवा ह्य् एवैवा हि देवाः ।
५,४ ११ एवा हि शक्रो वशी हि शक्रो वशाम् अनु ।
५,४ ११ आयो मन्याय मन्यवोपो मन्याय मन्यवोपेहि विश्वथ ॥६(प् १३५)


५,६ १ वायुर् अग्रेगा यज्ञप्रीस् साकम् गन् मनसा यज्ञम् ।
५,६ १ शिवो नियुद्भिश् शिवाभिः ।
५,६ २ हिरण्य वर्तनी नरा देवा पत्यभिष्टये ।
५,६ २ वायुश् चेन्द्रश् च सुमखा ।
५,६ ३ काव्या राजाना क्रत्वा दक्षस्य दुरोणे ।
५,६ ३ रिशादसा सधस्था ।
५,६ ४ दैव्याध्वर्य्वागतम् रथेन सूर्य त्वचा ।
५,६ ४ मध्वा यज्ञम् समञ्जाथे ।
५,६ ५ इन्द्रोक्थेभिर् भन्दिष्ठो वाजानाम् च वाज पतिः ।
५,६ ५ हरिवान् सुतानाम् सखा ।
५,६ ६ विश्वान् देवान् हवामहेऽस्मिन् यज्ञे सुपेशसः ।
५,६ ६ तेमम् यज्ञम् आगमन् देवासो देव्या धिया ।
५,६ ६ जुषाणाध्वरे सदो ये यज्ञस्य तनूकृतः । विश्वा सोम पीतये ।
५,६ ७ वाचा महीम् देवीम् वाचम् अस्मिन् यज्ञे सुपेशसम् ।
५,६ ७ सरस्वतीम् हवामहे ॥१८(प् १४१)

(प्रैषाध्यायः)



प्रयाज प्रैषाः

५,७ १ होता यक्षद् अग्निम् समिधा सुषमिधा समिद्धम् नाभा पृथिव्यास् संगथे वामस्य ।
वर्ष्मम् दिवेडस् पदे वेत्व् आज्यस्य होतर् यज ।
५,७ १ होता यक्षत् तनूनपातम् अदितेर् गर्भम् भुवनस्य गोपाम् ।
५,७ १ मध्वाद्य देवो देवेभ्यो देव यानान् पथो अनक्तु वेत्व् आज्यस्य होतर् यज ।
५,७ १ होता यक्षन् नराशंसम् नृशस्तम् नॄम्ः प्रणेत्रम् ।
गोभिर् वपावान् स्याद् वीरैश् शक्तीवान् रथैः प्रथमयावा हिरण्यैश् चन्द्री वेत्व् आज्यस्य होतर् यज ।
५,७ १ होता यक्षद् अग्निम् इडेडितो देवो देवम् आवक्षद् दूतो हव्यवाड् अमूरः ।
उपेमम् यज्ञम् उपेमाम् देवो देव हूतिम् अवतु वेत्व् आज्यस्य होतर् यज ।
५,७ १ होता यकद् बर्हिस् सुष्टरीमोर्ण ंरदास्मिन् यज्ञे वि च प्र च प्रथाम् स्वासस्थम् देवेभ्यः ।
एम् एनद् अद्य वसवो रुद्रादित्यास् सदन्तु प्रियम् इन्द्रस्यास्तु वेत्व् आज्यस्य होतर् यज ।
५,७ १ होता यक्षद् दुरर्ष्वाः कवष्यो कोष धावनीर् उद् आताभिर् जिहताम् विप्रक्षोभिश् श्रयन्ताम् ।
सुप्रायणास्मिन् यज्ञे विश्रयन्ताम् ऋता वृधो व्यन्त्व् आज्यस्य होतर् यज ।१९
५,७ १ होता यक्षद् उषासा नक्ता बृहती स्पुएशसा नॄम्ः पतिभ्यो योनिम् कृण्वाने ।
संस्मयमाने इन्द्रेण देवैर् एदम् बर्हिस् सीदताम् वीताम् आज्यस्य होतर् यज ।
५,७ १ होता यक्षद् दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा ।
स्विष्टम् अद्यान्याः करद् इषा स्वभिगूर्तम् अन्योर्जा स्वतवसेमम् यज्ञम् दिवि देवेषु धत्ताम् वीताम् आज्यस्य होतर् यज ।
५,७ १ होता यक्षत् तिस्रो देवीर् अपसाम् अपस्तमाछिद्रम् अद्येदम् अपस् तन्वताम् ।
५,७ १ होता यक्षत् त्वष्टारम् अचिष्टम् अपाकम् रेतोधाम् विश्व वसम् यशोधाम् ।
पुरु रूपम् अकाम कर्शनम् सुपोषः पोषैस् स्यात् सुवीरो वीरैर् वेत्व् आज्यस्य होतर् यज ।(प् १४२)
५,७ १ होता यक्षद् वनस्पतिम् उपावस्रक्षद् धियो जोष्टारम् शशमन् नरः ।
स्वदात् स्वधितिर् ऋतुथाद्य देवो देवेभ्यो हव्यावाड् वेत्व् आज्यस्य होतर् यज ।
५,७ १ होता यक्षद् अग्निम् स्वाजाज्यस्य स्वाहा मेदसस् स्वाहा स्तोकानाम् स्वाहा स्वाहा कृतीनाम् स्वाहा हव्य सूक्तीनाम् ।
स्वाहा देवाज्यपा जुषाणाग्नाज्यस्य व्यन्तु होतर् यज ॥२०

५,७ २ अजैद् अग्निर् असनद् वाजन् नि देवो देवेभ्यो हव्यवाट् ।
प्राञ्जोभिर् हिन्वानो धेनाभिः कल्पमानो यज्ञस्यायुः ।
प्रतिरन्न् उपप्रेष होतर् हव्या देवेभ्यः ।
५,७ २ होता यक्षद् अग्निम् आज्यस्य जुषताम् हविर् होतर् यज ।
५,७ २ होता यक्षत् सोमम् आज्यस्य जुषताम् हविर् होतर् यज ।
५,७ २ होता यक्षद् अग्नी षोमौ छागस्य वपाया मेदसो जुषेताम् हविर् होतर् यज ।
५,७ २ होता यक्षद् अग्नी षोमौ पुरोडाशस्य जुषेताम् हविर् होतर् यज ।
५,७ २
होता यक्षद् अग्नी षोमौ छागस्य हविषात्ताम् अद्य मध्यतो मेदोद्भृतम् पुरा देवेषोभ्यः पुरा पौरुषेय्या गृभो घस्ताम् नूनम् घाएऽज्राणाम् यवस प्रथमानाम् सुमत्क्षराणाम् शत रुद्रियानाम् अग्निष्वात्तानाम् पीवोपवसनानाम् पार्श्वतश् श्रोणितश् शितामतोत्सादतो अङ्गाद् अङ्गाद् अवत्तानाम् करतैवाग्नी षोमौ जुषेताम् अह्विर् होतर् यज ॥२१
५,७ २ देवेभ्यो वनपते हवींषि हिरण्य पर्ण प्रदिवस् तेऽर्थम् ।
प्रदक्षिणिद् रशनया नियूयर्तस्य वक्षि पथिभी रजिष्ठैः ।
५,७ २ होता यक्षद् वनस्पतिम् अभि हि पिष्टतमया रभिष्टया रशनयाधित ।

यत्राग्नेर् आज्यस्य हविषः प्रिया धामानि यत्र सोमस्याज्यस्य हविषः प्रिया धामानि यत्राग्नीष् ओमयोश् छागस्य हविषः प्रिया धामानि यत्रा वनस्पतेः प्रिया पाथांसि यत्र देवानाम् आज्यपानाम् प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतम् प्रस्तुत्य् एवोपस्तुत्य् एवोपावस्रक्षद् रभीयाम् सम् इव कृत्वी करद् एवम् देवो वनस्पतिर् जुषताम् हविर् होतर् यज ।(प् १४३)
५,७ २ वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् ।
वहा देवत्रा दधिषो हवींषि प्र च दातारम् अमृतेषु वोचः ।
५,७ २
होता यक्षद् अग्निम् स्विष्टकृतम् अयाद् अग्निर् अग्नेर् आज्यस्य हविषः प्रिया धामान्य् अयाट् सोमस्याज्यस्य हविषः प्रिया धामान्य् अयाड् अग्नी षोमयोश् छागस्य हविषः प्रिया धामान्य् अयाड् वनस्पतेः प्रिया पाथांस्य् अयाड् देवानाम् आज्यपानाम् प्रिया धामानि यक्षद् अग्नेर् होतुः प्रिया धामानि यक्षत् स्वम् महिमानम् आयजताम् एज्येषः कृणोतु सो अध्वरा जातवेदा जुषताम् हविर् होतर् यज ।
५,७ २
अग्निम् अद्य होतारम् अवृणीतायम् यजमानः पचन् पक्तीः पचन् पुरोडाशम् गृह्णन्न् अग्नयाज्यम् गृह्णन् सोमायाज्यम् बध्नन्न् अग्नी षोमाभ्याम् छागम् सूपस्थाद्य देवो ननस्पतिर् अभवद् अग्नयाज्येन सोमायाज्येनाग्नी षोमाभ्याम् छागेनाघत्ताम् तम् मेदस्तः प्रति पचताग्रभीष्टाम् अवीवृधेताम् पुरोडाशेन त्वाम् अद्यर्षार्षेयर्षीणाम् नपाद् अवृणीतायाम् यजमानो बहुभ्या संगतेभ्यः ।
एष मे देवेषु वसु वार्य् आयक्ष्यतेति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्र वाच्याय प्रेषितो मानुषस् सूक्त वाकाय सूक्ता ब्रूहि ॥२२

५,७ ३ देवम् बर्हिस् सुदेवम् देवैस् स्यात् सुवीरम् वीरैर् वस्तोर् वृज्येताक्तोः प्रभ्रियेतात्य् अन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज ।
५,७ ३ देवीर् द्वारस् संघाते वीड्वीर् यामन् शिथिरा ध्रुवा देव हूतौ वत्सेम् एनास् तरुणामिमीयात् कुमारो वा नव जातो मैनार्वा रेणुक काटः प्रणग् वसुवने वसुधेयस्य व्यन्तु यज ।
५,७ ३ देव्युषासा नक्ता व्य् अस्मिन् यज्ञे प्रयत्य् अह्वेताम् अपि नूनम् दैवीर् विशः प्रायासिष्ठाम् सुप्रीते सुधिते वसुवने वसुधेयस्य वीताम् यज ।
५,७ ३ देवी जोष्ट्री वसुधिती ययोर् अन्याघा द्वेषांसि यूयवद् आन्यावक्षद् वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीताम् यज ।
५,७ ३ देव्यूर्जाहुतीषम् ऊर्जम् अन्यावक्षत् सग्धिम् सपीतिम् अन्या नवेन पूर्वम् दयमाना स्याम पुराणेन नवम् ताम् ऊर्जम् ऊर्जाहुत्यूर्जयमानेऽधाताम् वसुवने वसुधेयस्य वीताम् यज ॥२३(प् १४४)
५,७ ३ देवा दैव्या होतारा पोतारा नेष्टारा हताघ शंसाव् आभरद् वसू वसुवने वसुधेयस्य वीताम् यज ।
५,७ ३ देवीस् तिस्रस् तिस्रो देवीर् इडा सरस्वती भारती द्याम् भारत्य् आदित्यैर् अस्पृक्षत् सरस्वतीमम् रुद्रैर् यज्ञम् आवीद् इहैवेडया वसुमत्या सधमादम् मदेम वसुवने वसुधेयस्य व्यन्तु यज ।
५,७ ३ देवो नराशंसस् त्रिशीर्षा षडक्षश् शतम् इद् एनम् शिति पृष्ठादधति सहस्रम् ईम् प्रवहन्ति मित्रा वरुणेद् अस्य होत्रम् अर्हतो बृहस्पति स्तोत्रम् अश्विनाध्वर्यवम् वसुवने वसुधेयस्य वेतु यज ।
५,७ ३ देवो वनस्पतिर् वर्ष प्रावा घृत निर्णिग् द्याम् अग्रेणास्पृक्षद् आन्तरिक्षम् मध्येनाप्राः पृथिवीम् उपरेणादृंहीद् वसुवने वसुधेयस्य वेतु यज ।
५,७ ३ देवम् बर्हिर् वारितीनाम् निधेधासि प्रच्युतीनाम् अप्रच्युतम् निकाम धरणम् पुरु स्पार्हम् यशस्वद् एना बर्हिषाण्या बर्हींष्य् अभिष्याम वसुवने वसुधेयस्य वेतु यज ।
५,७ ३ देवो अग्निस् स्विष्टकृत् सुद्रविणा मन्द्रः कविस् सत्य मन्मायाजी होता होतुर् होतुर् आयजीवान् अग्ने यान् देवान् अयाड् याम् अपिप्रेर् ये ते होत्रेऽमत्सत ।
ताम् ससनुषीम् होत्रान् देवंगमाम् दिवि देवेषु यज्ञम् एरयेमम् स्विष्टकृच् चाग्ने होताभूर् वसुवने वसुधेयस्य नमोवाके वीहि यज ॥

५,७ ४ होता यक्षद् इन्द्रम् हरिवाम् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपो मित्रा वरुणयोः पयस्या प्रातस् सावस्य पुरोडाशाम् इन्द्रः प्रस्थिताम् जुषाणो वेतु होतर् यज ॥२४
५,७ ४ होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपो माध्यंदिनस्य सवनस्य पुरोडाशाम् इन्द्रः प्रस्थिताम् जुषाणो वेतु होतर् यज ।
५,७ ४ होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपस् तृतीयस्य सवनस्य पुरोडाशाम् इन्द्रः प्रस्थितम् जुषाणो वेतु होतर् यज ।
५,७ ४ होता यक्षद् अग्निः पुरोडाशानाम् जुषताम् हविर् होतर् यज ।(प् १४५)
५,७ ४ होता यक्षद् वायुम् अग्रेगाम् अग्रेयावानम् अग्रे सोमस्य पातारम् करद् एवम् वायुर् आवसा गमज् जुषताम् वेतु पिबतु सोमम् होतर् यज ॥२५
५,७ ४ होता यक्षद् इन्द्र वाय्वर्हन्ता रिहाणा गव्याभिर् गोमन्ता भ्रियन्ताम् वीरस्या शुक्रयैनयोर् नियुतो गो अग्रयाणाम् वीरौ कशाश्व पुरस्तात् तासाम् इह प्रयाणम् आस्तिक विमोचनम् करतैवेन्द्र वायू जुषेताम् वीताम् पिबताम् सोमम् होतर् यज ।
५,७ ४ होता यक्षन् मित्रा वरुणा सुक्षत्त्रा रिशादसा नि चिन् मिषन्ता निचिरा निचय्यांसाक्ष्णश् चिद् गातु वित्तरानुल्बणेन चक्षसर्तम् ऋतम् इति दीध्याना करतैवम् मित्रा वरुणा जुषेताम् वीताम् पिबेताम् सोमम् होतर् यज ।
५,७ ४ होता यक्षद् अश्विना नासत्या दीद्यग्नी रुद्र वर्तनी न्य् अन्तरेण चक्रेण च वामीर् इषोर्जावहतम् सुवीरास् सनुतरेणानरुषो बाधेताम् मधुकशयेमम् यज्ञम् युवाना मिमिक्षताम् करतैवाश्विना जुषेताम् वीताम् पिबेताम् सोम होतर् यज ।
५,७ ४ होता यक्षद् इन्द्रम् प्रातः प्रातस् सावस्य् अर्वावतो गमद् आ परावतोरोर् अन्तरिक्षाद् आ स्वात् सधस्थाद् इमेऽस्मै शुक्रा मधु श्चुतः प्रस्हितेन्द्राय सोमास् ताम् जुषताम् वेतु पिबतु सोमम् होतर् यज
५,७ ४ होता यक्षद् इन्द्रम् माध्यंदिनस्य सवनस्य निष्केवल्यस्य भागस्यात्तारम् पातारम् श्रोतारम् हवम् आगन्तारम् अस्या धियो वितारम् सुन्वतो यजमानस्य वृधम् ओभा कुक्षि पृणताम् वार्त्रघ्नम् च माह्गोनम् चेमेऽस्मै शुक्रा मन्थिनः प्रस्थितेन्द्राय सोमास् ताम् जुषटाम् वेतु पिबतु सोमम् होतर् यज ॥२६

५,७ ४
होता यक्षद् इन्द्रम् तृतीयस्य सवनस्यर्भुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतस् सम् अस्य मदाः प्रातस्तनाग्मत सम् माध्यंदिनास् समिदातनास् तेषाम् समुक्षितानाम् गौरेव प्रगाह्या वृषायस्वायूया बाहुभ्याम् उपयाहि हरिभ्याम् प्रप्रुथ्या शिप्रे निष्पृथ्यर्जीषिन्न् इमेऽस्मै तीव्राशीर्वन्तः प्रस्थितेन्द्राय सोमास् ताम् जुषताम् वेतु पिबतु सोमम् होतर् यज ।
५,७ ४ होता यक्षद् इन्द्रम् मरुत्वन्तम् इन्द्रो मरुत्वान् जुषताम् वेतु पिबतु सोमम् होतर् यज ।
५,७ ४ होता यक्षद् आदित्यान् प्रियान् प्रिय धाम्नः प्रिय व्रतान् महस् स्वसरस्य पतीन् उरोर् अन्तरिक्षस्याध्यक्षान् स्वादित्यम् (प् १४६)। अवोचत् तद् अस्मै सुन्वते यजमानाय करन्न् एवम् आदित्या जुषन्ताम् मन्दन्ताम् व्यन्तु पिबन्तु मन्दन्तु सोमम् होतर् यज ।
५,७ ४ होता यक्षद् देवम् सवितारम् परामीवान् साविषत् पराघ शंसम् सुसावित्रम् असाविषत् तद् अस्मै सुन्वते यजमानाय करद् एवम् देवस् सविता जुषताम् मन्दताम् वेतु पिबतु सोमम् होतर् यज ।
५,७ ४ अग्निम् अद्य होतारम् अवृणीतायम् सुन्वन् यजमानः पचन् पक्तीः पचन् पुरोडाशान् गृह्णन्न् अग्नयाज्यम् गृह्णन् सोमा याज्यम् बध्नन्न् अङ्गये छागम् सुन्वन्न् इन्द्राय सोम भृज्ज हरिभ्याम् धानास् सूपस्थाद्य देवो वनस्पतिर् अभवद् अग्नये आज्येन सोमायाज्येनाग्नये छागेनेन्द्राय सोमेन हरिभ्याम् धानाभिर् अघत्तम् ।
मेदस्तः प्रति पचताग्रभीद् अवीवृधत पुरोडाशैर् अपाद् इन्द्रस् सोमम् गवाशिरम् यवाशिरम् तीव्रान्तम् बहुल मध्यम् उपोत्था मदा व्यश्रोद् विमदाम् आनड् अवीवृधताङ्गूषैस् त्वाम् अद्यर्षार्षेयर्षीणाम् नपाद् अवृणीतायन् सुन्वन् यजमानो बहुभ्यासंगतेभ्यः ।
एष मे देवेषु वसु वार्य् आयक्ष्यतेति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्र वाच्याय प्रेषितो मानुषस् सूक्त वाकाय सूक्ता ब्रूहि ॥२७
५,७ ४ धाना सोमानाम् इन्द्राद्द् हि च पिब च बब्धान् ते हरी धानोपर्जीषम् जिघ्रताम् आ रथ चर्षणे सिञ्चस्व यत् त्वा पृच्छाद् विषम् पत्नीः क्वामीमदथेत्य् अस्मिन् सुन्वति यजमाने तस्मै किम् अरास्थाः ।
सुष्ठु सुवीर्यम् यज्ञस्यागुरोदृचम् यद् यद् अचीकमतोत् तत् तथाभूद्द् होतर् यज ।
५,७ ४ इह मदैव मघवन्न् इन्द्र ते श्वो वसुमतो रुद्रवतो आदित्यवतर्भुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतश् श्वस्सुत्याम् अग्निम् इन्द्रायेन्द्राग्निभ्याम् प्रब्रूहि ।
मित्र वरुणाभ्याम् वसुभ्यो रुद्रेभ्यो आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्रह्मणेभ्यस् सोम्येभ्यस् सोमपेभ्यो ब्रह्मन् वाचम् यच्छ ।
५,७ ४ होता यक्षद् अश्विना सोमानाम् तिरो अह्न्यानाम् त्रिर् आ वर्तिर् याताम् त्रिर् अह मानयेथाम् उतो तुरीयम् नासत्या वाजिनाय देवाः ।
सजूर् अग्नि रोहिद् अश्वो घृतस्नुः ।
सजूर् उषारूषेभिः ।सजूस् सूर्यैतशेभिः ।सजोषसाव् अश्विना दंसोभिः करतैवाश्विना जुषेताम् मन्देताम् वीताम् पिबेताम् सोमम् होतर् यज ॥२८(प् १४७)

५,७ ५ होता यक्षद् इन्द्रम् होत्रात् सजूर् दिवा पृथिव्यर्तुना सोमम् पिबतु होतर् यज ।
५,७ ५ होता यक्षन् मरुतः पोत्रात् सुष्टुभस् स्वर्कर्तुना सोमम् पिबन्तु पोतर् यज ।
५,७ ५ होता यक्षद् ग्रावो नेष्ट्रात् त्वष्टा सुजनिमा सजूर् देवानाम् पत्नीभिर् ऋतुना सोमम् पिबतु नेष्टर् यज ।
५,७ ५ होता यक्षद् अग्निम् आग्नीध्राद् ऋतुना सोमम् पिबत्व् अग्नीद् यज ।
५,७ ५ होता यक्षद् इन्द्रम् ब्रह्माणम् ब्रह्मणाद् ऋतुना सोमम् पिबतु ब्रह्मन् यज ।
५,७ ५ होता यक्षन् मित्रा वरुणा प्रशास्तारौ प्रशास्त्राद् ऋतुना सोमम् पिबताम् प्रशास्तर् यज ।२९
५,७ ५ होता यक्षद् देवम् द्रविणोदाम् होत्राद् ऋतुभिस् सोमम् पिबतु होतर् यज ।
५,७ ५ होता यक्षद् देवम् द्रविणोदाम् पोत्राद् ऋतुभिस् सोमम् पिबतु पोतर् यज ।
५,७ ५ होता यक्षद् देवम् द्रविणोदाम् नेष्ट्राद् ऋतुभिस् सोमम् पिबतु नेष्टर् यज ।
५,७ ५ होता यक्षद् देवम् द्रविणोदाम् अपाद् होत्राद् अपात् पोत्राद् अपान् नेष्ट्रात् तुरीयम् पात्रम् अमृक्तम् अमर्त्यम् इन्द्र पानम् देवो द्रविणोदाः पिबतु द्राविणोदसः ।
स्वयम् आयूयास् स्वयम् अभिगूर्याः ।
स्वयम् अभिगूर्तया होत्रायर्तुभिस् सोमस्य पिबत्व् अच्छावाक यज ।
५,७ ५ होता यक्षद् अश्विनाध्वर्य्वाध्वर्यवाद् ऋतुना सोमम् पिबेताम् अध्वर्यू यजताम् ।
५,७ ५ होता यक्षद् अग्निम् गृहपतिम् गार्हपत्यात् सुगृहपतिस् त्व् अधाग्ने याम् सुन्वन् यजमानस् स्यात् सुगृहपतिस् त्वम् अनेन सुन्वता यजमानस् स्यास् सुगृहपतिस् त्वम् अनेन सुन्वता यजमानेनाग्निर् गृहपतिर् गार्हपत्याद् ऋतुना सोमम् पिबतु गृहपते यज ॥३०॥(प् १४८)

(कुन्तापाध्यायः)८-२२
5.8
इदम् जनोपश्रुतम् नराशंस स्तविष्यते । ५,८ १
षष्टिम् सहस्रा नवतिम् च कौरवा रुशमेषु दद्महे । ५,८ १
उष्ट्रा यस्य प्रवाहिणो वधूमन्तो द्विर् दश । ५,८ २
वर्ष्मा रथस्य निजिहीडते दिवेषमाणोपस्पृशः । ५,८ २
एषेषाय मामहे शतम् निष्कान् दश स्रजः । ५,८ ३
त्रीणि शतान्य् अर्वताम् सहस्रा दश गोनाम् ॥३१ ५,८ ३
5.9
वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः । ५,९ १
निष् टे जिह्वा चर्चरीति क्षुरो न भुरिजोर् इव ।(प् १५५) ५,९ १
प्र रेभासो मानीषया वृथा गावेवेरते । ५,९ २
अमोत पुत्रकैषाम् उ मोदकोपासते । ५,९ २
प्र रेभ धियम् भरस्व गोविदम् वसुविदम् । ५,९ ३
देवत्रेमाम् वाचम् शृणीहीषुर् ना वीरास्तारम् ॥३२ ५,९ ३
5.10
राज्ञो विश्व जनीनस्य यो देवो मत्यान् अति । ५,१० १
वैश्वानरस्य सुष्टुतिम् आसुनोता परिक्षितः । ५,१० १
परिक्षिन् नः क्षेमम् अकरत् तमासनम् आ सरम् । ५,१० २
अराय्यन् कुर्वन् कौरव्यः पतिर् वदति जायया । ५,१० २
कतरत् ताहराणि दधि मन्थाम् परिस्रुतम् । ५,१० ३
जाया पतिम् विपृच्छति राष्ट्त्रे राज्ञः परिक्षितः । ५,१० ३
( अभीव स्वः प्रजिहीते यवः पक्वः पथो बिलम् । ५,१० ४
जनस् स भद्रम् एधते राष्ट्रे राज्ञः परिक्षितः ) ॥३३(प् १५६) ५,१० ४
5.11
इन्द्रः कारुम् अबूबुधद् उत्तिष्ठ वि चरा चरन् । ५,११ १
ममेद् उग्रस्य चर्कृतिस् सर्वेत् ते पृणाद् अरिः । ५,११ १
इह गावः प्रजायध्वम् इहाश्वेह पूर्षाः । ५,११ २
इहो सहस्र दक्षिणो वीरस् त्राता निषीदतु । ५,११ २
नेमेन्द्र गावो रिषन् मो असान् गोपती रिषत् । ५,११ ३
मासाम् अमित्रयुर् जनेन्द्र मा स्तेनेशत । ५,११ ३
उप वो नरैमसि सूक्तेन वचसा वयम् भद्रेण वचसा वयम् । ५,११ ४
चनो दधिष्व नो गिर न रिष्येम कदाचन ॥३४ ५,११ ४
5.12
यस् सभेयो विदथ्यस् सुत्वा यज्वा च पूरुषः । ५,१२ १
सूर्यम् चमू रिशादसम् तद् देवाः प्राग् अकल्पयन् । ५,१२ १
यो जाम्याः प्रत्य् अमदद् यस् सखायन् निनित्सति । ५,१२ २
ज्येष्ठो यद् अप्रचेतास् तद् आहुर् अधराग् इति । ५,१२ २
यद् भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः । ५,१२ ३
तद् विप्रो अब्रवीद् उदग् गन्धर्वः काम्यम् वचः । ५,१२ ३
यश् च पणिस् अभुजिष्यो यश् च रेवान् अदाशुरिः । ५,१२ ४
धीराणाम् शश्वताम् अहम् तद् अपाग् इति शुश्रव । ५,१२ ४
ये च देवायजन्ताथो ये च पराददुः । ५,१२ ५
सूर्यो दिवम् इव गत्वाय मघावानो विरप्सते ॥३५(प् १५७) ५,१२ ५
5.13
यो अनाक्ताक्ष्यो अनभ्यक्तो मणिवो अहिरण्यवतः । ५,१३ १
अब्रह्माब्रह्मणस् पुत्रस् तो त कल्पेषु सम्मिता । ५,१३ १
याक्ताक्ष्यस् स्वभ्यक्तस् सुमणिस् सुहिरण्यवतः । ५,१३ २
सुब्रह्मा ब्रह्मणस् पुत्रस् तो ता कल्पेषु सम्मिता । ५,१३ २
अप्रपाणा च वेशन्ता रेवाम् अप्रचतिश् चयः । ५,१३ ३
अयभ्या कन्या कल्याणि त्वो ता कल्पेषु सम्मिता । ५,१३ ३
सुप्रपाण च वेशन्ता रेवाम् सुप्रचतिश् चयः । ५,१३ ४
सुयभ्या कन्या कल्याणि त्वो ता कल्पेषु सम्मिता । ५,१३ ४
परिवृक्ता च महिषी स्वस्त्या च युधिम् गमः । ५,१३ ५
श्वाशुर् अश्वायामी त्वो ता कल्पेषु सम्मिता । ५,१३ ५
वावाता च महिष्वणिस्था च युधिम् गमः । ५,१३ ६
अनाशुर् अश्वायामी त्वो ता कल्पेषु सम्मिता ॥३६(प् १५८) ५,१३ ६
5.14
यद् इन्द्रादो दशाराज्ञेऽमानुषम् विगाहथाः । १
विरूपस् सर्वस्मा आसीत् सदृग् अक्षाय वञ्चते । १
त्वम् विषाक्षम् मघवन् नम्रम् पर्याकरोर् अभि । २
त्वम् रौहिणम् व्यास्यः त्वम् वृत्रस्याभिनत् शिरः ।२
यः पर्वतान् व्यदधाद् यो अपो व्यगाहथाः । ३
यो वृत्रम् वृत्रहन्न् अहन् तस्मा इन्द्र नमो अस्तु ते ।३
प्रष्टिम् धावन्तम् हर्योर् औच्चैश्श्रवसम् अब्रवम् । ४
स्वस्त्य् अश्व जैत्रायेन्द्रम् आवहतो रथम् । ४
यत्वा श्वेता उच्चैश्श्रवसम् हर्योर् युञ्जन्ति दक्षिणम् ।५
मूर्धानम् अश्वम् देवानाम् बिभ्रद् इन्द्रम् महीयते ॥३७ ५
5.15
एताश्वाप्लवन्ते । प्रतीपम् प्रातिसत्वनम् । ५,१५ १
तासाम् एका हरिक्लिका । हरिक्लिके किम् इच्छसि ।(प् १५९) ५,१५ १
साधुम् पुत्रम् हिरण्ययम् । क्वाह तम् परास्यः । ५,१५ २
यत्रामूस् तिस्रश् शिंशपाः । परि त्रयः पृदाकवः । ५,१५ २
शृङ्गम् धमन्तासते । अयम् वहातेऽवहि । ५,१५ ३
सेत्थ कम् सैव कम् । सघा घ ते सघा घ मे । ५,१५ ३
गोमी घ गिमिनीर् अभि । पुमान् भूम्ने निनित्ससि । ५,१५ ४
बल्बब् अथो इति । बल्बबो अथो इति । ५,१५ ४
अजकोरकोविका । अश्वस्य वारो गोश् शफः । ५,१५ ५
केशिनी श्येन्येनीव । अनामयोपजिह्विका ॥३८ ५,१५ ५
को अम्ब हुलम् अयुनि । को अर्जुन्याः पयः । ५,१५ ६
को असिक्न्याः पयः । एतम् पृच्छ कुहम् पृच्छ । ५,१५ ६
कुहा कम् पक्वकम् पृच्छ । यायन्ति श्वभिष् कुभिः । ५,१५ ७
अब्जन्तः कुभायवः । आमनको मनस्थकः । ५,१५ ७
देवत्तः प्रति जूर्यः । पिनष्टि पर्तिका हविः । ५,१५ ८
प्र बुद्बुदो मथायति । शुङ्गोत्पत । ५,१५ ८
इरा चेन्द्रम् अमन्दत । इयन्न् इयन्न् इति । ५,१५ ९
अथो इयन्न् इति । अथो ज्यायस्तरो भुवत् । ५,१५ १०
इयम् यका सलाकका । आमिनोति निभज्यते ॥३९ ५,१५ १०
तस्यानुनिभञ्जनम् । वरुणो याति बभ्रुभिः । ५,१५ ११
शतम् बभ्रोर् अभीशुभिः । शतम् कशा हिरण्ययीः । ५,१५ ११
शतम् रथा हिरण्ययाः । आहकलुश् शवर्तकः । ५,१५ १२
आयवनेन तेजनी । शफेन पीवौहते । ५,१५ १२
वनिष्ठुनोपनृत्यति । इमम् मह्यम् अदुर् इति । ५,१५ १३
ते वृष्कास् सह तिष्ठन्ति । पाकवलिश् शकवलिः । ५,१५ १३
अश्वत्तः खदिरो धवः । अरदुः परमश् शये । ५,१५ १४
हतेव पाप पूरुषः । अदोहम् इत् पियूषकम् । ५,१५ १४
द्वम् च हस्तिनो दृती । अध्यर्धम् च परस्वतः । ५,१५ १५
आद् अलाबुकम् एककम् । अलाबुकम् निखातकम् ॥४० ५,१५ १५
कर्करिको निखातकः । तद् वातोन्मथायति । ५,१५ १६
कुलायम् करवान् इति । उग्रम् वल्षद् आततम् । ५,१५ १६
न वल्षद् अनाततम् । कैषाम् कर्करिम् लिखत् । ५,१५ १७
कैषाम् दुन्दुभिम् हनत् । यद् ईम् हनत् कथम् हनत् । ५,१५ १७
दैलीम् हनत् कथम् हनत् । पर्य् आकरम् पुनः पुनः ॥४१(प् १६०) ५,१५ १८
5.16
विततौ किरणौ द्वौ ताव् आपिनष्टि पूरुषः । ५,१६ १
न वै कुमारि तत् तथा यथा कुमारि मन्यसे । ५,१६ १
मातुष् टे किरणौ द्वौ नीवीतः पुरुषाद् ऋते । ५,१६ २
न वै कुमारि तद् तथा यथा कुमारि मन्यसे । ५,१६ २
निगृह्य कर्णकौ द्वौ निरायच्छसि मध्यमम् । ५,१६ ३
न वै कुमारि तत् तथा यथा कुमारि मन्यसे । ५,१६ ३
उत्तानायै शयनायै तिष्ठन्न् एवावगूहसि । ५,१६ ४
न वै कुमारि तत् तथा यथा कुमारि मन्यसे । ५,१६ ४
श्लक्ष्णावाम् श्लक्ष्णिकायाम् श्लक्ष्णम् एवावगूहसि । ५,१६ ५
न वै कुमारि तत् तथा यथा कुमारि मन्यसे । ५,१६ ५
अव श्लक्ष्णम् अवभ्रशद् अन्तर् लोमवती ह्रदे । ५,१६ ६
न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥४२(प् १६२) ५,१६ ६
5.17
इहेत्थ प्राग् अपाग् उदग् अधराग् अरालोदभर्त्सत । ५,१७ १
इहेत्थ प्राग् अपाग् उदग् अधराग् वत्साः प्रुषन्तासते । ५,१७ २
इहेत्थ प्राग् अपाग् उदग् अधराक् स्थालीपाओ विलीयते । ५,१७ ३
इहेत्थ प्राग् अपाग् उदग् अधराक् सिली पुच्छो विलीयते ॥ ५,१७ ४
5.18
भुग् इत्य् अभिगतः । ५,१८ १
शर् इत्य् अभिष्ठितः ।
फल् इत्य् अपक्रान्तः । ५,१८ १
5.19
वीमे देवाक्रन्सताध्वर्योः क्षिप्रम् प्रचर । ५,१९ १
सुशस्तिर् इद् गवाम् अस्य् अति प्रखिदसो महत् ॥४३(प् १६३) ५,१९ १
5.20
आदित्या ह जरितर् अङ्गिरोभ्यो दक्षिणाम् अनयन् । ५,२० १
ताम् ह जरितर् न प्रत्य् आयन् ताम् उ ह जरितः प्रत्यायन् । ५,२० १
ताम् ह जरितर् न प्रत्य् अगृभ्णन् ताम् उ ह जरितः प्रत्यगृभ्णन् । ५,२० २
अहा नेत सन्न् अविचेतनानि जज्ञा नेत सन्न् अपुरोगवासः । ५,२० २
उत श्वेताशुपत्वोतो पद्याभिर् जविष्ठः । ५,२० ३
उतेम् आशु मानम् पिपर्ति । ५,२० ३
आदित्या रुद्रा वसवस् त्व् एडते इदम् राधः प्रति गृभ्णीह्य् अङ्गिरः । ५,२० ४
इदम् राधो बृहत् पृथु देवा ददात्व् आ वरम् । ५,२० ४
तद् वो अस्तु सुचेतनम् युष्मेऽस्तु दिवे दिवे । ५,२० ५
प्रत्य् एव गृभायत ॥४४ ५,२० ५
5.21
त्वम् इन्द्र शर्मन्न् अरिणा हव्यम् परावतेभ्यः । ५,२१ १
विप्राय स्तुवते वस्वृजुर् इत् श्रवसे वहः । ५,२१ १
त्वम् इन्द्र कपोताय छिन्न पक्षाय वञ्चते । ५,२१ २
श्यामाकम् पक्वम् विरुज वार् अस्माकृणोर् बहु । ५,२१ २
आरङ्गरो वावदीति त्रेधा बद्धो वरत्य् अयाः । ५,२१ ३
इराम् उ ह प्रशंसत्य् अनिराम् अपसेधत ॥४५(प् १६४) ५,२१ ३
5.22
यद् अस्यांहु भेद्याः पृथु स्थूरम् उपातसत् । ५,२२ १
मुष्केद् अस्यैजतो गोशफे शकुलाव् इव । ५,२२ १
यदा स्थूरेण पससाणू मुष्कोपावधीत् । ५,२२ २
विष्वञ्चाव् अस्यार्दतस्सिकतास्व् इव गर्दभौ । ५,२२ २
यद् अल्पिका स्वल्पिका कर्कन्धुकेव पच्यते । ५,२२ ३
वासन्तिकम् इव तेजनम् यभ्यमाना विनम्यते । ५,२२ ३
यद् देवासो ललाबुकम् प्रविष्टीमिनम् आविषुः । ५,२२ ४
सक्थ्ना ते दृश्यते नारी सत्यस्याक्षी भागो यथा ॥४६ ५,२२ ४
महानग्न्य् उपब्रूते श्वस्या वेशितम् पसः । ५,२२ ५
ईदृक् फलस्य वृक्षस्य शूर्पम् शूर्पम् भजेमहि । ५,२२ ५
महानग्न्य् अदृप्तम् हि सो क्रन्दद् अस्तम् आसदत् । ५,२२ ६
सक्नु कामना भुव मशकम् सक्थ्य् उद्यतम् । ५,२२ ६
महानग्न्य् उलूखलम् अतिक्रामन्त्य् अब्रवीत् । ५,२२ ७
यथैव ते वनस्पते पिघ्नन्ति तथैव मे । ५,२२ ७
महानग्नी कृकवाकुम् शम्यया परिधावति । ५,२२ ८
इदम् न विद्म तेजनम् शीर्ष्णा भवति धानिका । ५,२२ ८
महानग्नी महागङ्गन् धावन्तम् अनुधावति । ५,२२ ९
इमास् तद् अस्य गा रक्ष यभ माम् अद्ध्य् ओदनम् । ५,२२ ९
महान् वै भद्रो बिल्वो महान् पक्वोदुम्बरः । ५,२२ १०
महान् अभिज्ञु बाधते महतस् साधु खोदनम् । ५,२२ १०
कपृन् नरः कपृथम् उद्दधातन चोदयत खुदत वाज सातये । ५,२२ ११
निष्टिग्र्यः पुत्रम् आच्यावयोतयेन्द्रम् सबाधेह सोम पीतये । ५,२२ ११
यद् ध प्राचीर् अजगन्तोरो मण्डूर धाणिकीः । ५,२२ १२
हतेन्द्रस्य शत्रवस् सर्वे बुद्बुदयाशवः । ५,२२ १२
दधिक्राव्णो अकारिषन् जिष्णोर् अश्वस्य वाजिनः । ५,२२ १३
सुरभि नो मुखा करत् प्र णायूंषि तारिषत् ॥४७(प् १६५) ५,२२ १३



(षंहितारण्यम्)

[३ १] उदितस् शुक्रियन् दधे तद् अहम् आत्मनि दधे ।
अनु माम् ऐत्व् इन्द्रियम् मयि श्रीर् मयि यशः ।
[३ २] सर्वस्य प्राणस् सबलोत्तिष्ठाम्य् अनु माशीर् उत्तिष्ठत्व् अनु मा यन्तु देवताः ।
अदब्धम् चक्षुर् इषिरम् मनस् सूर्यो ज्योतिषाम् श्रेष्ठो दीक्षे मा मा हिंसीः
[३ ३] तच् चक्षुर् देव हितम् शुक्रम् उच्चरत् ।
पश्येम शरदस् शतम् जीवेम शरदस् शतम् ॥
[३ ४] अग्ने इडा नमेडा नमर्षिभ्यो मन्त्रकृद्भ्यो मन्त्र पातिभ्यो नमो वो असु देवेभ्यः ।
शिवा नश् शंतमा भव सुमृडीका सरस्वती ।
मा ते व्योम संदृशि ।
भद्रम् कर्णे (प् १६७)भिः । ऋक् ।
शम् नेन्द्राग्न्यृक् ।
स्तुषे जनम् ।
ऋक् कया नश् चित्रः ।
कस् त्वा सत्यो मदानाम् ।
अभी षु नः ।
स्योना पृथिवी भव ।
सप्रथेति शान्तिश् शान्तिश् शान्तिः ॥

इत्य् ऋग्वेदे संहितारण्ये तृतीयो अध्यायः ।
इति श्र्यृग्वेदे शाकलके शाखायाम् दशम मण्डले ऋग्वेद खिल सहितस् संहितारण्य सहितश् च सम्पूर्णम् समाप्तम् ।
ओम् नमो ब्रह्मणे नमो अस्त्व् अग्नये नमः पृथिव्यै नमौषधीभ्यः ।
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते कृणोमीत्य् एतासाम् एव देवतानाम् सार्ष्टिकाम् सायुज्यम् सलोकताम् आप्नोति यैवम् विद्वान् स्वाध्यायम् अधीते ॥
ओम् अनन्त शाखा कल्पाय भोग्य मोक्ष फलाय च ।
ब्रह्मणासेविमानाय वेद वृक्षाय वै नमः ॥
सम्५१ हा शु ति १३ लिखितम् ॥
भट्ट भीम स्वामिनो रामिस्वामिनः पुत्रश् शवलस्वामिनः पौत्रस् सम्पाद्यतम् समाप्तम् ।
शुभम् अस्तु ॥(प् १६८)


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें