यदुस्तुर्वश्च मामहे ॥१०॥ (ऋग्वेद १०/६२/१०)
अनुवाद-
पदपाठ-
उत ।दासा। परिऽविषे । स्मद्दिष्टी इति स्मत्ऽदिष्टी । गोऽपरीणसा। यदुः । तुर्वः । च ।मामहे ॥१०।। __________
(उत) अपि तस्य ज्ञानदातुः (परिविषे) =स्नान-सेवायै योग्यौ भवतः “विष सेचने सेवायाम् च ” [भ्वादि०] (यदुः-तुर्वः-च एतयो: नाम्नो: गोपभ्याम् (मामहे) स्तुमहे। ॥१०॥_________________________________
२-"स्मद्दिष्टी कल्याणादेशिनौ ।
३-“गोपरीणसा गोपरीणसौ गोभिः परिवृतौ बहुगवादियुक्तौ
४-(“दासा =दासतः दानकुरुत: =जो दौनों दान करते हैं।
५-स्थितौ तेनाधिष्ठितौ “यदुः च “तुर्वश्च एतन्नामकौ राजर्षी।
६- “परिविषे =परिचर्य्यायां /व्याप्त्वौ।
आत्मनेपदी "वह्" तथा "मह्" भ्वादिगणीय धातुऐं हैं। आत्मनेपदी नें लट् लकार उत्तम पुरुष बहुवचन के रूप में क्रमश:"वहामहे "और महामहे हैं महामहे का ही (वेैदिक रूप "मामहे") है।
आत्मनेपदी लट् लकार-★(वर्तमान) मह्=पूजायाम् " | |||
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमपुरुषः | महते | महेते | महन्ते |
मध्यमपुरुषः | महसे | महेथे | महध्वे |
उत्तमपुरुषः | महे | महावहे | महामहे |
____________________________
को न्वत्र॑ मरुतो मामहे व॒: प्र या॑तन॒ सखीँ॒रच्छा॑ सखायः। (ऋग्वेद-१.१६५.१३)
दास्(भ्वादिः) |
परस्मैपदी |
लट्(वर्तमान) | |||
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमपुरुषः | दासति | दासतः | दासन्ति |
मध्यमपुरुषः | दाससि | दासथः | दासथ |
उत्तमपुरुषः | दासामि | दासावः | दासामः |
____________________________________(आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम् । उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ॥३१॥ ( ऋग्वेद ८/१/३१)
(य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया।
एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः॥३२॥
॥अथाष्टमं मण्डलम्॥
अष्टमे मण्डले दशानुवाकाः । तत्र प्रथमेऽनुवाके पञ्च सूक्तानि । तेषु ‘मा चिदन्यत्' इति चतुस्त्रिंशदृचं प्रथमं सूक्तम् । अत्रानुक्रम्यते–' मा चिच्चतुस्त्रिंशन्मेधातिथिमेध्यातिथी ऐन्द्रं बार्हतं द्विप्रगाथादि द्वित्रिष्टुबन्तमाद्यं द्वृचं प्रगाथोऽपश्यत्स घौरः सन्भ्रातुः कण्वस्य पुत्रतामगात्(बृहद्देवता ६.३५ ) प्लायोगिश्चासङ्गो यः स्त्री भूत्वा पुमानभूत्स मेध्यातिथये दानं दत्त्वा स्तुहि स्तुहीति चतसृभिरात्मानं तुष्टाव पत्नी चास्याङ्गिरसी शश्वती पुंस्त्वमुपलभ्यैनं प्रीतान्त्यया तुष्टाव ' इति ।
अस्यायमर्थः । अस्य सूक्तस्य मेधातिथिमेध्यातिथिनामानौ द्वावृषी तौ च कण्वगोत्रौ ।
ऋषिश्चानुक्तगोत्रः प्राङ्मत्स्यात् काण्वः' इति परिभाषितत्वात् ।
आद्यस्य द्वृचस्य तु घोरस्य पुत्रः स्वकीयभ्रातुः कण्वस्य पुत्रतां प्राप्तत्वात् काण्वः प्रगाथाख्य ऋषिः ।
प्लयोगनाम्नो राज्ञः पुत्र आसङ्गाभिधानो राजा देवशापात् स्त्रीत्वमनुभूय पश्चात्तपोबलेन मेधातिथेः प्रसादात् पुमान् भूत्वा तस्मै बहु धनं दत्त्वा स्वकीयमन्तरात्मानं दत्तदानं स्तुहि स्तुहीत्यादिभिश्चतसृभिर्ऋग्भिरस्तौत् । अतस्तासामासङ्गाख्यो राजा ऋषिः ।
अस्यासङ्गस्य भार्याङ्गिरसः सुता शश्वत्याख्या भर्तुः पुंस्त्वमुपलभ्य प्रीता सती स्वभर्तारम् ‘अन्वस्य स्थूरम् ' इत्यनया स्तुतवती ।
अतस्तस्या ऋचः शश्वत्यृषिका । अन्त्ये द्वे त्रिष्टुभौ द्वितीयाचतुर्थ्यौ सतोबृहत्यौ शिष्टा बृहत्यः । कृत्स्नस्य सूक्तस्येन्द्रो देवता ।
‘ स्तुहि स्तुहि' इत्याद्याश्चतस्र आत्मकृतस्य दानस्य स्तूयमानत्वात्तद्देवताकाः । ‘ अन्वस्य ' इत्यस्या आसङ्गाख्यो राजा देवता ।
' या तेनोच्यते सा देवता ' इति न्यायात् । महाव्रते निष्केवल्ये बार्हततृचाशीतावादित एकोनत्रिंशद्विनियुक्ताः।
तथैव पञ्चमारण्यके सूत्रितं--- ‘मा चिदन्यद्वि शंसतेत्येकया न त्रिंशत् ' (ऐ. आ. ५. २. ४) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने मैत्रावरुणस्य ‘मा चिदन्यत्' इति वैकल्पिकः स्तोत्रियः प्रगाथः । सूत्रितं च---' मा चिदन्यद्वि शंसत यच्चिद्धि त्वा जना इम इति स्तोत्रियानुरूपौ ' ( आश्व. श्रौ. ७.४ ) इति । ग्रावस्तोत्रेऽप्याद्या विनियुक्ता । सूत्रितं च- आ तू न इन्द्र क्षुमन्तं मा चिदन्यद्वि शंसत' (आश्व. श्रौ. ५.१२ ) इति ।
उपकरणोत्सर्जनयोः' मण्डलादिहोमेऽप्येषा। सूत्र्यते हि-' मा चिदन्यदाग्ने याहि स्वादिष्ठया ' इति
______
मम । त्वा । सूरे । उत्ऽइते । मम । मध्यन्दिने । दिवः ।मम । प्रऽपित्वे । अपिऽशर्वरे । वसो इति । आ । स्तोमासः । अवृत्सत ॥२९।।
“सूरे= सूर्ये "उदिते =उदयं प्राप्ते पूर्वाह्णसमये “मम “स्तोमासः स्तोत्राणि हे “(वसो= वासकेन्द्र) त्वाम् “आ “अवृत्सत =आवर्तयन्तु । अस्मदभिमुखं गमयन्तु । तथा “दिवः =दिवसस्य “मध्यंदिने= मध्याह्नेऽपि मदीयाः स्तोमास्त्वामावर्तयन्तु। तथा “प्रपित्वे= प्राप्ते दिवसस्यावसाने सायाह्नेऽपि मदीयाः स्तोमास्त्वामावर्तयन्तु ।“अपिशर्वरे । शर्वरीं रात्रिमपिगतः कालः अपिशर्वरः । शार्वरे कालेऽपि मदीयाः स्तोमास्त्वामावर्तयन्तु ॥
अर्थ-
सूर्योदय होने पर पूर्वान्ह समय पर ये मेरा स्तोत्र हे वसुओ के स्वामी ! तुझे मेरे सामने लाये तुम्हें हमारे सम्मुख ले आये। तथा दिन को मध्याह्न समय में भी ये मेरे स्तोत्र तुम्हें हमारे सामने लायें और दिन के अवसान सायंकाल में भी ये मेरे स्तोत्र तुम्हें हमारे सामने लायें। और रात्रि के समय भी मेरे स्तोत्र तुम्हें हमारे सम्मुख ले आयें।२९।
______________________________
स्तुहि । स्तुहि । इत् । एते । घ । ते । मंहिष्ठासः । मघोनाम् ।निन्दितऽअश्वः । प्रऽपथी । परमऽज्याः । मघस्य । मेध्यऽअतिथे ॥३०
आसङ्गो राजर्षिर्मेध्यातिथये बहु धनं दत्त्वा तमृषिं दत्तदानस्य स्वस्य स्तुतौ प्रेरयति । हे “मेध्यातिथे यज्ञार्हातिथ एतत्संज्ञर्षे "स्तुहि "स्तुहीत् । पुनःपुनरस्मान् प्रशंसैव। मोदास्व औदासीन्यं मा कार्षीः । “एते “घ एते खलु वयं “मघोनां धनवतां मध्ये “ते तुभ्यं “मघस्य धनस्य “मंहिष्ठासः दातृतमाः । अतोऽस्मान् स्तुहीत्यर्थः । कासौ स्तुतिस्तामाह। “निन्दिताश्वः । यस्य वीर्येण परेषामश्वा निन्दिताः कुत्सिता भवन्ति तादृशः । “प्रपथी । प्रकृष्टः पन्थाः प्रपथः । तद्वान् । सन्मार्गवर्तीत्यर्थः । “परमज्याः उत्कृष्टज्यः । अनेन धनुरादिकं लक्ष्यते । उत्कृष्टायुध इत्यर्थः । यद्वा । परमानुत्कृष्टाञ्छत्रून् जिनाति हिनस्तीति परमज्याः । ज्या वयोहानौ' । अस्मात् ‘आतो मनिन्' इति विच् । एवंभूतोऽहमासङ्ग इति स्तुहीत्यर्थः ॥३०।
_________________________________
ऋग्वेद (८/१/३०)
__________________________________
२-“अश्वान्=तुरगान् "अहं प्रायोगिः
३-“श्रद्धया आदरातिशयेन युक्तः सन् “यत् यदा हे मेध्यातिथे त्वदीये “रथे
५-“उत अपि च । प्रकृतस्तुत्यपेक्ष एव समुच्चयः ।
७-“वसुनः धनस्य । पूर्ववत् कर्मणि षष्ठी । ईदृशं धनं “चिकेतति । एष आसङ्गो दातुं जानाति ।
__________________________________
८- "याद्वः यदुवंशोद्भवः। यद्वा । यदवो मनुष्याः। तेषु प्रसिद्धः।
९- “पशुः । लुप्तमत्वर्थमेतत् । पशुमान् । यद्वा । पशुः पश्यतेः । सूक्ष्मस्य द्रष्टा ।
___________________________________
१०-“यः आसङ्गः “अस्ति विद्यते एष चिकेततीत्यन्वयः ॥
अनुवाद-
"उपर्युक्त ऋचा में आसङ्ग एक यदुवंशी राजा है जो पशुओं से समन्वित हैं अर्थात यादव सदियों से पशुपालक रहें हैं पशु ही जिनकी सम्पत्ति हुआ करती थे विदित हो कि पशु शब्द ही भारोपीय परिवार में प्राचीनत्तम. péḱu (पेकु) शब्द है ।
पाश (फन्दे) में बाँधने के कारण ही पशु संज्ञा का विकास हुआ। ऋग्वेद को दशम मण्डल के (62) वें सूक्त में दसवीं ऋचा में यदु और तुर्वसु को गायों सी परिचर्या करते हुए और गायों से घिरा हुआ " वर्णन किया गया है ।
दाता अथवा दानी होने से ही उन्हें "दासा" विशेषण से सम्बोधित किया गया है। प्राचीनतम वैदिक सन्दर्भों में दास: या अर्थ दाता अथवा दानी ही हेै।
उत्तर वैदिक काल और लौकिक संस्कृत में आते आते इसका अर्थ दाता से पतित होकर देव संस्कृतियों को विद्रोही अर्थ में सम्पन्न शाली दैत्यों को होने लगा जैसे कि वृत्र नम्बर और नमुचि आदि ते लिए
From Proto-Indo-Iranian *páću, from 1-Proto-Indo-European *péḱu (“cattle, livestock”).
2- Cognate with Avestan 𐬞𐬀𐬯𐬎 (pasu, “livestock”),
3-Latin pecū (“cattle”),
4-Old English feoh (“livestock, cattle”),
5- Gothic 𐍆𐌰𐌹𐌷𐌿 (faihu, “cattle”).
पशु शब्द की व्युत्पत्ति★-
१-प्रोटो-इंडो-ईरानी *पाकु(páću) से, प्रोटो-इंडो-यूरोपीय *पेकु péḱu ("मवेशी, पशुधन") से।
अवेस्तान (पसु, "पशुधन"-pasu, “livestock”),),
लैटिन पेकु-pecū (“cattle” ("मवेशी"),
पुरानी अंग्रेज़ी फीह ("पशुधन, मवेशी"-feoh (“livestock, cattle”)
(जर्मनी) गोथिक (faihu, "मवेशी") के साथ संगति 𐍆𐌰𐌹𐌷𐌿 (faihu, “cattle”).।
_______________________________
(य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया ।
एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः ॥३२॥
पदपाठ-
यः । ऋज्रा । मह्यम् । मामहे । सह । त्वचा । हिरण्यया ।एषः । विश्वानि । अभि । अस्तु । सौभगा । आसङ्गस्य । स्वनत्ऽरथः ॥३२।
एवमेवं मां स्तुहीत्यासङ्गो मेध्यातिथिं ब्रूते । “यः आसङ्गस्यात्मा “ऋज्रा= गमनशीलानि धनानि। “हिरण्यया =हिरण्मय्या “त्वचा =चर्मणास्तरणेन “सह सहितानि “मह्यं= मेध्यातिथये अभि =सर्वत: अस्तु=भवतु। {“मामहे = स्तुमहे} । मंह्= पूजायाम् । “एषः आसङ्गस्यात्मा “स्वनद्रथः= शब्दायमानरथः सन् “विश्वानि= व्याप्तानि सौभगानि धनानि शत्रूणां स्वभूतानि “॥
इस प्रकार मेरी स्तुति करो । आसङ्ग मेथातिथि से कहता है। "उस आसङ्ग का चलायवान धन स्वर्ण-चर्म के विस्तर सहित मुझ मेधातिथि लिए हो । वही आसङ्ग शब्दायवान रथ से युक्त होकर शत्रुओं से सम्पूर्ण सौभाग्य- पूर्ण धनों को विजित करे। इस प्रकार हम स्तुति करते हैं ।३२।
____________
पदपाठ-
अध॑ । प्लायो॑गिः । अति॑ ।( दा॒स॒त् )। अ॒न्यान् । आ॒ऽस॒ङ्गः । अ॒ग्ने॒ । द॒शऽभिः॑ । स॒हस्रैः॑ ।अध॑ । उ॒क्षणः॑ । दश॑ । मह्य॑म् । रुश॑न्तः । न॒ळाःऽइ॑व । सर॑सः । निः । अ॒ति॒ष्ठ॒न् ॥३३।
२"प्लायोगिः= प्रयोगनाम्नः पुत्रः “आसङ्गः नाम राजा
३“दशभिः =दशगुणितैः “सहस्रैः सहस्रसंख्याकैर्गवादिभिः
५-अति “दासत्= अतिक्रम्य ददाति ।
७-“उक्षणः = वृषभा: सेचनसमर्थाः “मह्यम् आसङ्गेन दत्ताः
८-“रुशन्तः= दीप्यमानाः “दश दशगुणितसहस्रसंख्याकास्ते गवादयः “नळाइव । नळास्तटाकोद्भवास्तृणविशेषाः । ते यथा “सरसः तटाकात् {संघशो} निर्गच्छन्ति तथैव मह्यं दत्ता गवादयोऽस्मादासङ्गात् "निरतिष्ठन् निर्गत्यावास्थिषत । एवमेवंप्रकारेण मां स्तुहीति मेध्यातिथिं प्रत्युक्तत्वादेतासां चतसृणामृचां {प्रायोगिरासङ्ग ऋषिः स एव देवतेत्येतदुपपन्नं भवति} ॥
अनुवाद-
_____________________________
अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः।
शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि।३४।।
पदपाठ-
अनु । अस्य । स्थूरम् । ददृशे । पुरस्तात् । अनस्थः । ऊरुः । अवऽरम्बमाणः ।
अन्वय-
"शश्वती । नारी । अभिऽचक्ष्य । आह । सुऽभद्रम् । अर्य । भोजनम् । बिभर्षि ॥३४
अयमासङ्गो राजा कदाचिद्देवशापेन नपुंसको बभूव । तस्य पत्नी शश्वती भर्तुर्नपुंसकत्वेन खिन्ना सती महत्तपस्तेपे । तेन च तपसा स च पुंस्त्वं प्राप । प्राप्तपुंव्यञ्जनं ते रात्रावुपलभ्य प्रीता शश्वत्व मया तमस्तौत् । “अस्य आसङ्गस्य “पुरस्तात् पूर्वभागे गुह्यदेशे “स्थूरं =स्थूलं वृद्धं सत् पुंव्यञ्जनम् “अनु “ददृशे अनुदृश्यते । “अनस्थः अस्थिरहितः स चावयवः “ऊरुः =उरु=र्विस्तीर्णः “अवरम्बमाणः अतिदीर्घत्वेनावाङ्मुखं लम्बमानः । यद्वा । ऊरुः । सुपां सुलुक्' इति द्विवचनस्य सुः । ऊरू प्रत्यवलंबमानो भवति । { “शश्वती नामाङ्गिरसः सुता “नारी तस्यासङ्गस्य भार्या “अभिचक्ष्य एवंभूतमवयवं निशि दृष्ट्वा हे “अर्य स्वामिन् भर्तः} “सुभद्रम्= अतिशयेन कल्याणं “भोजनं =भोगसाधनं “बिभर्षि= धारयसीति “आह= ब्रूते ॥ ३४ ॥
अनुवाद-व अर्थ-★
________________________________
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें