बुधवार, 26 जनवरी 2022

कृषि कृष्टि और किसान-

दे. इन्द्रः। त्रिष्टुप्


तमुष्टुहि यो अभिभूत्योजा वन्वन्नवातःपुरुहूत इन्द्रः।
अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वृषभं चर्षणीनाम् ॥१॥


स युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमाँ ऋजीषी ।
बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा ॥२॥


त्वं ह नु त्यददमायो दस्यूँरेकः कृष्टीरवनोरार्याय ।
अस्ति स्विन्नु वीर्यं तत्त इन्द्र न स्विदस्ति तदृतुथा वि वोचः ॥३॥


सदिद्धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य।
उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरो बभूव ॥४॥


तन्नः प्रत्नं सख्यमस्तु युष्मे इत्था वदद्भिर्वलमङ्गिरोभिः ।
हन्नच्युतच्युद्दस्मेषयन्तमृणोः पुरो वि दुरो अस्य विश्वाः ॥५॥

स हि धीभिर्हव्यो अस्त्युग्र ईशानकृन्महति वृत्रतूर्ये 
स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत्समत्सु ॥६॥


स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति प्र सर्स्रे ।
स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ॥७॥


स यो न मुहे न मिथू जनो भूत्सुमन्तुनामा चुमुरिं धुनिं च ।
वृणक्पिप्रुं शम्बरं शुष्णमिन्द्रः पुरां च्यौत्नाय शयथाय नू चित् ॥८॥


उदावता त्वक्षसा पन्यसा च वृत्रहत्याय.      रथमिन्द्र तिष्ठ ।
धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः ॥९॥


अग्निर्न शुष्कं वनमिन्द्र हेती रक्षो नि धक्ष्यशनिर्न भीमा ।
गम्भीरय ऋष्वया यो रुरोजाध्वानयद्दुरिता दम्भयच्च ॥१०॥


आ सहस्रं पथिभिरिन्द्र राया तुविद्युम्न तुविवाजेभिरर्वाक् ।
याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः ॥११॥


प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः ।
नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥१२॥


प्र तत्ते अद्या करणं कृतं भूत्कुत्सं यदायुमतिथिग्वमस्मै ।
पुरू सहस्रा नि शिशा अभि क्षामुत्तूर्वयाणं धृषता निनेथ ॥१३॥


अनु त्वाहिघ्ने अध देव देवा मदन्विश्वे कवितमं कवीनाम् ।
करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥१४॥


अनु द्यावापृथिवी तत्त ओजोऽमर्त्या जिहत       इन्द्र देवाः ।
कृष्वा कृत्नो अकृतं यत्ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः ॥१५॥


सायणभाष्यम्★-

‘तमु ष्टुहि' इति पञ्चदशर्चं तृतीयं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रम्यते-- तमु ष्टुहि' इति । अभिजिति निष्केवल्य एतन्निविद्धानम् । सूत्रितं च--- तमु ष्टुहीति मध्यंदिनः ' ( आश्व. श्रौ. ८.५) इति । इन्द्राग्न्योः कुलायनाम्न्येकाहेऽपि निष्केवल्य एतन्निविद्धानम् । सूत्रितं च--’ तिष्ठा हरी तमु ष्टुहीति मध्यंदिनः ' (आश्व. श्रौ. ९. ७ ) इति । महाव्रतेऽपि निष्केवल्ये । तथैव पञ्चमारण्यके सूत्रितं-’ तमु ष्टुहि यो अभिभूत्योजाः सुत इत्त्वं निमिश्ल इन्द्र सोम इति त्रीणि' ( ऐ. आ. ५. २. २) इति ॥



तम् । ऊं इति । स्तुहि । यः । अभिभूतिऽओजाः । वन्वन् । अवातः । पुरुऽहूतः । इन्द्रः ।

अषाळ्हम् । उग्रम् । सहमानम् । आभिः । गीःऽभिः । वर्ध । वृषभम् । चर्षणीनाम् ॥१।

“अभिभूत्योजाः= अभिभावुकतेजाः “वन्वन् =शत्रून् हिंसन् “अवातः= शत्रुभिरहिंसितः ॥ वनोतेर्निष्ठान्तस्य नञ्पूर्वस्य रूपम् । यद्वा वातेर्वातम् ॥ अनभिगतः "पुरुहूतः =बहुभिराहूतः "यः “इन्द्रः अस्तीति शेष: ।

 हे भरद्वाज “तमु “ष्टुहि तमेवेन्द्रं स्तुहि । अपि च “आभिः =वक्ष्यमाणाभिः “गीर्भिः= स्तुतिरूपाभिर्वाग्भिः तमिन्द्रं “वर्ध =वर्धय । कीदृशम् । "अषाळ्हम् अनभिभूतम् “उग्रम्= उद्गूर्णम् ओजस्विनं वा "सहमानं =शत्रूनभिभवन्तं "चर्षणीनां प्रजानां संबन्धिनं “वृषभं वर्षितारम् ॥


सः । युध्मः । सत्वा । खजऽकृत् । समत्ऽवा । तुविऽम्रक्षः । नदनुऽमान् । ऋजीषी ।

बृहत्ऽरेणुः । च्यवनः । मानुषीणाम् । एकः । कृष्टीनाम् । अभवत् । सहऽवा ॥२।

“बृहद्रेणुः बृहतो महतो रेणोः पांसोरुत्थापकः । संग्रामेष्विति यावत् । “एकः मुख्यः "सहावा बलवान् "सः इन्द्रः "मानुषीणां मनोः संबन्धिनीनां "कृष्टीनां प्रजानां यजमानानां "च्यवनः अभिगन्ता “अभवत् आसीत् । कीदृशः । "युध्मः योद्धा "सत्वा दाता । सनोतेरिदं रूपम् । “खजकृत् खजानां संग्रामाणां कर्ता । खज इति संग्रामनामैतत् । "समद्वा । यजमानैः सह मदः समत् तद्वान् । "तुविम्रक्षः । मृक्षतिः संस्नेहनकर्मा । तुवीनां बहूनां वर्षणेन संस्नेहनकर्ता "नदनुमान् शब्दवान् "ऋजीषी । ऋजीषशब्देन सवनद्वयाभिषुतः पुनस्तृतीयसवनेऽप्यभिषुतः सोम उच्यते । तद्वान् 

______________

त्वम् । ह । नु । त्यत् । अदमयः । दस्यून् । एकः । कृष्टीः । अवनोः । आर्याय ।अस्ति । स्वित् । नु । वीर्यम् । तत् । ते । इन्द्र । न । स्वित् । अस्ति । तत् । ऋतुऽथा । वि । वोचः ॥३।।

हे इन्द्र “त्यत् स्यः स “त्वम् । त्यदिति तच्छब्दपर्यायः । अत्र लिङ्गव्यत्ययः । “दस्यून्= कर्महीनान् जनान् “नु =क्षिप्रम् “अदमयः= दान्तानकरोः । हशब्दः= पूरणार्थः । अपि च “एक:= मुख्यस्त्वं “कृष्टीः= पुत्रदासादीन् “आर्याय= कर्मकृते जनाय “अवनोः =अददाः । एवं स्तुवन्नप्यृषिरिन्द्रं यदा नाद्राक्षीत् तदा तस्य वीर्यसद्भावे विचिकित्समानः परार्धर्चमाह । हे “इन्द्र “ते= तव यत् पूर्वमुक्तं “तत् “वीर्यं =सामर्थ्यं “स्विन्नु “अस्ति । किं स्विद्भवति । स्विन्नु इति विचिकित्सायाम् । यद्वा “नास्ति “स्वित् । “तत् बलम् “ऋतुथा काले काले “वि "वोचः विशेषेण ब्रूहि ॥


सत् । इत् । हि । ते । तुविऽजातस्य । मन्ये । सहः । सहिष्ठ । तुरतः । तुरस्य ।उग्रम् । उग्रस्य । तवसः । तवीयः । अरध्रस्य । रध्रऽतुरः । बभूव ॥४।।

पूर्वमन्त्रे इन्द्रस्य बलसदसद्भावं संदिह्य अनया बलमस्त्येवेत्यवधारयन्नाह । हि यस्मादर्थे । “हि यस्मात् कारणात् हे 'सहिष्ठ बलवत्तमेन्द्र “तुविजातस्य बहुयज्ञेषु प्रादुर्भूतस्य “तुरतः अस्मान् हिंसतः “तुरस्य शत्रूणां हिंसितुर्बलवतो वा “ते तव “सहः बलं “सदित् विद्यमानमेवाहं “मन्ये। “उग्रस्य ओजस्विनः “तवसः प्रवृद्धस्य “अरध्रस्य शत्रुभिर्वशीकर्तुमशक्यस्य । रधेर्वशीकरणार्थस्य रूपम् । “रध्रतुरः वशीकरणीयानां सपत्नानां हिंसकस्य तव बलं “बभूव भवत्येव । कीदृशम् । “उग्रम् उद्गूर्णं “तवीयः प्रवृद्धतरम् । यतस्त्वं वृत्रादीन् शत्रून् हंसि अतस्ते बलं विद्यत एवेत्यर्थः।


तन्न॑: प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे इ॒त्था वद॑द्भिर्व॒लमङ्गि॑रोभिः ।

हन्न॑च्युतच्युद्दस्मे॒षय॑न्तमृ॒णोः पुरो॒ वि दुरो॑ अस्य॒ विश्वा॑: ॥५


“प्रत्नं पुराणम् । चिरकालानुवर्तीत्यर्थः । “तत् प्रसिद्धं “नः अस्मदीयं “सख्यं स्तुत्यस्तोतृलक्षणं सखित्वं हे इन्द्र “युष्मे युष्मासु “अस्तु । पूजार्थं बहुवचनम् । हे “अच्युतच्युत् अच्युतानामविचलितानां च्यावक हे “दस्म दर्शनीयेन्द्र त्वम् “इषयन्तम् आयुधानि प्रेरयन्तं “वलम् एतन्नामानमसुरम् “इत्था सत्यमेव “वदद्भिः त्वां स्तुवद्भिः “अङ्गिरोभिः सह “हन् हतवानसि । अपि च "अस्य वलस्य “पुरः नगराणि "वि “ऋणोः व्यगमयः । वियुक्तान्यकार्षीरित्यर्थः । “विश्वाः सर्वाः "दुरः पुरीणां द्वारश्च व्यृणोः ॥ ॥ ४ ॥


स हि धी॒भिर्हव्यो॒ अस्त्यु॒ग्र ई॑शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये॑ स तो॒कसा॑ता॒ तन॑ये॒ स व॒ज्री वि॑तन्त॒साय्यो॑ अभवत्स॒मत्सु॑ ॥६।


सः । हि । धीभिः । हव्यः । अस्ति । उग्रः । ईशानऽकृत् । महति । वृत्रऽतूर्ये ।सः । तोकऽसाता । तनये । सः । वज्री । वितन्तसाय्यः । अभवत् । समत्ऽसु ॥६।

“उग्रः ओजस्वी “ईशानकृत् । स्तोतॄन् ईशानान् समर्थान् करोतीति ईशानकृत् । “सः इन्द्रः “महति प्रभूते “वृत्रतूर्ये संग्रामे । वृत्रतूर्य इति संग्रामनामैतत् । “धीभिः स्तोतृभिः स्तुतिभिर्वा “हव्यः जयार्थिभिराह्वातव्यः “अस्ति भवति । हिशब्दः पादपूरणः । “तोकसाता तोकस्य पुत्रस्य सातौ लाभे निमित्ते “तनये तत्पुत्रे निमित्ते सति “सः इन्द्रः आह्वातव्योऽस्ति । "वज्री वज्रवान् “सः इन्द्रः “समत्सु संग्रामेषु वितन्तसाय्यः विशेषेण विस्तार्यः स्तोत्रैर्वन्दनीयः “अभवत् भवति । यद्वा वितन्तसाय्यः शत्रूणां हिंसकः । तन्तस इति धातुर्हिंसाकर्मा । तस्य कर्तरि रूपम् ॥


स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे ।स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये॑ण॒ नृत॑म॒: समो॑काः ॥७।


सः । मज्मना । जनिम । मानुषाणाम् । अमर्त्येन । नाम्ना । अति । प्र । सर्स्रे ।सः । द्युम्नेन । सः । शवसा । उत । राया । सः । वीर्येण । नृऽतमः । सम्ऽओकाः ॥७।

“सः इन्द्रः “अमर्त्येन विनाशरहितेन “नाम्ना शत्रूणां नमयित्रा “मज्मना बलेन । मज्मनेति बलनामैतत् । “मानुषाणां मनुष्याणां “जनिम जन्म । संघमित्यर्थः । “अति “प्र “सर्रेुष अतिप्रपेदे । “सः इन्द्रः “द्युम्नेन यशसा “समोकाः समानस्थानो भवति । किंच “सः इन्द्रः “शवसा बलेन समोका भवति । “उत अपि च “नृतमः नेतृतमः “सः इन्द्रः “राया धनेन “वीर्येण सामर्थ्येन च समोका भवति ॥


सः । यः । न । मुहे । न । मिथु । जनः । भूत् । सुमन्तुऽनामा । चुमुरिम् । धुनिम् । च ।वृणक् । पिप्रुम् । शम्बरम् । शुष्णम् । इन्द्रः । पुराम् । च्यौत्नाय । शयथाय । नु । चित् ॥८।

“यः इन्द्रः “न “मुहे संग्रामे कदापि न मुह्यति । यश्च “मिथु मिथ्या वृथा “जनः जनयिता “न “भूत् न भवति किंतु "सुमन्तुनामा प्रज्ञाननामा। प्रख्यातनामेत्यर्थः । “सः “इन्द्रः “पुरां शत्रुसंबन्धिनीनां पुरीणां “च्यौत्नाय च्यवनाय नाशनाय “शयथाय शत्रूणां मरणाय च “नृ “चित् शीघ्रमेव कर्म कुरुत इति शेषः । तथा “चुमुरिं “धुनिं “च एतन्नामकावसुरौ “वृणक् अवृणक् हिंसितवान् । वृणक्तिर्हिंसाकर्मा । अपि च “पिप्रुं “शम्बरं “शुष्णम् एतन्नामकान् त्रीनसुरान् हिंसितवान् ॥


उत्ऽअवता । त्वक्षसा । पन्यसा । च । वृत्रऽहत्याय । रथम् । इन्द्र । तिष्ठ ।धिष्व । वज्रम् । हस्ते । आ । दक्षिणऽत्रा । अभि । प्र । मन्द । पुरुऽदत्र । मायाः ॥९।।

हे “इन्द्र “उदवता उद्गच्छता । अवतिरत्र गतिकर्मा । “त्वक्षसा शत्रूणां तनूकर्त्रा “पन्यसा स्तुत्यतरेण' बलेन युक्तस्त्वं “वृत्रहत्याय शत्रुहननाय स्वकीयं “रथं “च “तिष्ठ आरोह । तथा “दक्षिणत्रा दक्षिणे “हस्ते पाणौ “वज्रं स्वकीयमायुधम् “आ “धिष्व आधत्स्व । तदनन्तरं हे “पुरुदत्र बहुधनेन्द्र त्वमासुरीः “मायाः “अभि अभिगम्य “प्र “मन्द प्रकर्षेण जहि । अत्र मन्दतिर्वधकर्मा ।।



अग्निः । न । शुष्कम् । वनम् । इन्द्र । हेतीः । रक्षः । नि । धक्षि । अशनिः । न । भीमा ।गम्भीरया । ऋष्वया । यः । रुरोज । अध्वनयत् । दुःऽइता । दम्भयत् । च ॥१०।।

“अग्निर्न अग्निरिव । नशब्द उपमार्थीयः । यथाग्निः “शुष्कं नीरसं “वनं वृक्षसमूहं दहति हे “इन्द्र “हेतिः त्वदीयं वज्रं तद्वच्छत्रून् नाशयति । तदेवाह । “अशनिर्न “भीमा । यथाशनिर्भीमा भवति तद्वद्भयंकरस्त्वं “रक्षः राक्षसं “नि “धक्षि वज्रेण नितरां दह । “यः इन्द्रः “गम्भीरया शत्रुभिरधर्षणीयया “ऋष्वया महत्या । अश्व इति महन्नामैतत् । हेत्या “रुरोज शत्रून् बभञ्ज। “अध्वनयत् युद्धे गर्जनलक्षणं शब्दं करोति च । तथा “दुरिता दुरितानि “दम्भयच्च भिनत्ति च । स त्वं रक्षो नि धक्षीति पूर्वेणान्वयः ॥ ॥ ५ ॥



आ । सहस्रम् । पथिऽभिः । इन्द्र । राया । तुविऽद्युम्न । तुविऽवाजेभिः । अर्वाक् ।

याहि । सूनो इति । सहसः । यस्य । नु । चित् । अदेवः । ईशे । पुरुऽहूत । योतोः ॥११

हे “तुविद्युम्न बहुधन हे “सहसः “सूनो बलस्य पुत्र “इन्द्र । ' ओजसो जातमुत मन्य एनम्' (ऋ. सं. १०. ७३. १०) इति निगमान्तरे बलपुत्रत्वं सिद्धम् । “राया धनेन युक्तस्त्वं “सहस्रं सहस्रेण । बहुभिरित्यर्थः । “तुविवाजेभिः बहुबलैः “पथिभिः । पतन्ति गच्छन्त्यमीभिरिति पन्थानो वाहाः । तैः "अर्वाक् मदभिमुखः सन् “आ “याहि आगच्छ । हे “पुरुहूत बहुभिराहूतेन्द्र “यस्य तव “योतोः बलादिभिः पृथक्कर्तुं “अदेवः कश्चिदसुरः "नू “चित् “ईशे नेष्टे । अत्र नू चिदिति निषेधार्थे वर्तते ॥



प्र । तुविऽद्युम्नस्य । स्थविरस्य । घृष्वेः । दिवः । ररप्शे । महिमा । पृथिव्याः ।न । अस्य । शत्रुः । न । प्रतिऽमानम् । अस्ति । न । प्रतिऽस्थिः । पुरुऽमायस्य । सह्योः ॥१२।।

“तुविद्युम्नस्य बहुयशसो बहुधनस्य वा “स्थविरस्य प्रवृद्धस्य “घृष्वेः शत्रूणां घर्षकस्येन्द्रस्य “महिमा महत्त्वं “दिवः द्युलोकात् “पृथिव्याः भूमेश्च “प्र “ररप्शे प्ररिरिचे । विरप्शीति महन्नामसु पाठात् नाम्नां च प्रायेण धातुजन्यत्वात् रप्शतिरत्रातिशयवाची । “पुरुमायस्य बहुप्रज्ञस्य “सह्योः शत्रूणामभिभवितुः “अस्य इन्द्रस्य “शत्रुः शातयिता “न अस्ति । “प्रतिमानं प्रतिनिधिः “न “अस्ति । अस्य “प्रतिष्ठिः प्रतिष्ठाश्रयः “न अस्ति । स एव सर्वस्य प्रतिष्ठेत्यर्थः ।।



प्र । तत् । ते । अद्य । करणम् । कृतम् । भूत् । कुत्सम् । यत् । आयुम् । अतिथिऽग्वम् । अस्मै ।पुरु । सहस्रा । नि । शिशाः । अभि । क्षाम् । उत् । तूर्वयाणम् । धृषता । निनेथ ॥१३।।

“अद्य इदानीमपि हे इन्द्र “ते त्वया “कृतं “करणं तत्कर्म “प्र "भूत् प्रभवति प्रकाशते । किं तदित्युच्यते । “कुत्सं शुष्णात् राक्षसादेतन्नामानमृषिं च “आयुं शत्रुभ्यः सकाशात् एतत्संज्ञकं पौरूरवसम् “अतिथिग्वम् अतिथीनामभिगन्तारं दिवोदासं च शम्बरात् ररक्षिथेति “यत् करणं “तत् प्रभवतीति पूर्वेण संबन्धः । ररक्षिथेति द्वितीयाश्रुतेरुचितक्रियाध्याहारः । अपि च “अस्मै अनन्तरोक्ताय अतिथिग्वाय “पुरु पुरूणि बहूनि “सहस्रा सहस्राणि शम्बरस्य धनानि “नि “शिशाः अददाः । इन्द्रः शम्बरं हत्वा तस्य धनानि दिवोदासाय ददावित्यर्थः । तथा हे इन्द्र त्वं “धृषता धर्षणेन त्वदीयेन वज्रेण शम्बरं हत्वा “क्षां पृथिवीम् “अभि अभिलक्ष्य पृथिव्यां वर्तमानं “तूर्वयाणं त्वरितगमनं दिवोदासम् “उत् "निनेथ आपद्य्अ उदगमयः ॥


अनुक्रीनाम्न्येकाहे मरुत्वतीयशस्त्रे ‘अनु त्वाहिघ्ने' इति सूक्तमुखीया । सूत्रितं च-’ अनु त्वाहिघ्ने अध देव देवा अनु ते दायि मह इन्द्रियाय' (आश्व. श्रौ. ९. ५) इति ॥


अनु । त्वा । अहिऽघ्ने । अध । देव । देवाः । मदन् । विश्वे । कविऽतमम् । कवीनाम् ।करः । यत्र । वरिवः । बाधिताय । दिवे । जनाय । तन्वे । गृणानः ॥१४।।

हे “देव द्योतमानेन्द्र “त्वा त्वाम् “अध अस्मिन् काले “विश्वे सर्वे “देवाः स्तोतारः “अहिघ्ने मेघहननाय । वृष्टिप्रदानायेत्यर्थः । “अनु “मदन् अनुमदन्ति अनुस्तुवन्ति । कीदृशं त्वाम् । “कवीनां मेधाविनां मध्ये “कवितमम् अत्यन्तं कविम् । “यत्र यस्मिन् काले “गृणानः स्तोतृभिः स्तूयमानस्त्वं “बाधिताय दारिद्र्यादिभिः पीडिताय “दिवे स्तोत्रे “जनाय “तन्वे स्तोतॄणां तनयाय च “वरिवः धनं “करः अकरोः अददाः । अथवा हे देवेन्द्र अधास्मिन् काले विश्वे सर्वे देवाः सुराः । अहिर्वृत्र एवोच्यते । तस्य हननाय कवीनां कवितमं त्वामनुमदन्ति । यत्र यस्मिन् स्तोत्रे सति बाधिताय असुरैः पीडिताय दिवे द्युलोकनिवासाय जनाय तन्वे शोभायै वृत्रहननेन तव शोभार्थं वरिवश्चकर्थ ॥


अनु । द्यावापृथिवी इति । तत् । ते । ओजः । अमर्त्याः । जिहते । इन्द्र । देवाः ।

कृष्व । कृत्नो इति । अकृतम् । यत् । ते । अस्ति । उक्थम् । नवीयः । जनयस्व । यज्ञैः ॥१५

हे “इन्द्र “ते त्वदीयं “तत् प्रसिद्धम् "ओजः बलं द्यावापृथिवी “अनु जिहाते । “अमर्त्याः अमरणधर्माणः “देवाः त्वदीयं बलमनु “जिहते अनुगच्छन्ति । हे “कृत्नो बहूनां कर्मणां कर्तः “ते त्वदीयम् “अकृतं “यत् कर्म “अस्ति तत् “कृष्व कुरुष्व । तदनन्तरं “यज्ञैः यज्ञेषु “नवीयः नवतरम् “उक्थं स्तोत्रं “जनयस्व ॥ ॥ ६ ॥

मण्डल 

कृष
 
विलेखने
 -
विलेखनं हलोत्किरणम्
कर्षति तुदादौ (66) कृषति स्पृशमृषकृषतृपदृपां सिज्वा (3144 वा0) अक्राक्षीत्, अकार्क्षीत्, पक्षे क्सः अकृक्षत् उरृद् (747) वा अचकर्षत् अचीकृषत् नन्द्यादौ (गण0 31134) संकर्षणः अचि (द्र0 31134) कर्षः, आकर्षो द्यूतफलकम् सप्तम्यां चोपपीडरुधकर्षः (3449) भ्राष्ट्रोपकर्षं धानाः खादति कृषिचमितनि (उ0180) इत्यूः-कर्षूः इक् कृष्यादिभ्यः (2108 वा0) कृषिः कृषेर्वृद्धिश्चोदीनाम् (उ0 238) कर्षकः कार्षकः व्रश्चिकृषोः किकन् (द0 उ0 312) कृषिकः कृषेरादेश्च चः (द0उ0 14) चर्षणिर्वेश्या कृषेर्वर्णे (उ0 34) नक् कृष्णः 961

← सूक्तं ८.५ऋग्वेदः - मण्डल ८
सूक्तं ८.६
वत्सः काण्वः।
सूक्तं ८.७ →
दे. इन्द्रः, ४६-४८ तिरिन्दरः पार्शव्यः। गायत्री ।


महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इस्तोमैर्वत्सस्य वावृधे ॥१॥


प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः।
विप्रा ऋतस्य वाहसा ॥२॥


कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
जामि ब्रुवत आयुधम् ॥३॥


समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
समुद्रायेव सिन्धवः ॥४॥


ओजस्तदस्य तित्विष उभे यत्समवर्तयत् ।
इन्द्रश्चर्मेव रोदसी ॥५॥


वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।
शिरो बिभेद वृष्णिना ॥६॥


इमा अभि प्र णोनुमो विपामग्रेषु धीतयः।
अग्नेः शोचिर्न दिद्युतः ॥७॥


गुहा सतीरुप त्मना प्र यच्छोचन्त धीतयः ।
कण्वा ऋतस्य धारया ॥८।


प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम् ।
प्र ब्रह्म पूर्वचित्तये ॥९॥


अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ ।
अहं सूर्य इवाजनि ॥१०॥


अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् ।
येनेन्द्रः शुष्ममिद्दधे ॥११॥


ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
ममेद्वर्धस्व सुष्टुतः ॥१२॥


यदस्य मन्युरध्वनीद्वि वृत्रं पर्वशो रुजन् ।
अपः समुद्रमैरयत् ॥१३॥


नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि ।
वृषा ह्युग्र शृण्विषे ॥१४॥


न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम् ।
न विव्यचन्त भूमयः ॥१५॥


यस्त इन्द्र महीरप स्तभूयमान आशयत् ।
नि तं पद्यासु शिश्नथः ॥१६॥


य इमे रोदसी मही समीची समजग्रभीत् ।
तमोभिरिन्द्र तं गुहः ॥१७॥


य इन्द्र यतयस्त्वा भृगवो ये च तुष्टुवुः ।
ममेदुग्र श्रुधी हवम् ॥१८॥


इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् ।
एनामृतस्य पिप्युषीः ॥१९॥


या इन्द्र प्रस्वस्त्वासा गर्भमचक्रिरन् ।
परि धर्मेव सूर्यम् ॥२०॥


त्वामिच्छवसस्पते कण्वा उक्थेन वावृधुः ।
त्वां सुतास इन्दवः ॥२१॥


तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः ।
यज्ञो वितन्तसाय्यः ॥२२॥


आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम् ।
उत प्रजां सुवीर्यम् ॥२३॥


उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा ।
अग्रे विक्षु प्रदीदयत् ॥२४॥


अभि व्रजं न तत्निषे सूर उपाकचक्षसम् ।
यदिन्द्र मृळयासि नः ॥२५॥


यदङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः ।
महाँ अपार ओजसा ॥२६॥


तं त्वा हविष्मतीर्विश उप ब्रुवत ऊतये ।
उरुज्रयसमिन्दुभिः ॥२७॥


उपह्वरे गिरीणां संगथे च नदीनाम् ।
धिया विप्रो अजायत ॥२८॥


अतः समुद्रमुद्वतश्चिकित्वाँ अव पश्यति ।
यतो विपान एजति ॥२९॥


आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् ।
परो यदिध्यते दिवा ॥३०॥


कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् ।
उतो शविष्ठ वृष्ण्यम् ॥३१॥


इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव ।
उत प्र वर्धया मतिम् ॥३२॥


उत ब्रह्मण्या वयं तुभ्यं प्रवृद्ध वज्रिवः ।
विप्रा अतक्ष्म जीवसे ॥३३॥


अभि कण्वा अनूषतापो न प्रवता यतीः ।
इन्द्रं वनन्वती मतिः ॥३४॥


इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः ।
अनुत्तमन्युमजरम् ॥३५॥


आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् ।
इममिन्द्र सुतं पिब ॥३६॥


त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः ।
हवन्ते वाजसातये ॥३७॥


अनु त्वा रोदसी उभे चक्रं न वर्त्येतशम् ।
अनु सुवानास इन्दवः ॥३८॥


मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति ।
मत्स्वा विवस्वतो मती ॥३९॥


वावृधान उप द्यवि वृषा वज्र्यरोरवीत् ।
वृत्रहा सोमपातमः ॥४०॥


ऋषिर्हि पूर्वजा अस्येक ईशान ओजसा ।
इन्द्र चोष्कूयसे वसु ॥४१॥


अस्माकं त्वा सुताँ उप वीतपृष्ठा अभि प्रयः ।
शतं वहन्तु हरयः ॥४२॥


इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम् ।
कण्वा उक्थेन वावृधुः ॥४३॥


इन्द्रमिद्विमहीनां मेधे वृणीत मर्त्यः ।
इन्द्रं सनिष्युरूतये ॥४४॥


अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
सोमपेयाय वक्षतः ॥४५॥


शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे ।
राधांसि याद्वानाम् ॥४६॥


त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ।
ददुष्पज्राय साम्ने ॥४७॥


उदानट् ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत् ।
श्रवसा याद्वं जनम् ॥४८॥


सायणभाष्यम्



म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ।

स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥१

म॒हान् । इन्द्रः॑ । यः । ओज॑सा । प॒र्जन्यः॑ । वृ॒ष्टि॒मान्ऽइ॑व ।

स्तोमैः॑ । व॒त्सस्य॑ । व॒वृ॒धे॒ ॥१

महान् । इन्द्रः । यः । ओजसा । पर्जन्यः । वृष्टिमान्ऽइव ।

स्तोमैः । वत्सस्य । ववृधे ॥१

“यः “इन्द्रः “ओजसा बलेन "महान् सर्वेभ्योऽधिकः । क इव । "वृष्टिमानिव । यथा वृष्ट्या युक्तः “पर्जन्यः रसानां प्रार्जयिता देवो महान् स इवेत्यर्थः । स इन्द्रः "वत्सस्य पुत्रस्थानीयस्य स्तोतुर्वत्सनाम्न एवर्षेः स्तोत्रैः “ववृधे प्रवर्धते ।।



प्रऽजाम्। ऋतस्य । पिप्रतः । प्र । यत् । भरन्त । वह्नयः। विप्राः । ऋतस्य । वाहसा।२।

“ऋतस्य यज्ञस्य सत्यस्य वा “प्रजां प्रकर्षेण जातमिन्द्रं “पिप्रतः नभसः प्रदेशान् पूरयन्तः “वह्नयः वाहका अश्वाः “यत् यदा “प्र “भरन्त प्रकर्षेण भरन्ति वहन्ति तदा “विप्राः मेधाविनः “ऋतस्य यज्ञस्य “वाहसा प्रापकेण स्तोत्रेण तमिन्द्रं स्तुवन्तीति शेषः ॥



कण्वाः।इन्द्रम्।यत् ।अक्रत ।स्तोमैः।यज्ञस्य । साधनम्।जामि । ब्रुवते ।आयुधम् ॥३।

कण्वाः । स्तोतृनामैतत् । स्तोतारः कण्वगोत्रा वा “इन्द्रं “स्तोमैः स्तोत्रैः “यज्ञस्य यागस्य “साधनं साधयितारं निष्पादकं “यत् यदा "अक्रत अकृषत । करोतेर्लुङि ‘मन्त्रे घस' इति च्लेर्लुक् । तदानीम् “आयुधं शत्रूणां हिंसकं बाणादिकं “जामि । अतिरेकनामैतत् । अतिरिक्तमहितं प्रयोजनरहितं “ब्रुवते कथयन्ति । आयुधसाध्यस्य सर्वकार्यस्येन्द्रेण कृतत्वादायुधं निष्प्रयोजनमित्यर्थः। यद्वा । आयुधमायोधनशीलमिन्द्रं जामि जामिं भ्रातरं ब्रुवते वदन्ति । सर्वकार्येषु भ्रातृवद्वर्तत इत्यर्थः॥


तृतीये पर्याये होतुः शस्त्रे ‘समस्य मन्यवे' इत्याद्या द्विचत्वारिंशदृचः । सूत्र्यते हि--’ समस्य मन्यवे विश इति द्विचत्वारिंशद्विश्वजिते ' ( आश्व. श्रौ. ६. ४ ) इति ॥


सम् । अस्य । मन्यवे । विशः । विश्वाः । नमन्त । कृष्टयः ।समुद्रायऽइव । सिन्धवः ॥४

“विशः विशन्त्यः “विश्वाः सर्वाः “कृष्टयः प्रजाः “अस्य इन्द्रस्य “मन्यवे क्रोधाय । यद्वा । मन्युः मननसाधनं स्तोत्रम् । तदर्थं “सं “नमन्त सम्यक् स्वत एव नमन्ति । नमतेः कर्मकर्तरि छान्दसो लङ् । ‘न दुहस्नुनमाम्' इति यक्चिणोः प्रतिषेधः । प्रह्वीभवन्ति । तत्र दृष्टान्तः । “समुद्रायेव यथा समुद्रमब्धिं प्रति “सिन्धवः स्यन्दनशीला नद्यः स्वयमेव नमन्ते तद्वत् ॥



ओजः । तत् । अस्य । तित्विषे । उभे इति । यत् । सम्ऽअवर्तयत् ।

इन्द्रः । चर्मऽइव । रोदसी इति ॥५

“अस्य इन्द्रस्य “तत् "ओजः बलं “तित्विषे दिदीपे। ‘त्विष दीप्तौ'। “यत् येन ओजसा अयम् “इन्द्रः “उभे “रोदसी द्यावापृथिव्यौ “चर्मेव “समवर्तयत् सम्यवर्तयति । यथा कश्चित् किंचिच्चर्म कदाचिद्विस्तारयति कदाचित् संकोचयति एवं तदधीने अभूतामित्यर्थः ॥ ॥ ९ ॥



वि । चित् । वृत्रस्य । दोधतः । वज्रेण । शतऽपर्वणा ।

शिरः । बिभेद । वृष्णिना ॥६

चिच्छब्दोऽप्यर्थे । स च भिन्नक्रमः । “वृत्रस्य “चित् आवरकस्यापि "दोधतः अत्यर्थं जगत्कम्पयतोऽसुरस्य “शिरः मूर्धानं “शतपर्वणा शतसंख्याकपर्वाणि धारा यस्य तादृशेन “वृष्णिना वीर्यवता “वज्रेण इन्द्रः “वि “बिभेद विचिच्छेद ॥


आभिप्लविकेषूक्थ्येषु तृतीयसवने प्रशास्तुः शस्त्रे‘ इमा अभि ' इति तृचो वैकल्पिकोऽनुरूपः । सूत्रितं च – ‘ इमा अभि प्र णोनुम इत्यथ ब्राह्मणाच्छंसिनः' (आश्व. श्रौ. ७. ८) इति ॥

इ॒मा अ॒भि प्र णो॑नुमो वि॒पामग्रे॑षु धी॒तय॑ः ।

अ॒ग्नेः शो॒चिर्न दि॒द्युत॑ः ॥७

इ॒माः । अ॒भि । प्र । नो॒नु॒मः॒ । वि॒पाम् । अग्रे॑षु । धी॒तयः॑ ।

अ॒ग्नेः । शो॒चिः । न । दि॒द्युतः॑ ॥७

इमाः । अभि । प्र । नोनुमः । विपाम् । अग्रेषु । धीतयः ।

अग्नेः । शोचिः । न । दिद्युतः ॥७

“विपां स्तोतॄणाम् “अग्रेषु पुरस्तात् “इमाः अस्मदीयाः “धीतयः धियः स्तोत्राणि “अभि “प्र “णोनुमः आभिमुख्येन पुनःपुनः प्रवदामः । ‘णु शब्दे'। कीदृशीः स्तुतीः । “अग्नेः “शोचिर्न दीप्तिरिव “दिद्युतः दीप्यमाना वेदरूपाः ॥



गुहा । सतीः । उप । त्मना । प्र । यत् । शोचन्त । धीतयः ।

कण्वाः । ऋतस्य । धारया ॥८

“गुहा गुहायां “सतीः सत्यो भवन्त्यः “यत् याः “धीतयः स्तुतयः कर्माणि वा “त्मना आत्मना स्वेनेन्द्रेणोपगम्यमानाः “प्र “शोचन्त प्रादीप्यन्त । यद्वा । आत्मना स्वत एवेन्द्रमुपगच्छन्त्यः प्रदीप्यन्ते । ताः स्तुतीः “कण्वाः कण्वगोत्रा ऋषयः “ऋतस्य उदकस्य सोमात्मकस्य “धारया सहिताः कुर्वन्तीति शेषः ॥


प्र तमि॑न्द्र नशीमहि र॒यिं गोम॑न्तम॒श्विन॑म् ।

प्र ब्रह्म॑ पू॒र्वचि॑त्तये ॥९

प्र । तम् । इ॒न्द्र॒ । न॒शी॒म॒हि॒ । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।

प्र । ब्रह्म॑ । पू॒र्वऽचि॑त्तये ॥९

प्र । तम् । इन्द्र । नशीमहि । रयिम् । गोऽमन्तम् । अश्विनम् ।

प्र । ब्रह्म । पूर्वऽचित्तये ॥९

हे “इन्द्र “गोमन्तं गोभिर्युक्तम् “अश्विनम् अश्वैरुपेतं “तं प्रसिद्धं “रयिं त्वदीयं धनं “प्र "नशीमहि प्राप्नुयाम । तथा “ब्रह्म परिवृढमन्नं च “पूर्वचित्तये अन्येभ्यः पूर्वमेव ज्ञानाय प्राप्नवाम ॥


अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ ।

अ॒हं सूर्य॑ इवाजनि ॥१०

अ॒हम् । इत् । हि । पि॒तुः । परि॑ । मे॒धाम् । ऋ॒तस्य॑ । ज॒ग्रभ॑ ।

अ॒हम् । सूर्यः॑ऽइव । अ॒ज॒नि॒ ॥१०

अहम् । इत् । हि । पितुः । परि । मेधाम् । ऋतस्य । जग्रभ ।

अहम् । सूर्यःऽइव । अजनि ॥१०

“पितुः पालकस्य “ऋतस्य सत्यस्य अवितथस्येन्द्रस्य “मेधाम् अनुग्रहात्मिकां बुद्धिम् “अहमित् अहमेव “परि “जग्रभ परिगृहीतवानस्मि नान्ये । "हि यस्मादेवं तस्मात् “अहं सूर्यइवाजनि सूर्यो यथा प्रकाशमानः सन् प्रादुर्भवति तथाजनिषं प्रादुरभूवम् ॥ ॥ १० ॥


अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिर॑ः शुम्भामि कण्व॒वत् ।

येनेन्द्र॒ः शुष्म॒मिद्द॒धे ॥११

अ॒हम् । प्र॒त्नेन॑ । मन्म॑ना । गिरः॑ । शु॒म्भा॒मि॒ । क॒ण्व॒ऽवत् ।

येन॑ । इन्द्रः॑ । शुष्म॑म् । इत् । द॒धे ॥११

अहम् । प्रत्नेन । मन्मना । गिरः । शुम्भामि । कण्वऽवत् ।

येन । इन्द्रः । शुष्मम् । इत् । दधे ॥११

“कण्ववत् मम जनकः कण्व इव "अहं “प्रत्नेन नित्येन वेदरूपेण “मन्मना मनसाधनेनेन्द्रविषयेण स्तोत्रेण “गिरः वाचः “शुम्भामि अलंकरोमि । यदा हीन्द्रविषये प्रयुज्यन्ते तदानीं यथार्थत्वाद्वाचोऽलंकृता भवन्ति । “येन खलु स्तोत्रेण “इन्द्रः “शुष्मं शत्रूणां शोषकं बलं “दधे “इत् धत्त एव धारयत्येव । यत्स्तोत्रमिन्द्रे ईदृशं बलमवश्यं जनयति तेन मन्मनेत्यर्थः ।।



ये । त्वाम् । इन्द्र । न । तुस्तुवुः । ऋषयः । ये । च । तुस्तुवुः ।

मम । इत् । वर्धस्व । सुऽस्तुतः ॥१२

हे इन्द्र "ये जनाः “त्वां “न "तुष्टुवुः न स्तुवन्ति "ये “च “ऋषयः मन्त्राणां द्रष्टारो जनाः “तुष्टुवुः त्वां स्तुवन्ति उभयेषां मध्ये "ममेत् ममैव स्तोत्रेण “सुष्टुतः शोभनं स्तुतः सन् "वर्धस्व वृद्धो भव ॥



यत् । अस्य । मन्युः । अध्वनीत् । वि । वृत्रम् । पर्वऽशः । रुजन् ।

अपः । समुद्रम् । ऐरयत् ॥१३

“अस्य इन्द्रस्य “मन्युः क्रोधः “वृत्रम् आवृत्य तिष्ठन्तमसुरं मेघं वा “पर्वशः पर्वणि पर्वणि परुषि परुषि “वि “रुजन् विभञ्जन् “यत् यदा “अध्वनीत् स्तनयित्नुलक्षणं शब्दमकरोत् तदानीं “समुद्रं समुन्दनीयमुदधिं प्रति “अपः वृष्ट्युदकानि “ऐरयत् स इन्द्रः प्रेरितवान् ।।



नि । शुष्णे । इन्द्र । धर्णसिम् । वज्रम् । जघन्थ । दस्यवि ।

वृषा । हि । उग्र । शृण्विषे ॥१४

हे "इन्द्र “शुष्णे शोषक एतत्संज्ञे “दस्यवि उपक्षपयितर्यसुरे “धर्णसिं धारयितव्यं “वज्रं कुलिशं त्वं “नि “जघन्थ निहतवानसि । वज्रेण तमसुरं न्यवधीरित्यर्थः । हे “उग्र उद्गूर्णबलेन्द्र "वृषा कामानां वर्षितेति "हि “ऋण्विषे श्रूयसे । अतोऽस्मदपेक्षितं धनं देहीति शेषः ।।


न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।

न वि॑व्यचन्त॒ भूम॑यः ॥१५

न । द्यावः॑ । इन्द्र॑म् । ओज॑सा । न । अ॒न्तरि॑क्षाणि । व॒ज्रिण॑म् ।

न । वि॒व्य॒च॒न्त॒ । भूम॑यः ॥१५

न । द्यावः । इन्द्रम् । ओजसा । न । अन्तरिक्षाणि । वज्रिणम् ।

न । विव्यचन्त । भूमयः ॥१५

“द्यावः द्युलोका इमम् “इन्द्रम् “ओजसा बलेन “न “विव्यचन्त न व्याप्नुवन्ति । द्युलोकेभ्योऽप्यस्य बलमधिकमित्यर्थः । तथा “अन्तरिक्षाणि अन्तरा क्षान्तानि द्यावापृथिव्योर्मध्ये वर्तमाना लोकाः “वज्रिणं वज्रवन्तमिन्द्रं न व्याप्नुवन्ति । तथा “भूमयः भूलोकाश्च तमिन्द्रं “न व्याप्नुवन्ति । त्रयो वा इमे त्रिवृतो लोकाः' (ऐ. आ. १. १. २ ) इति ब्राह्मणादेकैकस्य लोकस्य त्रित्वम् । ‘तिस्रो भूमीः' (ऋ. सं. २. २७.८) इत्यादिनिगमाच्च ॥ ॥ ११ ॥


यस्त॑ इन्द्र म॒हीर॒पः स्त॑भू॒यमा॑न॒ आश॑यत् ।

नि तं पद्या॑सु शिश्नथः ॥१६

यः । ते॒ । इ॒न्द्र॒ । म॒हीः । अ॒पः । स्त॒भु॒ऽयमा॑नः । आ । अश॑यत् ।

नि । तम् । पद्या॑सु । शि॒श्न॒थः॒ ॥१६

यः । ते । इन्द्र । महीः । अपः । स्तभुऽयमानः । आ । अशयत् ।

नि । तम् । पद्यासु । शिश्नथः ॥१६

हे “इन्द्र “ते तव संबन्धिनीः “महीः महतीः “अपः आन्तरिक्ष्याण्युदकानि “यः वृत्रः “स्तभूयमानः स्तम्भयन् यथाधो न पतन्ति तथा कुर्वन् “आशयत् आवृत्याशेत “तम् असुरं "पद्यासु गमनशीलास्वप्सु मध्ये “नि शिश्नथः न्यहिंसीः । श्नथिर्हिँसार्थः । वज्रेण तमसुरं हत्वा नदीषु पातितवानित्यर्थः ॥


य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् ।

तमो॑भिरिन्द्र॒ तं गु॑हः ॥१७

यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । म॒ही इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । स॒म्ऽअज॑ग्रभीत् ।

तमः॑ऽभिः । इ॒न्द्र॒ । तम् । गु॒हः॒ ॥१७

यः । इमे इति । रोदसी इति । मही इति । समीची इति सम्ऽईची । सम्ऽअजग्रभीत् ।

तमःऽभिः । इन्द्र । तम् । गुहः ॥१७

"यः वृत्रः “मही महत्यौ विस्तीर्णे “समीची संगते “इमे प्रत्यक्षत उपलभ्यमाने “रोदसी द्यावापृथिव्यौ "समजग्रभीत् सम्यगग्रहीत् । आवृणोदित्यर्थः । “तम् असुरं हे "इन्द्र त्वं “तमोभिः अन्धकारैः “गुहः संवृतमकरोः । अनाद्यनन्तं मरणलक्षणं तमः प्रावेशय इत्यर्थः ॥


य इ॑न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः ।

ममेदु॑ग्र श्रुधी॒ हव॑म् ॥१८

ये । इ॒न्द्र॒ । यत॑यः । त्वा॒ । भृग॑वः । ये । च॒ । तु॒स्तु॒वुः ।

मम॑ । इत् । उ॒ग्र॒ । श्रु॒धि॒ । हव॑म् ॥१८

ये । इन्द्र । यतयः । त्वा । भृगवः । ये । च । तुस्तुवुः ।

मम । इत् । उग्र । श्रुधि । हवम् ॥१८

हे “इन्द्र "ये “यतयः नियता अङ्गिरसस्त्वां “तुष्टुवुः “ये “च "भृगवः भृगुगोत्रास्त्वां तुष्टुवुः स्तुवन्ति तेषु मध्ये "ममेत् ममैव “हवं स्तोत्रं हे “उग्र ओजस्विन्निन्द्र “श्रुधि शृणु ।।


इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर॑म् ।

ए॒नामृ॒तस्य॑ पि॒प्युषी॑ः ॥१९

इ॒माः । ते॒ । इ॒न्द्र॒ । पृश्न॑यः । घृ॒तम् । दु॒ह॒ते॒ । आ॒ऽशिर॑म् ।

ए॒नाम् । ऋ॒तस्य॑ । पि॒प्युषीः॑ ॥१९

इमाः । ते । इन्द्र । पृश्नयः । घृतम् । दुहते । आऽशिरम् ।

एनाम् । ऋतस्य । पिप्युषीः ॥१९

हे “इन्द्र “ते त्वदीयाः “इमाः “पृश्नयः प्राष्टवर्णाः गावः “घृतं क्षरणशीलम् “एनाम् । “आशिरम् आश्रयणद्रव्यं पयः “दुहते दुहन्ति क्षारयन्ति । कीदृश्यः पृश्नयः । “ऋतस्य सत्यस्यावितथस्येन्द्रस्य यज्ञस्य वा “पिप्युषीः वर्धयित्र्यः ॥


या इ॑न्द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् ।

परि॒ धर्मे॑व॒ सूर्य॑म् ॥२०

याः । इ॒न्द्र॒ । प्र॒ऽस्वः॑ । त्वा॒ । आ॒सा । गर्भ॑म् । अच॑क्रिरन् ।

परि॑ । धर्म॑ऽइव । सूर्य॑म् ॥२०

याः । इन्द्र । प्रऽस्वः । त्वा । आसा । गर्भम् । अचक्रिरन् ।

परि । धर्मऽइव । सूर्यम् ॥२०

हे “इन्द्र “प्रस्वः । प्रसुवते गर्भं विमुञ्चन्तीति प्रस्वः। सूतेः ‘सत्सूद्विष°' इति क्विप् । ईदृश्यः “याः गावः “आसा आस्येन “त्वा त्वदीयं वीर्यं वृत्रवधानन्तरमोषध्यादिरूपेण परिणतं भक्षयित्वा “गर्भमचक्रिरन् अकुर्वन् त्वदीयं वीर्यमन्तरधारयन्। तत्र दृष्टान्तः । “सूर्यं परितः सूर्यमण्डलस्योपरि “धर्मेव धारकं पोषकमुदकं यथा रश्मयो गर्भरूपेण बिभ्रति तद्वत्। यद्वा । परि धर्मव परितो धारयितारं सूर्यमिव । यथा सूर्यः परितः सर्वं जगद्धत्ते तद्वत् । कृत्स्नस्य जगतो धारकमिन्द्रस्य वीर्यमित्यर्थः । ओषध्यादिरूपेण परिणतस्येन्द्रवीर्यस्य गोभिरात्मनि धारणम् ‘इन्द्रस्य वृत्रं जघ्नुषः' इत्यारभ्य तैत्तिरीयके विस्पष्टमाम्नातं-’ तत्पशव ओषधीभ्योऽध्यात्मन्त्समनयन् तत्प्रत्यदुहन्' (तै. सं. २. ५. ३. ३) इति । पयोरूपेण परिणतं तद्वीर्यमिमा गाव आशिरार्थं दुहत इति पूर्वस्यामृच्यन्वयः ॥ ॥ १२ ॥


वाजपेयेऽतिरिक्तोक्थे ‘त्वामिच्छवसस्पते' इत्येषा । सूत्रितं च त्वामिच्छवसस्पते तं प्रत्नथा' (आश्व. श्रौ. ९. ९) इति ॥

त्वामिच्छ॑वसस्पते॒ कण्वा॑ उ॒क्थेन॑ वावृधुः ।

त्वां सु॒तास॒ इन्द॑वः ॥२१

त्वाम् । इत् । श॒व॒सः॒ । प॒ते॒ । कण्वाः॑ । उ॒क्थेन॑ । व॒वृ॒धुः॒ ।

त्वाम् । सु॒तासः॑ । इन्द॑वः ॥२१

त्वाम् । इत् । शवसः । पते । कण्वाः । उक्थेन । ववृधुः ।

त्वाम् । सुतासः । इन्दवः ॥२१

हे “शवसस्पते बलस्य स्वामिन्निन्द्र “त्वाम् एव “कण्वाः स्तोतारः कण्वगोत्रा वा ऋषयः “उक्थेन शस्त्रेण "ववृधुः वर्धयन्ति । "सुतासः अध्वर्युभिरभिषुताः “इन्दवः सोमाश्च “त्वाम् एव वर्धयन्ति ॥


तवेदि॑न्द्र॒ प्रणी॑तिषू॒त प्रश॑स्तिरद्रिवः ।

य॒ज्ञो वि॑तन्त॒साय्य॑ः ॥२२

तव॑ । इत् । इ॒न्द्र॒ । प्रऽनी॑तिषु । उ॒त । प्रऽश॑स्तिः । अ॒द्रि॒ऽवः॒ ।

य॒ज्ञः । वि॒त॒न्त॒साय्यः॑ ॥२२

तव । इत् । इन्द्र । प्रऽनीतिषु । उत । प्रऽशस्तिः । अद्रिऽवः ।

यज्ञः । वितन्तसाय्यः ॥२२

“उत अपि च हे “अद्रिवः । अदृणात्यनेनेत्यद्रिर्वज्रः । तद्वन् “इन्द्र “तवेत् तवैव “प्रणीतिषु प्रकृष्टेषु नयनेषु धनप्रदानेषु सत्सु “प्रशस्तिः प्रकृष्टा स्तुतिः क्रियते । तथा “वितन्तसाय्यः विस्तृत तमः । तनोतेश्छान्दसमेतद्रूपम् । यद्वा । तन्तसिः कण्ड्वादिर्वृद्ध्यर्थः। तस्मादौणादिक आय्यप्रत्ययः । प्रवृद्धो “यज्ञः च तवैव क्रियते ।।


आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम् ।

उ॒त प्र॒जां सु॒वीर्य॑म् ॥२३

आ । नः॒ । इ॒न्द्र॒ । म॒हीम् । इष॑म् । पुर॑म् । न । द॒र्षि॒ । गोऽम॑तीम् ।

उ॒त । प्र॒ऽजाम् । सु॒ऽवीर्य॑म् ॥२३

आ । नः । इन्द्र । महीम् । इषम् । पुरम् । न । दर्षि । गोऽमतीम् ।

उत । प्रऽजाम् । सुऽवीर्यम् ॥२३

हे “इन्द्र “नः अस्मभ्यम् अस्मदर्थं “महीं महतीं “गोमतीं गोभिर्युक्ताम् “इषम् अन्नम् “आ “दर्षि आद्रियस्व दातुं कामयस्व । न शब्दश्चार्थे । “पुरं “न । पालनं पूः । पालनं रक्षणं चास्मभ्यं कर्तुमाद्रियस्व ॥


उ॒त त्यदा॒श्वश्व्यं॒ यदि॑न्द्र॒ नाहु॑षी॒ष्वा ।

अग्रे॑ वि॒क्षु प्र॒दीद॑यत् ॥२४

उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । यत् । इ॒न्द्र॒ । नाहु॑षीषु । आ ।

अग्रे॑ । वि॒क्षु । प्र॒ऽदीद॑यत् ॥२४

उत । त्यत् । आशुऽअश्व्यम् । यत् । इन्द्र । नाहुषीषु । आ ।

अग्रे । विक्षु । प्रऽदीदयत् ॥२४

हे “इन्द्र “नाहुषीषु । नहुषा इति मनुष्यनाम । तत्संबन्धिनीषु । यद्वा । नाहुषो नाम कश्चिद्राजा । तदीयासु “विक्षु प्रजासु “अग्रे पुरस्तात् “यत् “आश्वश्व्यं शीघ्रगाम्यश्वसंघात्मकं बलं “प्रदीदयत् प्रादीप्यत “उत अपि च “त्यत् तदपि अस्मभ्यं देहीति शेषः । आकारः पूरकः ॥


अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसम् ।

यदि॑न्द्र मृ॒ळया॑सि नः ॥२५

अ॒भि । व्र॒जम् । न । त॒त्नि॒षे॒ । सूरः॑ । उ॒पा॒कऽच॑क्षसम् ।

यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥२५

अभि । व्रजम् । न । तत्निषे । सूरः । उपाकऽचक्षसम् ।

यत् । इन्द्र । मृळयासि । नः ॥२५

न संप्रत्यर्थे । “न संप्रतीदानीं है इन्द्र “सूरः प्राज्ञस्त्वं “व्रजं गोष्ठम् “उपाकचक्षसम् । उपाक इत्यन्तिकनाम । अन्तिके द्रष्टव्यम् “अभि “तत्निषे अभितनोषि अभिविस्तारयसि । गोभिः पूर्णं करोषीत्यर्थः। तनोतेश्छान्दसे लिटि ‘तनिपत्योश्छन्दसि' इत्युपधालोपः । “यत् यदा हे “इन्द्र त्वं “नः अस्मान् “मृळयासि मृळयसि सुखयसि ॥ ॥ १३ ॥


यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः ।

म॒हाँ अ॑पा॒र ओज॑सा ॥२६

यत् । अ॒ङ्ग । त॒वि॒षी॒ऽयसे॑ । इन्द्र॑ । प्र॒ऽराज॑सि । क्षि॒तीः ।

म॒हान् । अ॒पा॒रः । ओज॑सा ॥२६

यत् । अङ्ग । तविषीऽयसे । इन्द्र । प्रऽराजसि । क्षितीः ।

महान् । अपारः । ओजसा ॥२६

“अङ्ग इत्यभिमुखीकरणे । हे “इन्द्र “यत् यस्त्वं “तविषीयसे । तविषीति बलनाम । बलमिवाःचरसि । हस्त्यश्वरथादिकं बलं यथा सर्वं शत्रुजातं भनक्ति तद्वत्त्वमसहाय एव सन् सर्वमेव शत्रुजातं मारयसीत्यर्थः । यश्च त्वं “क्षितीः । मनुष्यनामैतत् । मनुष्यान् “प्रराजसि प्रकर्षेणेशिषे । राजतिरैश्वर्यकर्मा । अस्यापि यद्वृत्तयोगान्न निघातः । स इन्द्रः “ओजसा बलेन “महान् सर्वेभ्योऽधिकः अत एव “अपारः पाररहितः । केनाप्यवसानं प्रापयितुमशक्य इत्यर्थः ।।


तं त्वा॑ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये॑ ।

उ॒रु॒ज्रय॑स॒मिन्दु॑भिः ॥२७

तम् । त्वा॒ । ह॒विष्म॑तीः । विशः॑ । उप॑ । ब्रु॒व॒ते॒ । ऊ॒तये॑ ।

उ॒रु॒ऽज्रय॑सम् । इन्दु॑ऽभिः ॥२७

तम् । त्वा । हविष्मतीः । विशः । उप । ब्रुवते । ऊतये ।

उरुऽज्रयसम् । इन्दुऽभिः ॥२७

हे इन्द्र “तं पूर्वोक्तगुणम् “उरुज्रयसं विस्तीर्णव्यापिनं त्वां "हविष्मतीः हविर्भिश्चरुपुरोडाशादिभिर्युक्ताः “विशः प्रजाः “उप “ब्रुवते उपेत्य स्तुवन्ति । किमर्थम् । “इन्दुभिः सोमैः “ऊतये तर्पणाय । यद्वा । इन्दुभिः सोमैः उरुज्रयसं विस्तीर्णजवमूतये रक्षणाय स्तुवन्ति ।


उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीना॑म् ।

धि॒या विप्रो॑ अजायत ॥२८

उ॒प॒ऽह्व॒रे । गि॒री॒णाम् । स॒म्ऽग॒थे । च॒ । न॒दीना॑म् ।

धि॒या । विप्रः॑ । अ॒जा॒य॒त॒ ॥२८

उपऽह्वरे । गिरीणाम् । सम्ऽगथे । च । नदीनाम् ।

धिया । विप्रः । अजायत ॥२८

“गिरीणां पर्वतानाम् “उपह्वरे उपह्वर्तव्ये प्रान्ते “नदीनां सरितां “संगथे संगमने “च ईदृग्विधे देशे क्रियमाणया “धिया यागक्रियया स्तुत्या वा “विप्रः मेधावीन्द्रः “अजायत प्रादुर्भवति । अतो वयमपि तादृशे देशे यजामः स्तुमो वेति भावः । गिरीणामित्यत्र 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥


अत॑ः समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति ।

यतो॑ विपा॒न एज॑ति ॥२९

अतः॑ । स॒मु॒द्रम् । उ॒त्ऽवतः॑ । चि॒कि॒त्वान् । अव॑ । प॒श्य॒ति॒ ।

यतः॑ । वि॒पा॒नः । एज॑ति ॥२९

अतः । समुद्रम् । उत्ऽवतः । चिकित्वान् । अव । पश्यति ।

यतः । विपानः । एजति ॥२९

“यतः यस्मिन् द्युलोके “विपानः व्याप्नुवन् विशिष्टपानयुक्तो वा इन्द्रः “एजति चेष्टते "उद्वतः उद्गतात् । ‘उपसर्गाच्छन्दसि धात्वर्थे ' ( पा. सू. ५. १. ११८) इति वतिः । “अतः अस्मात् द्युलोकात् “चिकित्वान् जानन् स इन्द्रः “समुद्रं समुन्दनशीलं यजमानैर्दीयमानं सोमम् “अव “पश्यति अवाङ्मुखः सन्नीक्षते । यद्वा । सूर्यात्मनेन्द्रः स्तूयते । यस्मिन्नभसि विपानः व्याप्नुवन् सूर्यात्मेन्द्र एजति वर्तते चिकित्वाञ्जानन् विद्वान्वा स इन्द्र उद्वत उद्गतादतोऽस्मादन्तरिक्षात् समुद्रम् । उपलक्षणमेतत् । समुद्रोपलक्षितं सर्वं जगदव पश्यति । अवाङ्मुखं प्रसृतैः किरणैः प्रकाशयति ।


आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम् ।

प॒रो यदि॒ध्यते॑ दि॒वा ॥३०

आत् । इत् । प्र॒त्नस्य॑ । रेत॑सः । ज्योतिः॑ । प॒श्य॒न्ति॒ । वा॒स॒रम् ।

प॒रः । यत् । इ॒ध्यते॑ । दि॒वा ॥३०

आत् । इत् । प्रत्नस्य । रेतसः । ज्योतिः । पश्यन्ति । वासरम् ।

परः । यत् । इध्यते । दिवा ॥३०

“परः “दिवा दिवः परस्तात् द्युलोकस्योपरि “यत् यदा अयमिन्द्रः सूर्यात्मना “इध्यते दीप्यते "आदित् अनन्तरमेव “प्रत्नस्य चिरंतनस्य “रेतसः गन्तुः ॥ ‘री गतिरेषणयोः'। अस्मात् ‘ स्रुरीभ्यां तुट् च' ( उ. सू. ४. ६४१ ) इत्यसुन् तुडागमश्च ॥ यद्वा । रेत इत्युदकनाम। रेतस्विन उदकवतः । सामर्थ्यात् मत्वर्थो लक्ष्यते । ईदृशस्येन्द्रस्य सूर्यात्मनः “वासरं निवासकं वासरस्य निवासस्य हेतुभूतं वा “ज्योतिः द्योतमानं तेजः “पश्यन्ति सर्वे जनाः । यद्वा । वासरमिति अत्यन्तसंयोगे द्वितीया । कृत्स्नमहरुदयप्रभृत्यास्तमनं यावज्ज्योतिष्पश्यन्तीत्यर्थः । ‘ इसुसोः सामर्थ्ये' इति विसर्जनीयस्य षत्वम् ॥ ॥ १४ ॥


कण्वा॑स इन्द्र ते म॒तिं विश्वे॑ वर्धन्ति॒ पौंस्य॑म् ।

उ॒तो श॑विष्ठ॒ वृष्ण्य॑म् ॥३१

कण्वा॑सः । इ॒न्द्र॒ । ते॒ । म॒तिम् । विश्वे॑ । व॒र्ध॒न्ति॒ । पौंस्य॑म् ।

उ॒तो इति॑ । श॒वि॒ष्ठ॒ । वृष्ण्य॑म् ॥३१

कण्वासः । इन्द्र । ते । मतिम् । विश्वे । वर्धन्ति । पौंस्यम् ।

उतो इति । शविष्ठ । वृष्ण्यम् ॥३१

हे "इन्द्र "ते त्वदीयां “मतिं बुद्धिं “पौंस्यम्। बलनामैतत्। बलं च “विश्वे सर्वे “कण्वासः कण्वाः स्तोतारः कण्वगोत्रा वा ऋषयः “वर्धन्ति वर्धयन्ति । ‘छन्दस्युभयथा' इति शप आर्धधातुकत्वात् ‘णेरनिटि' इति णिलोपः । “उतो अपि च हे “शविष्ठ शवस्वितम बलवत्तम। ‘ विन्मतोर्लुक् । ‘टेः' इति टिलोपः। ईदृशेन्द्र “वृष्ण्यं त्वदीयं वीर्यं बलकर्म च कण्वासो वर्धयन्त्येव ॥


इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व ।

उ॒त प्र व॑र्धया म॒तिम् ॥३२

इ॒माम् । मे॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒तिम् । जु॒षस्व॑ । प्र । सु । माम् । अ॒व॒ ।

उ॒त । प्र । व॒र्ध॒य॒ । म॒तिम् ॥३२

इमाम् । मे । इन्द्र । सुऽस्तुतिम् । जुषस्व । प्र । सु । माम् । अव ।

उत । प्र । वर्धय । मतिम् ॥३२

हे “इन्द्र “इमां पुरोवर्तिनीं “मे मदीयां “सुष्टुतिं शोभनां स्तुतिं “जुषस्व सेवस्व । सेवित्वा च स्तोतारं “मां “सु शोभनं “प्र “अव प्रकर्षेण रक्ष। “उत अपि च “मतिं अस्मदीयां बुद्धिं “प्र “वर्धय प्रवृद्धां कुरु । यथा बह्वर्थदर्शिनी भवति तथा कुर्वित्यर्थः ॥


उ॒त ब्र॑ह्म॒ण्या व॒यं तुभ्यं॑ प्रवृद्ध वज्रिवः ।

विप्रा॑ अतक्ष्म जी॒वसे॑ ॥३३

उ॒त । ब्र॒ह्म॒ण्या । व॒यम् । तुभ्य॑म् । प्र॒ऽवृ॒द्ध॒ । व॒ज्रि॒ऽवः॒ ।

विप्राः॑ । अ॒त॒क्ष्म॒ । जी॒वसे॑ ॥३३

उत । ब्रह्मण्या । वयम् । तुभ्यम् । प्रऽवृद्ध । वज्रिऽवः ।

विप्राः । अतक्ष्म । जीवसे ॥३३

“उत अपि च हे “प्रवृद्ध स्तुतिभिः प्रकृष्टां वृद्धिं प्राप्त हे “वज्रिवः वज्रवन्निन्द्र। एको मत्वर्थीयोऽनुवादः । यद्वा । वज्रोऽस्यास्तीति वज्री हस्तः । तद्वान् । 'छन्दसीरः' इति मतुपो वत्वम् । ‘मतुवसो रुः' इति मकारस्य रुत्वम् । ईदृशेन्द्र “तुभ्यं त्वदर्थं “विप्राः मेधाविनः “वयं “ब्रह्मण्या ब्रह्माणि स्तोत्राणि हविर्लक्षणान्यन्नानि वा। ‘सुपां सुलुक्' इति सुपो याजादेशः। “जीवसे जीवनार्थम् “अतक्ष्म अकार्ष्म। ‘ तक्षु त्वक्षू तनूकरणे ' । लङि छान्दसः शपो लुक् ॥


अ॒भि कण्वा॑ अनूष॒तापो॒ न प्र॒वता॑ य॒तीः ।

इन्द्रं॒ वन॑न्वती म॒तिः ॥३४

अ॒भि । कण्वाः॑ । अ॒नू॒ष॒त॒ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः ।

इन्द्र॑म् । वन॑न्ऽवती । म॒तिः ॥३४

अभि । कण्वाः । अनूषत । आपः । न । प्रऽवता । यतीः ।

इन्द्रम् । वनन्ऽवती । मतिः ॥३४

“कण्वाः कण्वगोत्रा ऋषयः “अभि "अनूषत इन्द्रमभिष्टुवन्ति । ‘नू स्तुतौ । कुटादिः । “प्रवता प्रवणेन मार्गेण “यतीः गच्छन्त्यः “आपो “न आप इव “मतिः मननीया कण्वैः क्रियमाणा स्तुतिः स्तुत्यम् “इन्द्रं “वनन्वती स्वयमेव संभजनवती भवति ॥


इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः ।

अनु॑त्तमन्युम॒जर॑म् ॥३५

इन्द्र॑म् । उ॒क्थानि॑ । व॒वृ॒धुः॒ । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।

अनु॑त्तऽमन्युम् । अ॒जर॑म् ॥३५

इन्द्रम् । उक्थानि । ववृधुः । समुद्रम्ऽइव । सिन्धवः ।

अनुत्तऽमन्युम् । अजरम् ॥३५

“उक्थानि शस्त्राण्यस्माभिः शस्यमानानि “इन्द्रं “ववृधुः वर्धयन्ति । “सिन्धवः स्यन्दनशीला नद्यः “समुद्रमिव समुद्रं जलधिं यथा वर्धयन्ति तद्वत् । कीदृशमिन्द्रम् । “अनुत्तमन्युम् । अनुत्तोऽप्रेरितः परैरनभिभूतो मन्युः क्रोधो यस्य तादृशम् । ‘नुदविदोन्दत्रा' (पा. सू. ८. २. ५६ ) इत्यादिना विकल्पितत्वान्निष्ठानत्वाभावः । “अजरं जरारहितम् । बहुव्रीहौ ‘नञो जरमरमित्रमृताः ' इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ १५ ॥


आ नो॑ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्या॑म् ।

इ॒ममि॑न्द्र सु॒तं पि॑ब ॥३६

आ । नः॒ । या॒हि॒ । प॒रा॒ऽवतः॑ । हरि॑ऽभ्याम् । ह॒र्य॒ताभ्या॑म् ।

इ॒मम् । इ॒न्द्र॒ । सु॒तम् । पि॒ब॒ ॥३६

आ । नः । याहि । पराऽवतः । हरिऽभ्याम् । हर्यताभ्याम् ।

इमम् । इन्द्र । सुतम् । पिब ॥३६

हे “इन्द्र “परावतः परागताद्दूरे वर्तमानात् द्युलोकात् "हर्यताभ्यां कान्ताभ्यां "हरिभ्याम् अश्वाभ्यां “नः अस्मान् “आ “याहि आगच्छ । आगत्य च “इमम् अस्मदीयं “सुतम् अभिषुतं सोमं “पिब ॥


त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः ।

हव॑न्ते॒ वाज॑सातये ॥३७

त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । जना॑सः । वृ॒क्तऽब॑र्हिषः ।

हव॑न्ते । वाज॑ऽसातये ॥३७

त्वाम् । इत् । वृत्रहन्ऽतम । जनासः । वृक्तऽबर्हिषः ।

हवन्ते । वाजऽसातये ॥३७

हे “वृत्रहन्तम अतिशयेन वृत्राणामावृण्वतां शत्रूणां हन्तः “त्वामित् त्वामेव “वृक्तबर्हिषः वृक्तं यागार्थं छिन्नं बर्हिर्येषां तथाविधोक्ताः प्रवृत्तयज्ञाः “जनासः जना ऋत्विग्लक्षणाः “ह्वयन्ते आह्वयन्ति । ह्वेञः शपि ‘बहुलं छन्दसि' इति संप्रसारणम्। किमर्थम् । “वाजसातये वाजस्य अन्नस्य बलस्य वा सातये लाभाय । यद्वा । संग्रामनामैतत् । वाजस्य सातिर्यस्मिन् संग्रामे तत्र साहाय्याय त्वामाह्वयन्तीत्यर्थः ॥


अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒र्त्येत॑शम् ।

अनु॑ सुवा॒नास॒ इन्द॑वः ॥३८

अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । च॒क्रम् । न । व॒र्ति॒ । एत॑शम् ।

अनु॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥३८

अनु । त्वा । रोदसी इति । उभे इति । चक्रम् । न । वर्ति । एतशम् ।

अनु । सुवानासः । इन्दवः ॥३८

हे इन्द्र “त्वा त्वाम् “उभे “रोदसी द्यावापृथिव्यौ अनुवर्तेते । त्वदधीने भवत इत्यर्थः । तत्र दृष्टान्तः । “चक्रं “न यथा रथचक्रम् “एतशम् । अश्वनामैतत् । पुरो गच्छन्तमश्वम् “अनु “वर्ति अनुवर्तते तद्वत् । अपि च "सुवानासः ऋत्विग्भिरभिषूयमाणाः “इन्दवः सोमाश्च त्वाम् “अनु वर्तन्ते ॥


मन्द॑स्वा॒ सु स्व॑र्णर उ॒तेन्द्र॑ शर्य॒णाव॑ति ।

मत्स्वा॒ विव॑स्वतो म॒ती ॥३९

मन्द॑स्व । सु । स्वः॑ऽनरे । उ॒त । इ॒न्द्र॒ । श॒र्य॒णाऽव॑ति ।

मत्स्व॑ । विव॑स्वतः । म॒ती ॥३९

मन्दस्व । सु । स्वःऽनरे । उत । इन्द्र । शर्यणाऽवति ।

मत्स्व । विवस्वतः । मती ॥३९

“उत अपि च हे “इन्द्र “शर्यणावति । शर्यणा नाम कुरुक्षेत्रवर्तिनो देशाः। तेषामदूरभवं सरः शर्यणावत् । “ मध्वादिभ्यश्च' इति स्वार्थिको मतुप् । “मतौ बह्वचः' इति दीर्घः । ‘ संज्ञायाम् इति वत्वम् । तस्मिन् सरसि विद्यमाने “स्वर्णरे सर्वैर्ऋत्विग्भिर्नेतव्ये यज्ञे “सु सुष्ठु “मन्दस्व माद्य तृप्तो भव । अपि च “विवस्वतः परिचरणवतो यजमानस्य “मती मत्या च “मत्स्व मदं प्राप्नुहि । मतिशब्दात्तृतीयायाः ‘सुपां सुलुक्' इति पूर्वसवर्णदीर्घः ॥


वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा॑ व॒ज्र्य॑रोरवीत् ।

वृ॒त्र॒हा सो॑म॒पात॑मः ॥४०

व॒वृ॒धा॒नः । उप॑ । द्यवि॑ । वृषा॑ । व॒ज्री । अ॒रो॒र॒वी॒त् ।

वृ॒त्र॒ऽहा । सो॒म॒ऽपात॑मः ॥४०

ववृधानः । उप । द्यवि । वृषा । वज्री । अरोरवीत् ।

वृत्रऽहा । सोमऽपातमः ॥४०

“वावृधानः वृद्धः “वज्री वज्रवानत एव “वृत्रहा वृत्रस्य मेघस्यासुरस्य वा हन्ता “सोमपातमः अतिशयेन सोमस्य पाता इन्द्रः “वृषा उदकानां वर्षिता “द्यवि द्युलोकेऽन्तरिक्षे “उप समीपे यथास्माभिः श्रूयते तथा “अरोरवीत् भृशं स्तनयित्नुलक्षणं शब्दमकरोत् । मेघेन वज्रहतेनेदृशं शब्दमचीकरदित्यर्थः ॥ ॥ १६ ॥


ऋषि॒र्हि पू॑र्व॒जा अस्येक॒ ईशा॑न॒ ओज॑सा ।

इन्द्र॑ चोष्कू॒यसे॒ वसु॑ ॥४१

ऋषिः॑ । हि । पू॒र्व॒ऽजाः । असि॑ । एकः॑ । ईशा॑नः । ओज॑सा ।

इन्द्र॑ । चो॒ष्कू॒यसे॑ । वसु॑ ॥४१

ऋषिः । हि । पूर्वऽजाः । असि । एकः । ईशानः । ओजसा ।

इन्द्र । चोष्कूयसे । वसु ॥४१

हे “इन्द्र “पूर्वजाः सर्वेभ्यो देवेभ्यः पूर्वं जात उत्पन्नः । यद्वा । यज्ञेषु प्रथममेव प्रादुर्भूतः । त्वम् “ऋषिर्हि द्रष्टा सर्वज्ञः खलु “असि भवसि । अपि च सर्वेषु देवेषु मध्ये “एकः मुख्यः "ओजसा बलेन “ईशानः ईश्वरो भवसि । यद्वा । एकोऽसहाय एव सन्नोजसा आत्मीयेनैव बलेन ईशानः सर्वस्य जगतः ईश्वरो भवसि । स त्वं “वसु धनं “चोष्कूयसे पुनःपुनः स्तोतृभ्यो ददासि । ‘स्कुञ् आप्रवणे इह दानार्थः । तथा चोक्तं-’ चोष्कूयमाण इन्द्र भूरि वामं दददिन्द्र बहु वननीयम्' (निरु. ६. २२) इति ॥


अ॒स्माकं॑ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रय॑ः ।

श॒तं व॑हन्तु॒ हर॑यः ॥४२

अ॒स्माक॑म् । त्वा॒ । सु॒तान् । उप॑ । वी॒तऽपृ॑ष्ठाः । अ॒भि । प्रयः॑ ।

श॒तम् । व॒ह॒न्तु॒ । हर॑यः ॥४२

अस्माकम् । त्वा । सुतान् । उप । वीतऽपृष्ठाः । अभि । प्रयः ।

शतम् । वहन्तु । हरयः ॥४२

हे इन्द्र “अस्माकम् अस्मदीयान् सोमानुपलक्ष्य “प्रयः । अन्ननामैतत् । धानाकरम्भादिहविर्लक्षणमन्नं चाभिलक्ष्य “वीतपृष्ठाः प्रशस्तोपरिभागाः “शतं शतसंख्याकाः “हरयः अश्वाः त्वां वहन्तु प्रापयन्तु ॥


इ॒मां सु पू॒र्व्यां धियं॒ मधो॑र्घृ॒तस्य॑ पि॒प्युषी॑म् ।

कण्वा॑ उ॒क्थेन॑ वावृधुः ॥४३

इ॒माम् । सु । पू॒र्व्याम् । धिय॑म् । मधोः॑ । घृ॒तस्य॑ । पि॒प्युषी॑म् ।

कण्वाः॑ । उ॒क्थेन॑ । व॒वृ॒धुः॒ ॥४३

इमाम् । सु । पूर्व्याम् । धियम् । मधोः । घृतस्य । पिप्युषीम् ।

कण्वाः । उक्थेन । ववृधुः ॥४३

"इमाम् इदानीं क्रियमाणां “सु सुष्ठु “पूर्व्यां पूर्वैः पित्रादिभिः कृतां “मधोः मधुरस्य "घृतस्य क्षरणशीलस्योदकस्य “पिप्युषीं वर्धयित्रीं यद्वा मधुरेण घृतेनाज्येन प्रवृद्धां “धियं योगक्रियां “कण्वाः कण्वगोत्रा ऋषयः “उक्थेन शस्त्रेण “वावृधुः इन्द्रार्थं वर्धयन्ति । उक्थैर्हि यागो वर्धते । अत्यग्निष्टोमादिषूत्तरासु संस्थासु शस्त्रवृद्धेर्दृष्टत्वात् । यद्वा । पूर्व्यां चिरंतनीमिमामिन्द्रस्य धियमनुग्रहबुद्धिं क्षरणशीलेन मधुरेण सोमेन पिप्युषीं वर्धनीयामुक्थेन स्तोत्रेण वावृधुः वर्धयन्ति ।।


इन्द्र॒मिद्विम॑हीनां॒ मेधे॑ वृणीत॒ मर्त्य॑ः ।

इन्द्रं॑ सनि॒ष्युरू॒तये॑ ॥४४

इन्द्र॑म् । इत् । विऽम॑हीनाम् । मेधे॑ । वृ॒णी॒त॒ । मर्त्यः॑ ।

इन्द्र॑म् । स॒नि॒ष्युः । ऊ॒तये॑ ॥४४

इन्द्रम् । इत् । विऽमहीनाम् । मेधे । वृणीत । मर्त्यः ।

इन्द्रम् । सनिष्युः । ऊतये ॥४४

“विमहीनां विशेषेण महतां देवानां मध्ये “इन्द्रमित् इन्द्रमेव "मेधे यज्ञे “मर्त्यः मनुष्यो होता “वृणीत स्तुतिभिः संभजते । तथा “सनिष्युः धनकामश्च स्तोता “ऊतये रक्षणाय “इन्द्रम् एव वृणीते स्तुत्या संभजते ।।



अर्वाञ्चम् । त्वा । पुरुऽस्तुत । प्रियमेधऽस्तुता । हरी इति ।

सोमऽपेयाय । वक्षतः ॥४५

हे “पुरुष्टुत बहुभिः स्तुतेन्द्र “प्रियमेधस्तुता प्रियमेधैः प्रिययज्ञैर्ऋषिभिः स्तुतौ। तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्' इत्याकारः । ईदृशौ “हरी अश्वौ “सोमपेयाय सोमपानार्थं त्वाम् “अर्वाञ्चम् अस्मदभिमुखं “वक्षतः वहताम् ॥



शतम् । अहम् । तिरिन्दिरे । सहस्रम् । पर्शौ । आ । ददे ।

राधांसि । याद्वानाम् ॥४६

इदमादिकेन तृचेन तिरिन्दिरस्य राज्ञो दानं स्तूयते । “पर्शौ परशुनाम्नः पुत्रे । उपचारज्जन्ये जनकशब्दः । “तिरिन्दिरे एतत्संज्ञे राजनि “याद्वानाम् । यदुरिति मनुष्यनाम । यदव एव याद्वाः । स्वार्थिकस्तद्धितः । तेषां मध्ये “अहं “शतं शतसंख्याकानि “सहस्रं सहस्रसंख्याकानि च “राधांसि धनानि “आ “ददे स्वीकरोमि । यद्वा । याद्वानां यदुकुलजानामन्येषां राज्ञां स्वभूतानि राधांसि बलादपहृतानि तिरिन्दिरे वर्तमानान्यहं प्राप्नोमि ।।



त्रीणि । शतानि । अर्वताम् । सहस्रा । दश । गोनाम् ।

ददुः । पज्राय । साम्ने ॥४७

पूर्वस्यामृचि स्वसंप्रदानकं दानमुक्तम् । अधुनान्येभ्योऽप्यृषिभ्यस्तिरिन्दिरो बहु धनं दत्तवानित्याह । “अर्वतां गन्तॄणामश्वानां “त्रीणि "शतानि "गोनां गवां “दश दशगुणितानि "सहस्रा सहस्राणि च "पज्राय स्तुतीनां प्रार्जकाय “साम्ने एतत्संज्ञायर्षये । यद्वा । साम्ने । साम स्तोत्रम् । तद्वते पज्राय पज्रकुलजाताय कक्षीवते । “ददुः तिरिन्दिराख्या राजानो दत्तवन्तः ।।



उत् । आनट् । ककुहः । दिवम् । उष्ट्रान् । चतुःऽयुजः । ददत् ।

श्रवसा । याद्वम् । जनम् ॥४८

अयं राजा “ककुहः उच्छ्रितः सन् “श्रवसा कीर्त्या “दिवं स्वर्गम् "उदानट् उत्कृष्टतरं व्याप्नोत् । किं कुर्वन् । "चतुर्युजः चतुर्भिः स्वर्णभारैर्युक्तान् “उष्ट्रान् “ददत् प्रयच्छन् । तथा “याद्वं “जनं च द्रासत्वेन प्रयच्छन् ॥ ॥ १७ ॥





ऋग्वेदः सूक्तं ६.४५

← सूक्तं ६.४४ऋग्वेदः - मण्डल ६
सूक्तं ६.४५
शंयुर्बार्हस्पत्यः
सूक्तं ६.४६ →
दे. इन्द्रः, ३१-३३ बृबुस्तक्षा।गायत्री, २९ अतिनिचृत्, ३१ पादनिचृत्, ३३ अनुष्टुप्।


य आनयत्परावतः सुनीती तुर्वशं यदुम् ।
इन्द्रः स नो युवा सखा ॥१॥
अविप्रे चिद्वयो दधदनाशुना चिदर्वता ।
इन्द्रो जेता हितं धनम् ॥२॥
महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः ।
नास्य क्षीयन्त ऊतयः ॥३॥
सखायो ब्रह्मवाहसेऽर्चत प्र च गायत ।
स हि नः प्रमतिर्मही ॥४॥
त्वमेकस्य वृत्रहन्नविता द्वयोरसि ।
उतेदृशे यथा वयम् ॥५॥
नयसीद्वति द्विषः कृणोष्युक्थशंसिनः ।
नृभिः सुवीर उच्यसे ॥६॥
ब्रह्माणं ब्रह्मवाहसं गीर्भिः सखायमृग्मियम् ।
गां न दोहसे हुवे ॥७॥
यस्य विश्वानि हस्तयोरूचुर्वसूनि नि द्विता ।
वीरस्य पृतनाषहः ॥८॥
वि दृळ्हानि चिदद्रिवो जनानां शचीपते ।
वृह माया अनानत ॥९॥
तमु त्वा सत्य सोमपा इन्द्र वाजानां पते ।
अहूमहि श्रवस्यवः ॥१०॥
तमु त्वा यः पुरासिथ यो वा नूनं हिते धने ।
हव्यः स श्रुधी हवम् ॥११॥
धीभिरर्वद्भिरर्वतो वाजाँ इन्द्र श्रवाय्यान् ।
त्वया जेष्म हितं धनम् ॥१२॥
अभूरु वीर गिर्वणो महाँ इन्द्र धने हिते ।
भरे वितन्तसाय्यः ॥१३॥
या त ऊतिरमित्रहन्मक्षूजवस्तमासति ।
तया नो हिनुही रथम् ॥१४॥
स रथेन रथीतमोऽस्माकेनाभियुग्वना ।
जेषि जिष्णो हितं धनम् ॥१५॥
य एक इत्तमु ष्टुहि कृष्टीनां विचर्षणिः ।
पतिर्जज्ञे वृषक्रतुः ॥१६॥
यो गृणतामिदासिथापिरूती शिवः सखा ।
स त्वं न इन्द्र मृळय ॥१७॥
धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः ।
सासहीष्ठा अभि स्पृधः ॥१८॥
प्रत्नं रयीणां युजं सखायं कीरिचोदनम् ।
ब्रह्मवाहस्तमं हुवे ॥१९॥
स हि विश्वानि पार्थिवाँ एको वसूनि पत्यते ।
गिर्वणस्तमो अध्रिगुः ॥२०॥
स नो नियुद्भिरा पृण कामं वाजेभिरश्विभिः ।
गोमद्भिर्गोपते धृषत् ॥२१॥
तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
शं यद्गवे न शाकिने ॥२२॥
न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
यत्सीमुप श्रवद्गिरः ॥२३॥
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।
शचीभिरप नो वरत् ॥२४॥
इमा उ त्वा शतक्रतोऽभि प्र णोनुवुर्गिरः ।
इन्द्र वत्सं न मातरः ॥२५॥
दूणाशं सख्यं तव गौरसि वीर गव्यते ।
अश्वो अश्वायते भव ॥२६॥
स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।
न स्तोतारं निदे करः ॥२७॥
इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः ।
वत्सं गावो न धेनवः ॥२८॥
पुरूतमं पुरूणां स्तोतॄणां विवाचि ।
वाजेभिर्वाजयताम् ॥२९॥
अस्माकमिन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः ।
अस्मान्राये महे हिनु ॥३०॥
अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्नस्थात् ।
उरुः कक्षो न गाङ्ग्यः ॥३१॥
यस्य वायोरिव द्रवद्भद्रा रातिः सहस्रिणी ।
सद्यो दानाय मंहते ॥३२॥
तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥३३॥


सायणभाष्यम्

‘य आनयत्' इति त्रयस्त्रिशदृचं द्वितीयं सूक्तं बृहस्पतिपुत्रस्य शंयोरार्षम् । “ पुरूतमम्' इत्येषातिनिचृत् “ त्रयः सप्तकाः पादनिचृत् मध्यमः षट्कश्चेदतिनिचृत्' इत्युक्तलक्षणात्” । त्रयस्त्रिंश्यनुष्टुप् शिष्टा गायत्र्यः । अधि बृबुः पणीनाम्' इत्यस्मिन्नन्त्ये तृचे बृबुर्नाम तक्षा स्तूयते । अतः स तृचस्तद्देवताकः । शिष्टास्त्रिंशदैन्द्र्यः । तथा चानुक्रान्तं-- य आनयत्त्रयस्त्रिंशद्गायत्रं पुरूतममतिनिचृदन्त्यानुष्टुप् तृचेऽन्त्ये बृबुस्तक्षा दैवतम्' इति । महाव्रतेऽपि निष्केवल्येऽन्त्यतृचवर्जमेतत्सूक्तम् । तथैव पञ्चमारण्यकं- य आनयत्परावत इति तिस्र उत्तमा उद्धरति ' ( ऐ. आ. ५. २. ५) इति ॥


य आन॑यत्परा॒वत॒ः सुनी॑ती तु॒र्वशं॒ यदु॑म् ।

इन्द्र॒ः स नो॒ युवा॒ सखा॑ ॥१

यः । आ । अन॑यत् । प॒रा॒ऽवतः॑ । सुऽनी॑ती । तु॒र्वश॑म् । यदु॑म् ।

इन्द्रः॑ । सः । नः॒ । युवा॑ । सखा॑ ॥१

यः । आ । अनयत् । पराऽवतः । सुऽनीती । तुर्वशम् । यदुम् ।

इन्द्रः । सः । नः । युवा । सखा ॥१

यः इन्द्रः "तुर्वशं “यदुं चैतत्संज्ञौ राजानौ शत्रुभिर्दूरदेशे प्रक्षिप्तौ “सुनीती सुनीत्या शोभनेन नयनेन “परावतः तस्माद्दूरदेशात् “आनयत् अनीतवान् “युवा तरुणः “सः “इन्द्रः “नः अस्माकं “सखा भवतु ।।


अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना॑ चि॒दर्व॑ता ।

इन्द्रो॒ जेता॑ हि॒तं धन॑म् ॥२

अ॒वि॒प्रे । चि॒त् । वयः॑ । दध॑त् । अ॒ना॒शुना॑ । चि॒त् । अर्व॑ता ।

इन्द्रः॑ । जेता॑ । हि॒तम् । धन॑म् ॥२

अविप्रे । चित् । वयः । दधत् । अनाशुना । चित् । अर्वता ।

इन्द्रः । जेता । हितम् । धनम् ॥२

“अविप्रे “चित् । विप्रः स्तोता। तद्विलक्षणेऽपि पुरुषे “वयः अन्नं “दधत् इन्द्रो धारयति ।। किमु वक्तव्यं स्तोतरि धारयतीति । सः “इन्द्रः “अनाशुना “चित् अक्षिप्रगमनेनापि “अर्वता अश्वेन “हितं शत्रुषु निहितं स्थापितं “धनं “जेता जयशीलो भवति ॥ जयतेस्ताच्छीलिकस्तृन् । अतो ‘न लोकव्यय° ' इति षष्ठीप्रतिषेधः ।।


म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।

नास्य॑ क्षीयन्त ऊ॒तय॑ः ॥३

म॒हीः । अ॒स्य॒ । प्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः ।

न । अ॒स्य॒ । क्षी॒य॒न्ते॒ । ऊ॒तयः॑ ॥३

महीः । अस्य । प्रऽनीतयः । पूर्वीः । उत । प्रऽशस्तयः ।

न । अस्य । क्षीयन्ते । ऊतयः ॥३

“अस्य इन्द्रस्य “प्रणीतयः प्रकृष्टा नीतयः प्रापणानि “महीः मह्यो महत्यो भवन्ति । "उत अपि च “प्रशस्तयः प्रकृष्टाः स्तुतयः स्तोतृभिः क्रियमाणा: “पूर्वीः बह्व्यो भवन्ति । तथा “अस्य इन्द्रस्य “ऊतयः रक्षा: “न “क्षीयन्ते नापचीयन्ते । किन्तु सर्वदा वर्धन्त एव ।।


सखा॑यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत ।

स हि न॒ः प्रम॑तिर्म॒ही ॥४

सखा॑यः । ब्रह्म॑ऽवाहसे । अर्च॑त । प्र । च॒ । गा॒य॒त॒ ।

सः । हि । नः॒ । प्रऽम॑तिः । म॒ही ॥४

सखायः । ब्रह्मऽवाहसे । अर्चत । प्र । च । गायत ।

सः । हि । नः । प्रऽमतिः । मही ॥४

हे “सखायः समानख्यानाः स्तोतारः “ब्रह्मवाहसे ब्रह्मभिर्मन्त्रैर्वहनीयाय प्राप्तव्यायेन्द्राय “अर्चत शस्त्राणि शंसत । “प्र “गायत “च स्तोत्राणि । “स “हि स खल्विन्द्रः “नः अस्माकं "मही महती “प्रमतिः प्रकृष्टा बुद्धिः । ईदृश्या बुद्धेः प्रदातेत्यर्थः ।


त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो॑रसि ।

उ॒तेदृशे॒ यथा॑ व॒यम् ॥५

त्वम् । एक॑स्य । वृ॒त्र॒ऽह॒न् । अ॒वि॒ता । द्वयोः॑ । अ॒सि॒ ।

उ॒त । ई॒दृशे॑ । यथा॑ । व॒यम् ॥५

त्वम् । एकस्य । वृत्रऽहन् । अविता । द्वयोः । असि ।

उत । ईदृशे । यथा । वयम् ॥५

हे “वृत्रहन् वृत्राणां शत्रूणां हन्तरिन्द्र “त्वमेकस्य स्तोतुः “द्वयोः च स्तोत्रोः “अविता रक्षिता “असि । सर्वेषां स्तोतॄणां रक्षको भवसीत्यर्थः । “उत अपि च “ईदृशे जनेऽप्यविता भवसि “यथा यादृशाः “वयं त्वया रक्षिता बहुविधपुत्रपौत्रा अभूम । ईदृशस्यापि जनस्य त्वमेव रक्षको नान्य इत्यर्थः ॥ ॥ २१ ॥


नय॒सीद्वति॒ द्विष॑ः कृ॒णोष्यु॑क्थशं॒सिन॑ः ।

नृभि॑ः सु॒वीर॑ उच्यसे ॥६

नय॑सि । इत् । ऊं॒ इति॑ । अति॑ । द्विषः॑ । कृ॒णोषि॑ । उ॒क्थ॒ऽशं॒सिनः॑ ।

नृऽभिः॑ । सु॒ऽवीरः॑ । उ॒च्य॒से॒ ॥६

नयसि । इत् । ऊं इति । अति । द्विषः । कृणोषि । उक्थऽशंसिनः ।

नृऽभिः । सुऽवीरः । उच्यसे ॥६

हे इन्द्र “इत् त्वमेव “द्विषः द्वेष्टॄन् “अति “नयसि अस्मान्नयसि तारयसि । “उ इति पूरकः । तथा “उक्थशंसिनः उक्थानि शस्त्राणि शंसतः स्तोतॄनस्मान् “कृणोषि समृद्धान् करोषि । यस्मात् त्वं “नृभिः स्तुतीनां नेतृभिः पुरुषैः “सुवीरः शोभनैर्वीरैः पुत्रपौत्रादिभिः स्तोतृभ्यो दातव्यैरुपेत इति “उच्यसे स्तूयसे अतस्तानप्यस्मभ्यं प्रयच्छेति शेषः ॥


ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा॑यमृ॒ग्मिय॑म् ।

गां न दो॒हसे॑ हुवे ॥७

ब्र॒ह्माण॑म् । ब्रह्म॑ऽवाहसम् । गीः॒ऽभिः । सखा॑यम् । ऋ॒ग्मिय॑म् ।

गाम् । न । दो॒हसे॑ । हु॒वे॒ ॥७

ब्रह्माणम् । ब्रह्मऽवाहसम् । गीःऽभिः । सखायम् । ऋग्मियम् ।

गाम् । न । दोहसे । हुवे ॥७

“ब्रह्माणं परिवृढं “ब्रह्मवाहसं ब्रह्मभिः स्तुतिरूपैर्मन्त्रैर्वहनीयं “सखायम् अस्माकं सखिभूतम् “ऋग्मियम् । ऋग्मा ऋचः । तदर्हम् । स्तुत्यर्हमित्यर्थः । एवंभूतमिन्द्रं "दोहसे दोग्धुं “गां “न गामिव “गीर्भिः स्तुतिभिः “हुवे आह्वयाम्यस्मदीयान् कामान् दोग्धुम् ॥


यस्य॒ विश्वा॑नि॒ हस्त॑योरू॒चुर्वसू॑नि॒ नि द्वि॒ता ।

वी॒रस्य॑ पृतना॒षह॑ः ॥८

यस्य॑ । विश्वा॑नि । हस्त॑योः । ऊ॒चुः । वसू॑नि । नि । द्वि॒ता ।

वी॒रस्य॑ । पृ॒त॒ना॒ऽसहः॑ ॥८

यस्य । विश्वानि । हस्तयोः । ऊचुः । वसूनि । नि । द्विता ।

वीरस्य । पृतनाऽसहः ॥८

“वीरस्य वीर्यवतः “पृतनासहः । पृतनाः शत्रुसेनाः । तासामभिभवितुः “यस्य इन्द्रस्य “हस्तयोः बाह्रोः “विश्वानि सर्वाणि “द्विता दिव्यपार्थिवरूपेण द्वैधं वर्तमानानि “वसूनि विद्यन्ते इति “नि “ऊचुः ऋषयो नितरां वदन्ति तमिन्द्रं हुव इति पूर्वत्र संबन्धः ॥


वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना॑नां शचीपते ।

वृ॒ह मा॒या अ॑नानत ॥९

वि । दृ॒ळ्हानि॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । जना॑नाम् । श॒ची॒ऽप॒ते॒ ।

वृ॒ह । मा॒याः । अ॒ना॒न॒त॒ ॥९

वि । दृळ्हानि । चित् । अद्रिऽवः । जनानाम् । शचीऽपते ।

वृह । मायाः । अनानत ॥९

हे “अद्रिवः । आदृणात्यनेनेत्यद्रिर्वज्रः । तद्वन् “शचीपते इन्द्र “जनानां शत्रूणां “दृळ्हानि "चित् दृढानि स्थिराण्यपि पुराणि बलानि वा “वि “वृह विभिन्धि । विविधमुन्मूलयेत्यर्थः । हे "अनानत अप्रह्वीभूत सर्वोच्छ्रितेन्द्र “मायाः च शत्रुभिर्निर्मिता वि वृह विनाशय ॥


तमु॑ त्वा सत्य सोमपा॒ इन्द्र॑ वाजानां पते ।

अहू॑महि श्रव॒स्यव॑ः ॥१०

तम् । ऊं॒ इति॑ । त्वा॒ । स॒त्य॒ । सो॒म॒ऽपाः॒ । इन्द्र॑ । वा॒जा॒ना॒म् । प॒ते॒ ।

अहू॑महि । श्र॒व॒स्यवः॑ ॥१०

तम् । ऊं इति । त्वा । सत्य । सोमऽपाः । इन्द्र । वाजानाम् । पते ।

अहूमहि । श्रवस्यवः ॥१०

हे “सत्य अवितथस्वभाव “सोमपाः सोमस्य पातर्हे “वाजानां “पते अन्नानां पालयितरेवंभूत हे “इन्द्र “श्रवस्यवः श्रवोऽन्नमात्मन इच्छन्तो वयं “तमु “त्वा तादृशं त्वामेव अहूमहि आह्वयामः स्तुम इत्यर्थः ॥ ॥ २२ ॥


तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नू॒नं हि॒ते धने॑ ।

हव्य॒ः स श्रु॑धी॒ हव॑म् ॥११

तम् । ऊं॒ इति॑ । त्वा॒ । यः । पु॒रा । आसि॑थ । यः । वा॒ । नू॒नम् । हि॒ते । धने॑ ।

हव्यः॑ । सः । श्रु॒धि॒ । हव॑म् ॥११

तम् । ऊं इति । त्वा । यः । पुरा । आसिथ । यः । वा । नूनम् । हिते । धने ।

हव्यः । सः । श्रुधि । हवम् ॥११

हे इन्द्र “तमु “त्वा तमेव त्वां स्तुम इति शेषः । “यः त्वं “पुरा पूर्वस्मिन् काले “हव्यः ह्वातव्यः “आसिथ बभूविथ धनलाभार्थम् । “यो “वा यश्च त्वं “हिते शत्रुषु निहिते “धने निमित्तभूते सति "नूनम् अद्यापि हव्यः ह्वातव्यो बभूविथ “सः त्वमस्मदीयं “हवं स्तोत्रं “श्रुधि शृणु ॥


धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ॑ इन्द्र श्र॒वाय्या॑न् ।

त्वया॑ जेष्म हि॒तं धन॑म् ॥१२

धी॒भिः । अर्व॑त्ऽभिः । अर्व॑तः । वाजा॑न् । इ॒न्द्र॒ । श्र॒वाय्या॑न् ।

त्वया॑ । जे॒ष्म॒ । हि॒तम् । धन॑म् ॥१२

धीभिः । अर्वत्ऽभिः । अर्वतः । वाजान् । इन्द्र । श्रवाय्यान् ।

त्वया । जेष्म । हितम् । धनम् ॥१२

हे "इन्द्र “धीभिः स्तुतिभिस्त्वद्विषयाभिः प्रीतेन “त्वया अनुगृहीता वयम् “अर्वद्भिः अस्मदीयैः अश्वैः “अर्वतः शत्रुसंबन्धिनोऽश्वान् “श्रवाय्यान् श्रवणीयान् प्रशस्यान् "वाजान् अन्नानि च “हितं शत्रुषु निहितं “धनं च "जेष्म त्वदनुग्रहाज्जयेम ॥


अभू॑रु वीर गिर्वणो म॒हाँ इ॑न्द्र॒ धने॑ हि॒ते ।

भरे॑ वितन्त॒साय्य॑ः ॥१३

अभूः॑ । ऊं॒ इति॑ । वी॒र॒ । गि॒र्व॒णः॒ । म॒हान् । इ॒न्द्र॒ । धने॑ । हि॒ते ।

भरे॑ । वि॒त॒न्त॒साय्यः॑ ॥१३

अभूः । ऊं इति । वीर । गिर्वणः । महान् । इन्द्र । धने । हिते ।

भरे । वितन्तसाय्यः ॥१३

हे “वीर विविधमीरयितः शत्रूणां हे "गिर्वणः गीर्भिर्वननीय “इन्द्र “हिते शत्रुषु निहिते “धने निमित्तभूते सति “महान् प्रवृद्धस्त्वं “भरे संग्रामे “वितन्तसाय्यः शत्रूणां जेता “अभूः ॥ तन्तस इति धातुर्जयार्थः कण्ड्वादौ पठ्यते । तस्मात् व्युपसृष्टादौणादिकः कर्तर्याय्यप्रत्ययः ॥


या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति ।

तया॑ नो हिनुही॒ रथ॑म् ॥१४

या । ते॒ । ऊ॒तिः । अ॒मि॒त्र॒ऽह॒न् । म॒क्षुज॑वःऽतमा । अस॑ति ।

तया॑ । नः॒ । हि॒नु॒हि॒ । रथ॑म् ॥१४

या । ते । ऊतिः । अमित्रऽहन् । मक्षुजवःऽतमा । असति ।

तया । नः । हिनुहि । रथम् ॥१४

हे “अमित्रहन् अमित्राणां शत्रूणां हन्तरिन्द्र “ते त्वदीया “मक्षुजवस्तमा अतिशयेन शीघ्रजवा या “ऊतिः गतिः "असति अस्ति “तया गत्या “नः अस्माकं रथं “हिनुहि प्रेरय शत्रुजयार्थं शीघ्रं गमय ।


स रथे॑न र॒थीत॑मो॒ऽस्माके॑नाभि॒युग्व॑ना ।

जेषि॑ जिष्णो हि॒तं धन॑म् ॥१५

सः । रथे॑न । र॒थिऽत॑मः । अ॒स्माके॑न । अ॒भि॒ऽयुग्व॑ना ।

जेषि॑ । जि॒ष्णो॒ इति॑ । हि॒तम् । धन॑म् ॥१५

सः । रथेन । रथिऽतमः । अस्माकेन । अभिऽयुग्वना ।

जेषि । जिष्णो इति । हितम् । धनम् ॥१५

हे “जिष्णो जयशीलेन्द्र “रथीतमः अतिशयेन रथी महारथः “सः त्वम् “अस्माकेन अस्मदीयेन “अभियुग्वना अभियोक्त्रा शत्रूणामभिभवित्रा “रथेन “हितं शत्रुषु निहितं “धनं “जेषि अस्मदर्थं जय ॥ ॥ २३ ॥


य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः ।

पति॑र्ज॒ज्ञे वृष॑क्रतुः ॥१६

यः । एकः॑ । इत् । तम् । ऊं॒ इति॑ । स्तु॒हि॒ । कृ॒ष्टी॒नाम् । विऽच॑र्षणिः ।

पतिः॑ । ज॒ज्ञे । वृष॑ऽक्रतुः ॥१६

यः । एकः । इत् । तम् । ऊं इति । स्तुहि । कृष्टीनाम् । विऽचर्षणिः ।

पतिः । जज्ञे । वृषऽक्रतुः ॥१६

“विचर्षणिः विशेषेण सर्वस्य द्रष्टा “वृषक्रतुः वर्षकर्मा “यः इन्द्रः “एक “इत् एक एव “कृष्टीनां प्रजानां “पतिः अधिपतिः "जज्ञे अजायत नान्यः कश्चित् “तमु तमेवेन्द्रं हे स्तोतः “स्तुहि ॥


यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा॑ ।

स त्वं न॑ इन्द्र मृळय ॥१७

यः । गृ॒ण॒ताम् । इत् । आसि॑थ । आ॒पिः । ऊ॒ती । शि॒वः । सखा॑ ।

सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥१७

यः । गृणताम् । इत् । आसिथ । आपिः । ऊती । शिवः । सखा ।

सः । त्वम् । नः । इन्द्र । मृळय ॥१७

हे इन्द्र “यः त्वम् “ऊती ऊत्या रक्षया “शिवः सुखकरोऽत एव “सखा मित्रभूतश्च सन् “गृणतामित् स्तुवतामस्माकमेव “आपिः बन्धुः “आसिथ पुरा बभूविथ “सः तादृशः “त्वं “नः अस्मान् इदानीं “मृळय सुखय ॥


धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः ।

सा॒स॒ही॒ष्ठा अ॒भि स्पृध॑ः ॥१८

धि॒ष्व । वज्र॑म् । गभ॑स्त्योः । र॒क्षः॒ऽहत्या॑य । व॒ज्रि॒ऽवः॒ ।

स॒स॒ही॒ष्ठाः । अ॒भि । स्पृधः॑ ॥१८

धिष्व । वज्रम् । गभस्त्योः । रक्षःऽहत्याय । वज्रिऽवः ।

ससहीष्ठाः । अभि । स्पृधः ॥१८

हे “वज्रिवः वज्रवन्निन्द्र “गभस्त्योः आत्मीययोर्हस्तयोः “वज्रं कुलिशं “धिष्व धारय । किमर्थम् । “रक्षोहत्याय रक्षसां हननार्थम् । धृत्वा च "स्पृधः स्पर्धमानाः “अभि अभिगन्त्रीरासुरीः सेनाः “ससहीष्ठाः अत्यर्थमभिभव ॥


प्र॒त्नं र॑यी॒णां युजं॒ सखा॑यं कीरि॒चोद॑नम् ।

ब्रह्म॑वाहस्तमं हुवे ॥१९

प्र॒त्नम् । र॒यी॒णाम् । युज॑म् । सखा॑यम् । की॒रि॒ऽचोद॑नम् ।

ब्रह्म॑ऽवाहःऽतमम् । हु॒वे॒ ॥१९

प्रत्नम् । रयीणाम् । युजम् । सखायम् । कीरिऽचोदनम् ।

ब्रह्मऽवाहःऽतमम् । हुवे ॥१९

“प्रत्नं चिरंतनं सर्वेषामाद्यं “रयीणां धनानां “युजं योजयितारं दातारं “सखायं मित्रभूतं “कीरिचोदनं कीरीणां स्तोतॄणां चोदयितारं “ब्रह्मवाहस्तमम् अतिशयेन ब्रह्मभिर्मन्त्रैर्वहनीयमेवंविधमिन्द्रं "हुवे आह्वयामि ॥


स हि विश्वा॑नि॒ पार्थि॑वाँ॒ एको॒ वसू॑नि॒ पत्य॑ते ।

गिर्व॑णस्तमो॒ अध्रि॑गुः ॥२०

सः । हि । विश्वा॑नि । पार्थि॑वा । एकः॑ । वसू॑नि । पत्य॑ते ।

गिर्व॑णःऽतमः । अध्रि॑ऽगुः ॥२०

सः । हि । विश्वानि । पार्थिवा । एकः । वसूनि । पत्यते ।

गिर्वणःऽतमः । अध्रिऽगुः ॥२०

“स “हि स खल्विन्द्रः “विश्वानि सर्वाणि "पार्थिवा पृथिव्यां भवानि “वसूनि धनानि “एकः एव "पत्यते ईष्टे नान्यः कश्चित् । पत्यतिरैश्वर्यकर्मा । कीदृश इन्द्रः । “गिर्वणस्तमः अतिशयेन गीर्भिः स्तुतिभिः संभजनीयः अध्रिगुः अधृतगमनः । अप्रतिहतगतिरित्यर्थः ॥ ॥ २४ ॥


स नो॑ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे॑भिर॒श्विभि॑ः ।

गोम॑द्भिर्गोपते धृ॒षत् ॥२१

सः । नः॒ । नि॒युत्ऽभिः॑ । आ । पृ॒ण॒ । काम॑म् । वाजे॑भिः । अ॒श्विऽभिः॑ ।

गोम॑त्ऽभिः । गो॒ऽप॒ते॒ । धृ॒षत् ॥२१

सः । नः । नियुत्ऽभिः । आ । पृण । कामम् । वाजेभिः । अश्विऽभिः ।

गोमत्ऽभिः । गोऽपते । धृषत् ॥२१

हे “गोपते गवां पालयितः “सः त्वं “नः अस्माकं “कामं “नियुद्भिः वडवाभिः “धृषत् धृष्टं दारिद्र्यनाशनसमर्थं यथा भवति तथा “आ “पृण आपूरयः । यद्वा धृषदितीन्द्रविशेषणम् । शत्रूणां धर्षकस्त्वमित्यर्थः । तथा “गोमद्भिः बहुभिर्गोभिर्युक्तैः “अश्विभिः बहुभिरश्वैरुपेतैर्वाजैरन्नैश्चास्मदीयं काममापूरय ।।


तद्वो॑ गाय सु॒ते सचा॑ पुरुहू॒ताय॒ सत्व॑ने ।

शं यद्गवे॒ न शा॒किने॑ ॥२२

तत् । वः॒ । गा॒य॒ । सु॒ते । सचा॑ । पु॒रु॒ऽहू॒ताय॑ । सत्व॑ने ।

शम् । यत् । गवे॑ । न । शा॒किने॑ ॥२२

तत् । वः । गाय । सुते । सचा । पुरुऽहूताय । सत्वने ।

शम् । यत् । गवे । न । शाकिने ॥२२

हे स्तोतारः “वः यूयं “सुते अभिषुते सोमे सति “पुरुहूताय बहुभिर्यजमानैराहूताय “सत्वने शत्रूणां सादयित्रे धनानां वा सनित्रे दात्रे इन्द्राय “तत् स्तोत्रं "सचा सह संहता भूत्वा “गाय गायत । “यत् स्तोत्रं “शाकिने शक्तिमते इन्द्राय “शं सुखकरं भवति “गवे “न । यथा गवे यवसं सुखकरं तद्वदित्यर्थः ॥


न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः ।

यत्सी॒मुप॒ श्रव॒द्गिर॑ः ॥२३

न । घ॒ । वसुः॑ । नि । य॒म॒ते॒ । दा॒नम् । वाज॑स्य । गोऽम॑तः ।

यत् । सी॒म् । उप॑ । श्रव॑त् । गिरः॑ ॥२३

न । घ । वसुः । नि । यमते । दानम् । वाजस्य । गोऽमतः ।

यत् । सीम् । उप । श्रवत् । गिरः ॥२३

“वसुः वासयिता स इन्द्रः “गोमतः बहुभिर्गोभिर्युक्तस्य “वाजस्य अन्नस्य बलस्य वा “दानं प्रदानं “न “घ न खलु “नि "यमते नियच्छति उपरतं करोति । “यत् यदि “सीम् इमाः “गिरः अस्मदीयाः स्तुतीः “उप “श्रवत् उपशृणुयात् । स्तोत्रश्रवणे सति सर्वदा ददातीत्यर्थः ॥


कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम॑न्तं दस्यु॒हा गम॑त् ।

शची॑भि॒रप॑ नो वरत् ॥२४

कु॒वित्ऽस॑स्य । प्र । हि । व्र॒जम् । गोऽम॑न्तम् । द॒स्यु॒ऽहा । गम॑त् ।

शची॑भिः । अप॑ । नः॒ । व॒र॒त् ॥२४

कुवित्ऽसस्य । प्र । हि । व्रजम् । गोऽमन्तम् । दस्युऽहा । गमत् ।

शचीभिः । अप । नः । वरत् ॥२४

"कुवित्सस्य । कुविद्बहुशः स्यति हिनस्तीति कुवित्सो नाम कश्चित् । तस्य स्वभूतं “गोमन्तं बहुभिर्गोभिर्युक्तं “व्रतं गोष्ठं “दस्युहा दस्यूनामुपक्षपयितॄणां हन्तेन्द्रः “प्र “गमत् प्रकर्षेण गच्छति । । “हि यस्मादेवं तस्मात् “शचीभिः आत्मीयैः कर्मभिः प्रज्ञाभिर्वा “नः अस्माकं ता गा “अप “वरत् निगूढास्ता अपावृणोत् ।।


इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो॑नुवु॒र्गिर॑ः ।

इन्द्र॑ व॒त्सं न मा॒तर॑ः ॥२५

इ॒माः । ऊं॒ इति॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अ॒भि । प्र । नो॒नु॒वुः॒ । गिरः॑ ।

इन्द्र॑ । व॒त्सम् । न । मा॒तरः॑ ॥२५

इमाः । ऊं इति । त्वा । शतक्रतो इति शतऽक्रतो । अभि । प्र । नोनुवुः । गिरः ।

इन्द्र । वत्सम् । न । मातरः ॥२५

हे “शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वा “इन्द्र “त्वा त्वाम् “अभि “इमाः अस्मदीयाः “गिरः स्तुतयः “प्र “णोनुवुः प्रकर्षेण पुनः पुनर्गच्छन्ति । नौतिरत्र गतिकर्मा । तत्र दृष्टान्तः । “वत्सं “न “मातरः । यथा मातरो गावो गृहे वर्तमानं वत्सं शीघ्रमभिगच्छन्ति तद्वत् । यद्वा । अस्मदीया वाचस्त्वाम् अभि नोनुवुः अभितः शब्दयन्ति स्तुवन्ति । यथा गावो वत्समभिलक्ष्य हम्भारवं कुर्वन्ति तद्वत् ॥ ॥ २५ ।।


दू॒णाशं॑ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते ।

अश्वो॑ अश्वाय॒ते भ॑व ॥२६

दुः॒ऽनश॑म् । स॒ख्यम् । तव॑ । गौः । अ॒सि॒ । वी॒र॒ । ग॒व्य॒ते ।

अश्वः॑ । अ॒श्व॒ऽय॒ते । भ॒व॒ ॥२६

दुःऽनशम् । सख्यम् । तव । गौः । असि । वीर । गव्यते ।

अश्वः । अश्वऽयते । भव ॥२६

हे इन्द्र “तव त्वदीयं “सख्यं सखित्वं “दूणाशं दुर्णाशं नाशयितुमशक्यम् । अतिदृढमित्यर्थः । अतो हे वीर वीरयितरिन्द्र गव्यते गामात्मन इच्छते त्वं “गौरसि गवां प्रदाता भवसि । उपचारात् कारणे कार्यशब्दः । तथा “अश्वायते अश्वानात्मन इच्छते “अश्वः “भव अश्वप्रदो भवसि ।।


स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।

न स्तो॒तारं॑ नि॒दे क॑रः ॥२७

सः । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॑ । म॒हे ।

न । स्तो॒तार॑म् । नि॒दे । क॒रः॒ ॥२७

सः । मन्दस्व । हि । अन्धसः । राधसे । तन्वा । महे ।

न । स्तोतारम् । निदे । करः ॥२७

हे इन्द्र 'सः तादृशस्त्वम् “अन्धसः सोमस्य पानेन हृष्टया “तन्वा आत्मीयेन शरीरेण “मन्दस्व मोदस्व । किमर्थम् । “महे महते “राधसे धनार्थम् । “हि पूरणः । अपि च त्वदीयं “स्तोतारं “निदे निन्दकाय तस्य वशं “न “करः न कुर्याः ।।


इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्ष॑न्ते गिर्वणो॒ गिर॑ः ।

व॒त्सं गावो॒ न धे॒नव॑ः ॥२८

इ॒माः । ऊं॒ इति॑ । त्वा॒ । सु॒तेऽसु॑ते । नक्ष॑न्ते । गि॒र्व॒णः॒ । गिरः॑ ।

व॒त्सम् । गावः॑ । न । धे॒नवः॑ ॥२८

इमाः । ऊं इति । त्वा । सुतेऽसुते । नक्षन्ते । गिर्वणः । गिरः ।

वत्सम् । गावः । न । धेनवः ॥२८

हे "गिर्वणः गीर्भिर्वननीयेन्द्र “सुतेसुते सोमेऽभिषुते अभिषुते सति “इमाः अस्मदीयाः “गिरः स्तुतयः “त्वा त्वां “नक्षन्ते व्याप्नुवन्ति । “धेनवः दोग्ध्र्यः “गावो “न गाव इव “वत्सम् । यथा शीघ्रं वत्सं व्याप्नुवन्ति तद्वत् ॥


पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि ।

वाजे॑भिर्वाजय॒ताम् ॥२९

पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । स्तो॒तॄ॒णाम् । विऽवा॑चि ।

वाजे॑भिः । वा॒ज॒ऽय॒ताम् ॥२९

पुरुऽतमम् । पुरूणाम् । स्तोतॄणाम् । विऽवाचि ।

वाजेभिः । वाजऽयताम् ॥२९

हे इन्द्र “पुरुतमं पुरूणां बहूनां शत्रूणां तमयितारं ग्लपयितारं त्वां “पुरूणां बहूनां “स्तोतॄणाम् अस्माकं स्तुतिः प्राप्नोत्विति शेषः । कीदृशानाम् । “विवाचि विविधाः स्तुतशस्त्रात्मिका वाचो यस्मिन् यज्ञे तस्मिन् “वाजेभिः वाजैर्हविर्लक्षणैरन्नैः “वाजयतां वाजवन्तं बलवन्तं वा त्वां कुर्वताम् ॥


अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः ।

अ॒स्मान्रा॒ये म॒हे हि॑नु ॥३०

अ॒स्माक॑म् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । स्तोमः॑ । वाहि॑ष्ठः । अन्त॑मः ।

अ॒स्मान् । रा॒ये । म॒हे । हि॒नु॒ ॥३०

अस्माकम् । इन्द्र । भूतु । ते । स्तोमः । वाहिष्ठः । अन्तमः ।

अस्मान् । राये । महे । हिनु ॥३०

हे “इन्द्र “वाहिष्ठः वोढ़ृतमः “अस्माकं “स्तोमः स्तोत्रं “ते तव "अन्तमः अन्तिकतमः “भूतु भवतु । त्वं च "अस्मान् “महे महते “राये धनाय “हिनु प्रेरय ।।


अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् ।

उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ॥३१

अधि॑ । बृ॒बुः । प॒णी॒नाम् । वर्षि॑ष्ठे । मू॒र्धन् । अ॒स्था॒त् ।

उ॒रुः । कक्षः॑ । न । गा॒ङ्ग्यः ॥३१

अधि । बृबुः । पणीनाम् । वर्षिष्ठे । मूर्धन् । अस्थात् ।

उरुः । कक्षः । न । गाङ्ग्यः ॥३१

बृबुर्नाम पणीनां तक्षा । तत्सकाशाल्लब्धधनो भरद्वाजस्तदीयं दानमनेन तृचेनास्तौत् । एतच्च मनुना स्मर्यते–' भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने । बह्वीर्गाः प्रतिजग्राह बृबोस्तक्ष्णो महायशाः' (मनु. १०. १०७) इति ॥ पणनात् पणयो वणिज एतत्संज्ञा असुरा वा । तेषां तक्षा बृबुः "वर्षिष्ठे “मूर्धन् मूर्धनि मूर्धवदुच्छ्रिते स्थले “अधि “अस्थात् अधिष्ठितोऽभूत् “गाङ्ग्यः गङ्गायाः कूले उन्नते भवः “कक्षो "न कक्ष इव “उरुः विस्तीर्णः सन् । जातितो हीनोऽपि दातृत्वात् सर्वत्र श्रेष्ठो भवतीत्यर्थः ॥


यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑ ।

स॒द्यो दा॒नाय॒ मंह॑ते ॥३२

यस्य॑ । वा॒योःऽइ॑व । द्र॒वत् । भ॒द्रा । रा॒तिः । स॒ह॒स्रिणी॑ ।

स॒द्यः । दा॒नाय॑ । मंह॑ते ॥३२

यस्य । वायोःऽइव । द्रवत् । भद्रा । रातिः । सहस्रिणी ।

सद्यः । दानाय । मंहते ॥३२

“वायोरिव “द्रवत् क्षिप्रगामिनः “यस्य बृबोः “भद्रा कल्याणी “सहस्रिणी सहस्रसंख्यायुक्ता “रातिः दानं “सद्यः स्तुतिसमय एव “दानाय दानकामाय याचमानाय मह्यं “मंहते अपेक्षितं धनं ददाति तं बृबुमित्युत्तरस्यामृचि संबन्धः ॥


तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रव॑ः ।

बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ॥३३

तत् । सु । नः॒ । विश्वे॑ । अ॒र्यः । आ । सदा॑ । गृ॒ण॒न्ति॒ । का॒रवः॑ ।

बृ॒बुम् । स॒ह॒स्र॒ऽदात॑मम् । सू॒रिम् । स॒ह॒स्र॒ऽसात॑मम् ॥३३

तत् । सु । नः । विश्वे । अर्यः । आ । सदा । गृणन्ति । कारवः ।

बृबुम् । सहस्रऽदातमम् । सूरिम् । सहस्रऽसातमम् ॥३३

तत् तं "बृबुं “नः अस्मदीया: “विश्वे सर्वे “अर्यः स्तुतीनामीरयितारः “कारवः स्तोतारः “सदा “सु सुष्ठु “आ गृणन्ति अभिगृणन्ति अभिष्टुवन्ति । कीदृशम् । “सहस्रदातमम् अतिशयेन सहस्रसंख्यस्य धनस्य दातारं “सूरिं प्राज्ञं यद्वा प्रेरयितारं "सहस्रसातमम् अतिशयेन सहस्रसंख्यस्य स्तोत्रस्य धनस्य वा संभक्तारम् ॥ ॥ २६ ॥



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें