मंगलवार, 18 जून 2024

राधा द्वितीय

तन्त्रमतेऽस्या उत्पत्यादिविवरणानि यथा   -कात्यायन्युवाच । “ वासुदेव महाबाहो मा भयं कुरु पुत्त्रक । मथुरां गच्छ तातेति तव सिद्धिर्भविष्यति ॥ गच्छ गच्छ महाबाहो पद्मिनीसङ्गमाचर । पद्मिनी मम देवेश व्रजे राधा भविष्यति । अन्याश्च मातृकादेव्यः सदा तस्यानुचारिकाः ॥ वासुदेव उवाच । शृणु मातर्म्महामाये चतुवर्गप्रदायिनि । त्वां विना परमेशानि ! विद्यासिद्धिर्न जायते ॥ पद्मिनीं परमेशानि ! शीघ्रं दर्शय सुन्दरि ! । प्रत्ययं मम देवेशि ! तदा भवति मानसम् ॥ इति श्रुत्वा वचस्तस्य वासुदेवस्य तत्क्षणात् ।आविरासीत्तदा देवी पद्मिनी परसंस्थिता ॥ रक्तविद्युल्लताकारा पद्मगन्धसमन्विता । रूपेण मोहयन्ती सा सखीगणसमन्विता ॥ सहस्रदलपद्मान्तर्म्मध्यस्थानस्थिता सदा । सखीगणयुता देवी जपन्ती परमाक्षरम् ॥ एकाक्षरी महेशानि ! सा एव परमाक्षरा । कालिका या महाविद्या पद्मिन्या इष्टदेवता । वासुदेवो महाबाहुर्दृष्ट्वा विस्मयमागतः ॥ पद्मिन्युवाच । व्रजं गच्छ महाबाहो शीघ्रं हि भगवन् ! प्रभो ! । त्वया सह महाबाहो कुलाचारं करोम्यहम् ॥ वासुदेव उवाच । शृणु पद्मिनि मे वाक्यं कदा ते दर्शनं भवेत् । कृपया वद देवेशि ! जपं किंवा करोम्यहम् ॥ पद्मिन्युवाच । तवाग्रे देवदेवेश मम जन्म भविष्यति । गोकुले माथुरे पीठे वृकभानुगृहे ध्रुवम् ॥ दुःखं नास्ति महाबाहो मम संसर्गहेतुना । कुलाचारोपयुक्ता या सामग्री पञ्चलक्षणा ॥ मालायां तव देवेश सदा स्थास्यति नान्यथा । इत्युक्त्वा पद्मिनी सा तु सुन्दर्य्या दूतिका तदा ॥ अन्तर्ध्यानं ततो गत्वा मालायां सहसा क्षणात् । वासुदेवोऽपि तां दृष्ट्वा क्षीराब्धिं प्रययौ ध्रुवम् ॥ त्यक्त्वा काशीपूरं रम्यं महापीठं दुरासदम् । प्रययौ माथुरं पीठं पद्मिनी परमेश्वरी ॥ यत्र कात्यायनी दुर्गा महामायास्वरूपिणी । नारदार्द्यैर्म्मुनिश्रेष्ठैः पूजिता संस्तुता सदा ॥ कात्यायनी महामाया यमुनाजलसंस्थिता । यमुनाया जलं तत्र साक्षात् कालीस्वरूपिणी ॥ बहुपत्रयुतं रम्यं शुक्लपीतं महाप्रभम् । रक्तं कृष्णं तथा चित्रं हरितं सर्व्वमोहनम् । कालिन्द्याख्या महेशानि यत्र कात्यायनी परा ॥ कालिन्दी कालिका माता जगतां हितकाम्यया । साराध्यास्ते महेशानि ! देवर्षिसंस्तुता परा । सहस्रदलपत्रान्तर्म्मध्ये माथुरमण्डलम् ॥ केशबन्धे महेशानि ! यत् पद्मं सततं स्थितम् । पद्ममध्ये महेशानि ! केशपीठं मनोहरम् ॥ केशबन्धं महेशानि ! व्रजं माथुरमण्डलम् । यत्र कात्यायनी माया महामाया जगन्मयी ॥ व्रजं वृन्दावनं देवि ! नानाशक्तिसमन्वितम् । शक्तिस्तु परमेशानि ! कलारूपेण साक्षिणी । शक्तिं विना परं ब्रह्म न भाति शवरूपवत् ॥ “ इति वासुदेवरहस्ये राधातन्त्रे षष्ठः पटलः ॥ देव्युवाच । “ व्रजं गत्वा महादेवाकरोत् किं पद्मिनी तदा । कस्य वा भवने सा तु जाता सा पद्मिनी परा ॥ तत् सर्व्वं परमेशान विस्ताराद्वद शङ्कर । यदि नो कथ्यते देव विमुञ्चामि तदा तनुम् ॥ ईश्वर उवाच । पद्मिनी पद्मगन्धा सा वृकभानुगृहे प्रिये ! । आविरासीत्तदा देवी कृष्णस्य प्रथमं प्रिया । चैत्रे मासि सिते पक्षे नवम्यां पुष्यसंयुते ॥ कालिन्दीजलकल्लोले नानापद्मगणावृते । अविरासीत्तदा पद्मा मायाडिम्बमुपाश्रिता ॥ डिम्बोभूत्वा तदा पद्मा स्थिता कनकमध्यतः । कोटिचन्द्रप्रतीकाशं डिम्बं मायासमन्वितम् ॥ पुष्ययुक्तनवम्यां वै निश्यर्द्धे पद्ममध्यतः । आविरासीत्तदा पद्मा रङ्गिणी कुसुमप्रभा ॥ तरुणादित्यसङ्काशे पद्मे परमकामिनी । वृकभानुपुरं देवि ! कालिन्दीपारमेव च । नाम्ना पद्मपुरं रम्यं चतुर्व्वर्गसमन्वितम् ॥ डिम्बज्योतिर्म्महेशानि ! सहस्रादित्यसन्निभम् । तत्क्षणात् परमेशानि गाढध्वान्तविनाशकृत् ॥ वृकभानुर्म्महात्मा स कालिन्दीतटमास्थितः । महाविद्यां महाकालीं सततं प्रजपेत्सुधीः ॥ आविरासीन्महामाया तदा कात्यायनी परा । शृणु पुत्त्र महाबाहो वृकभानो महीधर । सिद्धोऽसि पुरुषश्रेष्ठ वरं वरय साम्प्रतम् ॥ वृकभानुरुवाच । सिद्धोऽहं सततं देवि ! त्वत्प्रसादात् सुरेश्वरि ! । त्वत्प्रसादान्महामाये यथा मुक्तो भवाम्यहम् ॥ त्वत्प्रसादान्महामाये असाध्यं नास्ति भूतले । आत्मनः सदृशाकारां कन्यामेकां प्रयच्छ मे ॥ तच्छ्रुत्वा परमेशानि ! तदा कात्यायनी परा । मेषगम्भीरया वाचा यदाह वृकभानवे ॥ तच्छृणुष्व महेशानि ! पीयूषसदृशं वचः । भक्त्या त्वदीयपत्न्यास्तु तुष्टाहं त्वयि सुन्दरि ! ॥ एतद्धि वचनं वत्स ! तव पत्न्या सुयुज्यते । इत्युक्त्वा सहसा तत्र महामाया जगन्मयी ॥ प्रददौ परमेशानि ! तस्मै डिम्बं मनोहरम् । वृकभानुर्म्महात्मा स तत्क्षणाद्गृहमाययौ ॥ भार्य्या तस्य विशालाक्षी विशालकटिमोहिनी । रत्नप्रदीपमाभाष्य



इति वासुदेवरहस्ये राधातन्त्रे षष्ठः पटलः ॥ देव्युवाच । “ व्रजं गत्वा महादेवाकरोत् किं पद्मिनी तदा । कस्य वा भवने सा तु जाता सा पद्मिनी परा ॥ तत् सर्व्वं परमेशान विस्ताराद्वद शङ्कर । यदि नो कथ्यते देव विमुञ्चामि तदा तनुम् ॥ ईश्वर उवाच । पद्मिनी पद्मगन्धा सा वृकभानुगृहे प्रिये ! । आविरासीत्तदा देवी कृष्णस्य प्रथमं प्रिया । चैत्रे मासि सिते पक्षे नवम्यां पुष्यसंयुते ॥ कालिन्दीजलकल्लोले नानापद्मगणावृते । अविरासीत्तदा पद्मा मायाडिम्बमुपाश्रिता ॥ डिम्बोभूत्वा तदा पद्मा स्थिता कनकमध्यतः । कोटिचन्द्रप्रतीकाशं डिम्बं मायासमन्वितम् ॥ पुष्ययुक्तनवम्यां वै निश्यर्द्धे पद्ममध्यतः । आविरासीत्तदा पद्मा रङ्गिणी कुसुमप्रभा ॥ तरुणादित्यसङ्काशे पद्मे परमकामिनी । वृकभानुपुरं देवि ! कालिन्दीपारमेव च । नाम्ना पद्मपुरं रम्यं चतुर्व्वर्गसमन्वितम् ॥ डिम्बज्योतिर्म्महेशानि ! सहस्रादित्यसन्निभम् । तत्क्षणात् परमेशानि गाढध्वान्तविनाशकृत् ॥ वृकभानुर्म्महात्मा स कालिन्दीतटमास्थितः । महाविद्यां महाकालीं सततं प्रजपेत्सुधीः ॥ आविरासीन्महामाया तदा कात्यायनी परा । शृणु पुत्त्र महाबाहो वृकभानो महीधर । सिद्धोऽसि पुरुषश्रेष्ठ वरं वरय साम्प्रतम् ॥ वृकभानुरुवाच । सिद्धोऽहं सततं देवि ! त्वत्प्रसादात् सुरेश्वरि ! । त्वत्प्रसादान्महामाये यथा मुक्तो भवाम्यहम् ॥ त्वत्प्रसादान्महामाये असाध्यं नास्ति भूतले । आत्मनः सदृशाकारां कन्यामेकां प्रयच्छ मे ॥ तच्छ्रुत्वा परमेशानि ! तदा कात्यायनी परा । मेषगम्भीरया वाचा यदाह वृकभानवे ॥ तच्छृणुष्व महेशानि ! पीयूषसदृशं वचः । भक्त्या त्वदीयपत्न्यास्तु तुष्टाहं त्वयि सुन्दरि ! ॥ एतद्धि वचनं वत्स ! तव पत्न्या सुयुज्यते । इत्युक्त्वा सहसा तत्र महामाया जगन्मयी ॥ प्रददौ परमेशानि ! तस्मै डिम्बं मनोहरम् । वृकभानुर्म्महात्मा स तत्क्षणाद्गृहमाययौ ॥ भार्य्या तस्य विशालाक्षी विशालकटिमोहिनी । रत्नप्रदीपमाभाष्य रत्नपर्य्यङ्कमाश्रिता ॥ तस्या हस्ते तदा भानुः प्रददौ डिम्बमोहनम् । तं दृष्ट्वा परमेशानि ! विस्मयं परमं गता ॥ हस्ते कृत्वा तु डिम्बं वै निरीक्ष्य च पुनः पुनः । नानागन्धयुतं डिम्बं सर्व्वशक्तिसमन्वितम् ॥ नानाज्योतिर्म्मयं डिम्बं तत्क्षणाच्च द्बिधाभवत् । तत्रापश्यन्महाकन्यां पद्मिनीं कृष्णमोहिनीम् ॥ रक्तविद्युल्लताकारां सर्व्वसौभाग्यवर्द्धिनीम् । तां दृष्ट्वा परमेशानि सहसा विस्मयं गता ॥ कीर्त्तिदोवाच । हे मातः पद्मिनीरूपे रूपं संहर संहर । ततस्तु परमेशानि ! तद्रूपं तत्क्षणात् प्रिये ! ॥ संहृत्य सहसा देवी सामान्यं रूपमास्थिता । ततस्तु कीर्त्तिदा देवी रूपन्तस्या व्यलोकयत् ॥ रङ्गिणी कुसुमाकारा रक्तविद्युत्समप्रभा ॥ कन्योवाच । हे मातः कीर्त्तिदे भद्रे क्षीरं पायय सुन्दरि ! । स्तनं देहि स्तनं देहि तव कन्या भवाम्यहम् ॥ तत्श्रुत्वा वचनं तस्याः पद्मिन्याः कमलेक्षणे । अपाययत् स्तनं तस्यै पद्मिन्यै नगनन्दिनि ॥ चकार नाम तस्यास्तु भानुः कीर्त्तिदयान्वितः । 

रक्तविद्युत्प्रभां देवी धत्ते यस्मात् शुचिस्मिते । तस्मात्तु राधिका नाम सर्व्वलोकेषु गीयते ॥ 
ईश्वर उवाच । दिने दिने वर्द्धमाना वृकभानुगृहे प्रिये ! । एवं माथुरपीठे च चकार व्रजवासिनी ॥ तस्माद्भाद्रपदे मासि कृष्णोऽभूत् कमलेक्षणः 
॥ महादेव उवाच । श्रूयतां पद्मपत्राक्षि रहस्यं पद्मिनीमतम् । सम्प्राप्ते परमेशानि ! द्वितीये वत्सरे तदा ॥ कुर्य्याद्यत्नेन देवेशि ! शिवलिङ्गप्रपूजनम् । प्रजपेत् परमां विद्यां कालीं ब्रह्माण्डरूपिणीम् ॥ पूजयेद्विविधैः पुष्पैर्गन्धैश्च सुमनोहरैः । फलैर्ब्बहुविधैर्भद्रे पूजयेत् परमेश्वरीम् ॥ पद्मिन्युवाच । कात्यायनि महामाये महायोगिन्यधीश्वरि ! । देहि देहि महामाये विद्यासिद्धिमनुत्तमाम् ॥ सिद्धिञ्च वासुदेवस्य देहि मातर्नमोऽस्तु ते । त्वां विना ब्रह्म निःशब्दं निश्चलं सततं सदा ॥ शरीरस्थं हि कृष्णस्य कृष्णो ज्योतिर्म्मयं सदा । विना देहं परं ब्रह्म शवरूपवदीरितम् ॥ अतएव महामाये ब्रह्मणः कारणं परा । एवं प्रार्थ्य महेशानि ! सततं परमेश्वरीम् ॥ संपूज्य परया भक्त्या लक्ष्यं जप्त्वा तु मानसम् । वरं प्राप्ता महेशानि कात्यायन्याः समीपतः ॥ कात्यायन्युवाच । पद्मिनि शृणु मद्वाक्यं शीघ्रं प्राप्स्यसि केशवम् । इत्युक्त्वा परमेशानि ! तत्रैवान्तरधीयत ॥ कात्यायनी महामाया सदा वृन्दावनेश्वरी । वृकभानुसुता राधा सखीगणवृता सदा ॥ वर्द्धमाना सदा राधा यथा चन्द्रकला प्रिये ! । सर्व्वशृङ्गारवेशाढ्या स्फुरच्चकितलोचना ॥ सर्व्वालङ्कारसंयुक्ता साक्षात् श्रीरिव पार्व्वति । चचार गहने घोरे पद्मिनी परसुन्दरी ॥ या राधा परमेशानि ! पद्मिनी परमेश्वरी । पद्मस्य वनमाश्रित्य सदा तिष्ठति कामिनी ॥ 

अन्यमूर्त्तिं महेशानि ! दृष्ट्वा चैवात्मसन्निभाम् । आत्मनः सदृशाकारां राधामन्यां ससर्ज्ज सा ॥ या सा तु कृत्रिमा राधा वृकभानुगृहे सदा । अयोनिसम्भवा यातु पद्मिनी सा पराक्षरा ॥

 कृत्रिमा या महेशानि ! तस्यास्तु चरितं शृणु । वृकभानुर्म्महात्मा स तस्या वैवाहिकीं क्रियाम् ॥ कारयामास यत्नेन पञ्चवर्षे तु सुन्दरि ! । तस्यास्तु चोभयं वंशं सावधानावधारय ॥ श्वशुरस्य वृकस्यापि वंशं परमसुन्दरम् । 

श्वश्रूस्तु जटिला ख्याता पतिर्म्मान्योऽतिमन्युकः ॥ ननान्दा कुटिलानाम्नी देवरो दुर्म्मदाभिधः ।
***************************

 तिलकं स्मरमादाख्यं हरोहरिमनोहरः ॥ रोचनो रत्नताडङ्को घृणियुक्तप्रभाकरी । छत्रं दृष्ट्वा प्रतिच्छायं पद्मञ्च मदनाभिधम् ॥ स्यमन्तकान्यपर्य्यायः शङ्खचूडशिरोमणिः । पुष्पवन्तोक्षिपलकः सौभाग्यमणिरुच्यते ॥ काञ्ची काञ्चनचित्राङ्गि नूपुरे चित्रगोपुरे । मधुसूदनमाबद्धा ययोः सिञ्जितमाधुरी ॥ वासो मेघाम्बरं नाम कुरुविन्दनिभं सदा । आद्यं सुप्रियमभ्राभं रक्तमन्त्यं हरेः प्रियम् ॥ सुधांशो र्दर्पहरणो दर्पणो मणिबान्धवः । शलाका नर्म्मदा हैमी स्वस्तिका नाम कङ्कतिः ॥ कन्दर्पकुहरी नाम कटिका पुष्पभूषिता । स्वर्णमुखीतडिद्वली कुण्डा ख्याता स्वनामतः ॥ नीपा नदीतटे यस्य रहस्यकथनस्थली । मन्दारश्च धनुः स्त्रीश्च रागोहृदयमन्दगौ ॥ छानिक्यं दयिता नित्यं वल्लभा रुद्रधन्वकी । सख्यः ख्याताः सदा भद्राचारुचन्द्रावलीमुखाः ॥ गन्धर्व्वास्तु कलाकण्ठी सुकण्ठी पिककण्ठिका । कलावती रसोल्लासा गुणवत्यादयः स्मृताः ॥ या विशाखाकृतागीतिर्गायन्त्यः सुखदा हरेः । वादयन्त्यद्य शुषिरं ताललब्धघनन्त्वपि ॥ माणिक्या नर्म्मदा प्रेमवती कुसुमपेषलाः । दिवाकीर्त्तेस्तनूजे तु सुगन्धानलिनीत्युभे ॥ मञ्जिष्ठा रङ्गवत्याख्ये रजकस्य किशोरिके । पालिन्धिसमसैरिन्ध्री वृन्दाकन्दलतादयः ॥ धनिष्ठा गुणवत्याद्या धन्ववेश्वरगेहगाः । कामधा नामधा प्रेयी सखीभावविशेषभाक् ॥ लवङ्गमञ्जरी रागमञ्जरी गुणमञ्जरी । सुभानुसत्यनुपमा सुप्रिया रतिमञ्जरी ॥ रागलेखा कलाकेली भूविदाद्याश्च नायिकाः । नान्दीमुखी बिन्दुमुखी आद्याः सन्धिविधायिकाः ॥ सुहृत्पद्मतया ख्याताः श्यामला मङ्गलादयः । प्रतिपक्षतया श्रेष्ठा राधाचन्द्रावलीत्युभे ॥ समूहास्तु ययोः सन्ति कोटिसंख्यामृगीदृशाम् । तयोरप्युभयोर्म्मध्ये सर्व्वमाधुर्य्यतोऽधिका ॥ श्रीराधा त्रिपुरादूती पुराणपुरुषप्रिया । असमानगुणोदर्य्या धूर्य्यो गोपेन्द्रनन्दनः ॥ यस्याः प्राणपरार्द्धानां परार्द्धादतिवल्लभः । श्रेष्ठा सा मातृकादिभ्यस्तत्र गोपेन्द्रगेहिनी । वृषभानुः पिता यस्या वृषभानुविधो महान् । रत्नगर्भा क्षितौ ख्याता जननी कीर्त्तिदा क्षया ॥ उपास्यो जगतां चक्षुर्भगवान् पद्मबान्धवः । जप्यः स्वाभीष्टसंसर्गे कात्यायन्या महामनुः ॥
******
 पौर्णमासी भगवती सर्व्वसौभाग्यवर्द्धिनी । पितामहो महीभानुर्व्विन्दुर्म्मातामहो मतः ॥ मातामहीपितामह्यौ सुखदामोक्षदाभिधे । रत्नभानुः स्वभानुश्च भानुश्च भ्रातरः पितुः ॥ भद्रकीर्त्तिर्म्महाकीर्त्तिः कीर्त्तिचन्द्रश्च मातुलः । स्वसा कीर्त्तिमती मातुर्भानुमुद्रा पितृष्वसा ॥ पितृष्वसृपतिः काश्यो मातृष्वसृपतिः कृशः । मातुली मेनकामेना षष्ठी धात्री तु धातकी ॥

  श्रीदामा पूर्ब्बजो भ्राता कनिष्ठानङ्गमञ्जरी । परमप्रेष्ठसख्यस्तु ललिता च विशाखिका ॥ विचित्रा चम्पकलता रङ्गदेवी सुदेविका ।

तुङ्गवेद्यङ्गलेखा च इत्यष्टौ च गणा मताः ॥ प्रियसख्यः कुरङ्गाक्षी मण्डली मानकुण्डला । मालती चन्द्रलतिका माधवामदनालसा ॥ मञ्जुमेया शशिकला सुमध्या मधुमेक्षणा । कमला कामलतिका कान्तचूडा वराङ्गना ॥ मधूरी चन्द्रिका प्रेममञ्जरी तनुमध्यमा । कन्दर्पसुन्दरी मञ्जुवेशी चाद्यास्तु कोटिशः ॥ रक्ताजीवितयाख्याता कलिका केलिसुन्दरी । पृष्ठ ४/१४०कादम्बरी शशिमुखी चन्द्ररेखा प्रियंवदा ॥ मदोन्मादा मधुमती वासन्ती कलभाषिणी । रत्नवेणी मालवती कर्पूरतिलकादयः ॥ एता वृन्दावनेश्वर्य्याः प्रायः सारूप्यमागताः । नित्यसख्यस्तु कस्तूरी मनोज्ञा मणिमञ्जरी ॥ सिन्दूरा चन्दनवती कौमुदी मुदितादयः । काननादिगतास्तस्या विहारार्थं कला इव ॥ अथ तस्याः प्रकीर्त्त्यन्ते प्रेयस्यः परमाद्भुताः । वनादित्योप्युरुप्रेमसौन्दर्य्यभरभूषिताः ॥ चन्द्रावली च पद्मा च श्यामा सैका च भद्रिका । तारा चित्रा च गन्धर्व्वी पालिका चन्द्रमालिका ॥ मङ्गला विमला नीला भवनाक्षी मनोरमा । कल्पलता तथा मञ्जुभाषिणी मञ्जुमेखला ॥ कुमुदा कैरवी पारी शारदाक्षी विशारदा । शङ्करी कुसुमा कृष्णा सारङ्गी प्रविलाशिनी ॥ तारावती गुणवती सुमुखी केलिमञ्जरी । हारावली चकोराक्षी भारती कामिनीति च ॥ आसां यूथानि शतशः ख्यातान्यन्यानि सुभ्रुवाम् । लक्षसंख्यास्तु कथिता यूथे यूथे वराङ्गनाः ॥ मुख्यास्तु तेषु यूथेषु कान्ताः सर्व्वगुणोत्तमाः । राधा चन्द्रावली भद्रा श्यामला पालिकादयः ॥ जन्मनाम्नाथ सा ख्याता मधुमासे विशेषतः । पुष्यर्क्षे च नवम्यां वै शुक्लपक्षे शुचिस्मिते ॥ जाता राधा महेशानी स्वयं प्रकृतिपद्मिनी । तासु रेमे महेशानि स्वयं कृष्णः शुचिस्मिते । रमणं वासुदेवस्य मन्त्रसिद्धेस्तु कारणम् ॥ देव्युवाच । भो देव तापसां श्रेष्ठ विस्ताराद्वद ईश्वर । कथं सा पद्मिनी राधा सदा पद्मवने स्थिता ॥ पितरं मातरं त्यक्त्वा आत्मतुल्यां ससर्ज्ज सा । पद्ममाश्रित्य देवेश वृन्दावनविलासिनी । सदाध्यास्ते महेशानि एतद्गुह्यं वद प्रभो ! ॥ “ इति वासुदेवरहस्ये राधातन्त्रे सप्तमः पटलः ॥

 ईश्वर उवाच । “ या राधा मृगशावाक्षि ! पद्मिनी विष्णुवल्लभा । महामाया जगद्धात्री त्रिपुरा परमेश्वरी ॥ तस्या दूती महेशानि पद्मिनी पद्मगन्धिनी । कृष्णस्य दृढभक्ता तु पद्मिनी तस्य बल्लभा ॥ वृकभानोर्म्महेशानि दृढभक्तिः शुचिस्मिते । दुहितृत्वं गता देवी पद्मिनी गन्धमालिनी ॥ कृत्वा तु स्तनपानं हि राधामन्यां ससर्ज्ज सा । पद्मषण्डं समाश्रित्य यमुनाजलमध्यतः ॥ महाकाल्या महामन्त्रं प्रजपेन्निर्ज्जने वने । अन्या चन्द्रावली राधा वृकभानुगृहे स्थिता ॥ पूर्ब्बोक्तं यद्गुणं देवि पद्मिनी कमलेक्षणे । तत् सर्व्वं पद्मिनीसृष्टं नान्यथा परमेश्वरि ॥ राधिका त्रिविधा प्रोक्ता चन्द्रा तु पद्मिनी तथा । न पश्येत् परमेशानि चन्द्रसूर्य्यं शुचिस्मिते ॥ मानवानां महेशानि वराकाणां हि का कथा । आत्मनोऽपह्नवं कृत्वा पद्मिनी पद्ममाश्रिता । त्रिपुराया महेशानि पद्मिनी अनुचारिणी ॥ “ इति वासुदेवरहस्ये राधातन्त्रे अष्टमः पटलः ॥ ) अस्याः सहस्रनामानि यथा   -पार्व्वत्युवाच । “ देवदेव जगन्नाथ मक्तानुग्रहकारक । यद्यस्ति मयि कारुण्यं यद्यस्ति मयि ते दया ॥ यद्यत् त्वया प्रगदितं तत् सर्व्वं मे श्रुतं प्रभो । गुह्यात् गुह्यतरं यत्तु यत्ते मनसि काशते ॥ त्वया न गदितं यत्तु यस्मै कस्मै कदाचन । तन्मां कथय देवेश सहस्रं नाम चोत्तमम् ॥ श्रीराधाया महादेव्या गोप्या भक्तिप्रसाधनम् । ब्रह्माण्डकर्त्री हर्त्री सा कथं गोपीत्वमागता ॥ महादेवौवाच । शृणु देवि ! विचित्रार्थां कथां पापहरां शुभाम् । सन्ति जन्मानि कर्म्माणि तस्या नूनं महेश्वरि ! ॥ यदा हरिश्चरित्राणि कुरुते कार्य्यगौरवात् । तदा विधत्ते रूपाणि हरिसान्निध्यसाधिनी ॥ तस्या गोपीत्वभावस्य कारणं गदितं पुरा । इदानीं शृणु देवेशि ! नाम्नां चैव सहस्रकम् ॥ यन्मया कथितं नैव तन्त्रेष्वपि कदाचन । तव स्नेहात् प्रवक्ष्यामि भक्त्या धार्य्यं मुमुक्षुभिः ॥ मम प्राणसमा विद्या भाव्यते मे त्वहर्निशम् । शृणुष्व गिरिजे नित्यं पठस्व च यथामति ॥ यस्याः प्रसादात् कृष्णस्तु गोलोकेशः परःप्रभुः ।  * । अस्या नामसहस्रस्य ऋषिर्नारद एव च ॥ देवी राधा परा प्रोक्ता चतुर्व्वर्गप्रसाधिनी । श्रीराधा राधिका कृष्णबल्लभा कृष्णसंयुता ॥ वृन्दावनेश्वरी कृष्णप्रिया मदनमोहिनी । श्रीमती कृष्णकान्ता च कृष्णानन्दप्रदायिनी ॥ यशस्विनी यशोगण्या यशोदानन्दवल्लभा । दामोदरप्रिया गोपी गोपानन्दकरी तथा ॥ कृष्णाङ्गवासिनी हृद्या हरिकान्ता हरिप्रिया । प्रधाना गोपिका गोपकन्या त्रैलोक्यसुन्दरी ॥ वृन्दावनविहारी च विस्फूर्ज्जितमुखाम्बुजा । गोपकुलानन्दकर्त्री गोकुलानन्ददायिनी ॥ गतिप्रदा गीतगम्या आगमागमनप्रिया । विष्णुप्रिया विष्णुकान्ता विष्णोरङ्गनिवासिनी ॥ यशोदानन्दपत्नी च यशोदानन्दगेहिनी । कामारिकान्ता कामेशी कामलालसविग्रहा ॥ जयप्रदा जया जीवा जीवानन्दप्रदायिनी । यशोदानन्दपत्नी च वृषभानुसुता शिवा ॥ गणाध्यक्षा गवाध्यक्षा गवां गतिरनुत्तमा । काञ्चनाभा हेमगात्री काञ्चनाङ्गदधारिणी ॥ अशोका शोकरहिता विशोका शोकनाशिनी । गायत्त्री वेदमाता च वेदातीता विदुत्तमा ॥ नीतिशास्त्रप्रिया नीतिर्गतिर्म्मतिरभीष्टदा । वेदप्रिया वेदगर्भा वेदमार्गप्रवर्द्धिनी ॥ वेदगम्या वेदपरा विचित्रकनकोज्ज्वला । तथोज्ज्वलप्रदा नित्या तथैवोज्ज्वलगात्रिका ॥ नन्दप्रिया नन्दसुता राधानन्दप्रदा शुभा । शुभाङ्गी विमलाङ्गी च विलासिन्यपराजिता ॥ जननी जन्मशून्या च जन्ममृत्युज्वरापहा । गतिर्गतिमतां धात्री धात्रानन्दप्रदायिनी ॥ जगन्नाथप्रिया शैलवासिनी हेमसुन्दरी । विचित्रवासिनी चित्रवासिनी चित्ररूपिणी ॥ निर्गुणा सुकुलीना च निष्कुलीना निराकुला । गोकुलान्तरगेहा च योगानन्दकरी तथा ॥ वेणुवाद्या वेणुरतिर्वेणुवाद्यपरायणा । गोपालस्य प्रिया सौम्या रम्या सौम्यकुलोद्भवा ॥ अतिसौम्यातिमोहा च गतिरिष्टा गतिप्रदा । गीर्व्वाणवन्द्या गीर्व्वाणा गीर्ब्बाणगणसेविता ॥ ललिता च विशोका च विशाखा चित्रमालिनी । जितेन्द्रिया शुद्धसत्त्वा कुलीना कुलदीपिका ॥ दीपप्रिया दीपदात्री विमला विमलोदका । कान्तारवासिनी कृष्णा कृष्णचन्द्रप्रिया मतिः ॥ अनुत्तरा दुःखहन्त्री दुःखकर्त्री कुलोद्भवा । मतिर्लक्ष्मीर्धृ तिर्लज्जा कान्तिः पुष्टिः स्मृतिः क्षमा ॥ क्षीरोदशायिनी देवी देवारिकुलमर्द्दिनी । वैष्णवी च महालक्ष्मीः कुलपूज्या कुलप्रिया ॥ संहत्रीं सर्व्वदैत्यानां सावित्री वेदगामिनी । वेदातीता निरालम्बा निरालम्बगणप्रिया ॥ निरालम्बजनैः पूज्या निरालोका निराश्रया । एकाङ्गी सर्व्वगा सेव्या विष्णोः पत्नी सरस्वती ॥ रासप्रिया रासगम्या रासाधिष्ठातृदेवता । रसिका रसिकानन्दा स्वयं रासेश्वरी परा ॥ रासमण्डलमध्यस्था रासमण्डलशोभिता । रासमण्डलसेव्या च रासक्रीडामनोहरा ॥ पुण्डरीकाक्षनिलया पुण्डरीकाक्षगेहिनी । पुण्डरीकाक्षसेव्या च पुण्डरीकाक्षवल्लभा ॥ सर्व्वजीवेश्वरी सर्व्वजीववन्द्या परात्परा । प्रकृतिः शम्भुकान्ता च सदाशिवमनोहरा ॥ क्षुत् पिपासा दया निद्रा भ्रान्तिः श्रान्तिः क्षमा कुला । विधुरूपा गोपपत्नी भारती सिद्धयोगिनी ॥ शत्रुरूपा मित्ररूपा नित्याङ्गी नित्यगेहिनी । स्थानदात्री तथा धात्री महालक्ष्मीः स्वयंप्रभा ॥ सिन्धुकन्या स्थानदात्री द्बारकावासिनी तथा । बुद्धिः स्थितिः स्थानरूपा सर्व्वकारणकारणम् ॥ भक्तप्रिया भक्तगम्या भक्तानन्दप्रदायिनी । भक्तकल्पद्रुमातीता तथातीतगुणा तथा ॥ मनोऽधिष्ठातृदेवी च कृष्णप्रेमपरायणा । निरामया सौम्यदात्री तथा मदनमोहिनी ॥ एकानंशा शिवा क्षेमा दुर्गा दुर्गतिनाशिनी । ईश्वरी सर्व्ववन्द्या च गोपनीया शुभङ्करी ॥ पालिनी सर्व्वभूतानां तथा कामाङ्गहारिणी । सद्योमुक्तिप्रदा देवी वेदसारा परात्परा ॥ हिमालयसुता सर्व्वा पार्व्वती गिरिजा सती । दक्षकन्या देवमाता मन्दलज्जा हरेस्तनुः ॥ वृन्दारण्यप्रिया वृन्दा वृन्दावनविलासिनी । विलासिनी वैष्णवी च ब्रह्मलोकप्रतिष्ठिता ॥ रुक्मिणी रेवती सत्यभामा जाम्बवती तथा । सुलक्षणा मित्रविन्दा कालिन्दी जह्नुकन्यका ॥ परिपूर्णा पूर्णतरा तथा हैमवती गतिः । अपूर्व्वा ब्रह्मरूपा च ब्रह्माण्डपरिपालिनी ॥ ब्रह्माण्डभाण्डमध्यस्था ब्रह्माण्डभाण्डरूपिणी । अण्डरूपाण्डमध्यस्था तथाण्डपरिपालिनी ॥ अण्डवाह्याण्डसंहन्त्री ब्रह्मशिवहरिप्रिया । महाविष्णुप्रिया कल्पवृक्षरूपा निरन्तरा ॥ सारभूता स्थिरा गौरी गौराङ्गी शशिशेखरा । श्वेतचम्पकवर्णाभा शशिकोटिसमप्रभा ॥ तीमाल्यभूषाढ्या मालतीमाल्यधारिणी । कृष्णस्तुता कृष्णकान्ता वृन्दावनविलासिनी ॥ तुलस्यधिष्ठातृदेवी संसारार्णवपारदा । सारदा हारदा गोपनन्दिनी सर्व्वसिद्धिदा ॥ अतीतगमना गौरी परानुग्रहकारिणी । करुणार्णवसंपूर्णा करुणार्णवधारिणी ॥ माधवी माधवमनोहारिणी श्यामवल्लभा । अन्धकारभयध्वस्ता मङ्गल्या मङ्गलप्रदा ॥ श्रीप्रभा श्रीप्रदा श्रीशा श्रीनिवासाच्युतप्रिया । श्रीरूपा श्रीहरा श्रीदा श्रीकामा श्रीस्वरूपिणी ॥ श्रीदामानन्ददात्री च श्रीदामेश्वरवल्लभा । श्रीनितम्बा श्रीगणेशा श्रीस्वरूपाश्रिता श्रुतिः ॥ श्रीक्रियारूपिणी श्रीला श्रीकृष्णभजनाश्रिता । श्रीराधा श्रीमतिः श्रेष्ठा श्रेष्ठरूपा श्रुतिप्रिया ॥ योगेशा योगमाता च योगातीता युगप्रिया । योगप्रिया योगगम्या योगिनीगणवर्द्धिता ॥ जवाकुसुमसङ्काशा दाडिमीकुसुमोपमा । नीलाम्बरधरा धारी धैर्य्यरूपा धरा धृतिः ॥ रत्नसिंहासनस्था च रत्नकुण्डलभूषिता । रत्नालङ्कारसंयुक्ता रत्नमाल्यधरा परा ॥ रत्नेन्द्रसारहाराढ्या रत्नमालाविभूषिता । इन्द्रनीलमणिन्यस्तपादपद्मा शुभा शुचिः ॥ कार्त्तिकी पौर्णमासी च अमावस्या भयापहा । गोविन्दराजगृहिणी गोविन्दराजपूजिता ॥ गोविन्दार्पितचित्ता च गोपीजनगणान्विता । वैकुण्ठनाथगृहिणी गोविन्दपरमानसा ॥ गोविन्ददेवदेवाढ्या तथा वैकुण्ठसुन्दरी । मानदा सा वेदवती सीता साध्वी पतिव्रता ॥ अन्नपूर्णा सदानन्दरूपा कैवल्यसुन्दरी । कैवल्यदायिनी श्रेष्ठा गोपीनाथमनोहरा ॥ गोपीनाथेश्वरी चण्डी नायिका नयनान्विता । नायका नायकप्रीता नायकानन्दरूपिणी ॥ शेषा शेषवती शेषरूपा चैव जगन्मयी । गोपालपालिका माया नन्दजाया तथा परा ॥ कुमारी यौवनानन्दी युवती गोपसुन्दरी । गोपमाता जानकी च जनकानन्दकारिणी ॥ कैलासवासिनी रम्भा हरतोषणतत्परा । हरेश्वरी रामरता रामरामेश्वरी रमा ॥ श्यामला चित्रलेखा च तथा भुवनमोहिनी । सुगोप्या गोपवनिता गोपराज्यप्रदा शुभा ॥ आनन्दपूर्णा माहेशी मत्स्यराजसुता सती । कौमारी नारसिंही च वाराही नवदुर्गिका ॥ चञ्चलाचञ्चला मोदा नारी भुवनसुन्दरी । दक्षयज्ञहरा दाक्षी दक्षकन्या सुलोचना ॥ रतिरूपा रतिप्रीता रतिश्रेष्ठा रतिप्रदा । रतिलक्षणगेहस्था विरजा भुवनेश्वरी ॥ शङ्कास्पदा हरेर्जाया जामातृकुलवन्दिता । वकुला वकुलामोदधारिणी यमुना जया ॥ विजया जयपत्नी च यमलार्ज्जुनभञ्जिनी । वक्रेश्वरी वक्ररूपा वक्रवीक्षणदीक्षिता ॥ अपराजिता जगन्नाथा जगन्नाथेश्वरी मतिः । खेचरी खेचरसुता खेचरत्वप्रदायिनी ॥ विष्णुवक्षःस्थलस्था च विष्णुभावनतत्परा । चन्द्रकोटिसुगात्रा च चन्द्राननमनोहरा ॥ सर्व्वसेव्या शिवा क्षेमा तथा क्षेमङ्करी बधूः । यादवेन्द्रबधूः शैव्या शिवभक्ता शिवान्विता ॥ केवला निष्कला सूक्ष्मा महाभीमा भयप्रदा । जीमूतरूपा जैमूती जिता मित्रप्रमोदिनी ॥ गोपालवनितानङ्गा कुलजेन्द्रनिवासिनी । जयन्ती यमुनाङ्गी च यमुनातोषकारिणी ॥ कलिकल्मषभङ्गा च कलिकल्मषनाशिनी । कलिकल्मषरूपा च नित्यानन्दकरी कृपा ॥ कृपावती कुलवती कैलासाचलवासिनी । वामदेवी वामभागा गोविन्दप्रियकारिणी ॥ नगेन्द्रकन्या योगेशी योगिनी योगरूपिणी । योगसिद्धा सिद्धरूपा सिद्धक्षेत्रनिवासिनी ॥ क्षेत्राधिष्ठातृरूपा च क्षेत्रातीता कुलप्रदा । केशवानन्ददात्री च केशवानन्ददायिनी ॥ केशवा केशवप्रीता कैशोरी केशवप्रिया । रासक्रीडाकरी रासवासिनी राससुन्दरी ॥ गोकुलान्वितदेहा च गोकुलत्वप्रदायिनी । लवङ्गनाम्नी नारङ्गी नारङ्गकुलमण्डला ॥ एलालवङ्गकर्पूरमुखवासमुखान्विता । मुख्या मुख्यप्रदा मुख्यरूपा मुख्यप्रदायिनी ॥ नारायणी कृपा राधा करुणा करुणामयी । कारुण्या करुणाकर्णी गोकर्णा नागकर्णिका ॥ सर्पिणी कौलिनी क्षेत्रवासिनी च जगन्मयी । जटिला कुटिला नीला नीलाम्बरधरा शुभा ॥ नितम्बिनी रूपवती युवती कृष्णपीवरी । विभावरी वेत्रवती संकटा कुटिलालका ॥ नारायणप्रिया शैला सृक्कणीपरिमोहिता । दृक्पातमोहिता प्रातराशितनवनीतिका ॥ नवीना नवनारी च नारङ्गफलशोभिता । हैमी हेममुखी चन्द्रमुखी शशिसुशोभना ॥ अर्द्धचन्द्राधरा चन्द्रवल्लभा रोहिणी तिमिः । तिमिङ्गिलकुलामोदमत्स्यरूपाङ्गहारिणी ॥ कारणी सर्व्वभूतानां कार्य्यातीता किशोरिणी । किशोरवल्लभा केशकारिका कामकारिका ॥ कामेश्वरी कामकला कालिन्दीकुलदीषिका । कलिन्दतनयातीरवासिनी तीरगेहिनी ॥ कादम्बरीपानपरा कुसुमामोदधारिणी । कुमुदा कुमुदानन्दा कृष्णेशी कामवल्लभा ॥ तर्कारी वैजयन्ती च निम्बदाडिम्बरूपिणी । विल्ववृक्षप्रिया कृष्णाम्बरा विल्वोपमस्तनी ॥ विल्वात्मिका विल्ववपुर्विल्ववृक्षनिवासिनी । तुलसी तोषिका चैव तैतिलानन्दकारिणी ॥ गजेन्द्रगामिनी श्यामलतानङ्गलता तथा । योषिच्छक्तिस्वरूपा च योषिदानन्दकारिणी ॥ प्रेमप्रिया प्रेमरूपा प्रेमानन्दतरङ्गिणी । प्रेमहरा प्रेमदात्री प्रेमशक्तिमयी तथा ॥ कृष्णप्रेमवती धन्या कृष्णप्रेमतरङ्गिणी । प्रेमार्थदायिनी सर्व्वश्वेता नित्यतरङ्गिणी ॥ हावभावान्विता रौद्रा रुद्रानन्दप्रकाशिनी । कपिला शृङ्खला केशपाशसम्बर्द्धिनी धटी ॥ कुटीरवासिनी धूम्रा धूम्रकेशा जनोदरी । ब्रह्माण्डगोचरा ब्रह्मरूपिणी भवभाविनी ॥ संसारनाशिनी शैवा शैवानन्दप्रदायिनी । शिशिरा हेमरागाढ्या मेघरूपातिसुन्दरी ॥ मनोरमा वेगवती वेगाढ्या वेदवादिनी । दयान्विता दयाधारा दयारूपा सुसेविनी ॥ किशोरसङ्गसंसर्गा गौरचन्द्रानना कला । कलाधिनाथवदना कलानाथाधिरोहिणी ॥ विरागकुशला हेमपिङ्गला हेममण्डला । भाण्डीरतालवनगा कैवर्त्ती पीवरी शुकी ॥ शुकदेवगुणातीता शुकदेवप्रियासखी । विकलोत्कर्षिणी कौषा कौषेयाम्बरधारिणी ॥ कोषावरी कोषरूपा जगदुत्पत्तिकारिका । सृष्टिस्थितिकरी संहारिणी संहारकारिणी ॥ केशशैवालधात्री च चन्द्रगात्रा सुकोमला । पद्माङ्गरागसंरागा विन्ध्याद्रिपरिवासिनी ॥ विन्ध्यालया श्यामसखी सखी संसाररागिणी । भूता भविष्या भव्या च भव्यगात्रा भवातिगा ॥ भवनाशान्तकारिण्याकाशरूपा सुवेशिनी । रतिरङ्गपरित्यागा रतिवेशा रतिप्रिया ॥ तेजस्विनी तेजरूपा कैवल्यपथदा शुभा । मुक्तिहेतुर्मुक्तिहेतुलङ्घिनी लक्ष्मणा क्षमा ॥ विशालनेत्रा वैशाली विशालकुलसम्भवा । विशालगृहवासा च विशालवदरीरतिः ॥ भक्त्यतीता भक्तिगतिर्भक्तिवाध्या भवाकृतिः । वामाङ्गहारिणी विष्णोः शिवभक्तिसुखान्विता ॥ विजिताविजिता मोदमग्ना च गणतोषिता । हयास्या हेरम्बसुता गणमाता सुरेश्वरी ॥ दुःखहन्त्री दुःखहरा सेवितेप्सितसर्व्वदा । सर्व्वाङ्गानुविधात्री च कुलक्षेत्रविनाशिनी ॥ लवङ्गा पाण्डवसखी सखीमध्यविलासिनी । ग्राम्यगीता गया गम्या गमनातीतनिर्भरा ॥ सर्व्वाङ्गसुन्दरी गङ्गा गङ्गाजलमयी तथा । गङ्गेरिता पूतमात्रा पवित्रकुलदीपिका ॥ पवित्रगुणशीलाढ्या पवित्रानन्ददायिनी । पवित्रगुणसीमाढ्या पवित्रकुलपाविका ॥ गतिज्ञा गीतकुशला दनुजेन्द्रनिवारिणी । निर्व्वाणदात्री नैर्वाणी हेतुयुक्तागमोत्तरा ॥ पर्व्वताधिनिवासा च निवासकुशला तथा । सन्न्यासधर्म्मकुशला सन्न्यासे फलदा शुभा ॥ शरच्चन्द्रमुखी श्यामहारा क्षेत्रनिवासिनी । वसन्तरागा सुश्रोणी वसन्तवसनाकृतिः ॥ चतुर्भुजा षड्भुजा च द्बिभुजा गौरविग्रहा । सहस्रास्या विहास्या च मुद्रास्या मुद्रदायिनी ॥ प्राणप्रिया प्राणरूपा प्राणरूपिण्यपावृता । कृष्णप्रीता कृष्णरता कृष्णतोषणतत्परा ॥ कृष्णप्रेमवती कृष्णभक्ता भक्तफलप्रदा । कृष्णप्रेमप्रेमभक्ता हरिभक्तिप्रदायिनी ॥ चैतन्यरूपा चैतन्यप्रिया चैतन्यरूपिणी । उग्ररूपा शिवक्रोडा कृष्णक्रोडा जलोदरी ॥ महोदरी महादुर्गकान्तारस्थलवासिनी । चन्द्रावली चन्द्रकेशी चन्द्रप्रेमतरङ्गिणी ॥ समुद्रामृतरूपा च समुद्रजलवासिका । केशपाशरता निद्रा क्षुधा प्रेमरताम्बिका ॥ दूर्ब्बादलश्यामतनुर्दूर्व्वादलतनुच्छविः । नागरा नागरीवासा नगरानन्दकारिणी ॥ नागरालिङ्गनपरा नगराङ्गनमङ्गला । उच्चनीचा हैमवती प्रियाकृष्णतरङ्गिणी ॥ प्रेमालिङ्गनसिद्धाङ्गी सिद्धसाध्यविलासिका । मङ्गला मोदजननी मेखला मोदधारिणी ॥ रत्नमञ्जीरभूषाङ्गी रत्नभूषणभूषणा ॥ जम्बालमालिका कृष्णप्राणा प्राणविमोचना ॥ सत्यप्रदा सत्यवती सेवकानन्ददायिका । जगद्योनिर्ज्जगद्दीप्ता विचित्रमणिभूषणा ॥ राधारमणकान्ता च राध्याराधनरूपिणी । कैलासवासिनी कृष्णप्राणसर्व्वस्वदायिनी ॥ कृष्णावतारनिरता कृष्णभक्तफलार्थिनी । याचका याचकानन्दकारिणी याचकोज्ज्वला ॥ हरिभूषणभूषाढ्या नन्दयुक्ता कृपापगा । हैहैतालधरा थैथैशब्दशक्तिप्रकाशिनी ॥ हेहेशब्दस्वरूपा च हीहीवाक्यविशारदा ॥ जगदानन्दकर्त्री च शास्त्रानन्दविशारदा ॥ पण्डिता पण्डितगुणा पण्डितानन्दकारिणी । परिपालनकर्त्री च तथा स्थितिविनोदिनी ॥ तथा संहारशब्दाढ्या विद्वज्जनमनोहरा । विदुषां प्रीतिजननी विद्वत्प्रेमविवर्द्धिनी ॥ नादेयी नादरूपा च नादबिन्दुविधारिणी । शून्यस्थानस्थिता शून्यरूपा पादपवासिनी ॥ कार्त्तिकव्रतकर्त्री च रसनाहारिणी खरा । ज्वलना चातलतली शिलातलनिवासिनी ॥ क्षुद्रकीटाङ्गसंसर्गसङ्गदोषविनाशिनी । कोटिकन्दर्पलावण्या कन्दर्पकोटिसुन्दरी ॥ कन्दर्पकोटिजननी कामबीजप्रदायिनी । कामशास्त्रविनोदा च कामशास्त्रप्रकाशिनी ॥ कामप्रकाशिका कामिन्यणिमाद्यष्टसिद्धिदा । यामिनी यामिनीनाथवदना यामिनीश्वरी ॥ योगेश्वरी हरयोगमुक्तिदात्री हिरण्यदा । कपालमालिनी देवी सीमाधामस्वरूपदा ॥ कृपान्वितगुणा गौण्या गुणातीता फलप्रदा । कुष्माण्डभूतवेतालनाशिनी शारदान्विता ॥ सितासिता च सरला लीलालावण्यमङ्गला । विद्यार्थिविद्या माया च विद्याविद्यास्वरूपिणी ॥ आन्वीक्षिकीशास्त्ररूपा शास्त्रसिद्धान्तकारिणी । नागेन्द्राणी नागमाता क्रीडाकौतुकरूपिणी ॥ हरिभावनशीला च हरिसेवनतत्परा । हरिप्राणा हरप्राणा शिवप्राणा शिवान्विता ॥ नरकार्णवसंहन्त्री नरकार्णवनाशिनी । नरेश्वरी नरातीता नरसेव्या वराङ्गना ॥ यशोदानन्दिनीक्रीडा यशोदाक्रोडवासिनी । यशोदानन्दनप्राणा यशोदानन्दनार्थदा ॥ वत्सला कोषला काला करुणार्णवरूपिणी । स्वगलक्ष्मीर्भूमिलक्ष्मीर्द्रौपदी पाण्डवप्रिया ॥ तथार्ज्जुनसखी भौमी भीमा भैमी भयानका । त्रिजगन्मोहिनी क्षीणा प्राणासक्ततरा तथा ॥ पानार्थिनी पानपात्रा पानपानन्ददायिनी । दुग्धमन्थनकर्म्माढ्या दधिमन्थनतत्परा ॥ दधिभाण्डार्थिनी कृष्णक्रोधिनी नन्दनाङ्गना । घृतलिप्ता तक्रयुक्ता यमुनापारकौतुका ॥ विचित्रकर्म्मका कृष्णहास्यभाषणतत्परा । गोपाङ्गनावेष्टिता च कृष्णसङ्गार्थिनी तथा ॥ राससक्ता रासरतिरासवासक्तवासना । हरिद्रा हरितारूपा हरावर्पितचेतसा ॥ निश्चैतन्या च निश्चेता तथा दारुहरिद्रिका । सुवलस्य स्वसा चैव कृष्णभाषातिवेगिनी ॥ श्रीदामस्य सखी दामदामिनी दामधारिणी । मल्लिकोल्लासिनी केशी हरिदम्बरधारिणी ॥ हरिसान्निध्यदात्री च हरिकौतुकमङ्गला । हरिप्रदा हरिप्राणा यमुनाजलवासिनी ॥ तपःप्रदा जितार्था च चतुरा चातुरीतमी । तमिश्रा तपरूपा च रौद्ररूपा यशोऽर्थिनी ॥ कृष्णकामा कृष्णभक्ता कृष्णानन्दप्रदायिनी । कृष्णार्थवासना कृष्णरागिणी भाविनी तथा ॥ कृष्णार्थरहिता भक्ता भक्ताभक्तसुभक्तिदा । श्रीकृष्णरहिता दीना विरहिणी हरेः प्रिया ॥ मथुरा मधुराराजगेहभावनभाजना । श्रीकृष्णभावनामोदा तस्योन्मादविधायिनी ॥ कृष्णार्थकुशला कृष्णसारचर्म्मधरा शुभा । अलकेश्वरपूज्या च कुबेरेश्वरवल्लभा ॥ धनधान्यविधात्री च जया काया हया हयी । प्रणवा प्रणवेशी च प्रणवार्थस्वरूपिणी ॥ ब्रह्मविष्णुशिवार्द्धांशहारिणी शैवशिंशपा । राक्षसीनाशिनी भूतप्रेतप्राणविनाशिनी ॥ सकलेप्सितदात्री च सती साध्वी अरुन्धती । पतिव्रता पतिप्राणा पतिवाक्यविनोदिनी ॥ अशेषसाधिनी कल्पवासिनी कल्परूपिणी ॥ इत्येतत् कथितं देवि ! राधानामसहस्रकम् । यः पठेत् पाठयेद्वापि तस्य तुष्यति माधवः ॥ किं तस्य यमुनाभिर्व्वा नदीभिः सर्व्वतः प्रिये । कुरुक्षेत्रादितीर्थेन यस्य तुष्टो जनार्द्दनः ॥ स्तोत्रस्यास्य प्रसादेन किं न सिध्यति भूतले ॥ ब्राह्मणो ब्रह्मवर्च्चस्वी क्षत्त्रियो जगतीपतिः । वैश्यो निधिपतिर्भूयात् शूद्रो मुच्येत जन्मतः ॥ ब्रह्महत्या सुरापानमित्यादीन्यतिपापतः । सद्यो मुच्येत देवेशि ! सत्यं सत्यं न संशयः ॥ राधानामसहस्रस्य समानं नास्ति भूतले । स्वर्गे वाप्यथ पाताले गिरौ वा जलतोऽपि वा ॥ नातः परं शुभं स्तोत्रं तीर्थं नातः परं परम् । एकादश्यां शुचिर्भूत्वा यः पठेत् सुसमाहितः ॥ तस्य सर्व्वार्थसिद्धिः स्यात् शृणुयाद्वा सुशोभने । द्वादश्यां पौर्णमास्यां वा तुलसीसन्निधौ शिवे ! ॥ यः पठेत् शृणुयाद्वापि तस्य तत्तत् फलं शृणु । अश्वमेधं राजसूयं बार्हस्पत्यं तथाविधम् ॥ अतिरात्रं वाजपेयं अग्निष्टोमं तथा शुभम् । कृत्वा यत्फलमाप्नोति श्रुत्वा तत्फलमाप्नुयात् ॥ कार्त्तिके चाष्टमीं प्राप्य पठेद्वा शृणुयादपि । सहस्रयुगकल्पान्तं वैकुण्ठवसतिं लभेत् ॥ ततश्च ब्रह्मभवने शिवस्य भवने पुनः । सुराधिनाथभवने पुनर्याति सलोकताम् ॥ गङ्गातीरं समासाद्य यः पठेत् शृणुयादपि । विष्णोः स्वरूपतां याति सत्यं सत्यं सुरेश्वरि ! ॥ मम वक्त्रगिरेर्जाता पार्व्वतीसागराश्रिता । राधानामसहस्राख्या नदी त्रैलोक्यपावनी ॥ पट्यतेहि मयानित्यं भक्त्याशक्त्या यथोचितम् । मम प्राणसमं ह्येतत् तव भक्त्या प्रकाशितम् ॥ नाभक्ताय प्रदातव्यं पाषण्डाय कदाचन । नास्तिकाय विरागाय रागयुक्ताय सुन्दरि ! ॥ तथा देयं महास्तोत्रं हरिभक्ताय शङ्करि ! । वैष्णवेषु यथाशक्तिदात्रे पुण्यार्थशीलिने ॥ राधानामसुधावारि मम वक्त्रं महाखनिः । उद्धृतं हि त्वया यत्नात् पाता सद्वैष्णवाग्रणीः ॥ विशुद्धसत्त्वाय यथार्थवादिने द्विजस्य सेवानिरताय मन्त्रिणे । दात्रे यथाशक्ति सुभक्तिमानसे राधापदध्यानपराय शोभने ॥ हरिपादाब्जमधुपमनोभूताय मानसे । राधापादसुधास्वादशालिने वैष्णवाय च ॥ दद्यात् स्तोत्रं महापुण्यं हरिभक्तिप्रसाधनम् । जन्मान्तरं न तस्यास्ति राधाकृष्णपदार्थिनः ॥ मम प्राणा वैष्णवा हि तेषां रक्षार्थमेव हि । शूलं मया धार्य्यते हि नान्यथा मैत्रकारणम् ॥ हरिभक्तिद्विषामर्थे शूलं संधार्य्यते मया । शृणु देवि यथार्थं मे गदितं त्वयि सुव्रते ! ॥ भक्तासि मे प्रियासि त्वमतः स्नेहात् प्रकाशितम् । कदापि नोच्यते देवि मया नामसहस्रकम् ॥ किं परं त्वां प्रवक्ष्यामि प्राणतुल्यं मम प्रिये । स्तोत्रं मन्त्रं राधिकाया यन्त्रं कवचमेव हि ॥ “ इति नारदपञ्चरात्रे राधिकासहस्रनामसमाप्तोऽध्यायः

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें