“वासुदेव महाबाहो मा भयं कुरु पुत्त्रक ।
मथुरां गच्छ तातेति तव सिद्धिर्भविष्यति ॥
गच्छ गच्छ महाबाहो पद्मिनीसङ्गमाचर ।
पद्मिनी मम देवेश व्रजे राधा भविष्यति ।
अन्याश्च मातृकादेव्यः सदा तस्यानुचारिकाः ॥
वासुदेव उवाच । शृणु मातर्म्महामाये चतुवर्गप्रदायिनि । त्वां विना परमेशानि ! विद्यासिद्धिर्न जायते ॥ पद्मिनीं परमेशानि ! शीघ्रं दर्शय सुन्दरि ! । प्रत्ययं मम देवेशि ! तदा भवति मानसम् ॥ इति श्रुत्वा वचस्तस्य वासुदेवस्य तत्क्षणात् ।आविरासीत्तदा देवी पद्मिनी परसंस्थिता ॥ रक्तविद्युल्लताकारा पद्मगन्धसमन्विता । रूपेण मोहयन्ती सा सखीगणसमन्विता ॥ सहस्रदलपद्मान्तर्म्मध्यस्थानस्थिता सदा । सखीगणयुता देवी जपन्ती परमाक्षरम् ॥ एकाक्षरी महेशानि ! सा एव परमाक्षरा । कालिका या महाविद्या पद्मिन्या इष्टदेवता । वासुदेवो महाबाहुर्दृष्ट्वा विस्मयमागतः ॥ पद्मिन्युवाच । व्रजं गच्छ महाबाहो शीघ्रं हि भगवन् ! प्रभो ! । त्वया सह महाबाहो कुलाचारं करोम्यहम् ॥ वासुदेव उवाच । शृणु पद्मिनि मे वाक्यं कदा ते दर्शनं भवेत् । कृपया वद देवेशि ! जपं किंवा करोम्यहम् ॥ पद्मिन्युवाच ।
तवाग्रे देवदेवेश मम जन्म भविष्यति । गोकुले माथुरे पीठे वृकभानुगृहे ध्रुवम् ॥ दुःखं नास्ति महाबाहो मम संसर्गहेतुना । कुलाचारोपयुक्ता या सामग्री पञ्चलक्षणा ॥ मालायां तव देवेश सदा स्थास्यति नान्यथा । इत्युक्त्वा पद्मिनी सा तु सुन्दर्य्या दूतिका तदा ॥ अन्तर्ध्यानं ततो गत्वा मालायां सहसा क्षणात् । वासुदेवोऽपि तां दृष्ट्वा क्षीराब्धिं प्रययौ ध्रुवम् ॥ त्यक्त्वा काशीपूरं रम्यं महापीठं दुरासदम् । प्रययौ माथुरं पीठं पद्मिनी परमेश्वरी ॥ यत्र कात्यायनी दुर्गा महामायास्वरूपिणी । नारदार्द्यैर्म्मुनिश्रेष्ठैः पूजिता संस्तुता सदा ॥ कात्यायनी महामाया यमुनाजलसंस्थिता । यमुनाया जलं तत्र साक्षात् कालीस्वरूपिणी ॥ बहुपत्रयुतं रम्यं शुक्लपीतं महाप्रभम् । रक्तं कृष्णं तथा चित्रं हरितं सर्व्वमोहनम् । कालिन्द्याख्या महेशानि यत्र कात्यायनी परा ॥ कालिन्दी कालिका माता जगतां हितकाम्यया । साराध्यास्ते महेशानि ! देवर्षिसंस्तुता परा । सहस्रदलपत्रान्तर्म्मध्येच माथुरमण्डलम् ॥ केशबन्धे महेशानि ! यत् पद्मं सततं स्थितम् । पद्ममध्ये महेशानि ! केशपीठं मनोहरम् ॥ केशबन्धं महेशानि ! व्रजं माथुरमण्डलम् । यत्र कात्यायनी माया महामाया जगन्मयी ॥ व्रजं वृन्दावनं देवि ! नानाशक्तिसमन्वितम् । शक्तिस्तु परमेशानि ! कलारूपेण साक्षिणी । शक्तिं विना परं ब्रह्म न भाति शवरूपवत् ॥
“ इति वासुदेवरहस्ये राधातन्त्रे षष्ठः पटलः ॥
देव्युवाच । “ व्रजं गत्वा महादेवाकरोत् किं पद्मिनी तदा । कस्य वा भवने सा तु जाता सा पद्मिनी परा ॥ तत् सर्व्वं परमेशान विस्ताराद्वद शङ्कर । यदि नो कथ्यते देव विमुञ्चामि तदा तनुम् ॥ ईश्वर उवाच । पद्मिनी पद्मगन्धा सा वृकभानुगृहे प्रिये ! ।
आविरासीत्तदा देवी कृष्णस्य प्रथमं प्रिया ।
चैत्रे मासि सिते पक्षे नवम्यां पुष्यसंयुते ॥ कालिन्दीजलकल्लोले नानापद्मगणावृते । अविरासीत्तदा पद्मा मायाडिम्बमुपाश्रिता ॥ डिम्बोभूत्वा तदा पद्मा स्थिता कनकमध्यतः । कोटिचन्द्रप्रतीकाशं डिम्बं मायासमन्वितम् ॥ पुष्ययुक्तनवम्यां वै निश्यर्द्धे पद्ममध्यतः । आविरासीत्तदा पद्मा रङ्गिणी कुसुमप्रभा ॥ तरुणादित्यसङ्काशे पद्मे परमकामिनी । वृकभानुपुरं देवि ! कालिन्दीपारमेव च ।
नाम्ना पद्मपुरं रम्यं चतुर्व्वर्गसमन्वितम् ॥ डिम्बज्योतिर्म्महेशानि ! सहस्रादित्यसन्निभम् । तत्क्षणात् परमेशानि गाढध्वान्तविनाशकृत् ॥ वृकभानुर्म्महात्मा स कालिन्दीतटमास्थितः । महाविद्यां महाकालीं सततं प्रजपेत्सुधीः ॥ आविरासीन्महामाया तदा कात्यायनी परा । शृणु पुत्त्र महाबाहो वृकभानो महीधर । सिद्धोऽसि पुरुषश्रेष्ठ वरं वरय साम्प्रतम् ॥ वृकभानुरुवाच । सिद्धोऽहं सततं देवि ! त्वत्प्रसादात् सुरेश्वरि ! । त्वत्प्रसादान्महामाये यथा मुक्तो भवाम्यहम् ॥ त्वत्प्रसादान्महामाये असाध्यं नास्ति भूतले । आत्मनः सदृशाकारां कन्यामेकां प्रयच्छ मे ॥ तच्छ्रुत्वा परमेशानि ! तदा कात्यायनी परा । मेषगम्भीरया वाचा यदाह वृकभानवे ॥ तच्छृणुष्व महेशानि ! पीयूषसदृशं वचः । भक्त्या त्वदीयपत्न्यास्तु तुष्टाहं त्वयि सुन्दरि ! ॥ एतद्धि वचनं वत्स ! तव पत्न्या सुयुज्यते । इत्युक्त्वा सहसा तत्र महामाया जगन्मयी ॥ प्रददौ परमेशानि ! तस्मै डिम्बं मनोहरम् । वृकभानुर्म्महात्मा स तत्क्षणाद्गृहमाययौ ॥
भार्य्या तस्य विशालाक्षी विशालकटिमोहिनी । रत्नप्रदीपमाभाष्य
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें