ऋग्वेदः सूक्तं १/११४
← | ऋग्वेदः - मण्डल १ सूक्तं १.११४ कुत्स आङ्गिरसः |
दे. रुद्रः। जगती, १०-११ त्रिष्टुप्। |
_____________________________________ मूलऋचाऐं
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥१॥
मृळा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते।
यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥२॥
अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः ।
सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ॥३॥
त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे ।
आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥४॥
दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे ।
हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यंसत् ॥५॥
___________________
इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् ।
रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥६॥
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम्।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥७॥
_____________
मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः।
वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥८॥
उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे ।
भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे ॥९॥
आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु।
मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥१०॥
अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
सायण-भाष्य–
‘इमा रुद्राय' इति एकादशर्चं नवमं सूक्तं कुत्सस्यार्षम्। दशम्येकादश्यौ त्रिष्टुभौ । शिष्टा नव जगत्यः । रुद्रो देवता । तथा चानुक्रान्तम् -' इमा एकादश रौद्रं द्वित्रिष्टुबन्तम् ' इति ॥ शूलगवादिषु रुद्रदेवत्येषु कर्मस्वनेन सूक्तेन दिगुपस्थेया। तथा च सूत्रितं - कद्रुद्रायेमा रुद्राया ते पितरिमा रुद्राय स्थिरधन्वने गिर इति सर्वरुद्रयज्ञेषु दिशामुपस्थानम् ' ( आश्वलायन. गृह्यसूत्र. ४. ९. २१ ) इति ॥
पद पाठ-
इमाः । रुद्राय । तवसे । कपर्दिने । क्षयत्ऽवीराय । प्र । भरामहे । मतीः । यथा । शम् । असत् । द्विऽपदे । चतुःऽपदे । विश्वम् । पुष्टम् । ग्रामे । अस्मिन् । अनातुरम् ॥१।
सायण-भाष्य–
रुद्राय । रोदयति सर्वमन्तकाले इति रुद्रः।( जो सबको अन्तिम समय में रुलाता है वह रूद्र है ।यद्वा =(अथवा).पक्षान्तर]- दो पक्षों में से कोई एक पक्ष। दूसरा पक्ष । रुत्= संसारख्यं अथवा दुःखम् । तत् द्रावयति अपगमयति विनाशयतीति रुद्रः । रूद्र= रुत् संसार अथवा दु:ख को जो विनाश करता है वह रूद्र है।
यद्वा । रुतः शब्दरूपाः उपनिषदः । ताभिर्द्रूयते गम्यते प्रतिपाद्यते इति रुद्रः । रूद्र= रुत्( शब्द रूप उपनिषद उनके द्वारा जो प्रतिपादित किया जाता है वह रूद्र है । रूद्र शब्द की व्युत्पत्ति और भी निम्न प्रकार से सायण ने की है ।परन्तु सभी विकल्प सूचक होने से अनुमानित ही हैं ।
यद्वा । रुत् शब्दात्मिका वाणी तत्प्रतिपाद्या आत्मविद्या वा । तामुपासकेभ्यो राति ददातीति रुद्रः । यद्वा । रुणद्धि आवृणोति इति रुत् अन्धकारादि । तत् दृणाति विदारयतीति रुद्रः । यद्वा । कदाचित् देवासुरसंग्रामे अग्न्यात्मको रुद्रो देवैर्निक्षिप्तं धनमपहृत्य निरगात् । असुरान् जित्वा देवा एनमन्विष्य दृष्ट्वा धनमपाहरन्। तदानीमरुदत् । तस्मात् रुद्र इत्याख्यायते। तथा च तैत्तिरीयकं-- सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ' ( तैत्तिरीय संहिता –१. ५. १. १) इति ।
तस्मै "रुद्राय "मतीः= मननीयाः “इमाः स्तुतीः “प्र “भरामहे =प्रकर्षेण निष्पादयामः। कीदृशाय। “(तवसे= प्रवृद्धाय) "कपर्दिने =जटिलाय "क्षयद्वीराय={ क्षयन्तो विनश्यन्तो वीरा यस्मिन् तादृशाय बहुव्रीहि। यद्वा । क्षयतिरैश्वर्यकर्मा । क्षयन्तः प्राप्तैश्वर्या वीरा मरुद्गणाः पुत्रा यस्य तस्मै । "यथा येन प्रकारेण "शं शमनीयानां रोगाणामुपशमनं "द्विपदे अस्मदीयाय मनुष्याय "चतुष्पदे गवाश्वप्रभृतये च "असत् =भवेत् । तेन प्रकारेण स्तुतीः कुर्मः इत्यर्थः । अतः "अस्मिन् अस्मदीये "ग्रामे वर्तमानं "विश्वं =सर्वं प्राणिजातम् "अनातुरम् । आतुरा =रुग्णाः तैः रहितं सत् "पुष्टं प्रवृद्धं भवतु ।। रुद्राय। {‘रोदेर्णिलुक् च' (उ. सू. २. १७९ ) इति रक् }। तवसे = तवतिर्वृद्ध्यर्थः सौत्रो धातुः । औणादिकोऽसिप्रत्ययः । क्षयद्वीराय । क्षि= क्षये ।। लटः शतृ । 'छन्दस्युभयथा' इति शतुः आर्धधातुकत्वेन अदुपदेशात् लसार्वधातुकानुदात्तत्वाभावात् तस्यैव स्वरः शिष्यते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।
{असत् । अस= भुवि '। लेटि अडागमः ।} ‘ इतश्च लोपः' इति इकारलोपः। द्विपदे । द्वौ पादावस्य । ‘ संख्यासुपूर्वस्य' इति पादशब्दस्य अन्त्यलोपः समासान्तः । चतुर्थ्येकवचने भसंज्ञायां ‘पादः पत्' इति पद्भावः । एकदेशविकृतस्य अनन्यत्वात् (परिभा. ३७) द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ' इति उत्तरपदाद्युदात्तत्वम् । चतुष्पदे । स्वरवर्जं पूर्ववत् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदं च त्रः संख्यायाः' (फि. सू. २८ ) इत्याद्युदात्तम् ॥
रुद्रदेवत्ये पशौ वपापुरोडाशयोः ‘मृळा नो रुद्र' इत्यादिके द्वे अनुवाक्ये । तथा च सूत्रितं-- ‘ मृळा नो रुद्रोत नो मयस्कृधि इति द्वे आ ते पितर्मरुतां सुम्नमेतु' ( आश्व. श्रौ. ३. ८) इति ॥
____________________________
मृळ । नः । रुद्र । उत । नः । मयः । कृधि । क्षयत्ऽवीराय । नमसा । विधेम । ते । यत् । शम् । च । योः । च । मनुः । आऽयेजे । पिता । तत् । अश्याम । तव । रुद्र । प्रऽनीतिषु ॥२।
सायण-भाष्य–
हे "रुद्र “नः= अस्मभ्यमस्मदर्थं "मृळ त्वं सुखयिता भव। “उत अपि च तदनन्तरं "नः =अस्माकं “मयः =सुखं "कृधि =कुरु । वयं च “क्षयद्वीराय क्षपितसर्ववीरं प्राप्तैश्वर्यैर्मरुद्भिर्युक्तं वा । “ते =त्वां “नमसा =हविर्लक्षणेनान्नेन नमस्कारेण वा "विधेम =परिचरेम । विधतिः =परिचरणकर्मा । अपि च “पिता= उत्पादकः "मनुः स्वकीयाभ्यः= प्रजाभ्यः “शं= रोगाणां शमनं "योश्च भयानां यावनं च "यत् एतत् द्वयं "आयेजे देवेभ्यः सकाशात् प्राप्य दत्तवान् हे “रुद्र “तव “प्रणीतिषु प्रकृष्टनयनेषु सत्सु “तत् वयम् "अश्याम =व्याप्नुयाम ॥ मृळ । मृड =सुखने '। तौदादिकः । द्वयचोऽतस्तिङः' इति संहितायां दीर्घः । कृधि । करोतेर्लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ श्रुशृणुपॄकृवृभ्यछन्दसि ' इति हेर्धि । अतः कृकमि इति मयसो विसर्जनीयस्य सत्वम् । क्षयद्वीराय । ‘ क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वात् चतुर्थी। विधेम । 'विध =विधाने '। तौदादिकः । आयेजे । 'यज= देवपूजासंगतिकरणदानेषु'। लिटि संज्ञापूर्वकस्य विधेरनित्यत्वात् संप्रसारणाभावे एत्वाभ्यासलोपौ । अश्याम। ‘ अशू =व्याप्तौ'। व्यत्ययेन परस्मैपदम्।' बहुलं छन्दसि' इति विकरणस्य लुक् ।।
_________
अश्याम । ते । सुऽमतिम् । देवऽयज्यया । क्षयत्ऽवीरस्य । तव । रुद्र । मीढ्वः ।
सुम्नऽयन् । इत् । विशः । अस्माकम् । आ । चर । अरिष्टऽवीराः । जुहवाम । ते । हविः ॥३।
सायण-भाष्य–
हे "मीढ्वः= सेक्तः कामाभिवर्षक नित्यतरुण वा "रुद्र "क्षयद्वीरस्य= क्षपितप्रतिपक्षस्य मरुद्भिर्युक्तस्य वा "तव "सुमतिं= शोभनां कल्याणीमनुग्रहात्मिकां बुद्धिं "ते =त्वत्संबन्धिनो वयं “देवयज्यया= देवयागेन त्वद्देवत्येन यज्ञेन “अश्याम =प्राप्नवाम। त्वं च "अस्माकं
( "विशः =प्रजाः ). अभिलक्ष्य “आ “चर =आगच्छ। किं कुर्वन् । "सुम्नायन्नित् । सुम्नमिति =सुखनाम । तासां =प्रजानां सुखमिच्छन्नेव सुखप्रद एव भवेत्यर्थः । ततो वयम् “अरिष्टवीराः । वीर्याज्जायन्ते इति वीरा =प्रजाः । अरिष्टा =अहिंसिता वीरा येषां तथाभूताः सन्तः “ते तुभ्यं "हविः चरुपुरोडाशादिकं "जुहवाम चोदिते आधारे प्रक्षिपाम ॥ (सुमतिम् = मतिर्मननम् । शोभनं मननं यस्यां बुद्धौ सा सुमतिः )। ‘ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । देवयज्यया । ‘ छन्दसि निष्टर्क्य' इत्यादौ यजेः यप्रत्ययो निपात्यते स्त्रीलिङ्गता च । मीढ्वः =मिह सेचने'। ‘दाश्वान्साह्वान्मीढ्वान्° २' इति क्वसुप्रत्ययान्तो निपातितः । संबुद्धौ ‘ मतुवसो रुः' इति रुत्वम् । सुम्नायन् । सुम्नं परेषामिच्छति । छन्दसि परेच्छायामपि ' इति क्यच् । न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घयोर्निषेधः । ‘ देवसुम्नयोर्यजुषि काठके ' ( पा. सू. ७. ४. ३८) इति विधीयमानम् आत्वं व्यत्ययेन अत्रापि द्रष्टव्यम् ॥
___________________
त्वेषम् । वयम् । रुद्रम् । यज्ञऽसाधम् । वङ्कुम् । कविम् । अवसे । नि । ह्वयामहे । आरे । अस्मत् । दैव्यम् । हेळः । अस्यतु । सुऽमतिम् । इत् । वयम् । अस्य । आ । वृणीमहे ॥४।
सायण-भाष्य–
“अवसे= रक्षणाय "रुद्रं =महादेवं "नि “ह्वयामहे =नितरामाह्वयामः । कीदृशम् । “त्वेषं दीप्तं “यज्ञसाधं =यज्ञस्य साधयितारम् । (एष हि यज्ञं स्विष्टं करोति) । तथा च तैत्तिरीयके - देवा वै यज्ञाद्रुद्रमन्तरायन्' इत्युपक्रम्याम्नातं -( स्विष्टं वै न इदं भविष्यति यदिमं राधयिष्याम इति )तत्स्विष्टकृतः स्विष्टकृत्त्वम् ' ( तै. सं. २. ६. ८. ३) इति । "वङ्कुं =कुटिलगन्तारं "कविं =क्रान्तदर्शिनम् । स च रुद्रो "दैव्यं देवस्य =द्योतमानस्य संबन्धिनं "हेळः= क्रोधं "अस्मत् "आरे= अस्मत्तो दूरदेशे "अस्यतु= प्रेरयतु । "अस्य महादेवस्य "सुमतिमित् शोभनामनुग्रहरूपां बुद्धिमेव “वयम् "आ "वृणीमहे =आभिमुख्येन संभजामहे ॥ यज्ञसाधम् । यज्ञं साधयतीति यज्ञसात् । ‘ षिधू संराद्धौ ।' सिध्यतेरपारलौकिके' इति आत्वम् । यद्वा । ‘ राध साध संसिद्धौ । अस्मात् ण्यन्तात् क्विप् । वङ्कुम् । ‘ {वकि= कौटिल्ये '}।औणादिक उप्रत्ययः । नि ह्वयामहे । ‘ निसमुपविभ्यो ह्वः' इत्यात्मनेपदम् । दैव्यम् । ‘ देवाद्यञञौ '( पा. सू. ४. १. ८५. ३ ) इति प्राग्दीव्यतीयो यञ् । अस्यतु । ' असु =क्षेपणे '। दैवादिकः । वृणीमहे । '{वृङ् =संभक्तौ '}। क्रैयादिकः ॥
____________
दिवः । वराहम् । अरुषम् । कपर्दिनम् । त्वेषम् । रूपम् । नमसा । नि । ह्वयामहे । हस्ते । बिभ्रत् । भेषजा । वार्याणि । शर्म । वर्म । छर्दिः । अस्मभ्यम् । यंसत् ॥५।
सायण-भाष्य–
{“वराहं वराहारम्= उत्कृष्टभोजनम् }।
वराह=शूकर का रूढि अर्थ है । रूद्र को तान्त्रिक वराह का मांस अर्पित करते थे इसी लिए वैष्णव ग्रन्थों में वराह का मांस विष्णु के लिए निषिद्ध कर दिया गया था यद्यपि विष्णु सात्विक देवता थे अत: मांस मदिरा आदि का इनके लिए कोई विधान नहीं था।
वराह पुराण में प्रायश्चित विधान के अन्तर्गत वराह का मांस खाने का निषेध किया गया है यदि कोई मनुष्य सूकर का मांस खाता है तो वह अनेक निम्न योनियों में जन्म लेता है ।
( वराह पुराण अध्याय 135.)
भुक्त्वा वराहमांसं तु यश्च मामिह सर्पति ।।पातनं तस्य वक्ष्यामि यथा भवति सुन्दरि ।। ४१ ।।
वराहो दश वर्षाणि कृत्वानुचरते वने।
व्याधो भूत्वा महाभागे समाः पञ्च च सप्त च। ४२।
ततश्च मूषको भूत्वा वर्षाणि च चतुर्दश ।।
ऊनविंशतिवर्षाणि यातुधानश्च जायते ।। ४३ ।
सल्लकी चाष्टवर्षाणि जायते भवने बहु ।
व्याघ्रस्त्रिंशच्च वर्षाणि जायते पिशिताशनः।४४ ।
जायते विपुले सिद्धे कुले भागवते तथा ।। ४५ ।
हृषीकेशवचः श्रुत्वा सर्वं सम्पूर्णलक्षणम् ।।
शिरसा चाञ्जलिं कृत्वा वाक्यं चेदमुवाच ह।४६ ।
एतन्मे परमं गुह्यं तव भक्तसुखावहम् ।।
वराहमांसभक्षस्तु येन मुच्येत किल्बिषात् । ४७ ।
तरन्ति मानुषा येन तिर्यक्संसारसागरात् ।।
गोमयेन दिनं पञ्च कणाहारेण सप्त वै ।४८।
पानीयं तु ततो भुक्ता तिष्ठेत्सप्तदिनं ततः ।।
अक्षारलवणं सप्त सक्तुभिश्च तथा त्रयः ।४९।
तिलभक्षो दिनान्सप्त पाषाणस्य च भक्षकः ।
पयो भुक्त्वा दिनं सप्त कारयेद्बुद्धिमान्मनः।135.५०।।
क्षान्तं दान्तं तथा कृत्वा अहङ्कारविवर्ज्जितः।।
दिनान्येकोनपञ्चाशच्चरेत्कृतविनिश्चयः।।५१।।
विमुक्तः सर्वपापेभ्यः ससंज्ञो विगतज्वरः ।
कृत्वा मम च कर्माणि मम लोकं स गच्छति ।५२।।
जालपादं भक्षयित्वा यस्तु मामुपसर्पति ।।
जालपादस्ततो भूत्वा वर्षाणि दश पञ्च च ।५३ ।
कुम्भीरो दश वर्षाणि पञ्च वर्षाणि सूकरः ।।
तावद्भ्रमति संसारे मम चैवापराधतः ।। ५४ ।
कृत्वा तु दुष्करं कर्म जायते विपुले कुले ।।
शुद्धो भागवतश्रेष्ठो ह्यपराधविवर्जितः ।। ५५।
सर्वकर्माण्यतिक्रम्य मम लोकं स गच्छति ।।
प्रायश्चितं प्रवक्ष्यामि जालपादस्य भक्षणे ।। ५६ ।
तरन्ति मनुजा येन घोरसंसारसागरात् ।।
यावकान्नं दिनत्रय्यां वायुभक्षो दिनत्रयम् ।। ५७ ।
फलभक्षो दिनत्रय्यां तिलभक्षो दिनत्रयम् ।।
अक्षारलवणान्नाशी पुनस्तत्र दिनत्रयम् ।। ५८ ।
दशपञ्च दिनान्येवं प्रायश्चित्तं समाचरेत् ।।
जालपादापराधस्य एवं कुर्वीत शोधनम्।।
विनीतात्मा शुचिर्भूत्वा य इच्छेत्सुशुभां गतिम् ।५९।।
इति श्रीवराहपुराणे जालपादभक्षणापराधप्रायश्चित्तं नाम पञ्चत्रिंशदधिकशततमोऽध्यायः।। १३५।।
_________________________________
यद्वा । वराहवत् दृढाङ्गम् । "अरुषम् =आरोचमानं कपर्दिनं =जटाभिर्युक्तं “त्वेष तेजसा =दीप्यमानं "रूपं निरूपणीयं वेदान्तैरधिगम्यम् एवंभूतं रुद्रं } "नमसा =हविर्लक्षणेनान्नेन नमस्कारेण वा "दिवः द्युलोकसकाशात् "नि 'ह्वयामहे= नितरामाह्वयामः । सः आहूतो रुद्र: "हस्ते= स्वकीये बाहौ “वार्याणि= सर्वैः वरणीयानि “भेषजा= भैषज्यानि रोगशमनहेतुभूतानि “बिभ्रत्= धारयन् "अस्मभ्यं =स्तोतृभ्यः "{शर्म= आरोग्यलक्षणं सुखं} "{वर्म =आयुधानां निवारकं कवचं }“छर्दिः । गृहनामैतत् । गृहं च "यंसत् =प्रयच्छतु ॥ {बिभ्रत् =‘डुभृञ् धारणपोषणयोः' }। जौहोत्यादिकः । लटः शतृ । ‘ भृञामित्' इति अभ्यासस्य इत्वम् । भेषजा =। ‘भिषज् चिकित्सायाम् ' । कण्ड्वादिः । पचाद्यच् । अतोलोपयलोपौ । ‘ °सुमङ्गलभेषजाच्च ' ( पा. सू. ४. १. ३० ) इति निपातनात् रूपसिद्धिः । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । वार्याणि =। ' वृङ् संभक्तौ '। ‘ ऋहलोर्ण्यत् । {ईड=वन्द} ' इत्याद्युदात्तत्वम् । छर्दिः । ‘ उछृदिर् =दीप्तिदेवनयोः '। छृद्यते= दीप्यते सुवर्णादिभिर्धनैः प्रकाश्यते इति छर्दिर्गृहम् । ‘ अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः' ( उ. सू. २. २६५ ) । यंसत् ।' यम =उपरमे'। लेटि अडागमः । ‘सिब्बहुलं लेटि' इति सिप् । ' इतश्च लोपः०' इति इकारलोपः॥ ॥ ५ ॥
__________________________
इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् ।
रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥६॥
इदम् । पित्रे । मरुताम् । उच्यते । वचः । स्वादोः । स्वादीयः । रुद्राय । वर्धनम् ।
रास्व । च । नः । अमृत । मर्तऽभोजनम् । त्मने । तोकाय । तनयाय । मृळ ॥६।
सायण-भाष्य–
“इदं स्तुतिलक्षणं “वचः [“मरुताम् =एकोनपञ्चाशसंख्याकानां देवविशेषाणां] “पित्रे =जनकाय “रुद्राय =ईश्वराय “उच्यते =उच्चार्यते । कीदृशम् । “स्वादोः =“स्वादीयः रसवतो =मधुघृतादेरपि स्वादुतरम् । अतिशयेन हर्षजनकमित्यर्थः । “वर्धनं =स्तुत्यस्य प्रवर्धकम् । स्तोत्रेण हि देवता हृष्टा सती प्रवर्धते । रुद्रस्य च मरुतां पितृत्वम् एवम् आख्यायते । पुरा कदाचिदिन्द्रः असुराञ्जिगाय । तदानीं दितिः असुरमाता इन्द्रहननसमर्थं पुत्रं कामयमाना तपसा भर्तुः सकाशाद्गर्भं लेभे । इमं वृत्तान्तमवगच्छन्निन्द्रो वज्रहस्तः सन् सूक्ष्मरूपो भूत्वा तस्या उदरं प्रविश्य तं गर्भं सप्तधा बिभेद । पुनरप्येकैकं सप्तखण्डमकरोत् । ते सर्वे गर्भैकदेशा योनेर्निर्गत्य अरुदन् । एतस्मिन्नवसरे लीलार्थं गच्छन्तौ पार्वतीपरमेश्वरौ इमान् ददृशतुः । महेशं प्रति पार्वती एवमवोचत् । इमे मांसखण्डा यथा प्रत्येकं पुत्राः संपद्यन्तामेवं त्वया कार्यं मयि चेत्प्रीतिरस्तीति । स च महेश्वर: तान् समानरूपान् समानवयसः समानालंकारान् पुत्रान् कृत्वा गौर्यै प्रददौ तवेमे पुत्राः सन्तु इति । अतः सर्वेषु मारुतेषु सूक्तेषु मरुतो रुद्रपुत्रा इति स्तूयन्ते । रौद्रेषु च मरुतां पिता रुद्र इति । अपि च हे “अमृत =मरणरहित रुद्र
“{मर्तभोजनं मर्तानां मनुष्याणां मृतकाणां वा भोगपर्याप्तमन्नं }“नः अस्मभ्यं “रास्व =प्रयच्छ (दीजिए)।
विशेष-
मरघट में अघोरी द्वारा मुर्दा भक्षण की कुत्सित परम्परा के बीज यहीं से वाम मार्गयों की धाराओं ने प्रवाहित किये हैं ।
___________________________
तथा “त्मने =आत्मने। द्वितीयार्थे चतुर्थी । मां “तोकाय {तोकं= पुत्रं} “तनयाय तनयं तत्पुत्रं च “मृळ =सुखय ॥ पित्रे । उदात्तयणः' इति विभक्तेरुदात्तत्वम् । रास्व । ‘ रा =दाने' । {व्यत्ययेनात्मनेपदम् ।= त्मने} । मन्त्रेष्वाड्यादेरात्मनः' इत्यत्र ‘आङोऽन्यत्रापि छन्दसि दृश्यते ' ( का. ६. ४. १४१. १ ) इति वचनादात्मनः आकारलोपः ॥
_______________
मा । नः । महान्तम् । उत । मा । नः । अर्भकम् । मा । नः । उक्षन्तम् । उत । मा । नः । उक्षितम् ।मा । नः । वधीः । पितरम् । मा । उत । मातरम् । मा । नः । प्रियाः । तन्वः । रुद्र । रिरिषः ॥७
सायण-भाष्य–
हे “रुद्र “नः =अस्माकं मध्ये “महान्तं =वृद्धं “मा “वधीः =मा हिंसीः} । “उत अपि च “नः =अस्माकम् “अर्भकं =बालं “मा हिंसीः । तथा “नः =अस्माकं मध्ये “उक्षन्तं= सेक्तारं वृषभं वा मध्यवयस्कं युवानं “मा वधीः। “उत अपि च “नः= अस्माकम् “उक्षितं= गर्भरूपेण स्त्रीषु निषिक्तमपत्यं मा वधीः । तथा “नः अस्माकं “पितरं= जनकं “मा वधीः। “उत अपि च “मातरं =जननीं “मा वधीः । तथा “नः अस्माकं “प्रियाः= स्नेहविषयाः “तन्वः =शरीराणि तनूषु भवाः प्रजा वा हे रुद्र {“मा “रिरिषः= मा हिंसीः }॥ वधीः । हन्तेर्माङि • लुङि च ' इति वधादेशः । स चादन्तः । सिच इट् । अतो लोपस्य स्थानिवद्भावात् वृद्ध्यभावः ।{ रिरिषः । ‘ रिष =हिंसायाम्' ण्यन्तात् लुङि चङि णिलोपोपधाह्रस्वत्वादीनि । छान्दसः पदकालीनोऽभ्यासह्रस्वः ॥
____________________
मा । नः । तोके । तनये । मा । नः । आयौ । मा । नः । गोषु । मा । नः । अश्वेषु । रिरिषः ।
वीरान् । मा । नः । रुद्र । भामितः । वधीः । हविष्मन्तः । सदम् । इत् । त्वा । हवामहे ॥८
सायण-भाष्य–
हे "रुद्र “नः =अस्माकं तोकादिविषये “मा “रिरिषः =मा हिंसीः । {तोकशब्दः पुत्रवाची} । तनयस्तत्पुत्रः । आयुः इति अन्तोदात्त: मनुष्यनाम । पुत्रपौत्रव्यतिरिक्तो योऽस्मदीयः मनुष्यस्तस्मिन् “गोषु पश्वादिषु “अश्वेषु च मा रिरिषः= हिंसां मा कृथाः। तथा हे रुद्र “वीरान् विक्रान्तान् शौर्योपेतान् अस्मदीयान् “भामितः क्रुद्धः सन् “मा “वधीः मा हिंसीः । वयं च “हविष्मन्तः हविभिर्युक्ताः सन्तः “सदमित् सर्वदैव “त्वां “हवामहे आह्वयामहे ।। आयौ । ‘ इण् गतौ । ‘ छन्दसीणः' इति उण्प्रत्ययः । भामितः । ‘ भाम =क्रोधे । “क्तोऽधिकरणे च० " इति कर्तरि क्तः । हवामहे । ह्वेञो लटि ‘ बहुलं छन्दसि ' इति संप्रसारणम् ।।
देवसुवां हविःषु रुद्रस्य पशुपतेर्यागे • उप ते स्तोमान्' इत्यादिके याज्यानुवाक्ये । सूत्रितं च - उप ते स्तोमान्पशुपा इवाकरमिति द्वे' ( आश्व. श्रौ. ४. ११ ) इति ॥
_______________
उप । ते । स्तोमान् । पशुपाःऽइव । आ । अकरम् । रास्व । पितः । मरुताम् । सुम्नम् । अस्मे इति ।भद्रा । हि । ते । सुऽमतिः । मृळयत्ऽतमा । अथ । वयम् । अवः । इत् । ते । वृणीमहे ॥९।
सायण-भाष्य–
हे रुद्र “स्तोमान्= स्तुतिरूपान्मन्त्रान् “ते= तुभ्यम् ““उप “आ “अकरम् । =उपाकरोमि समर्पयामि । तत्र दृष्टान्तः । “पशुपाइव । यथा पशूनां पालयिता गोपः प्रातःकाले स्वस्मै समर्पितान् पशून् सायंकाले स्वामिभ्यः प्रत्यर्पयति एवं त्वत्सकाशाल्लब्धान् स्तुतिरूपान्मन्त्रान् स्तुतिसाधनतया तुभ्यं प्रत्यर्पयामीत्यर्थः । हे “मरुतां “पितः मरुत्संज्ञानां देवानाम् उत्पादक रुद्र नोऽस्मभ्यं “सुम्नं =सुखं “रास्व =देहि । अपि च “ते त्वदीया “सुमतिः कल्याणी बुद्धिः मृळयत्तमा अतिशयेन सुखयितृतमा । अत एव “भद्रा भजनीया “हि । यस्मादेवं तस्मात् “अथ अनन्तरं “वयं “ते त्वदीयम् “अवः रक्षणं “वृणीमहे संभजामहे ।। अकरम् । छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङ् । ‘ कृमृदृरुहिभ्य:०' इति च्लेरङादेशः । ‘ ऋदृशोऽङि गुणः' । पितर्मरुताम् । परमपि च्छन्दसि ' इति परस्याः षष्ठ्याः पूर्वामन्त्रितानुप्रवेशे सति ‘ आमन्त्रितस्य च ' इति पदद्वयमप्यनुदात्तम् । अस्मे । सुपां सुलुक्° ? इति चतुर्थीबहुवचनस्य शेआदेशः । मृळयत्तमा । मृड= सुखने '। अस्मात् ण्यन्तात् लटः शतृ । तस्य ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् लसार्वधातुकानुदात्तत्वाभावे प्रत्ययस्वरः शिष्यते॥
______________
आरे । ते । गोऽघ्नम् । उत । पुरुषऽघ्नम् । क्षयत्ऽवीर । सुम्नम् । अस्मे इति । ते । अस्तु ।
मृळ । च । नः । अधि । च । ब्रूहि । देव । अध । च । नः । शर्म । यच्छ । द्विऽबर्हाः ॥१०।
सायण-भाष्य–
हे “क्षयद्वीर क्षपितसर्वशत्रुजन रुद्र “ते= त्वदीयं {गोघ्नं =यद्गोहननं यद्वा गोहननसाधनमायुधम् } “उत अपि च {“पुरुषघ्नं =पुरुषहननं तत्साधनमायुधं वा तदुभयम्} "आरे =दूरे अस्मत्तो विप्रकृष्टदेशे भवतु । “अस्मे= अस्मासु “ते= त्वदीयं “सुम्नं= सुखम् “अस्तु =भवतु । अपि च “नः= अस्माकं “मृळ सुखसिद्ध्यर्थं प्रसन्नो भव । हे “देव द्योतमान रुद्र “नः अस्मान् “अधि “ब्रूहि “च । =अधिवचनं पक्षपातेन वचनं ‘ ब्राह्मणायाधि ब्रूयात् ' ( तै. सं. २. ५. ११. ९) इति यथा । “अध “च अथ अनन्तरं च “द्विबर्हाः द्वयोः स्थानयोः पृथिव्यामन्तरिक्षे च परिवृढः । यद्वा । द्वयोर्दक्षिणोत्तरमार्गयोः ज्ञानकर्मणोर्वा परिवृढ़: स्वामी । स त्वं “नः अस्मभ्यं “शर्म =सुखं “यच्छ देहि ।। {गोघ्नम्।= 'हन हिंसागत्योः}' । अस्मात् ‘ घञर्थे कविधानम् ' इति भावे करणे वा कप्रत्ययः । ‘ गमहन° ' इत्युपधालोपः । हो हन्तेः । इति कुत्वम् । द्विबर्हाः । ‘ बृह बृहि वृद्धौ' । द्वयोः स्थानयोः बर्हते प्रवर्धते इति द्विबर्हाः । असुन्। कृदुत्तरपदप्रकृतिस्वरत्वम् । ।
_______________________________
अवोचाम । नमः । अस्मै । अवस्यवः । शृणोतु । नः । हवम् । रुद्रः । मरुत्वान् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥११।
सायण-भाष्य–
{“अवस्यवः= अवः अन्नं रक्षणं वा }इच्छन्तो वयम् “अवोचाम एतत्सूक्तरूपं स्तोत्रमवादिष्म । “अस्मै रुद्राय “नमः नमस्कारोऽस्तु । “मरुत्वान् मरुद्भिः स्वकीयैः पुत्रैर्युक्तः “रुद्रः च “नः अस्माकं “हवम् आह्वानं “शृणोतु स्वीकरोतु । यदस्माभिरुक्तं “नः अस्मदीयं तत् सर्वं मित्रादयः षड्देवताः “ममहन्तां पूजयन्तु । उतशब्दोऽप्यर्थे ॥ अवोचाम । ‘ब्रूञ् व्यक्तायां वाचि । लुङि • ब्रुवो वचिः । ‘ अस्यतिवक्ति' इत्यादिना च्लेरङादेशः । ‘ वच उम्' इति उमागमः ।{ अवस्यवः= । अव रक्षणे }। भावे असुन्। ‘सुप आत्मनः क्यच्'। 'क्याच्छन्दसि' इति उप्रत्ययः। हवम् । भावेऽनुपसर्गस्य ' इति अप् संप्रसारणं च । मरुत्वान् । ‘झयः' इति मतुपो वत्वम् । ‘ तसौ मत्वर्थे ' इति भत्वेन पदत्वाभावाज्जश्त्वाभावः ॥ ॥ ६ ॥
___________________
प्रस्तुत करण:- यादव योगेश कुमार "रोहि". सम्पर्क सूत्र:-077160219
ग्राम-आज़ादपुर पत्रालय- पहाड़ीपुर जनपद (अलीगढ़)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें