शनिवार, 4 सितंबर 2021

ऋग्वेदः सूक्तं ३.५५

ऋग्वेदः सूक्तं ३.५५

 →
दे. विश्वे देवाः। त्रिष्टुप्


उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे              अक्षरं पदे गो:।
व्रता देवानामुप नु प्रभूषन्महद्देवानाम्' असुरत्वमेकम् ॥१॥

(पद-पाठ)

उषसः। पूर्वाः । अध । यत् । विऽऊषुः । महत् । वि । जज्ञे । अक्षरम् । पदे । (गोः)

व्रता । देवानाम् । उप । नु । प्रऽभूषन् । महत् । देवानाम् । (असुरऽत्वम् )। एकम् ॥१।

{सायण-भास्य}

“पूर्वाः उदयकालात् प्राचीनाः “उषसः “यत् यदा “व्यूषुः व्युच्छन्ति "अध तदानीम् “अक्षरम् । न क्षरतीत्यक्षरम् । अविनाश्यादित्याख्यं “महत् प्रभूतं ज्योतिः “(गोः -उदकस्य) “पदे स्थाने समुद्रे नभसि वा “वि “(जज्ञे -उत्पद्यते) । अथोदिते सूर्ये “प्रभूषन् अग्निहोत्रादिकर्मसु प्रभवितुमिच्छन् यजमानः “व्रता कर्माणि "देवानां “नु क्षिप्रम् “उप समीपं नेष्यति । योग्यक्रियाध्याहारः । (तदिदं “देवानाम् “एकं मुख्यम् “असुरत्वम्।) (अस्यति क्षिपति सर्वानित्यसुरः प्रबलः )।

______

तस्य भावोऽसुरत्वं प्राबल्यम् । महदैश्वर्यम् ॥ व्यूषुः । 'उष प्लुष दाहे' इत्यस्य विपूर्वस्य लिट्युसि रूपम् । 'सह' इति योगविभागात् समासः । यद्वृत्तयोगादनिघातः । प्रभूषन् । भवतेः सनि द्विर्वचनस्य छन्दसि विकल्पितत्वात् अत्र द्विर्वचनाभावः । तदन्ताच्छतरि रूपम् । प्रादिसमासः । शतुर्लसार्वधातुकस्वरे धातुस्वरः ॥

__________    


मो षू णो अत्र जुहुरन्त देवा मा पूर्वे                अग्ने पितरः पदज्ञाः।
पुराण्योः सद्मनोः केतुरन्तर्महद्देवानाम्' असुरत्वमेकम् ॥२॥

पदपाठ-

मो इति । सु । नः । अत्र । जुहुरन्त । (देवाः । मा) । पूर्वे । अग्ने । पितरः । पदऽज्ञाः ।

(पुराण्योः) । सद्मनोः । केतुः । अन्तः । महत् । देवानाम् । (असुरऽत्वम्) । एकम् ॥२

{सायण-भास्य}

हे “अग्ने “अत्र अस्मिन् काले “देवाः( “नः= अस्मान् )"सु =सुष्ठु “मो “जुहुरन्त मा हिंस्युः । तथा “पदज्ञाः कर्माण्यनुष्ठाय देवपदमनुभवन्तः “पूर्वे पुरातनाः “पितरः “मा हिंसिषुः । यस्मात् “केतुः यज्ञानां प्रज्ञापकः सूर्यः “(पुराण्योः =पुरातनयोः) “सद्मनोः । सीदन्त्यनयोर्देवमनुष्या इति सद्मनी रोदसी । तयोः (“अन्तः= मध्ये उदेति) । तस्मादत्र मा हिंसन्त्वित्यर्थः । “महद्देवानाम् इत्यादि पूर्ववत् ॥ जुहुरन्त । ‘हृ प्रसह्यकरणे' । लुङि जुहोत्यादित्वात् श्लुः । व्यत्ययेनात्मनेपदम् । 'बहुलं छन्दसि ' इत्युत्वम् । संज्ञापूर्वकस्य विधेरनित्यत्वाददादेशाभावेऽन्तादेशः ।।

_________


वि मे पुरुत्रा पतयन्ति कामाः शम्यच्छा दीद्ये पूर्व्याणि ।
समिद्धे अग्नावृतमिद्वदेम महद्देवानााम् असुरत्वमेकम् ॥३॥

पद पाठ-

वि । मे । पुरुऽत्रा । पतयन्ति । कामाः । शमि । अच्छ । दीद्ये । पूर्व्याणि ।

(सम्ऽइद्धे )। (अग्नौ । ऋतम् )। इत् । वदेम । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥३।

{सायण-भास्य}

हे अग्ने “मे= मम “पुरुत्रा= बहवः “कामाः= अभिलाषाः “वि “पतयन्ति= विविधं गच्छन्ति । “शमि =अग्निष्टोमादिलक्षणं कर्म “अच्छ =अभिलक्ष्याहं “पूर्व्याणि =पुरातनानि स्तोत्राणि तदर्थं “दीद्ये =दीपयामि। पश्चात् यज्ञार्थम् “अग्नौ “समिद्धे दीप्यमाने सति “ऋतमित् सत्यमेव “वदेम । अनृतवचने हि यज्ञे वैगुण्यं स्यादिति ॥ पुरुत्रा । देवमनुष्यपुरुष°' इत्यादिना त्राप्रत्ययः।पतयन्ति । पत्लृ गतौ '। स्वार्थिको णिच् ॥


समानो राजा विभृतः पुरुत्रा शये                  शयासु प्रयुतो वनानु ।
अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम् ॥४॥

पद पाठ-

समानः । राजा । विऽभृतः । पुरुऽत्रा । शये । शयासु । प्रऽयुतः । वना । अनु ।

अन्या । वत्सम् । भरति । क्षेति । माता । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥४।

{सायण-भास्य}

“समानः= साधारणः सर्वेषाम् । यद्वा एक एव । राजा दीप्यमानोऽग्निः “पुरुत्रा =बहुषु देशेषु “विभृतः अग्निहोत्रार्थं विहृतो भवति । यद्वा । राजा अभिषुतः सोमः सर्वेषु देशेषु यज्ञार्थं विहृतो भवति । स चाग्निः सोमो वा “शयासु वेदिषु । शेरते हविरादयः पदार्था अत्रेति शया वेद्यः । तासु “शये शेते निवसति । “वनानु= अनुवनं वनेश्वरणिरूपेषु काष्ठेषु “प्रयुतः विभक्तोऽग्निर्वर्तते । सोमश्चेत् वनेषु चमसेषु विभक्तो वर्तते । तस्य द्वे मातरौ द्यावापृथिव्यौ। तयोः “अन्या द्यौः अस्याः भूमेः जायमानतया “वत्सं वत्सभूतमग्निं सोमं वा “भरति वृष्ट्यादिरूपेण भरति =पोषयति । "माता वसुधा “क्षेति= केवलं निवासयति ॥ विभृतः । ‘ हृञ् हरणे ' । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । पुरुत्रा। अधिकरणे त्राप्रत्ययः । शये ।= ‘शीङ् स्वप्ने । लोपस्तः' इति तकारलोपः । ‘शीङः सार्वधातुके गुणः । शयासु । ‘शीङ् स्वप्ने । “एरच् ' इत्यधिकरणेऽच् । भरति । भृञ् भरणे । भूवादिः । ‘ एकान्याभ्यां समर्थाभ्याम्' इति पूर्वस्य न निघातः । क्षेति । क्षि =निवासगत्योः' इत्यस्य लटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ।।

__________


आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः ।
अन्तर्वतीः सुवते अप्रवीता महद्देवानाम्' असुरत्वमेकम् ॥५॥

पदपाठ-

आऽक्षित् । पूर्वासु । अपराः । अनूरुत् । सद्यः । जातासु । तरुणीषु । अन्तरिति ।

अन्तःऽवतीः । सुवते । अप्रऽवीताः । महत् । (देवानाम् । असुरऽत्वम् । एकम् )॥५।

{सायण-भास्य}

“पूर्वासु जीर्णास्वोषधीषु “आक्षित् आवर्तमानः तथा “अपराः नव्या ओषधीः "अनूरुत्= अनुरुन्धन् उत्पत्त्यानुगुण्येनानुतिष्ठन्नग्निः सूर्यो वा “सद्यो “जातासु तदानीमुत्पन्नासु “तरुणीषु पल्लवितास्वोपधीषु “अन्तः वर्तते । ता ओषधयः “अप्रवीताः केनापि पुरुषेणानिषिक्तरेतस्काः अनभ्यक्ता वा “अन्तर्वतीः अग्निना गर्भवत्यो भूत्वा “सुवते फलं पुष्पं चोत्पादयन्ति । तदिदं देवानामैश्वर्यम् ॥ आक्षित् । ‘क्षि =निवासगत्योः' । क्विप् । अनूरुत् । ‘ अनो रुध कामे ' । अस्मात् क्विप् । अन्येषामपि दृश्यते ' इति दीर्घः। कृत्स्वरः। तरुणीषु ।' नञ्स्नञीकक्ख्युंस्तरणतलुनानामुपसंख्यानम् ' ( पा. म. ४.१:१५.६ ) इति डीप् । अन्तर्वतीः। ‘ झयः' इति मतुपो वत्वम् । सुवते । ‘ षूङ् प्राणिगर्भविमोचने ' इत्यस्य लटि रूपम् । निघातः ॥ २८॥

_________


शयुः परस्तादध नु द्विमाताबन्धनश्चरति           वत्स एकः।
मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् ॥६॥

पद पाठ-

शयुः । परस्तात् । अध । नु । द्विऽमाता । अबन्धनः । चरति । वत्सः । एकः ।

मित्रस्य । ता । वरुणस्य । व्रतानि । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥६।

{सायण-भास्य}

“द्विमाता । द्वे द्यावापृथिव्यौ मातरौ यस्य स (द्विमाता) । यद्वा द्वयोर्लोकयोर्निर्माता । सूर्यः “परस्तात् पश्चिमायां दिशि अस्तवेलायां “शयुः =शयानोऽव्याप्रियमाणो भवति । “अध “नु अथोदयवेलायाम् “एकः द्यावापृथिव्योः साधारणः तयो रसादानात् “वत्सः= पुत्रः “अबन्धनः अप्रतिबद्धगतिः अनालम्बनः एकः सन् “चरति नभसि गच्छति । “ता तानीमानि "मित्रस्य “वरुणस्य मित्रावरुणयोः "व्रतानि कर्माणि ॥ शयुः । ‘शीङ् स्वप्ने '। भृमृशीतॄचरि' इत्यादिना उप्रत्ययः । द्विमाता । ‘नद्यृतश्च ' इति प्राप्तस्य कपः ‘ ऋतश्छन्दसि' इति प्रतिषेधः ॥

____________
द्विमाता होता विदथेषु सम्राळन्वग्रं                चरति क्षेति बुध्नः।
प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम् ॥७॥

पदपाठ-

द्विऽमाता । होता । विदथेषु । सम्ऽराट् । अनु । अग्रम् । चरति । क्षेति । बुध्नः ।

प्र । रण्यानि । रण्यऽवाचः । भरन्ते । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥७।

{सायण-भास्य}

“द्विमाता =द्वयोर्लोकयोर्निर्माता “विदथेषु= यज्ञेषु “होता =देवानामाह्वाता “सम्राट् यज्ञेषु सम्यक् राजमानोऽग्निः “अन्वग्रम् अग्रे दिवि “चरति सूर्यभूतस्तत्र वर्तते । “बुध्नः सर्वस्य कर्मणो मूलभूतः सन् “क्षेति =भूमौ वसति । यद्वा । अग्रं मुख्यं भागं चरति= भक्षयति। क्षेति यज्वनां गृहेषु निवसति । यद्वा । बुध्नः प्रतिष्ठा अन्तेभागी स्विष्टकृद्रूपेण । ‘ प्रतिष्ठा वै स्विष्टकृत्' इति श्रुतेः । किंच “रण्यवाचः रमणीयवाचः स्तोतारः “रण्यानि रमणीयानि स्तोत्राणि “प्र “भरन्ते= प्रकर्षेण कुर्वन्ति । तदिदं देवानामैश्वर्यम् ॥ चरति । 'वादिलोपे° ' इति न निघातः ॥

________


शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं               ददृशे विश्वमायत् ।
अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम् ॥८॥

पदपाठ-

शूरस्यऽइव । युध्यतः । अन्तमस्य । प्रतीचीनम् । ददृशे । विश्वम् । आऽयत् ।

अन्तः । मतिः । चरति । निःऽसिधम् । गोः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥८।

{सायण-भास्य}

“अन्तमस्य समीपे वर्तमानस्य दावाग्नेः "आयत् अभिमुखमागच्छत् “विश्वं भूतजातं "प्रतीचीनं पराङ्मुखं “ददृशे =दृश्यते । तत्र दृष्टान्तः । “शूरस्येव । यथा “युध्यतः युद्धं कुर्वाणस्य शूरस्य समर्थस्य राज्ञः अभिमुखमागच्छत् परबलं पराङ्मुखं दृश्यते तद्वत् । “मतिः सर्वैर्ज्ञायमानः सोऽग्निः “गोः= उदकस्य “निष्षिधं हिंसिकां दीप्तिम् “अन्तः “चरति अन्तर्धारयति ॥( युध्यतः= । ‘ युध संप्रहारे')। दिवादिः । तस्य शतरि रूपम् । अन्तमस्य । अन्तशब्दात् ‘ अत इनिठनौ ' इति ठन् । अतिशयेनान्तिकः इत्यर्थें तमप् । ‘ तमे तादेश्च' इति तादिलोपः । नित्त्वादाद्युदात्तः । प्रतीचीनम् । प्रतिपूर्वस्याञ्चतेः क्विन् । तस्मात् “ विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । ईनादेशः । प्रत्ययस्वरः । आयत् । “या प्रापणे ' इत्यस्याङ्पूर्वस्य शतरि रूपम् ; आङ्पूर्वस्य • अय पय गतौ ' इत्यस्य शतरि रूपं वेति व्युत्पत्त्यनवधारणादनवग्रहः ॥

_________________________


नि वेवेति पलितो दूत आस्वन्तर्महाँश्चरति      रोचनेन।
वपूंषि बिभ्रदभि नो वि चष्टे महद्देवानामसुरत्वमेकम् ॥९॥

पदपाठ-

नि । वेवेति । पलितः । दूतः । आसु । अन्तः । महान् । चरति । रोचनेन ।

वपूंषि । बिभ्रत् । अभि । नः । वि । चष्टे । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥९।

{सायण-भास्य}

“पलितः पालयिता पूर्णो वा देवानां “दूतः अग्निः “आसु ओषधीषु “नि “वेवेति नितरां व्याप्य वर्तते । 'महान् सोऽग्निः “रोंचनेन सूर्येण सह “अन्तः रोदस्योर्मध्ये “चरति । “वपूंषि नानाविधानि रूपाणि "बिभ्रत् सोऽग्निः “नः अस्मान् यष्टॄन् “अभि “वि “चष्टे विशेषेणानुग्रहदृष्ट्या पश्यति ॥ वेवेति । वी गत्यादिषु । यङ्लुकि ईडभावे रूपम् । रोचनेन । सहार्थे तृतीया । बिभ्रत् ।। डुभृञ् धारणपोषणयोः' इत्यस्य शतरि रूपम् । अभ्यस्तस्वरः ॥

________________  

________________________________
विष्णुर्गोपाः परमं पाति पाथः प्रिया       धामान्यमृता दधानः।
अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम्॥१०॥

विष्णु  गोप रूप में गायों को पालने वाले हैं। और परम रक्षा करते हैं पृथा के प्रिय पुत्रों की अमरता से पूर्ण लोकों को धारण करते हुए अग्नि में यजन करने वाले सम्पूर्ण लोकों को जानने वाले होते हैं।। देवताओं की एक महत्ता असुर होने में ही है।

पदपाठ-

विष्णुः । गोपाः । परमम् । पाति । पाथः । प्रिया । धामानि । अमृता । दधानः ।

अग्निः । ता । विश्वा । भुवनानि । वेद । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१०।

भाष्य--भास्य}

“विष्णुः  “गोपाः= (गवाम् पालयिता प्रथमा एकवचन पालयितृ] रक्षक। ( “प्रिया =प्रियतमानि “अमृता =क्षयरहितानि “ धाम का द्वितीया बहुवचन रूप धामानि = गृहाणि       “दधानः=धा + शानच् - दधनः का वैदिक रूप धारण करता हुआ । 

सोऽग्निः “परमं “पाथः= पथिक:  “पाति= रक्षति । यद्वा । धामानि लोकधारकाणि अमृता उदकानि दधानः सन् परमं पाथः । सः “विष्णु: “ता =तानि “विश्वा =सर्वाणि “भुवनानि =भूतजातानि “वेद= जानाति ॥ गोपाः= गाम् पालयितर: सम्मानार्थे वहुवचने।

_________

नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत्।
श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकम् ॥११॥

हे विष्णु तुम्हारे अनेक चक्र हैं यमुना के साथ तुम्हारे दोनों अन्य रूप अच्छे लगते हैं । कृष्ण से अन्य श्याम अरुषी भाई बहिनों के समान हैं। जैसे यह एक असुरत्व देवों का है।

पदपाठ-

नाना । चक्राते इति । यम्या । वपूंषि । तयोः । अन्यत् । रोचते । (कृष्णम् )। अन्यत् ।

श्यावी । च । यत् । अरुषी । च । (स्वसारौ) सु असारौ । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥११।

भाष्य-

"यम्या यमरूपे मिथुनभूते अहश्च रात्रिश्चेत्येते वपूंषि =शरीराणि "चक्राते = चक्रा ते)  । “श्यावी =कृष्णवर्णा “अरुषी= शुक्लतया आरोचमाना “यत् ये परस्परं “स्वसारौ भवतः “तयोः =मध्ये “अन्यत् “रोचते कृष्णं  = कृृष्ण को ॥ यम्या यमुना अच्छी लगती है। 

_

माता च यत्र दुहिता च धेनू सबर्दुघे            धापयेते समीची।
ऋतस्य ते सदसीळे अन्तर्महद्देवानाम् असुरत्वमेकम्॥१२॥

जहाँ माता और गाय दुहने वाला दुहितृ(दोग्धा) दूध का दोहन करता है।

पदपाठ-

माता । च । यत्र ।( दुहिता )। च । धेनू )इति । सबर्दुघे इति सबःऽदुघे । धापयेते इति । समीची इति सम्ऽईची ।

ऋतस्य । ते इति । सदसि । ईळे । अन्तः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१२।

"माता सर्वेषां निर्मातृत्वान्माता पृथिवी “च “दुहिता दूरे निहिता द्यौः च । 'दुहिता दुर्हिता दूरे हिता दोग्धेर्वा ' (निरु. ३. ४ ) इति यास्कः । एते "सबर्दुघे( सबरः= स्वीयस्य) क्षीररूपरसस्य दोग्ध्र्यौ अत एव “धेनू= गाव:  “॥ सबर्दुघे । “ सबः=शब्दः क्षीरवाची' इति संप्रदायविद आहुः । तस्मिन्नुपपदे ‘ दुह प्रपूरणे' इत्यस्माद्धातोः ‘ दुहः कब्घश्च ' इति कप्प्रत्ययो घश्चान्तादेशः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । धापयेते । धेट् पाने ' इत्यस्य ण्यन्तस्य लटि निगरणचलनार्थेभ्यश्च' इति परस्मैपदे प्राप्ते ‘पादिषु धेट उपसंख्यानम् ' इत्यात्मनेपदम् । यद्वृत्तयोगादनिघातः ॥ ।

_______


अन्यस्या वत्सं रिहती मिमाय कया                भुवा नि दधे धेनुरूधः।
ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम् ॥१३॥


पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ               त्र्यविं रेरिहाणा।
ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम् ॥१४॥


पदे इव निहिते दस्मे अन्त:' तयोरन्यद्गुह्यमाविरन्यत्।
सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम् ॥१५॥


आ धेनवो धुनयन्तामशिश्वीः                    सबर्दुघाः शशया अप्रदुग्धाः।
नव्यानव्या युवतयो भवन्तीर्महद्देवानाम्' असुरत्वमेकम् ॥१६॥

यदन्यासु वृषभो रोरवीति सो              अन्यस्मिन्यूथे नि दधाति रेतः ।
स हि क्षपावान्स भगः स राजा महद्देवानामसुरत्वमेकम् ॥१७॥


वीरस्य नु स्वश्व्यं जनासः प्र नु                    वोचाम विदुरस्य देवाः ।
षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम् ॥१८॥

________________________
देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान।
इमा च विश्वा भुवनान्यस्य महद्देवानाम्' सुरत्वमेकम् ॥१९॥


मही समैरच्चम्वा समीची उभे ते                    अस्य वसुना न्यृष्टे ।
शृण्वे वीरो विन्दमानो वसूनि महद्देवानाम् असुरत्वमेकम् ॥२०॥


इमां च नः पृथिवीं विश्वधाया                          उप क्षेति हितमित्रो न राजा ।
पुरःसदः शर्मसदो न वीरा महद्देवानाम्' असुरत्वमेकम् ॥२१॥


निष्षिध्वरीस्त ओषधीरुतापो रयिं त                इन्द्र पृथिवी बिभर्ति।
सखायस्ते वामभाजःस्याम महद्देवानामसुरत्वमेकम् ॥२२।

सायणभाष्यम्-

पदपाठ-

अन्यस्याः । वत्सम् । रिहती । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः ।

ऋतस्य । सा । पयसा । अपिन्वत । इळा । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१३।

“अन्यस्याः पृथिव्याः “वत्सम् अग्निं “रिहती उदकधारारूपया जिह्वया लिहती द्यौः “मिमाय मेघद्वारा ध्वनिं करोति । “धेनुः प्रीणयित्री सा द्यौः "कया जलवर्जितया “भुवा तत्रत्यं जलमादाय स्वकीयम् “ऊधः मेघरूपं “नि “दधे उदकेन निहितमकरोत् । “सा जलवर्जिता “इळा पृथिवी “ऋतस्य सत्यभूतस्यादिस्यस्य “पयसा उदकेन "अपिन्वत वर्षकाले सिक्ता भवति । आदित्याज्जायते वृष्टिः' (मनु. ३.७६ ) इति स्मृतेः ॥ रिहती । ‘ लिह आस्वादने' इत्यस्य शतरि रूपम् । ‘शतुरनुमः' इति ङीप उदात्तत्वम् । अपिन्वत । ' पिवि सेचने' । मुचादिरात्मनेपदी । निघातः ॥

________


पदपााठ-

पद्या । वस्ते । पुरुऽरूपा । वपूंषि । ऊर्ध्वा । तस्थौ । त्रिऽअविम् । रेरिहाणा ।

ऋतस्य । सद्म । वि । चरामि । विद्वान् । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१४

"पद्या । जगत्स्रष्टुः परमेश्वरस्य पद्भ्यां जातत्वात् पद्या भूमिः । तथा च मन्त्रवर्णः -- ‘पद्यांया भूमिः' (ऋ. सं. १०.९०.१४) इति । यद्वा पादसंचारे साधुः पद्या भूमिः “पुरुरूपा नानाविधस्वरूपाणि “वपूंषि स्थावरजङ्गमात्मकानि रूपाणि "वस्ते आच्छादयति । सैषा भूमिः “ऊर्ध्वा उत्तरवेद्यात्मनोन्नता सती स्वसारभूतेन हविषा “त्र्यविम् । सार्धसंवत्सरवयस्को वत्सस्त्र्यविरित्युच्यते । तस्प्रमाणमादित्यम्। त्रीन् लोकान् अवति स्वतेजसा व्याप्नोतीति त्र्यविरिति वा । “रेरिहाणा लिहती “तस्थौ । “ऋतस्य सत्यभूतस्यादित्यस्य "सद्म स्थानं “विद्वान् जानानोऽहं “वि “चरामि हविर्भिः तमादित्यं परिचरामि ॥ पद्या । पादशब्दात् ' भवे छन्दसि' इति यत् । “पद्यत्यतदर्थे ' ( पा. सू. ६.३.५३ ) इति पादस्य पद्भावः । यद्वा । तत्र साधुः' इति यत् । यतोऽनावः' इति


पदपाठ-

पदे इवेति पदेऽइव । निहिते इति निऽहिते । दस्मे । अन्तरिति । तयोः । अन्यत् । गुह्यम् । आविः । अन्यत् ।

सध्रीचीना । पथ्या । सा । विषूची । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१५

“पदेइव । पद्येते ज्ञायेते तत्तदसाधारणलिङ्गेनेति पदे । अहश्च रात्रिश्चेत्येते "दस्मे सर्वैर्दर्शनीये ते उभे “अन्तः नभसि मध्ये “निहिते स्थापिते इव वर्तेते । “तयोः अहोरात्रयोः “अन्यत् रात्रिलक्षणं “गुह्यम् अप्रकाशमानतया गूढमिवास्ते । “अन्यत् अहः “आविः सूर्यप्रकाशेन प्रकटं भवति । “सधीचीना अहोरात्रयोः परस्परमेलनरूपा “पथ्या मार्गः । काल इत्यर्थः। “सा “विषूची । पुण्यकृतोऽपुण्यकृतश्च प्राप्नोतीति विषूची भवति । सर्वे जना अहोरात्रयोर्वर्तन्ते । यद्वा । पदेइव देवमनुष्यादीनां स्थानभूते द्यावापृथिव्यौ अन्तरन्तरिक्षे निहिते वर्तेते । तयोरन्यत् अन्या द्यौः गुह्यमस्माभिः अदृश्यमानतया गूढा वर्तते । अन्या पृथिवी आविः सर्वैः दृश्यमानत्वेन प्रकटा भवति। सध्रीचीनेति पूर्ववत् ॥ सध्रीचीना । सहपूर्वादञ्चतेः क्विन् । 'सहस्य सध्रिः' इति सध्र्यादेशः । ‘विभाषाञ्चेरदिक्स्त्रियाम्' इति स्वः(स्वरः) ॥ ॥ ३० ॥


पदपााठ-

आ । धेनवः । धुनयन्ताम् । अशिश्वीः । सबःऽदुघाः । शशयाः । अप्रऽदुग्धाः ।

नव्याःऽनव्याः । युवतयः । भवन्तीः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१६

“धेनवः वृष्टिद्वारा सर्वस्य जगतः प्रीणयित्र्यः “अशिश्वीः शिशुरहिताः । यद्वा शिशवो न भवन्तीत्यशिश्वीः । “शशयाः नभसि शयाना वर्तमानाः केनापि "अप्रदुग्धाः अक्षीणरसाः "सबर्दुघाः उदकलक्षणस्य क्षीरस्य दोग्ध्र्यः “युवतयः परस्परमिश्रणोपेताः “नव्यानव्याः अतिशयेन नूतनाः “भवन्तीः दिशो मेघा वा “आ “धुनयन्ताम् आदुहन्तु । मेघपक्षे अशिश्वीर्भवन्तीरित्यत्र लिङ्गव्यत्ययः ॥


पदपााठ-

यत् । अन्यासु । वृषभः । रोरवीति । सः । अन्यस्मिन् । यूथे । नि । दधाति । रेतः ।

सः । हि । क्षपाऽवान् । सः । भगः । सः । राजा । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१७

“वृषभः अपां वर्षकः “यत् यः पर्जन्यात्मेन्द्रः “अन्यासु दिक्षु “रोरवीति मेघद्वारा भृशं शब्दं करोति “सः पर्जन्य इन्द्रः "अन्यस्मिन् “यूथे दिशां वृन्दे “रेतः उदकं “नि “दधाति तत्र वर्षति । लोके' हि वृषभः कासुचिद्गोषु रेतःसेकार्थं रवं करोत्यन्यस्मिन् गोयूथे रेतः सिञ्चति तद्वत् । “सः इन्द्रः “क्षपावान् । क्षिपति शत्रूनुदकं वेति क्षेपणवान् । यद्वा । क्षपा रात्रिः ।' तथा रात्रिपर्याययागानां स्तोत्राणां भागभूता या रात्रिः सोच्यते । तद्वान् । “सः “भगः सर्वैर्भजनीयः । “सः "राजा “हि तत्तत्कर्मानुरूपफलप्रदानेन सर्वेषां राजा खलु ॥ रोरवीति । ‘रु शब्दे' इत्यस्य यङ्लुगन्तस्य लटि रूपम् । एकान्याभ्यां समर्थाभ्याम्' इति प्रथमस्य न निघातः । यूथे । ‘यु मिश्रणे'। ‘ तिथपृष्ठगूथयूथप्रोथाः' ( उ. सू. २. १६९ ) इति थक्प्रत्ययान्तत्वेन निपातनाद्दीर्घः । रेतः । ‘रीङ् क्षरणे' इत्यस्मात् ‘स्रुरीभ्यां तुट् च' इत्यसुन्प्रत्ययस्तुडागमश्च । नित्त्वादाद्युदात्तः ॥


पदपााठ-

वीरस्य । नु । सुऽअश्व्यम् । जनासः । प्र । नु । वोचाम । विदुः । अस्य । देवाः ।

षोळ्हा । युक्ताः । पञ्चऽपञ्च । आ । वहन्ति । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१८

हे “जनासः जनाः “वीरस्य शूरस्येन्द्रस्य “स्वश्व्यं शोभनाश्वोपेतत्वं “नु क्षिप्रं “प्र “वोचाम प्रकर्षेण वदाम । तथा “देवाः अपि “अस्य इन्द्रस्य स्वश्वत्वं “नु क्षिप्रं “विदुः जानन्ति । किं तत्स्वश्वत्वम् । तदुच्यते । “षोळ्हा मासाना द्वन्द्वयोगकाले षोढा दृश्यमाना ऋतवोऽश्वा निरूप्यन्ते । ते च षट्संख्याका ऋतवो हेमन्तशिशिरयोः समासेन “पञ्चपञ्च “युक्ताः सन्तः कालात्मकमिन्द्रम् “आ “वहन्ति । तदिदम् इन्द्रस्य स्वश्वत्वं यदृतुभिरूढत्वम् ॥ षोळ्हा । षष्शब्दात् ‘संख्याया विधार्थे धा ' इति धाप्रत्ययः । षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च' (पा.सू. ६.३. १०९. ३-४) इत्युत्वं ष्टुत्वं च । प्रत्ययस्वरः ॥

त्वष्ट्रे पशौ हविषोऽनुवाक्या देवस्त्वष्टा ' इत्येषा । सूत्रितं च- देवस्त्वष्टा सविता विश्वरूपो देव त्वष्टर्यद्ध चारुत्वमानट् ' ( आश्व. श्रौ. ३.८) इति ॥


पदपाठ-

देवः । त्वष्टा । सविता । विश्वऽरूपः । पुपोष । प्रऽजाः । पुरुधा । जजान ।

इमा । च । विश्वा । भुवनानि । अस्य । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१९।

“सविता अन्तर्यामितया सर्वस्य प्रेरकः “विश्वरूपः नानाविधरूपः “त्वष्टा त्वष्टृनामकः “देवः “प्रजाः “पुरुधा बहुधा “जजान जनयति । ताश्च “पुपोष पोषयति । “इमा इमानि “विश्वा विश्वानि सर्वाणि “भुवनानि भूतजातानि “च "अस्य त्वष्टुः संबन्धीनि ॥ विश्वरूपः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् ॥


पदपााठ -

मही इति । सम् । ऐरत् । चम्वा । समीची इति सम्ऽईची । उभे इति । ते इति । अस्य । वसुना । न्यृष्टे इति निऽऋष्टे ।

शृण्वे । वीरः । विन्दमानः । वसूनि । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥२०

“मही महत्यौ "समीची परस्परं संगते “चम्वा । चमन्त्यदन्त्यनयोः देवमनुष्याः इति चम्वौ। यद्वा । चम्येते अद्येते भूतजातैरिति चम्वौ द्यावापृथिव्यौ । “समैरत् इन्द्रः प्रजापश्वादिभिः सम्यगयोजयत् । “ते “उभे द्यावापृथिव्यौ “अस्य इन्द्रस्य “वसुना तेजसा धनेन वा “न्यृष्टे नितरां व्याप्ते भवतः । “वीरः समर्थः स इन्द्रः “वसूनि शत्रूनभिभूय तदीयानि धनानि "विन्दमानः लभमानः सन् “शृण्वे सर्वैः श्रूयते । ‘तवेदिदमभितश्चेकिते वसु' (ऋ. सं. १.५३.३ ) इत्यादिषु दृष्टत्वात् ॥ ऐरत् । ‘ ईर गतौ ' इत्यस्य लङि रूपम् । न्यृष्टे । 'ऋषी गतौ ' । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः स्वरः । शृण्वे । ‘ श्रु श्रवणे' इत्यस्य व्यत्ययेन कर्मणि श्नुः । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः । विन्दमानः । ' विद्लृ लाभे ' इत्यस्य लटि शानचि रूपम् । तस्य लसार्वधातुकस्वरे धातुस्वरः ॥


पदपााठ-

इमाम् । च । नः । पृथिवीम् । विश्वऽधायाः । उप । क्षेति । हितऽमित्रः । न । राजा ।

पुरःऽसदः । शर्मऽसदः । न । वीराः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥२१।

“विश्वधायाः विश्वस्य धाता सर्वान्नो वा “नः अस्माकं “राजा इन्द्रः “इमां “पृथिवीम् अन्तरिक्षं “च “उप तयोः समीपे “क्षेति निवसति । तत्र दृष्टान्तः । “हितमित्रो “न । यथा कस्यचित् हितोपदेष्टा सुहृत् समीपे निवसति तद्वत् । “वीराः समर्था युद्धसहाया मरुतः “पुरःसदः युद्धार्थं पुरतो निश्चयेन गन्तार इन्द्रस्य “शर्मसदो “न । नश्चार्थे । शर्मणि गृहे सीदन्तश्च भवन्ति । यत्र यत्रासौ तत्र तत्र संनिधिं कुर्वाणा इत्यर्थः ॥ क्षेति। ‘ क्षि निवासगत्योः' इत्यस्य लटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । निघातः ॥


पदपाठ-

निःऽसिध्वरीः । ते । ओषधीः । उत । आपः । रयिम् । ते । इन्द्र । पृथिवी । बिभर्ति ।

सखायः । ते । वामऽभाजः । स्याम । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥२२।

हे पर्जन्यात्मक “इन्द्र “ओषधीः ओषधयः “ते “निष्षिध्वरीः निष्षिध्वर्यो नितरां त्वत्कर्तृकसिद्धिमत्यः । "उत अपि च “आपः त्वत्तो निःसृताः । “पृथिवी “ते तव भोगयोग्यं “रयिं धनं “बिभर्ति । पुरू वसूनि पृथिवी बिभर्ति' (ऋ. सं. ३.५१.५) इति हि निगमः । ततः “ते तव “सखायः हविष्प्रदानेनोपकारकाः स्तोतारः वयं “वामभाजः "स्याम सर्वे वननीयधनभागिनो भवेम । तदेतद्देवानां महदैश्वर्यम् ॥ निष्षिध्वरीः । ‘ षिधु संराद्धौ । संपदादिलक्षणो भावे क्विप् । तदस्यास्ति इत्यर्थे 'छन्दसीवनिपौ° ' इति वनिप् । वनो र च' इति ङीप् रेफश्च । निसा सह समासः । निसः सकारं छान्दसत्वादनादृत्य • उपसर्गात्सुनोति' इत्यादिना षत्वम् । डीपः पित्त्वादनुदात्तत्वे धातुस्वरः । बिभर्ति । ‘ डुभृञ् धारणपोषणयोः' इत्यस्य लटि ‘ भृञामित्' इत्यभ्यासस्येत्वम् । निघातः । वामभाजः । ‘ भज सेवायाम् ' । ‘ भजो ण्विः ' ( पा. सू. ३:२:६२ ) इति ण्विः । कृदुत्तरपदस्वरः ॥ ॥ ३१ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

_____________________

इति-श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये तृतीयाष्टके तृतीयोऽध्यायः समाप्तः ॥

_______________________

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें