(ऋग्वेद मण्डल ५/सूक्त-५३/ऋचा-९/)
_____________________________________
मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत् ।
मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः ॥९॥ ऋग्वेद मण्डल ५/सूक्तत५३/ऋचा९/
पद-पाठ-
मा । वः । रसा । अनितभा । कुभा । क्रुमुः । मा । वः । सिन्धुः । नि । रीरमत् ।
मा । वः । परि । स्थात् । सरयुः । पुरीषिणी । अस्मे इति । इत् । सुम्नम् । अस्तु । वः ॥९
हे मरुतः “वः= युष्मान् “रसा = नदीनामैतत् । रसा नदी भवति ' ( निरु. ११. २५) इति निरुक्तम् ।
रसनवती शब्दवती । “अनितभा । इता= प्राप्ता भा यस्याः सा इतभा । न तादृश्यनितभा । “कुभा =कुत्सितदीप्तिश्च “मा “नि “रीरमत्= मा निकृष्टं रमतु । “क्रुमुः= सर्वत्रक्रमणः “सिन्धुः =समुद्रश्च “मा नि रीरमत् । तथा “पुरीषिणी । पुरीषम्= उदकम् । तद्वती “सरयुः अपि “मा “परि “ष्ठात् परितस्तिष्ठतु मा निरुणद्धु । “अस्मे “इत् अस्मास्वेव "अस्तु “सुम्नं त्वदागमनजनितं सुखं “वः= युष्माकं संबन्धि युष्मत्स्वभूतम् ।
__________________________________ ऋग्वेदः - मण्डल –१०सूक्तं– (१०.१०३) देवता -. इन्द्रः, ४ बृहस्पतिः, १२ अप्वा देवी, १३ मरुतो वा। छन्द– त्रिष्टुप्, १३ अनुष्टुप् |
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥१॥
आशुः । शिशानः । वृषभः । न । भीमः । घनाघनः । क्षोभणः । चर्षणीनाम् ।
सम्ऽक्रन्दनः । अनिऽमिषः । एकऽवीरः । शतम् । सेनाः । अजयत् । साकम् । इन्द्रः ॥१।
सायण-भाष्य-
अयमिन्द्रः “आशुः शीघ्रकारी व्यापको वा “शिशानः निशितः । शत्रूणां भयजनक इत्यर्थः । क इव । “वृषभो “न “भीमः । बिभेत्यस्मादिति भीमः । तादृशो वृषभ इव । स यथा तीक्ष्णाभ्यां ऋङ्गाभ्यां भीमो भवति तद्वत् । अथवा शिशानस्तीक्ष्णमतिः । व्यत्ययेनात्मनेपदम् । वृषभो न भीमः वृषभो यथा शृङ्गाभ्यां भयजनकः तद्वच्छत्रूणाँ भयजनकश्च । “घनाघनः घातकः शत्रूणाम् । हन्तेः पचाद्यचि • हन्तेर्घश्च ' (पा.सू. ६.१.१२.७) इति द्विर्वचनमभ्यासस्याडागमो घत्वं च धात्वभ्यासयोः । “चर्षणीनाम् । चर्षणयो मनुष्याः । मनुष्याणां द्वेष्याणां “क्षोभणः क्षोभयिता । “संक्रन्दनः सम्यक्क्रन्दयिता प्राणिनामाकर्षणेन प्रहारेण वा । “अनिमिषः चक्षुर्निमेषरहितः । सर्वदा स्वयज्ञगमनयुद्धादिकार्येष्वनलस इत्यर्थः । “एकवीरः । वीरयत्यमित्रानति वीरः । एकश्चासौ वीरश्च । अथवा एक एव विक्रान्तः । असाहाय्येन कार्यक्षम इत्यर्थः । ईदृशोऽयम् “इन्द्रः “शतं “सेनाः “साकं सह एकोद्योगेनैव “अजयत् जयति ॥
___________________
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥२॥
सम्ऽक्रन्दनेन । अनिऽमिषेण । जिष्णुना । युत्ऽकारेण । दुःऽच्यवनेन । धृष्णुना ।
तत् । इन्द्रेण । जयत । तत् । सहध्वम् । युधः । नरः । इषुऽहस्तेन । वृष्णा ॥२।
सायण-भाष्य-
अस्तु नामेन्द्र उक्तविधः तथाप्यस्माकं किमिति चेत् तत्राह । “संक्रन्दनेनानिमिषेण चोक्तलक्षणेन “जिष्णुना जयशीलेन “युत्कारेण । योधनं युत् । युद्धकारिणा। कर्मण्यण् । “दुश्च्यवनेन अन्यैरविचाल्येन । ' च्युङ् प्रुङ् गतौ । छन्दसि गत्यर्थेभ्यः' (पा. सू. ३. ३. १२९ ) इति युच् । “धृष्णुना धर्षकेण ईदृशेन “इन्द्रेण “तत् युद्धं "जयत । “तत् शत्रुबलं “सहध्वम् अभिभवत । हे “युधः योद्धारो हे “नरः नेतारः । ‘ विभाषितं विशेषवचने बहुवचनम् ' (पा. सू. ८. १. ७४ ) इति पूर्वस्याविद्यमानवत्त्वनिषेधादुत्तरं निहन्यते । पुनः कीदृशेनेन्द्रेणेति । “इषुहस्तेन “वृष्णा वर्षित्रा च ॥
________________
स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।
संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥३॥
सः । इषुऽहस्तैः । सः । निषङ्गिऽभिः । वशी । सम्ऽस्रष्टा । सः । युधः । इन्द्रः । गणेन ।
संसृष्टऽजित् । सोमऽपाः । बाहुऽशर्धी । उग्रऽधन्वा । प्रतिऽहिताभिः । अस्ता ॥३।
सायण-भाष्य-
पूर्वमन्त्र इन्द्रेण जयत इत्युक्तम् । अत्र इन्द्रस्य जयसाधनसमर्थत्वं दर्शयति । “सः इन्द्रः “इषुहस्तैः भटैः मरुदादिभिः “वशी वश्यैस्तद्वान् । तथा “निषङ्गिभिः युक्तः। निषङ्गः खड्गः। तद्वद्भिः “वशी । “सः च “इन्द्रः “युधः युध्यमानः सन् । इगुपधलक्षणः कः । अथवा युधो युद्धहेतोः “गणेन शत्रुसंघेन सह “संस्रष्टा एकीभवनशीलः । यत एवंविधोऽतः “संसृष्टजित् । ये परस्परैकमत्येन युद्धाय संसृष्टा भवन्ति तेषां जेता । तथा “सोमपाः सोमस्य पाता। “बाहुशर्धी । शर्धो बलम् । बाह्वोर्बलं बाहुबलम् । तद्वान् । मत्वर्थीय इनिः । यद्वा । ‘ शृधु प्रसहने ' । बाहुभ्यां शर्धयत्यभिभवतीति बाहुशर्धी। ‘ सुप्यजातौ णिनिस्ताच्छील्ये' (पा. सू. ३. २. ७८ ) इति णिनिः। “उग्रधन्वा उद्यतधन्वा “प्रतिहिताभिः शत्रुषु प्रेरिताभिरिषुभिः “अस्ता मारयिता । यत्रेषून्मुञ्चति तत्र वृथा न भवन्तीत्यर्थः । ईदृशेनेन्द्रेण जयतेति संबन्धः ॥
_______
बृहस्पते परि दीया रथेन रक्षोहामित्राँ अपबाधमानः।
प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥४॥
बृहस्पते । परि । दीय । रथेन । रक्षःऽहा । अमित्रान् । अपऽबाधमानः ।
प्रऽभञ्जन् । सेनाः । प्रऽमृणः । युधा । जयन् । अस्माकम् । एधि । अविता । रथानाम् ॥४।
सायण-भाष्य-
हे बृहस्पते बृहतां पात: पालयितर्देव “रथेन “परि “दीय परिगच्छ । दीयतिर्गतिकर्मा। आगत्य च “रक्षोहा रक्षसां हन्ता “अमित्रान् शत्रून् “अपबाधमानः सर्वतो नाशयन् तथा “सेनाः शत्रुसंबन्धिनीः “प्रभञ्जन प्रकर्षेण नाशयन् “प्रमृणः प्रकर्षेण हिंसन् । “ मृण हिंसायाम् । इगुपधलक्षणः कः । केन हिंसन् । “युधा युद्धेन । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम्। "जयन् एवं सर्वत्र जयं प्रतिपद्यमानः ईदृशस्त्वम् “अस्माकं “रथानाम् अविता “एधि भव ॥
__________
बलविज्ञाय स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।
अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र् रथमा तिष्ठ गोवित् ॥५॥
बलऽविज्ञायः । स्थविरः । प्रऽवीरः । सहस्वान् । वाजी । सहमानः । उग्रः ।
अभिऽवीरः । अभिऽसत्वा । सहःऽजाः । जैत्रम् । इन्द्र । रथम् । आ । तिष्ठ । गोऽवित् ॥५।
सायण-भाष्य-
सर्वस्य भूतस्य बलं विजानातीति “बलविज्ञायः । यद्वा । बलं ममायमिति सर्वैर्बलत्वेन विज्ञायत इति बलविज्ञायः । सर्वस्य बलभूत इत्यर्थः । “स्थविरः महान् “प्रवीरः प्रकर्षेण वीरः “सहस्वान् पराभिभवसामर्थ्यवान् “वाजी वेजनवानन्नवान्वा “सहमानः शत्रूणामभिभविता “उग्रः उद्गूर्णबलः "अभिवीरः । अभिगता वीरा वीर्यवन्तोऽनुचरा यस्य स तथोक्तः । “अभिसत्वा अभिगतसत्वा “सहोजाः सहसो बलाज्जातः एवंमहानुभावस्त्वं हे “इन्द्र “जैत्रं जयशीलं “रथम् “आ “तिष्ठ अस्मत्सहायार्थमारोढुमर्हसि । त्वं च "गोवित् उदकस्य स्तुतेर्वा लब्धा वेदिता वा ॥
____________________________
गोत्रभिदं (गोविदं) वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।
इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु संरभध्वम् ॥६॥
पदपाठ-
गोत्रऽभिदम् । गोऽविदम् । वज्रऽबाहुम् । जयन्तम् । अज्म । प्रऽमृणन्तम् । ओजसा ।
इमम् । सऽजाताः । अनु । वीरयध्वम् । इन्द्रम् । सखायः । अनु । सम् । रभध्वम् ॥६।
सायण-भाष्य-
“गोत्रभिदम् । गा उदकानि त्रायन्त इति गोत्रा मेघाः । यद्वा गौर्भूमिः । तां त्रायन्त इति गोत्राः पर्वताः। तेषां भेत्तारं “गोविदम् उदकस्य लब्धारं “वज्रबाहुं वज्रहस्तम्। 'प्रहरणार्थेभ्यः (पा. सू. २. २. ३६. ४) इति परनिपातः । “जयन्तं= जयनशीलम् "अज्म= गमनशीलं शत्रुबलम् “ओजसा =बलेन जयन्तं यद्वा अज्म= आजिं जयन्तमोजसा= बलेन “प्रमृणन्तं शत्रूनभिभवन्तमीदृशं महानुभावम् “इमम् इन्द्रं हे “सजाताः सहोत्पन्ना योद्धारो यूयम् “अनु वीरयध्वम् । एनमग्रतः कृत्वानु पश्चाद्वीरयध्वं वीरकर्मं युद्धं कुरुध्वम् । ‘शूर वीर विक्रान्तौ । वीरशब्दात् ‘तत्करोति तदाचष्टे इति णिच् । हे “सखायः परस्परं सखिभूता यूयमिमम् "इन्द्रं संरभमाणम् “अनु “सं “रभध्वम्॥॥२२॥
___________
अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः ।
दुश्च्यवनः पृतनाषाळयुध्योऽस्माकं सेना अवतु प्र युत्सु ॥७॥
पदपाठ-
अभि । गोत्राणि । सहसा । गाहमानः । अदयः । वीरः । शतऽमन्युः । इन्द्रः ।
दुःऽच्यवनः । पृतनाषाट् । अयुध्यः । अस्माकम् । सेनाः । अवतु । प्र । युत्ऽसु ॥७।
सायण-भाष्य-
अयम् “इन्द्रः “गोत्राणि अभ्राणि मेघान “सहसा बलेन “अभि “गाहमानः प्रविशन् “अदयः निर्दयः "वीरः विक्रान्तः “शतमन्युः बहुयज्ञो बहुक्रोधो वा दुश्च्यवनः अन्यैरचाल्यः । स्वयं “पृतनाषाट् शत्रुसेनानामभिभविता । छन्दसि सहः' इति ण्विः । ‘ सहेः साडः सः' इति मूर्धन्यादेशः । “अयुध्यः संप्रहर्तुमशक्यः । ‘ युध संप्रहारे । छान्दसः क्यप् । ईदृगिन्द्रः “अस्माकं “सेनाः “युत्सु संग्रामेषु “प्र “अवतु प्रकर्षेण रक्षतु ॥
____________
इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥८।
इन्द्रः । आसाम् । नेता । बृहस्पतिः । दक्षिणा । यज्ञः । पुरः । एतु । सोमः ।
देवऽसेनानाम् । अभिऽभञ्जतीनाम् । जयन्तीनाम् । मरुतः । यन्तु । अग्रम् ॥८।
सायण-भाष्य-
“आसाम् अस्मत्सहायार्थमागतानाम् अयम् “इन्द्रः “नेता नायकोऽस्तु । तथा तस्य “बृहस्पतिः “पुर “एतु । एवं “दक्षिणा ““यज्ञः सोमः च पुर एत्विति प्रत्येकं संबन्धः । तथा “देवसेनानामभिभञ्जतीनाम् अस्मदमित्रानाभिमुख्येन मर्दयन्तीनां “जयन्तीनाम् । 'छन्दसि' इति नाम उदात्तत्वं जयन्तीनामित्यत्र बहुलवचनान्न भवति ( पा. सू. ६. १. १७८)। तासाम् “अग्रं “मरुतो “यन्तु= गच्छन्तु ॥
______________
इन्द्रस्य वृष्णो (वरुणस्य राज्ञ) आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥९॥
इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः । आदित्यानाम् । मरुताम् । शर्धः । उग्रम् ।
महाऽमनसाम् । भुवनऽच्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥९।
(ऋग्वेदः सूक्तं १०/१०३/९)
_________
यही ऋचा अथर्ववेदः/काण्डं १९/सूक्तम् (१३) में की नवम ऋचा भी है ।
सायण-भाष्य-
“वृष्णः वर्षकस्य “इन्द्रस्य “राज्ञः “वरुणस्य “आदित्यानां “मरुतां च "उग्रम् उद्गूर्णं “शर्धः बलमस्माकं भवत्विति शेषः। किंच “महामनसाम् उदारमनसां “भुवनच्यवानां भुवनानां च्यावयितॄणां देवानां “घोषः जयशब्दः “उदस्थात् उत्तिष्ठति । अनूर्ध्वकर्मत्वादात्मनेपदाभावः। ( पा. सू. १. ३. २४ ) ॥
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि।
उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥१०॥
उत् । हर्षय । मघऽवन् । आयुधानि । उत् । सत्वनाम् । मामकानाम् । मनांसि ।
उत् । वृत्रऽहन् । वाजिनाम् । वाजिनानि । उत् । रथानाम् । जयताम् । यन्तु । घोषाः ॥१०।
सायण-भाष्य-
हे “मघवन् इन्द्र अस्मदीयानि “आयुधानि “उद्धर्षय उत्कृष्टं हर्षय । प्रहरणेषूद्युक्तानि भवन्वित्यर्थः। “मामकानां मदीयानां “सत्वनां प्राणिनां सैनिकानां “मनांसि च “उत् हर्षय । हे “वृत्रहन् इन्द्र “वाजिनाम् अश्वानां “वाजिनानि वेगाः “उत् “यन्तु । तथा “जयतां “रथानां “घोषाः “उत् यन्तु ॥
________________
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्वस्माँ उ देवा अवता हवेषु ॥११॥
अस्माकम् । इन्द्रः । सम्ऽऋतेषु । ध्वजेषु । अस्माकम् । याः । इषवः । ताः । जयन्तु ।
अस्माकम् । वीराः । उत्ऽतरे । भवन्तु । अस्मान् । ऊं इति । देवाः । अवत । हवेषु ॥११
सायण-भाष्य-
“अस्माकं संबन्धिष्वेव “समृतेषु परसेनां संप्राप्तेषु “ध्वजेषु ध्वजवत्सु सैनिकेषु “इन्द्रः रक्षिता भवतु । तथा “अस्माकं “या “इषवः सन्ति “ताः एव “जयन्तु शत्रून् । तथा “अस्माकं “वीराः भटाः “उत्तरे उपरि “भवन्तु । हे “देवाः “अस्माँ “उ अस्मानेव “अवत रक्षत “हवेषु संग्रामेषु ॥
______________
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि।
अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रा: तमसा सचन्ताम् ॥१२॥
अमीषाम् । चित्तम् । प्रतिऽलोभयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि ।
अभि । प्र । इहि । निः । दह । हृत्ऽसु । शोकैः । अन्धेन । अमित्राः । तमसा । सचन्ताम् ॥१२।
सायण-भाष्य-
हे “अप्वे पापाभिमानिनि देवते "अमीषां योद्धृणां शत्रूणां “चित्तं “प्रतिलोभयन्ती विमोहयन्ती सती “अङ्गानि तेषामवयवान् शिरआदिकान् गृहाण स्वीकुरु। “अभि “प्रेहि “अभिगच्छ। तेषां समीपं गत्वा च "हृत्सु हृदयेषु “शोकैः “निर्दह नितरां भस्मीकुरु । ते “अमित्राः अस्मच्छत्रवः “अन्धेन “तमसा “सचन्तां संगच्छन्ताम् ॥
_______________
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु ।
उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥१३॥
पदपाठ-
प्र । इत । जयत । नरः । इन्द्रः । वः । शर्म । यच्छतु ।
उग्राः । वः । सन्तु । बाहवः । अनाधृष्याः । यथा । असथ ॥१३।
सायण-भाष्य-
हे “नरः= नेतारः संग्रामस्य निर्वोढारो योद्धारः “प्रेत प्रकर्षेण =गच्छत ! गत्वा च "जयत तान्प्रतिभटान् । तिङः परत्वात् ' तिङ्ङतिङः' इति निघाताभावः। “वः युष्माकम् “इन्द्रः “शर्म =सुखं “यच्छतु =प्रयच्छतु । “वः “बाहवः “उग्रा: उद्गूर्णबलाः “सन्तु भवन्तु । “अनाधृष्याः अन्यैरनभिभाव्याः “यथा यूयम् "असथ भविष्यथ तथोग्राः सन्तु वो बाहवः ॥ २३ ॥
________________________
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद्
वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्डलस्य्य।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः॥१.१५॥( मेघदूतम् पूर्वमेघ )।
शब्दार्थ-व्यतिकर= सम्बन्ध । इव =समान। प्रेक्ष्य= देखने योग्य ।एतत्=यह।पुरस्तात्=सामने से ।
पद-सन्धि विच्छेदन--
रत्नच्छायाव्यतिकर इव, प्रेक्ष्यम् , एतत्, पुरस्तात् वल्मीकाद् अग्रात् प्रभवति , धनुःखण्डम् आखण्डलस्य येन श्यामम् वपुः अतितराम् कान्तिम्, आपत्स्यते ते बर्हिण इव स्फुरित रुचिना गोप वेषस्य विष्णोः ।१५।
पदान्वयः--रत्नच्छायाव्यतिकर इव, प्रेक्ष्यम् , एतत्, आखण्डलस्य, धनुःखण्डम्,पुरस्तात्, वल्मीकानात, प्रभवति; येन, ते, श्यामम्, वपुः, स्फुरितरुचिना, बर्हिण,गोपवेषस्य, विष्णोः , (श्यामम्, वपुः ), इव, अतितराम, कान्तिम्, आपत्स्यते ।१५।।
रत्न की छाया से मिश्रित के समान देखने योग्य इन्द्र धनुष के टुकड़े के सामने से वल्मीक के–(वह मेघ जिसपर सूर्य की किरणें पड़ती हों) उसके अग्रभाग से उत्पन्न होता है।
जिसके द्वार तेरा श्यामल शरीर, स्फुरण करने वाली रुचि के द्वारा उज्जवल कान्तिवाले मोरपंख से गोपवेश धारण करने वाले विष्णु के (श्यामल शरीर के समान अत्यन्त कान्ति को प्राप्त होगा ।
व्याकरणिक टिप्पणी-
पद् धातु रूप - पदँ गतौ - दिवादिः - कर्तरि प्रयोग आत्मनेपद – पत्स्यते
आखण्डल = इन्द्र का वाचक क्योंकि इन्द्र पर्वतों का भेदन करता है (आखण्डयति भेदयति पर्व्वतान् इति)
विष्णु के गोप रूप का वर्णन ऋग्वेद में भी है जो लौकिक संस्कृत में विष्णु के कृष्ण रूप में व्यवहृत हुआ है ।
_________________________
विष्णु॑र्गो॒पाः प॑र॒मं पा॑ति॒ पाथः॑ प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः। अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥१०।
विष्णुः॑। गो॒पाः। प॒र॒मम्। पा॒ति॒। पाथः॑। प्रि॒या। धामा॑नि। अ॒मृता॑। दधा॑नः। (अ॒ग्निः ता)। विश्वा॑। भुव॑नानि। वे॒द॒। म॒हत्। दे॒वाना॑म्। अ॒सु॒र॒ऽत्वम्। एक॑म्॥
(ऋग्वेद मण्डल:3 सूक्त: 55 ऋचा:10 )
पा + णिच् धातु रूप
पा पाने - भ्वादिः - कर्तरि प्रयोग परस्मैपद
अथर्ववेदः/काण्डं १९/सूक्तम् १३
← | अप्रतिरथः | → |
दे. इन्द्रः। त्रिष्टुप्, ३-६, ११ भुरिक्। |
इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू ।
तौ योक्षे प्रथमो योग आगते याभ्यां जितमसुराणां स्वर्यत्॥१॥
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥२॥
संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना ।
तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥३॥
स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।
संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥४॥
बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः ।
अभिवीरो अभिषत्वा सहोजिज्जैत्रमिन्द्र रथमा तिष्ठ गोविदम् ॥५॥
इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् ।
ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥६॥
अभि गोत्राणि सहसा गाहमानोऽदाय उग्रः शतमन्युरिन्द्रः ।
दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥७॥
बृहस्पते परि दीया रथेन रक्षोहामित्रामपबाधमानः
प्रभञ्जंछत्रून् प्रमृणन्न् अमित्रान् अस्माकमेध्यविता तनूनाम् ॥८॥
इन्द्र एषां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥९॥
_____
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥१०॥
अथर्ववेदः/काण्डं १९/सूक्तम् १३
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्वस्मान् देवासोऽवता हवेषु ॥११॥
सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.9 नवमप्रपाठकः/2.9.3 तृतीयोऽर्द्धः
१
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनां ।
सङ्क्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥ १८४९ ॥
सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ १८५० ॥
स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।
सं सृष्टजित्सोमपा बाहुशर्ध्यू३ग्रधन्वा प्रतिहिताभिरस्ता ॥ १८५१ ॥
बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः
प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानां ॥ १८५२ ॥
बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।
अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥ १८५३ ॥
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।
इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वं ॥ १८५४ ॥
३
अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः ।
दुश्च्यवनः पृतनाषाडयुध्यो३ऽस्माकं सेना अवतु प्र युत्सु ॥ १८५५ ॥
इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रं ॥ १८५६ ॥
_________________
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रं ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥१८५७ ॥
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि ।
उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥ १८५८ ॥
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवता हवेषु ॥ १८५९ ॥
असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना ।
तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात् ॥१८६० ॥
५
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि ।
अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्तां ॥ १८६१ ॥
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु ।
उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ
१८६२ ॥
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः ॥ १८६३ ॥
कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना ।
मैषां मोच्यघहारश्च नेन्द्र वयांस्येनाननुसंयन्तु सर्वान् ॥१८६४ ॥
अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि ।
उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ॥ १८६५ ॥
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।
तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ १८६६ ॥
७
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥ १८६७ ॥
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
यो अस्मां अभिदासत्यधरं गमया तमः ॥ १८६८ ॥
इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ ।
तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणां सहो महत् ॥ १८६९ ॥
_______________
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥१०॥
अथर्ववेदः/काण्डं १९/सूक्तम् १३
______
इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः । आदित्यानाम् । मरुताम् । शर्धः । उग्रम् ।
महाऽमनसाम् । भुवनऽच्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥९।
(ऋग्वेदः सूक्तं १०/१०३/९)
_________________
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रं ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥१८५७ ॥
मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्तां ।
उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ १८७० ॥
_______________
अन्धा अमित्रा भवताशीर्षाणोऽहय इव ।
तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरं ॥ टववङ१८७१ ॥
यो नः स्वोऽरणो यश्च निष्ट्यो जिघांसति ।
देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरं शर्म वर्म ममान्तरं ॥ १८७२ ॥
९
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः ।
सृकं संशाय पविमिन्द्र तिग्मं वि शत्रूं ताढि वि मृधो नुदस्व ॥ १८७३ ॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ १८७४ ॥
______________
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥ १८७५ ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें